सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 247, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 247
| २३२ | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

| न स्वां करेणुमपि नापि निजान्किशोरान्नात्मानमेष परिशोचति वारेणेन्द्रः । दावाग्निमग्नतनुगत्र यथोपमन्दान्दानार्थिनो मधुकरानधिरूढभावान् ॥ ७३ ॥ दन्तं दलत्यपि जलैः सहसाधिरूढे को वर्धमानगतिरांसितुमुत्सहेत । यद्दन्तिनः कटकटाहतटानिर्मोङ्गोर्मिपाति परितः पटलैरलीनाम् ॥ ७४ ॥ न गृह्णाति ग्रासं नवकमलकिञ्जल्किनि जले न पङ्केराह्लादं व्रजति विसभङ्गावशकले । ललन्तीं प्रेमार्द्रामपि विषहते नान्यकरिणीं सरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ७५ ॥ गले पाशस्तीव्रश्चरणयुगले गाढनिगडो दृढः स्कन्धे बन्धः शिरसि संनिपातः खरतरः । नरस्कन्धारूढो बत मरणयोग्येऽपि विषये न जानीमोऽल्पार्थे द्विरद वद कस्मात्तव मदः ॥ ७६ ॥ निषेवन्तामेते वृषमहिषमेषाश्च हरिणा गृहाः क्षुद्राणानि कतिपयतृणैरेव सुखिनः । गजानामास्थानं मदमलिलजम्बालितमुवा तदेकं विन्ध्याद्रेर्विपिनमथवा भूपसदनम् ॥ ७७ ॥ न कुर्याः प्राखर्यं किमपि करिपोत प्रतिभिया हरीणां हेलेयं यदिह बहुवेलं विहरसि । अकस्मादेतेषां कुटिलदृशि रोषस्पृशि मनाङ्निरर्था भाविन्यो मदकरिदरिद्रा वनभुवः ॥ ७८ ॥ जहीहि गुरुगर्जितं विजहि शुण्डया सीत्कृतं परिश्रमं शनैर्वनं किमु गजेन्द्र गर्वायसे । यथा न किल केसरी गिरिदरीषु निद्रां त्यजन्विमूर्च्छयति जृम्भया सुभग तावकीनं मनः ॥ ७९ ॥ रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुलामेतामम्बुधिगामिनीं व्यवसिताः सङ्गाहितुं वा कथम् । अत्रैवोच्छलदम्बुनिर्भरमहावर्तः समावर्तितो यद्भावेव रसातलम् पुनरसौ यातो गजग्रामणीः ॥ ८० ॥ नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवे पीतं येन सरोजपत्रपुटके होमावशेषं पयः । तं दृष्ट्वा मदमन्थरालिबलयव्यालुप्तगण्डं गजं सोत्कण्ठं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥ ८१ ॥ कर्णे चामरचारुकम्बुकलिकाः कण्ठे मणीनां गणाः सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिकेषु किङ्किणी । लब्धश्चैन्नृपवाहनेन करिणा बद्धेन भूषाविधिस्तार्क्तं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥ ८२ ॥ पीतं यत्र हिमं पयः कवलिता यस्मिन्मृणालाङ्कुरास्तापार्तेन निमज्ज्य यत्र सरसो मध्ये विमुक्तः श्रमः । धिक्तस्यैव जलानि पङ्किलयतः पाथोजिनीं मग्नतो मूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो | जायते ॥ ८३ ॥ तापो नापगतस्तृषा न च कृशा धौता न धूली तनोनं स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा । दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी प्रारब्धो मधुपैरकारणमहो झङ्कारकोलाहलः ॥ ८४ ॥ नाभून्भुवि यस्य कुत्रचिदपि स्वर्वीकराः कुञ्जराः सिंहेनापि न लङ्घिता किमपरं यस्योद्धता पद्धतिः । कथं सोऽपि कँद्यते करिवरः स्फारारवैः फेरवैरापाताल गभीरपङ्कपटलीमग्नोऽद्य भँगोद्यमः ॥ ८५ ॥ पादाघातविधूर्णिता वसुमती त्रासाकुलाः पक्षिणः पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः । प्राप्येदं करिपोतकैर्विधिबशाच्छार्दूलशून्यं वनं तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥ ८६ ॥ आगमोऽयमनर्गलेन बलिना भग्नः समग्रो मयेत्यन्तः सभृतहर्षवर्वितमदोऽद्य किमुन्माद्यसि । मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वरस्तत्रापि प्रतिकारमहंमि सखे सम्यक्समालोचितुम् ॥ ८७ ॥ कौपं वारि विलोक्य वारणपते किं विस्मितेनास्यते प्रायो मँज्जनमस्य संप्रति भवास्तत्पीयतामादरात् । उन्मज्जच्छफरीपुलिन्दललनापीनस्तनास्फालनस्फारीभूतमहोर्मिनिर्मलजला दूरेऽधुना नर्मदा ॥ ८८ ॥ नो मन्ये दृढबन्धनात्क्षतमिदं नैवाङ्कुशाघातनं स्कन्धारोहणताडनात्परिमवं नैवान्यदेशागमम् । चिन्ता मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथ्यान्वने सिंहत्रासितभीतभीरुकलभा यास्यन्ति कस्याश्रयम् ॥ ८९ ॥ पत्युर्यत्पतितावशेषकवलांशेन वृत्तिः कृता पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः । प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं यद्वन्धव्रणकातरस्य करिणः क्लिष्टं न दृष्टं सुखम् ॥ ९० ॥ क्रीडाकारि तडागवारिणि गतातङ्कं न पङ्केरुहैर्बह्ली काचन शल्लकीतरुगता नाकर्षिता हर्षतः । नाश्लिष्टा करिणी करेण करुणां कामातुरेणामुना दंष्ट्राभिर्विकटाननः शिव शिव व्यालोकि पञ्चाननः ॥ ९१ ॥ सान्द्रामोदवतीः स्वकीयवसतीः पङ्केरुहाणां ततीस्त्यक्त्वार्थं भ्रमरः करीन्द्र भवतामभ्याशमभ्यागतः । एतच्चेतसि संप्रधार्य जगतीविख्यातदानैस्तथा युष्माभिः क्रियतां यथोपरमते हास्याय नास्यागमः ॥ ९२ ॥ त्यक्तो विन्ध्यगिरिः पिता भगवती माता च रेवोज्झिता त्यक्ताः स्नेहनिबद्धबन्धुरधियस्तुल्योदया दन्तिनः । त्वल्लोभाज्जतु हस्तिनि प्रतिदिनं बन्धाय दत्तं वपुस्त्वं दूरीक्रियसे लुठन्ति च शिरःपीठे कठोराङ्कुशाः ॥ ९३ ॥ स्पर्धन्तां मुखमेव कुञ्जरतया दिक्कुञ्जरैः कुञ्जरा ग्राम्या वा वनवासिनो मदजलप्र- |
पादटिप्पण्यः (Footnotes):
| वामपादटिप्पण्यः | दक्षिणपादटिप्पण्यः |

| १ वितरणम्, पक्षे,-मदजलम्
२ उदकैः, पक्षे,-डलयोरभेदात् जडैः
३ आक्रान्ते
४ सगक्तिकः, पक्षे,-बुद्धिमान्
५ स्थातुम्
६ शक्नुयात्
७ गण्डः
८ मज्जनं कर्तुमिच्छोः
९ शीघ्रम्
१० अङ्कुशपानम्
११ तृणधान्यानि | १ धिक्क्रियते
२ हतप्रयत्नः
३ पात्रम्
४ शबरस्त्री
५ करिशावकाः |