सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 219, कुल 516 में से
संदर्भ में पढ़ें| २०४ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम् |
|---|
कीदृग्भुजंगोऽस्ति कि कीदृक्समुद्रस्वजं जठरं कीदृग्यियासुर्वधू । श्लोकः कीदृगभीप्सितः सुकृतिना कीदृङ्नभो निर्मलं क्षोणीमाह्वय सर्वग किमुदितं रात्रौ सरः कीदृशम् ॥ १०९ ॥ मुण्डः पृच्छति कि मुरारिशयनं का हन्ति रूपं नृणा कीदृग्विीरजनश्च कोऽतिगहनः संबोधयावञ्चितम् । का धात्री जगतो वृहस्पतिवधूः कीदृक्कविः काहतः कोऽर्थः किं भवता कृतं रिपुकुलं कीदृक्सरो वासरे ॥ ११० ॥ कस्मै यच्छति सज्जनो बहुधनं सृष्टं जगत्केन वा शंभोर्माति च को गले युवतभिर्वेण्या च का धार्यते । गौरीशः कमताडयच्चरणत का रक्षिता राक्षसैगारोहादवरोहतः कलयतामेकं द्वयोरुत्तरम् ॥ १११ ॥ कः स्यादम्बुदयाचको युवतय. किं कामयन्ते पतिं लज्जा केन निवार्यते निकट के दासे कथं यावनी । भाषा दर्शयतेति वस्तुषु महाराष्ट्रे कदा वा भवेदाद्यन्ताक्षरयोर्हि लोपरचनाचातुर्यतः पूर्णताम् ॥ ११२ ॥ का मेघादुपयाति कृष्णदयिता का वा सभा कीदृशी का रक्ष्यत्वहिहा शरद्विकचयेत्कं धैर्यहन्त्री च का । कं धत्ते गणनायक. करतले का चञ्चला कथ्यतामारोहादवरोहतश्च निपुणैरेकं द्वयोरुत्तरम् ॥ ११३ ॥ कुत्र श्रीः स्थिरतामुपैति भुवि को दुःखी किमीषत्पदं धर्मी- | दीन्विनिवारयन्ति पथि के पान्थस्य दीनस्य च । का सबुद्धिरिह श्रियश्च तममः कौ नाशकौ प्रोच्यता गच्छन्तं पथिक किमाह यवनः सङ्गाभिलाषान्वितः ॥ ११४ ॥ कः खे भाति हतो निशाचरपतिः केनाम्बुधौ मज्जति कः कीदृक्तरुणीविलासगमनं को नाम राज्ञा प्रियः । पत्रं कि नृपतेः किमप्सु ललितं को रामरामाहरो मन्प्रश्नोत्तरमध्यमाक्षरपदं यत्तच्चाशीर्वचः ॥ ११५ ॥ किं त्राणं जगतां न पश्यति च क. के देवताविद्विषः किं दातुः करभूषणं निरुदरः कः किं पिधानं दृशाम् । के खे खेलनमाचरन्ति सुदृशा किं चारुताभूषणं बुद्ध्या ब्रूहि विचार्य सूक्ष्ममतिर्मस्त्वेकं द्वयोरुत्तरम् ॥ ११६ ॥ कः कर्णारिपिता गिरीन्द्रतनया कस्य प्रिया कस्य नुक्रो जानाति परेङ्गितं विषमगु. कुत्रोद्भूतकामिनाम् । भार्या कस्य विदेहजा तुदति का भौमेऽह्नि निश्चश्च कस्तत्प्रत्युत्तरमध्यमाक्षरपदं सर्वार्थसत्पक-रम् ॥ ११७ ॥ लावण्यं क नु योषिता नमसि के सञ्चार-मातन्वते कासासुच्चतरा भवन्ति निनदाः क क्रीडतो दंपती । केषु श्रीः प्रकटीचकार भगवान्सीतापतिः पौरुषं मत्प्रश्नोत्तरमध्यवर्णघटितो देवो मुदे सोऽस्तु वः ॥ ११८ ॥ कः पूज्यः सृजनत्वमेति कतम. क स्थीयते पण्डितैः श्रीमत्या शिवया च केन भुवने युद्धं कृतं दारुणम् । किं वाञ्छन्ति सदा जना युवजना ध्यायन्ति किं मानसे मत्प्रश्नोत्तरमध्यमाक्षरपदं भूयात्तदाशीर्वचः ॥ ११९ ॥ क्षोणी कं सहते करोति दिवि का नृत्यं शिवायाः पतिर्भूताना कमयुद्ध जीवहरणे का रामशत्रोः पुरी । कं रक्षन्ति च साधवः पशुपते. किं वाहनं प्रोच्यतामालोमप्रतिलोमशाखचतुरैरेकं द्वयोरुत्तरम् ॥ १२० ॥
