भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 222, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 222

भाषाचित्रम्, जातिवर्णनम् २०७


जलौघे खाक बाकी बहाया । तदपि दहति चित्तं माक-
क्या मै करोंगी मदनसरसि भूयः क्या बला आग लागी
॥ २ ॥ नूनं बादल्शाइ शोहपसरी निःसाणशब्द. खर.
शत्रुं पाडि लुटालितो विहणिसो एवं भणन्त्युद्धटा । रूढे
गर्दभरामधालि सहसा रे कं तमेरे कहे कण्ठे पापनिवेशि
याहि शरणं श्रीमल्लदेव प्रभुम् ॥ ३ ॥


जातिवर्णनम्

सिंह.

गर्जन्हरि साम्ससि शैलकुञ्जे प्रतिध्वनीनात्मकृतान्नि-
शम्य । पदं बबन्ध क्रमितुं सरोष. प्रतर्कयन्नन्यमृगेन्द्रनादम्
॥ १ ॥ लीढग्रस्तविपाण्डुराग्रनखयोराकर्णदीर्णं मुखं विन्य-
स्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नद्विपः । एतत्सिन्मद-
गन्धवासितसट. सावज्ञतिर्यक्चलत्सृक्क्रान्ताहतिधूतलोलमधुपः
कुञ्जेषु शेते हरि ॥ २ ॥ पश्योदञ्चदवाञ्चदञ्चितवपु. पश्चार्ध-
पूर्वार्धभाक्स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गलभृत् ।
दंष्ट्राकोटिविशङ्कटास्रकुहर कुर्वन्सटामुत्कटामुकर्ण. कुरुते
क्रमं करिपतौ क्रूराकृतिः केसरी ॥ ३ ॥ उत्कर्णोऽयमकाण्डच-
ण्डिमपटुः स्फारस्फुरत्केसरः क्रूराकारकरालवक्त्रविकटस्तब्धो-
र्ध्वलाङ्गूलभृत् । चित्रेणापि न शक्यतेऽभिलिखितुं सर्वाङ्गसङ्को-
चनाच्चीत्कुर्वद्विरिकुञ्जकुञ्जरशिरःकुम्भस्थलस्थो हरि. ॥ ४ ॥

तरक्षुः

लाङ्गलेनाभिहत्य क्षितितलमसकृद्धारयन्नग्रपञ्चामात्मन्येवा-
वलीय द्रुतमथ गगन प्रोत्पतन्विक्रमेण । स्फूर्जहुत्कारघोष
प्रतिदिशमखिलान्द्रावयन्नेष जन्तूनूकोपाविष्ट. प्रविष्ट. प्रतिवन-
मरुणोच्छूनचक्षुस्तरक्षुः ॥ ५ ॥

करिणः

अम्भोमुचा सलिलमुद्वमता निशीथे तालीवनेषु निभृतं
स्थिरकर्णतालाः । आकर्णयन्ति करिणोऽर्धनिमीलिताक्षा
धारारवान्दशनकोटिनिषण्णहस्ता. ॥ ६ ॥

मृगः

ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन
प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दर्भैरर्धावलीढै
श्रमविवृतमुखभ्रंशिभि. कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति
बहुतर स्तोकमुर्व्यां प्रयाति ॥ ७ ॥

भल्लुः

नयनपथनिरोधात्क्रोधनिर्धूतभालश्रमदविरलरोमस्तोमबद्धा-
न्धकार. । कृमिकवलनलोभोत्खातवल्मीकरन्ध्रोत्थितफणि-
फणघातैरूच्छलत्येष भल्लः ॥ ८ ॥


पोला ये अरीभा शत्रुगजास्तेषां योऽसौ आजि सग्राम त रान्ति
ददतीति ते सन्तु उत पुन भयङ्करभाला भृकुटीभीषणललाटा सन्तु
तै पायऋगणै इलाव पृथ्वीरक्षक इलावीजितकदर्पस्त्व अगोहर
अगोग्रह यथा स्यात्तथैव गा पृथ्वीं जह परदेशानात्मीयान्कुरु


