सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 246, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 246
| स्थलचरान्योक्तयः | २३१ |
|---|
| [सिंहः] | गजः |
|---|---|
| दिक्रमहो महोन्नतधराधौरैयधात्रीधरप्रस्थप्रस्थितमेघयूथमथनोत्कण्ठी न कण्ठीरवः ॥४४॥ यस्यावन्ध्यरुषः<sup>१</sup> प्रतापवसतेर्नादेन धैर्यद्रुहः शुष्यन्ति स्म मदप्रवाहसरितो गण्डोऽपि दिग्दन्तिनाम् । दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना कर्षन्त्येव करेण केसरसटाभारं जरत्कुञ्जराः<sup>२</sup> ॥ ४५ ॥ यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोऽप्यन्तिकं नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् । तस्मिन्कौतुकिना त्वया करिपतौ लुप्ते कपोलस्थलीभृङ्गे केसरिवीर संप्रति पुनः कुत्रैष विश्राम्यतु ॥ ४६ ॥ यूना येन विभिन्नवारणघटाकुम्भोच्छलन्मौक्तिकश्रेणीभिः परिपूरितास्तटभुवो भूमीभृतां कोटिशः । तस्यैवाद्य निवाससीम्नि कलभाः क्रीडन्ति निःसाध्वसं पारीन्द्रस्य<sup>३</sup> जरातुरस्य तदहो जीर्णा जिगीषारमः ॥ ४७ ॥ कः कं कुत्र न घुर्घुरारवनिधुरीघोरो घुरेच्छूकरः कः कं कं कमलाकरं विमलं कर्तुं करी नोद्यतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलास बद्धवसतिः पञ्चाननो वर्तते ॥ ४८ ॥ मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारङ्गा महिषामदं व्रजत किं शून्येपु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाकोटीरभारैः पुनः सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ॥ ४९ ॥ काकः पक्षबलेन भूपतिगृहे वास यदि प्राप्तवान्किं वा तस्य महत्त्वमस्य लघुता पञ्चाननस्यागता । येनाक्रम्य करीन्द्रगण्डयुगलं निर्भिद्य हेलालवाल्लब्ध्वा त्रासवरं वराटकधिया<sup>४</sup> मुक्तागणस्त्यज्यते ॥ ५० ॥ निद्रामीलितलोचनो मृगपतिर्यावद्गुहां सेवते तावत्स्वैरममी चरन्तु हरिणाः स्वच्छन्दसञ्चारिणः । उत्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो नादे श्रोत्रपथं गते गतधियः सन्त्वेव दीर्घायुषः ॥ ५१ ॥ खैराः सन्तु सभासदः करिचमूदपर्ज्वरोत्सारिणो हर्यक्षेण समं च जम्बुकयुवा युद्धाय बद्धादरः । तत्रापि प्रथयन्ति तुल्यबलतामेके तयोरुच्चकैरन्ये संशयशंसिनस्तदपरे बाढं विपर्यासिनः ॥ ५२ ॥ हे हर्यक्ष सहस्व संप्रति लघुर्गोमायुरग्रे सतां मत्पुंसाधारणवन्यजन्तुमनसा गुङ्कारवं सव्यधात् । नीचानां प्रकृतिर्भ्रमो मुखरता चातः कथं खिद्यसे शार्दूले द्विरदे मृगे शशकुले कस्ते विपक्षग्रहः ॥ ५३ ॥ दिग्नागाः प्रतिपेदिरे प्रथमतौ जात्यैव जेत्तव्यतां सामान्यः स्फुटविक्रमोऽथ वृषभो गौरेव गौरीपतेः । विक्रान्तेर्निकषं करोतु कतमं नाम त्रिलोकीतले कैण्ठेकालकुटुम्बिनी<sup>५</sup>करुणया सिक्तः स कण्ठीरवः ॥ ५४ ॥ | गजस्य पङ्कमग्नस्य त्रपाकरमिदं महत् । पादमुद्धृत्य यद्वच्छन्हरिणोऽपि हसत्यसौ ॥ ५५ ॥ मलोत्सर्गं गजेन्द्रस्य मूर्ध्नि काकः करोति चेत् । कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ५६ ॥ आसाद्गलितसिक्थस्य किं गतं करिणो भवेत् । पिपीलिकस्तु तेनैव सकुटुम्बोऽपि जीवति ॥ ५७ ॥ बन्धनस्थो हि मातङ्गः सहस्रभरणक्षमः । अपि स्वच्छन्दचारी श्वा स्वोदरेणापि दुःखितः ॥ ५८ ॥ अन्तर्वमति मार्जारी शुनी वा राजवेश्मनि । बहिर्बद्धोऽपि मातङ्गतस्ततः किं लघुतां गतः ॥ ५९ ॥ गर्वितमो गजः पद्गास्तद्भावाधितुं ध्रुवम् । मरो विशति न खातुं गजज्ञानं हि निष्फलम् ॥ ६० ॥ कौपे पयसि लघीयसि तापेन करः प्रसारितः करिणा । सोऽपि न पयसा लिप्तो लाघवमात्मा परं नीतः ॥ ६१ ॥ यदि मत्तोऽसि मतङ्गज किममीभिरपारसरलतरुदलनैः । हरिमनुसर<sup>१</sup> स्वरनखरैर्ध्यपनेष्यति ते स करटकण्डूतिम् ॥ ६२ ॥ कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवज्ञासीः । अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥ ६३ ॥ लीलासुकुलितनयनं किं सुखशयने समातनुषे । परिणामविषमहरिणा करिनायक वर्धते वैरम् ॥ ६४ ॥ आपातालगभीरे मज्जति नीरे निदाघसन्तप्तः । न स्पृशति पल्बलाम्भः पङ्ककशेषोऽपि कुञ्जरः क्वापि ॥ ६५ ॥ सूते सूकरगृहिणी सुतशतमतिदुर्भगं झटिति । करिणि चिराय सूते कमपि महीपाललालितं कलभम् ॥ ६६ ॥ गिरिगरिट्टेषु गुरुगर्वगुम्फितो गजराजपोत न कदापि संचर । यदि बुध्यते हरिशिशुः स्तनंधयो भविता करेणुपरिशोषिता मही ॥ ६७ ॥ केलिं<sup>२</sup> कुरुष्व परिभुङ्क्ष्व सरोरुहाणि गौहस्व<sup>३</sup> शैलतटनिर्झरिणीपयांसि । भावानुरक्तकरिणीकरलालिताङ्ग मातङ्ग मुञ्च मृगराजरणामिलाषम् ॥ ६८ ॥ भो भोः करीन्द्र दिवसानि कियन्ति तावदस्मिन्मरौ<sup>४</sup> समतिवाहय<sup>५</sup> कुत्रचित्त्वम् । रेवाजलेर्निजकरेणकरप्रयुक्तैर्भूयः शमं गमयितासि निदाघकाले ॥ ६९ ॥ दानार्थिनो<sup>६</sup> मधुकरा यदि कर्णतालैर्दूरेकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विर्कचपद्मवने<sup>७</sup> चरन्ति ॥ ७० ॥ लँङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गंजपुंगवस्तु<sup>९</sup> धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ ७१ ॥ गण्डस्थले हि मदवारिजलौघलुब्धमत्तभ्रमद्भ्रमरपादतलाहतोऽपि । कोपं न गच्छति नितान्तबलोऽपि नागस्तुल्ये बले हि बलवान्परिकोपमेति ॥ ७२ ॥ |
पादटिप्पण्यः (Footnotes)
[वामभागः]
१ सफलकोपस्य
२ वृद्धगजाः
३ सिंहस्य
४ कपर्दकबुद्ध्या
५ कण्ठेकालः शिवस्तत्कुटुम्बिनी पार्वती
[दक्षिणभागः]
१ सिंहम्
२ क्रीडाम्
३ मज्जनं कुरु
४ मरुदेशे
५ यापय
६ दानोत्कथिनः
७ प्रफुल्लकमलवने
८ पुच्छविशेषणम्
९ गजश्रेष्ठः