(१०९) 'कुमुदवनपरागराजिताम्भोविहितगमागमकोकसुग्मरेखम्' कुमुदै पृथ्व्या हर्षोऽकारि, पृथ्वी उद्धृता इत्यर्थ अवनपरा अवन रक्षण धनस्य गोपन तत्र परा सावधाना गर विषम् जितानि पीतानि अम्भासि जलानि येन तज्जिताम्भ विहितगमा विहित कृतो गमो गमन यया सा गमक अर्थाभिप्रायेण गम्यते प्राप्यते स गमक अकमूक क पानीय मुञ्चन्ति ते कमुचो मेघा न विद्यन्ते कमुचो यस्मिन् तत् अकमुकु, मेघै रहितमित्यर्थ हे धरे हे पृथ्वि ! ख आकाशम् कुमुदवनपरागराजिताम्भोविहितगमागमकोकसुग्मरेख कुमुदाना चन्द्रविकासीकमलाना वनानि तेषा परागेण रजसा रञ्जितं रङ्गयुक्तं कृतं अम्भो जल यस्मिन् तव ईदृश सर पुन. कीदृशम् ? विहितौ निष्पादितौ गमागमौ गमनागमने याभ्या तौ विहितगमागमौ तौ च तौ कोकौ च ताभ्या कृत्वा मुग्धा सुन्दरा रेखा पङ्क्तिर्यस्मिन् तत् यतस्तौ चक्रवाकीचक्रवाकौ अन्योन्य 'वियुक्तौ सन्तौ रात्रौ मिलनाय तीरात्तीर पर्यटत' तयोर्गमनागमनेन जलरेखाया-भवात् रात्रौ सर ईदृशं इति भाव (११०) 'विकचवारिजराजिसमुद्भवोच्छलितभूरिपरागविराजितम्' हे विकच विगता कचा केशा यस्य स तत्सबोधन हे वालरहित ! वारि जलम्, महाप्रलये हरि. शेषशय्याया समुद्रजले शेते जरा वृद्धत्वम्, आजिसमुद् आजौ सग्रामे समुद् सहर्ष, भव ससार, हे अच्छलित हे अवञ्चित ! भू पृथ्वो इपरा १. कामस्तेन परा उत्कृष्टा नित्ययौवनवती, गवि वाण्याम्, रा' द्रव्यम्, जितम् 'विकचवारिजराजिसमुद्भवोच्छलित-भूरिपरागविराजित' विकचाना प्रफुल्लाना वारिजाना कमलाना राजि-पङ्क्तिस्तया समुद्भवस्तेन उच्छलितो यो भूरि प्रचुर पराग तेन विराजितं शोभितम् (१११) साधवे-वेधसा, कालिमा-मालिका, काले-लका (११२, ११३) धारा-राधा वधा-धाव (अहिहा इन्द्र) काश-शका पाश-शपा (विबुध)
(११४) इमे उत्तरे अर्धस्फोरिते एवान्वेषा योजनासौकर्याय लिख्यते-ए विष्णो, भयी भीतियुक्त, आ खला (डल्योरभेदात् खडा) एव प्र भय्या खड। (११५) महेशः रामेण मैनाक मधरम् सचिव तुरग गज राजीवम् रावण एतन्मध्यमाक्षरघटिन्न वाक्य 'हे मे नाथ! चिर जीव' इति राजान प्रति आशीर्वचनम् (११६) अन्ध अत्र दृष्टिविहीनश्च दानवा दैत्या दानवारि च, दानोदकमित्यर्थ तम राहु• अन्धकारश्च वय पक्षिण तारुण्य च (११७) वासव हरस्य हस्वस्य तुगागमो 'ह्रस्वस्य पिति कृति तुक्' इति सूत्रेण मतिमान् नमसि रामस्य कुरुत्विति अन्यत्र एतन्मध्यमाक्षरघटितवाक्यं 'सरस्वति नमस्तुभ्यम्' इति विषमा पञ्च गावो बाणा यस्येति विषमगु काम (११८) नैपुण्ये, अण्डजा, पारीणा, एकान्ते, रक्ष सु, मध्यमवर्णोद्धारात्पुण्डरीकाक्ष इत्युत्तरम् पारीणामित्यस्य नदीपूर इत्यर्थ 'कर्करीपूरयो पारी पादरज्ज्वा च हस्तिन.' इति विश्व. (११९) भूदेव, खवश, संसदि, दुर्गेण (दैल) वैभव, युवति, मध्यमाक्षरोद्धरेण देव सर्गे भव इत्युत्तरम् उच्चकोटिस्य स्या. इति तात्पर्येम् (१२०) भार-रभा काल-लका दीने-नंदी