भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 248, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 248

स्थलचरान्योक्तयः २३३

द्विषद्गण्डस्थला। आः कालस्य कुतूहलं शृणु सखे प्राचीनपालीमलैः प्रायः स्निग्धकपोलपालिरधमः कोलोऽपि सस्पर्घते ॥ ९४ ॥ यत्प्रत्यग्रदलावलीकवलनैर्जातोऽसि शैलोपमो यच्छायासु कदर्थितोऽसि न कदाप्यर्कांशुभिः कर्कशै । घोराघातकिरातपत्रिपतने यैर्वारणाणायितं तन्मातङ्ग मदान्ध पाटयसि किं विन्ध्याटवीपादपान् ॥ ९५ ॥ ऊर्णा नैष दधाति नापि विषयो वाहस्य दोहस्य वा तृप्तिर्नास्य महोदरस्य बहुगोघासैं पलालैरपि। हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते को गृह्णाति कपर्दकैरसुमिति ग्राम्यैर्गजो हस्यते ॥ ९६ ॥ घासग्रास गृहाण त्यज करिकलभ प्रीतिबन्धं करिण्या पाशग्रन्थिप्रणानामविरलमधुना देहि पङ्कानुलेपम् । दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तदृश्या रेवातीरोप-कण्ठव्युतकसुमरजोधूसरा विन्ध्यपादाः ॥ ९७ ॥ यूथान्यग्रे गतानि प्रबलबलभृतो बद्धवैरा मृगेन्द्रा मूलादाकृष्यमाणाः सपदि तरुहहो भूरूहा निष्पतन्ति । दृष्ट्वा हृष्यन्ति हुन्त प्रतिदिनमखिला मिहपलद्या अधीशा हस्तालम्बाय केषा कलयतु वदनं पद्ममथ. करीन्द्र. ॥ ९८ ॥