हयः

यावच्छकलितो वायुरेकीभवितुर्महति । तावदेव तुरंगो-
ऽयमाजगाम जगाम च ॥ ९ ॥ मण्डले मण्डलाकारो रेखा
वाजीमयी जवे । सव्यापसव्ये द्विमुखो नकुलाधिष्ठितो हयः
॥१०॥ पुरो नुन्न. पश्चाद्ब्रजति विधुतश्रोच्छ्रिततनुः समुत्प-
त्योत्तान पतति पथि लोकान्विशति । हय. किंचिच्छेदयदि
नयति पत्ति क्वचिदहो कशाघाते तिष्ठत्यथ चरणघातेन
खनति ॥ ११ ॥ आकर्णन्निव गा वमन्निव खुरौ पश्चार्ध-
मुज्जृम्भिव स्वीकुर्वन्निव खं पिबन्निव दिशो वायूश्च मुष्णन्निव ।
साङ्गारप्रकरा स्पृशन्निव भुव छायाममृष्यन्निव प्रेङ्खच्चामर-
वीज्यमानवदन. श्रीमान्हयो धावति ॥ १२ ॥ पश्चादङ्गी
प्रसार्य त्रिकनतितवितं द्राघयित्वाऽङ्गमुच्चैरासज्याभुग्नकण्ठो
मुखमुरसि सटा धूलिधूम्रा विधूय । घासग्रासाभिलाषादनव-
रतचलत्प्रोथतुण्डस्तुरङ्गो मन्दं शब्दायमानो विलिखति
शयनादुत्थित. क्ष्मा खुरेण ॥ १३ ॥

कपिः

यदक्रांशुक्रान्तस्फुरदरुणपुष्पोदरधिया प्रविष्टो नासान्तः
क्वणितमणिडिम्भः प्रकुरुते । कपि. स्थित्वा स्थित्वा
तदिदमसृग्वन्वन्विचकितो धुनोत्यास्य रौति प्रचलति
चलत्युच्छलति च ॥ १४ ॥

महोक्षः

गर्जित्वो मेघधीर प्रथममथ शनैर्मण्डलीकृत्य देहं
शृङ्गाभ्या भीषणन्तावभिमुखमवनी दारयन्तौ खुराग्रैः ।
मन्द मन्द समेत्य स्थिरनिहितपदं दत्तघातो सरोषं युध्येते
चालयन्तौ कुटिलितमसकृत्पुच्छमेतौ महोक्षौ ॥ १५ ॥

धेनुः

आहूत्याहल्य मूर्ध्नि द्रुतमनुपिवत. प्रस्रुत मातुरूध.
किंचित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः । उत्कर्ण
तर्णकस्य प्रियतनयतया दत्तहुंकारमुद्राविस्रंसत्क्षीरधाराप्लव-
शबलमुखस्याङ्गमातृप्ति लेढि ॥ १६ ॥

रासभः

आघ्रायोध्याय गन्ध विकटमुखपुटो दर्शयन्दन्तपङ्क्तिं
धावत्युन्मुक्तनादो मुहुरपि च रसाद्भूष्टया पृष्ठलग्न. ! गर्दभ्यांः
पादघाताद्विगुणितसुरतप्रीतिराकृष्टशिखो वेगादारुह्य मुग्धम्ब्रवं-
तरति खरः खण्डितेच्छश्चिरेण ॥ १७ ॥

अजः

घ्रात्वा श्रोणीमजाया विततमभिमुखं वक्त्रसङ्कोचभङ्गं
स्थित्वा सूर्यं निरीक्ष्य प्रविकसितसटो घट्टयन्क्ष्मा खुरेण ।
बोबोकारान्प्रकुर्वन्मणिशकलनिभं चालयन्नेत्रयुग्मं छागश्चादून-
नेकाश्रतुर इव विटो मन्मथान्धः करोति ॥ १८ ॥

मेषः

पार्श्वीस्फालावलेपाच्चदुलितचरणेलेखिताकाशदेशः सद्य-
ष्टाटोपकोपप्रसरितरसनापल्लवालीढसृक्कः । किंचित्साचीकृ-
तास्य. स्फुरदधरपुट. स्फारिताताम्रचक्षुर्घोणाघाताभिलाषा-
दपसरति रुषं दर्शयन्नेष मेषः ॥ १९ ॥