सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 23, कुल 516 में से
संदर्भ में पढ़ेंसुभाषितरत्नभाण्डागारम्
[ १ प्रकरणम्
याति पातालमूलं क्रुद्धोऽप्याश्लिष्टमूर्तिर्भयघनसुभया पातु दृष्टः शिवो नः ॥ १०१ ॥
क्रोधोद्दैर्दृष्टिपातैस्त्रिभिरुपशमिता वह्रयोऽमी त्रयोऽपि त्रासातर्ता ऋत्विजोऽधःश्वपलगणहतोष्णीषपट्टाः पतन्ति । दक्षः स्तौत्यस्य पत्नी विलपति कृपणं विद्रुत चापि देवैः शसन्नित्यात्तहासो मखमथनविधौ पातु देव्यै शिवो वः ॥ १०२ ॥
आसीने पूष्णि तूष्णीं व्यसनििन शशिनि व्योम्नि कृष्णे सतृष्णे दैत्येन्द्रे जातनिद्रे द्रवति मघवति क्लान्तकान्तौ कृतान्ते । अब्रह्मण्यं ब्रुवाणे कमलपुटकुटीश्रोत्रिये शान्त्युपाये पायाद्वः कालकूटं झटिति कवलयल्लीलया नीलकण्ठः ॥ १०३ ॥
केयं मूर्ध्न्यन्धकारे तिमिरमिह कुतः सुभ्रु कान्तेन्दुयुक्ते कान्ताप्यत्रास्ति काचिन्ननु भवतु मया पृष्टमेतावदेव । नाहं द्वन्द्वं करोमीत्यपनय शिरसस्तूर्णमेनामिदानीमित्थं प्रोक्तो भवान्या प्रतिवचनजितः पातु वश्चन्द्रचूडः ॥ १०४ ॥
धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः । नारी पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्दैव्या निह्नोतुमिच्छोरिति सुरसरित शाठ्यमव्याद्विभोर्वः ॥ १०५ ॥
हर्षादम्भोजनन्मप्रभृतिदिविषदां संसदि प्रीतिमत्या श्वश्र्वा मौलौ पुरारेर्दुहितुपरिणये साक्षत चुम्ब्यमाने । तद्वक्त्रं मौलिवक्त्रे मिलितमिति भृशं वीक्ष्य चन्द्रः सहासो दृष्ट्वा तद्वृत्तमाशु स्मितसुभगमुखः पातु वः पञ्चवक्त्रः॥ १०६ ॥
कल्पान्तक्रूरकेलिः कृतकदनकरः कुन्दकर्पूरकान्तिः क्रीडन्कैलासकूटे कलितकुमुदिनीकामुकः कान्तकायः । कङ्कालक्रीडनोक्तः कलितकलकलः कालकालीकलत्रः कालिन्दीकालकण्ठः कलयतु कुशलं कोऽपि कापालिको नः ॥१०७॥
दृष्टः सप्रेम देव्या किमिदमिति भयात्सभ्रमाच्चासुरीभिः शान्तान्तस्तत्त्वसारैः सकरुणमृषिभिर्विष्णुना सस्मितेन । आदायास्त्रं सगर्वैरुपशमितवधूसंम्रमैर्दैत्यवीरै सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान् ॥१०८॥
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥१०९॥
कल्याणं वः क्रियासुर्मिलदैंटनियुगस्थार्णुगीर्वाणभोगिस्त्रणव्यत्यस्तकल्पद्रुमनवसुमनोनागहारावलीनि । नालीकाश्रिष्टलक्ष्मीकरतलकमलोद्वान्तमाँध्वीकधारातिम्यत्फौलेखनानि त्रिपुरहरधनुर्ज्यालताकर्षणानि ॥ ११० ॥
कल्पान्ते क्रोधनस त्रिपुरविजयिन क्रीडया संचरिष्णोः कृत्वापि प्राणिजातैर्निजमुखकुहरातिथ्यमप्राप्ततृप्तेः । दिग्भित्तीः प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्तिर्ग्रासन्यासक्तमोचश्रमजनितरुषः पान्तु वो गर्जितानि ॥ १११ ॥
