भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 238, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 238

व्योमचरान्योक्तयः २२३


चम्पकबकुलकुलेषु । तस्यालेर्यदि निम्बे वासः कथय कथं न भवत्युपहासः ॥ ६३ ॥ आलिङ्गसे चारुलता लवङ्गीमा-चुम्बसे चाम्बुजिनी क्रमेण । तां चूतवल्लीं मधुप प्रकामं सताडयस्येव पदैः किमेतत् ॥ ६४ ॥ वेत्रत्वचा तुल्यरुचा वधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥ ६५ ॥ किं न पश्यसि महेन्द्रदिक्सुखे शीतदीधितिरसावुदञ्चति । मीलितैव नलिनीह मा वृथास्तन्मधुव्रत मुधा गता-गतम् ॥ ६६ ॥ चञ्चरीक चतुरोऽसि चन्द्रि-कावैभवे कुमुदिनीं निषेवसे । भास्करे जयिनि पुष्करे नवे प्रोन्मिषन्नवदलेऽनुरज्यसि ॥ ६७ ॥ नीरजान्याप निषेव्य निर्भरं नीरसानि कुटजानि वाञ्छसि । चञ्चलत्वमिह चञ्चरीक ते साहसं कथमिदं विमोक्ष्यसि । ॥ ६८ ॥ पीतमत्र मधु यापिताः क्षपा भृङ्ग सर्वमचिरेण विस्मृतम् । हीनमानसुषमा हिमागमे पद्मिनी यदिह नाव-लोकसे ॥ ६९ ॥ कुन्दकुञ्जलमुपासता त्वया यत्र शीत-समयोऽतिवाहितः । चञ्चरीक परीहीनसौरभा रोचते न भवते सरोजिनी ॥ ७० ॥ भ्रमर भ्रमता दिगन्तराणि क्वचि-दासादितमीक्षितं श्रुतं वा । वद सत्यमपास्य पक्षपातं यदि जातीकुसुमानुकारि पुष्पम् ॥ ७१ ॥ अभिनवनलिनी-विनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः । भ्रमति मधु-करोऽयमन्तराले श्रयति न पङ्कजिनीं कुमुद्वतीं वा ॥ ७२ ॥ अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः । विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥ ७३ ॥ अपि दलन्मुकुले बकुले यया पदमधायि कदापि न हेलया । अहह सा सहसा विधुरे विधौ मधुकरी बदरीमनुसेवते ॥ ७४ ॥ यदपि मेऋगणेन निषेवितं प्रकटकण्टककोटिसम-न्वितम् । तदपि पङ्कजमेति मधुव्रतः सुरससौरभसुन्दरता-श्रयम् ॥ ७५ ॥ आनम्राः स्तबकभरेण पल्लविन्यः शोभन्ते कति न लताः परागपूर्णाः । आमोदे मधुनि च मार्दवे च तासां यो भेदः स खलु मधुव्रतैकवेद्यः ॥ ७६ ॥ निःशङ्कं गजपतिगण्डदानधारामाराध्य भ्रमर दिनान्यमून्यनैषीः । यावन्न स्फुरति करालकर्णतालस्तावत्त्वं नय नलिनीवनी-मुपेत्य ॥ ७७ ॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानु-देष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥ ७८ ॥ अन्यासु तावदुपमर्दसहासु भृङ्ग १लोलं विनोदय मनः सुम-नोलतासु । मुग्धामजातरजसं३ कलिकामकाले४ बालां ५कदर्थयसि


