सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 249, कुल 516 में से
संदर्भ में पढ़ें२३४ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
चाटूनमृषा नैषा गर्वगिरः शृणोषि न च तान्प्रत्याशया धावसि । काले बालतृणानि खादसि परं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥ ११९ ॥ नात्र व्याधशराः पतन्ति परितो नैवात्र दावानलो नाप्युच्चावचभीतिरस्ति कुहचिन्नो वागुरा भङ्गुरा । पर्यालोच्य कुरङ्गकेण विहितो नक्षत्रनाथाश्रयो नो जानाति यदत्र दास्यति दिवि खर्भानुदन्तव्रणम् ॥ १२० ॥ व्योमार्थे ज्वलितो रविः कवलितं दावानलैः काननं धूम्या- भिर्न दिशः स्फुरन्ति परितः पन्थाः शिलादन्तुरः । इत्थं लोहितसिक्तसृक्कणि यथाप्राणं मृगे धावति व्याधेनापि शरासने करुणया नारोपितः सायकः ॥ १२१ ॥ मुक्त्वा भव्यतृणानि नव्यसलिलान्यापीय वापीतलान्निर्गण्डं परि- शील्य शीतलरुचोरोमन्थमभ्यस्यति । या सैवाद्य मृगी मृगादनमुखात्त्रासा शिशुं शोचते तद्वेधा बहुधा विपद्विरचने बीजानि नापेक्षते ॥ १२२ ॥ पात्राक्षुण्णखुरस्य बाणपतनप्रव्यक्त- रक्तच्छटाच्छन्नाङ्गस्य दवाग्निदाहविक्लवस्यासेदुषोऽप्याश्र- मम् । धिग्दैवं विषमा मृगस्य दिवसाः सर्गानुकम्पामयो मा भैषीरिति भाषणेऽपि यदभूद्धाच्यमोऽयं मुनिः ॥ १२३ ॥
करभः
वपुर्विषमसंस्थानं कर्णज्वरकरो रवः । करभस्याँशुगँत्वैव छादिता दोषसंहतिः ॥ १२४ ॥ दासेरको रसत्येष युक्तं भारेऽधिरोहति । उत्तार्यमाणोऽपि पुनर्यत्तत्र किमु कुर्महे ॥ १२५ ॥ तुभ्यं दासेर दासीय बदरी यदि रोचते । एतावता हि किं द्राक्षा न साक्षादमृतप्रिया ॥ १२६ ॥ दुःप्रापमम्बु पवनः परुषोऽतितापी छायाभृतो न तरवः फलभारनम्राः । इत्थं सखे करभ वच्मि भवन्तमुच्चैः का सङ्गतिः खलु मरौ रमणीयतायाः ॥ १२७ ॥ अस्माननस्य भवतः खलु कोटिरेषा कण्टारिका यदि भवेद्विशीर्णपर्णा । योग्या कथं करभ कल्पतरोर्लतायास्ते पल्लवा विमलबिद्रुम- भङ्गभाजः ॥ १२८ ॥ रूक्षं वपुर्न च विलोचनहारि रूपं न श्रोत्रयोः सुखदमारटितं कदापि । इत्थं न साधु तव किंचिदिदं च साधु तुच्छे रतिः करभ कण्टकिनि द्रुमे यत् ॥ १२९ ॥ कुमुदगबलैः फुल्लाम्भोजैः सरोभिरलंकृता मरकतमणिप्रश्यामा शष्पैर्विहाय वनस्थलीम् । स्मरति करभो यदृक्षाणां चरन्मरुधन्वना परिचितयति सा दुर्बारा न सा गुणवैरिता ॥ १३० ॥ करभदयिते योऽसौ पीलुंस्त्वया मधुलुब्धया व्यपगतघनच्छायास्त्यक्तो न सादरमीक्षितः । चलकिसलयं सोऽपीदानीं प्ररूढनवाङ्कुरः करभदयितावृन्दै- रन्यैः सुखं परिभुज्यते ॥ १३१ ॥ करभदयिते यत्तत्पीतं सुदुर्लभमेकदा मधु वनगतं तस्यालाभे विरौषि किमुत्सुका । कुरु परिचितैः पीलो पत्रैर्धृतिं मरुगोचरे जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ १३२ ॥ यस्मिन्नुच्चैर्विषम- गहनान्तर्गता स्वादुवल्ली स्वेच्छं भुक्त्वा सरलितगलेनात्म- चेतोसुलभा । तत्तत्तारुण्यं करभ गलितं कुत्र ते प्राग्विलासा यत्त्वावीनं यदपि सुलभं तेन तुष्टिं विधेहि ॥ १३३ ॥ चिन्ता मुञ्च गृहाण पल्लवमिदं प्लक्षस्य शालस्य वा गाङ्ग- साम्यं जलस्य चन्द्रवपुषो गण्डूषमेकं पिब । जीवन्वेक्ष्यसि ताः पुन करभ हे दासेरकीया भुवो रम्याः पीलुशमीकरीर- बदरीकूजत्कपोताकुलाः ॥ १३४ ॥ यस्यानिक्षन्नपीलुपत्र- बढग्यासोऽपि संतुष्टये दीर्घोध्वन्यनुगम्यते न पदवी यस्य ख्युथैरपि । सोऽद्य सप्रति याति बालकरस क्षीणोद्यमः क्षामता मन्ये नूनमनेन दैवहतकेनास्वादितं चामरम् ॥ १३५ ॥ पीलूना हि फलं कषायरहितं रोमन्थयित्वा मरौ शाखाग्रं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः । तत्स्मृत्वा करभेण खेदविधुरं दीर्घं तथा कूजितं प्राणानामभवत्तदेव सहसा प्रस्थानतूर्य यथा ॥ १३६ ॥ यस्याः संभृतमालवाल- वलय भूपालशृङ्गारिणीभृङ्गारोदरविप्रलम्भविधुरैर्नीरैः सुधा- बन्धुभिः । तामेना मृदुलप्रवालललिता द्राक्षालतामार- टंश्चुद्रीय प्रकटीकृतार्धदशनो दासेरकः कृन्तति ॥ १३७ ॥
रासभः
रे रे गर्दभ वस्त्रभारवहनात्कुग्रासमश्नासि किं राजा- श्वावसथ प्रयाहि चणकाम्भूषांन्त्सुखं भक्षय । सर्वान्पुच्छवतो हया इति वदन्त्यत्राधिकारे स्थिता राजा तैरुपदिष्टमेव मनुते सत्यं र्टटस्था परे ॥ १३८ ॥
वृषभः
नास्य भारग्रहे शक्तिर्न च वाहगुणः क्वचित् । देवागारे बलीवर्दस्ताप्याक्ष्याति भोजनम् ॥ १३९ ॥ गुणानामेव दौरात्म्याद्धुरि धुर्यो नियुज्यते । असजातकिण- स्कन्ध सुख स्वपिति गौरबली ॥ १४० ॥ जाल्मो गुरुः सुधृष्टो वामेतरचरणमेद उपदेशः । ख्यातिर्गुणधवल इति भ्रमसि सुख वृषभ रथ्यासु ॥ १४१ ॥ ॲनसि सीदति सैकतवर्त्मनि प्रचुरभारभरक्षपितोक्षके । गुरुभरोद्धरणोधुर- कन्धर स्मरति सारथिरेष धुरंधरम् ॥ १४२ ॥ एतानि बालधवखल प्रविहाय कामं गोष्ठाङ्गणे तरलतर्णकचेष्टितानि । स्कन्ध निधेहि धुरि पूर्वधुरीणमुक्ते नेतव्यतामुपगतोऽस्ति तवैव भार ॥ १४३ ॥ गुरुर्नार्यं भारः क्वचिदपि न पन्थाः स्थपुटितो न ते कुण्ठा शक्तिर्वहनमपि तेऽङ्गे न विकलम् । इह त्वङ्गे नान्यस्तव गुणसमानस्तदधुना धुनामेन स्कन्धं वबल किमु मुक्तः पथि भरः ॥ १४४ ॥ मार्गे
पादटिप्पण्यः
१ मिथ्या
२ क्षुधासमये
३ उद्धृत्य
४ शीघ्रगमनेन
५ बालतृणं
६ पीलुर्वृक्ष
७ पल्लव
१ गर्दभ
२ अश्वशालाम्
३ अपक्वचणकान्
४ उदासीना
५ शकटे
६ बालुकामयमार्गे