पर्यङ्कग्रन्थिबन्धेस्त्रिगुणितभुजगाश्लेषसंवीतजानोरन्तरप्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य । आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या शंभोर्वः पातु शून्येक्षणघटितलॅयब्रह्मलक्ष्म्यः समाधिः ॥ ११२ ॥
वृत्ताभिरूया हतार्या श्रितविविधगणा छन्दसा वर्णनीया याता सर्वादिमत्त्व सुरगणकलिता भासमत्त्वं दधानाम् । युक्तं स्थान नयन्ती लघुमपि सकल बिभ्रती मालयायान्त्यन्दे वार्धीभवर्णा धृतमुनियितिका स्रग्धरा शंभुमूर्तिम् ॥ ११३ ॥
देहार्धानङ्ककान्ताकचकसुमचयो भालनेत्रानलार्चिः पीनोष्मामौलिखेलन्मुखरसुरनदीनीररम्यो जगन्ति । स्फीतोत्तंसेन्दुकान्तिर्दरदहतिदढाच्छादनव्यक्तशीतः शंभूर्भूयात्त्रिकुन्दप्रकरपरिहृतः पातु सर्वर्तुमूर्तिः ॥ ११४ ॥
हेयोपादेयशून्यं मुनिगणमनसामद्वयानन्दहेतुः सेतुः संसारवारानिधिसुखतरणे श्रीमदीशमानसज्ञम् । प्रालेय ज्योतिरन्तःपरिणततिमिरव्यूहविच्छेददक्षं किंचिद्वाचामधीशं स्फुरतु मम हृदि त्र्यक्षरं विश्वसाक्षि ॥ ११५ ॥
शुद्धान्ते सीधुपानोन्मदमदनमदोन्मादमत्तालिकालीतालीसाड्यामानोद्भटरुजरवराडम्बरोल्लासिताङ्गः । नृत्यन्नग्रो विलजश्वलविकटतटैः संख्यैर्लोचनाधैर्र्धृष्टः स्त्रीभिः सहास प्रहसनमुदितः पातु वो वामदेवः ॥ ११६ ॥
बिभ्रत्पाथः कपर्दे सुरनगरनरीमिन्दुलेखा ललाटे नेत्रान्तः कालवह्नि गरलमपि गले व्याघ्रचर्माङ्गभागे । पश्चात्सो वै त्रिनेत्रो वृषभगतिरतिर्वामभागाधवामः सदिश्यात्संपद वः सह सकलगुणैरुद्धताकार ईशः ॥ ११७ ॥
राजा राजाचिताङ्गेर्रनुपचितकलो यस्य चूडामणित्वं नागा नागात्मजार्ध न भसितधवल यद्वपुर्भूषयन्ति । मा रामारागिणी भून्मतिरिरिति यमिना येन वोऽदाहि मारः सप्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः ॥ ११८ ॥
एक दन्तच्छदस्य स्फुरति जयवशादर्थमन्यत्प्रकोपादेकः पाणिः प्रणन्तुः शिरसि कृतपदः क्षेसुमन्यस्तमेव । एक ध्यानान्निमीलत्यपरमविघहं वीक्षितु चक्षुरित्थ तुल्यानिच्छापि वामा तनुग्वतु स वो यस्य सध्यावसाने ॥ ११९ ॥
पादटिप्पणी (Footnotes)
[वामभागः / Left Column]: १ दक्षिणाग्निगाहैपत्याहवनीयाख्या. २ दीनस्वरेण ३ सर्वै ४ ब्रह्मणि ५ अन्धकरिपौ, पक्षे,-तमसि ६ ब्रह्मा ७ धनुष्कोटि ८ स्थिरतरम् ९ विष्णुरूप शर १० पुष्पस्रज ११ वह्नयात्मक तृतीयलोचनम्
[दक्षिणभागः / Right Column]: १ योगशास्त्रप्रसिद्धासनविशेष २ संधि ३ आवृत ४ निवृत्त ५ चक्षुरादीन्येकादशेन्द्रियाणि बुद्धिरहंकारश्चेति त्रयोदशविधम्. ६ प्रपञ्चाभाव ७ चित्तैकाग्रता