किं नवमालिकायाः ॥ ७९ ॥ फुल्लेषु यः कमलिनीकमलोदरेषु चूतेषु यो विलसितः कलिकान्तरस्थः । पश्याद्य तस्य मधु-पस्य शरद्वपाये कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ ८० ॥ ये वर्धिताः करिकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्कज-रजः सुरभीकृताङ्गाः । ते साप्रतं प्रतिदिनं क्षपयन्ति कालं निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ ८१ ॥ एणीदृशः श्रवणसीम्रि यदानयन्ति तेनैव तस्य महिमा नवचम्पकस्य । त्वं तत्र नो विहरसे यदि भृङ्ग तेन नैतस्य किंचिदपि तत्त तवैव हानिः ॥ ८२ ॥ मानन्दमेष मकरन्दमिहारविन्दे विन्देत षट्पदयुवेति जनैरतर्कि । दैवादकाण्डपरिसुद्रितपुण्ड-रीककोषादभूदहह निःसरणं पुमर्थः ॥ ८३ ॥ आजन्म-कल्पतरुकाननकामचारी यत्कौतुकादुपगतः कुटजं मिलिन्दः । तत्कर्मणः सुसदृशं फलमेतदेव यत्प्राप्य साम्यमधुना मधु-मक्षिकामिः ॥ ८४ ॥ मा गा विषादमलिपोतक केतकीना-मन्तर्निगूढमनवाप्य मधूप्रकर्षम् । लाभः स एव परमो ननु कण्टकानां श्रेणीभिरक्षतशरीरतया प्रयासि ॥ ८५ ॥ नालि-ङ्गिता नवलवङ्गलतान वापि संभाविता विटपिनः कल-गुञ्जितेन । आसादिता सपदि काचन रीतिरन्या माकन्द-कोरकमुदीक्ष्य मधुव्रतेन ॥ ८६ ॥ मन्दारमेदुरमरन्दरसाल-साङ्गः खर्नारीनयननन्दन एष भृङ्गः । दैवादुपेत्य जगती-मगतिर्विशीर्णच्छाखोटकोटरकुटीषु निलीय शेते ॥ ८७ ॥ किं केतकीपरिमलोत्थितगन्धलुब्धो गुञ्जन्भ्रमनभ्रमर वाञ्छसि रन्तुमेताम् । तत्कण्टकैः परिवृतामतुलामगम्यां सत्यज्यतां व्रज निकुञ्जलतां सपुष्पाम् ॥ ८८ ॥ इह सरसि सहर्ष मङ्गु१ गुञ्जाभिरामं मधुकर कुरु केलिं सार्धमम्भोजि-नीभिः । अनुपममकरन्दामोददत्तप्रमोदा त्यजति बत न निद्रा मालती यावदेषा ॥ ८९ ॥ भ्रमर मरणभीतिं मुञ्च चाम्पेयपुष्पे विहर हर तदीयं सौरभं सौहृदेन । मधुकर सुकरं चेद्वस्तु हस्तेन लब्धुं भवतु तदुपभोगोऽनिष्टमिष्टं फलं वा ॥ ९० ॥ गन्धैराख्या जगति विदिता केतकी स्वर्णवर्णा पद्मार्भ्रान्त्या क्षुधितमधुपः पुष्पमध्ये पपात । अन्धीभूतस्तदनु रजसा कण्टकैश्छिन्नपक्षः स्थातुं गन्तुं क्षणमपि सखे नैव शक्तो द्विरेफः ॥ ९१ ॥ दृष्ट्वा स्फीतोऽभवद्दलिरसौ लेख्य-पद्मं विशालं चित्रं चित्रं किमिति किमिति व्याहरन्निष्पपात । नास्मिन्गन्धो न च मधुकणा नास्ति तत्सौकुमार्यं घूर्णन्मूर्धा बत नतशिरा व्रीडया निर्जगाम ॥ ९२ ॥ सद्दम्भोजाम्भोजं परुषजति संभोगरहितो गतोऽडमन्दे कुन्दे वहति मकरन्दं न हिं मनः । ततो मन्येऽरण्ये क्वचिदधिकपुण्येऽपि ललितां लवङ्गीमासङ्गी भजति नवभृङ्गीपरिवृढः ॥ ९३ ॥ निरानन्दः


पादटिप्पण्यः (वामभागः):
१ उपमर्दं सहन्ते ताः २ सतृष्णम्, लुब्धमिति यावत ३ अनु-त्पन्नपरागान् ४ अयोग्ये काले ५ दूषयसि

पादटिप्पण्यः (दक्षिणभागः):
१ मधुरम् २ रवं कुरु ३ महदाकार