मृगः

इह कि कुरङ्गशावक केदारे कलममञ्जरी त्यजसि । तृणधन्वा तृणबाणस्तृणघटित. कपटपुरुषोऽयम् ॥ ९९ ॥ तृणमुखमपि न खलु त्वा त्यजन्ति हे हरिण वैरिण. शबरा. । यशसैव जीवितमिदं त्यज योजितशृङ्गसङ्ग्राम. ॥ १०० ॥ विद्धा मृगी व्याधशिलीमुखेन मृगस्तु तत्कातरवीक्षितेन । विहाय देहं विगतव्यथैका परस्य जीवावधिराधिरासीत् ॥ १०१ ॥ कति कति न मदोद्धताश्चरन्ति प्रतिशिखरं प्रतिकाननं कुरङ्गाः । क्वचिदपि पुनरुत्तमा मृगास्ते मदयति यन्मद एव मेदिनीशान् ॥ १०२ ॥ अयि कुरङ्गि तपोवनविभ्रमादुपगतासि किरातपुरीमिमाम् । इह न पश्यसि दारय मारय ग्रस पिबेति शुकानपि जल्पतः ॥ १०३ ॥ अयि कुरङ्गि तुरङ्गमविक्रमे त्यज वनं जवनं गमनं कुरु । इह वने विचरन्ति हि नायका. सुरभिलोहितलोहितसायका. ॥ १०४ ॥ सेय स्थली वनतृणाङ्कुरजालमेतत्सेयं मृगीति हृदि जातमुदं कुरङ्ग । नैवं तु वेत्ति यदिहान्तरितो लताभिरायाति सजितकठोरशर. किरात. ॥ १०५ ॥ रोमन्थमर्चय मन्थरमेत्य निद्रा मुञ्च श्रमं तदनु संचर रे यथेच्छम् । दूरे स पामरजनो मुनयः किलैते निष्कारणं हरिणपोत बिभेषि कस्मात् ॥ १०६ ॥ ऐणीगणेषु गुरुगर्वनिमीलिताक्षः किं कृष्णसार खलु खेलसि काननेऽस्मिन् । सीमामिमा र्कलय भिन्नकरीन्द्रकुम्भमुक्तामयीं ह॑रिविहारवसुंधरायाः ॥ १०७ ॥ कस्तूरिका हरिण मुञ्च वनोपकण्ठं मा सौरभेण ककुभः सुरभीकुरुष्व । आस्तां यशो ननु किरातशराभिघातात्तातापि हन्त भविता भवतो दुराप ॥ १०८ ॥ द्रुततरमितो गच्छ प्राणै कुरङ्ग वियुज्यसे किमिति वलितग्रीव स्थित्वा मुहुर्मुहुरीक्षसे । विदधति हतव्याधाना ते मनागपि नार्द्रता कठिनमनसामेषामेते विलोचनविभ्रमा ॥ १०९ ॥ स्थलीना दग्धानामनुपरि मृगतृष्णामनुसरस्तृषार्त सारङ्गो विरमति न खिन्नेऽपि मनसि । अज्ञानानस्तत्त्वं न स मृग-यतेऽन्यत्र सरसीमूमौ प्रत्याशा न च फलति विघ्नं च कुरुते ॥ ११० ॥ पुरो रेवापारे गिरिरतिदुरारोहशिखरः सर. मव्ये वामे दवदहनदाहव्यतिकर । धनुष्पाणि. पश्चाच्छवरहतको धावतितरा न यातुं न स्थातुं हरिणशिशुरेष प्रभवति ॥ १११ ॥ अग्रे व्याधः करधृतशर. पार्श्वतो जालमाला पृष्ठे वह्निर्दहति नितरा संनिधौ सारमेया । एणी गर्भादलसगमना बालकै रुद्धपादा चिन्ताविष्टा वदति हि मृगं किं करोमि क्व यामि ॥ ११२ ॥ सौरभ्येन त्रिभुवनमनोहारिणा काननेऽस्मिंस्तत्कस्तूरी-हरिण भवता वासितो दिग्विभाग. । तस्यैतत्ते फलमुपगतं पत्रिभिर्लुब्धकाना विद्धः प्राणास्त्यजसि न गुण. श्रेयसे निर्गुणेषु ॥ ११३ ॥ अल्पीय.स्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिद्वारे वेत्रलतावितानगहने कष्टं प्रवेशक्रमः । हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुरा. शातिता. ॥ ११४ ॥ सारङ्गो न लतागृहेषु रमते नो पांसुले भूतले नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि । तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसी शैलेन्द्रोदरकन्दरेषु गतधी. शृङ्गारिवेष. स्थितः ॥ ११५ ॥ आः कष्टं वनवाससाम्यकृतया सिद्धाश्रमश्रद्धया पल्ली बालकुरङ्ग संप्रति कुत. प्राप्तोऽसि मृत्योर्मुखम् । यत्रानेककुरङ्गकोटिकदनक्रीडोलसल्लोहित-स्रोतोभिः परिपूरयन्ति परिखामुड्डामरा. पामरा ॥ ११६ ॥ स्वच्छन्दं हरिणेन या विहरता दैवात्समासादिता भङ्गप्रस्नुत-दुग्धबिन्दुमधुरा शालेर्नवा मञ्जरी । नि.श्वासानलदग्ध-कोमलतृणप्रख्यापितान्तर्व्यथस्तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति ॥ ११७ ॥ त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली विश्रान्तिस्थितिकृतवो न गणिता बन्धूपमाः पादपा. । बालपत्यवियोगकातरमुखी त्यक्तार्धमार्गे मृगी मुग्यन्त. पदवी तथाप्यकरुणा व्याधा न मुञ्चन्ति माम् ॥ ११८ ॥ यद्वक्रं मुहुरीक्षसे न धनिना ब्रूषे न


१ धान्यत्वग्भि २ हे हरिणि ३ तपोवनभ्रान्त्या ४ वर्धितस्य पुनर्श्ववनम् ५ हरिणीसखेषु ६ जानीहि
३० सु. र. भा.
१ सिंहविहारस्थानस्य २ श्वानि