भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 250, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 250

स्थलचरान्योक्तयः, जलचरान्योक्तयः २३५


कर्दमदुर्गमे जलभृते गर्त¹शतैराकुले खिन्ने शाकटिके²
भरेऽतिविषमे दूर गते रोधसि । शब्दे नैतदह ब्रवीमि
महता कूलोच्छ्रिता तर्जनीमीक्षे विषमे विहाय धवल वोढुं
क्षम. को धुरम् ॥ १४५ ॥ दन्ता सम चल विषाणयुगलं
पुच्छाञ्चल. कर्बुरः कुक्षिश्चन्द्रकितो वपुः कुसुमिस सघृणितं
चेष्टितम् । अस्मिन्दुष्टवृषे मृषामितगुणग्रामानभिज्ञात्मनो
ग्रामीणम्य तथापि चेतसि चिर धुर्यश्रम स्फूर्जति
॥ १४६ ॥ केषांचिद्धवलाश्चिर निवसिताश्चित्ते परेषा
पुनर्नीलो वा कपिलोऽथवा वरवृषो रक्तोऽथवा मेचक ।
आमीणैरवधीरिताऽपि शिथिलस्कन्धोऽप्यनुच्चैःश्रवाः स्वान्ते
मे परतन्न्रतुन्दिलतनुर्जीगर्य्य कर्षुर ॥ १४७ ॥ न ध्वानं
कुरुषे न यासि विकटं नोच्चैर्हस्यानन दर्पाल्लोल्लिखसि क्षिति
खुरपुटैर्नावज्ञया वीक्षसे । किंतु त्व वसुधातलेकधवल.
स्कन्धाधिरूढे भरे तीराण्युञ्चतटीविटङ्कविषमाव्युल्लङ्घयन्
क्षीयसे ॥ १४८ ॥ यस्यादौ व्रजमण्डलस्य वहतो गुर्वी
धुर धैर्येतो धौरेय्ये प्रगुणीकृतो न युगपत्स्कन्ध समस्तेऽपि ।
तस्यैवं श्लथकम्बलस्य धवलस्योत्थापने साप्रतं ट्रैङ्गे³ऽथैव
जगवसादितनतोगों पुण्यसमुद्बोध्यते ॥ १४९ ॥

कपिः

हार वक्षसि केनापि दत्तमज्ञेन मर्कट । लेढि जिघ्रति
सक्षिप्य करोत्युन्नतमाननम् ॥ १५० ॥ कपिरपि च
कापिशायनमदमत्तो वृश्चिकेन सदष्ट । अपि च पिशाचग्रस्त.
कि ब्रूमो वैकृत तस्य ॥ १५१ ॥ वृक्षान्दोलनमद्य ते क्व नु गतं
नर्म स्वयूथस्य वा यूकान्वेषणरोषसौख्यबहुलाश्चेष्टा मुखोत्थाः
क्क ताः । कारण्या फलपूर्णगह्वकुहरस्थान्येषु ता भीषिका
भीतः सप्रति कौशिकाद्गलवलद्व्याल कपे नृत्यसि ॥ १५२ ॥

वराहः

सर्वलोकपरितोषकारिणि स्वर्धुनीविमलवारिणि स्थिते ।
पूतिगन्धवति⁴ पँल्वलोदके⁵ सूकरः सुखमतीव मन्यते ॥ १५३ ॥
आकर्ण्य गर्जितखं घनगर्जतुल्य सिंहस्य यान्ति वनमन्य-
न्दिभा भयार्ताः । तत्रैव पौरुषनिधिः खकुलेन सार्ध
दर्पोद्धुरो वसति वीतभयो वराहः ॥ १५४ ॥

आदिवराहः

निष्क्रन्दामरविन्दिनी व्यपुटितोद्देशा⁶ कॅसेरुस्थली⁷ जॅम्बा-⁸
लाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दष्ट्राया
प्रलयार्णवोर्मिसलिलैराप्लावितायामिय यस्या एव शिशो-
स्थिता विपदि भू सा पोत्रिणी पुत्रिणी ॥ १५५ ॥

श्वा

पिब पय. प्रसर क्षितिपान्तिक कलय काचन काञ्चन-
शृङ्खलाम् । इदमवद्यतम हि यदीहसे भषक सप्रति केसरिण-
स्तुलाम् ॥ १५६ ॥


वृश्चिकः

विषभारसहस्रेण गर्व नायाति वासुकिः । वृश्चिको
बिन्दुमात्रेणाप्यूर्ध्व वहति कण्टकम् ॥ १५७ ॥

मेकः

दिव्य चामरस पीत्वा गर्व नो याति कोकिलः । पीत्वा
कर्दमपानीय मेको रटरटायते ॥ १५८ ॥ गङ्गादीना सकल-
सरिता प्राप्य तोय समुद्र किंचिद्दर्वी न भवति वपुर्दिव्यरत्ना-
करोऽपि । एको भेक. परममुदित. प्राप्य गोष्पादनीर को मे
को मे रटति बहुधा स्पर्धया विश्वमुच्चै ॥ १५९ ॥

जम्बुकः

उदस्योच्चै. पुच्छ गिरसि निहित जीर्णजटिलं यदृच्छा-
व्यापन्नद्विपपिशितलेशा कवलिताः । गुहागर्ते शून्ये
सुचिरमुषित जम्बुक सखे किमेतस्मिन्कुर्मो यदसि न गत.
सिंहसमताम् ॥ १६० ॥

सर्पः

तावद्गर्जन्ति मण्डूका. कूपमाश्रित्य निर्भया । यावत्करि-
कगकार कृष्णसर्पो¹ न विद्यते ॥ १६१ ॥ यस्मै ददाति विवर
भूमि फूत्कारमात्रभीतेव । आशीविष स दैवाड्डौ²म्बिकरण्डे
स्थिति सहते ॥ १६२ ॥ मौलौ सन्प्रणयो गृहं गिरिगुहा त्याग
किलैतन्मत्त्वो³ निर्यलोपनतैश्च वृत्ति⁴रनिलैरेकत्रचर्येदृशी ।
अन्यत्रानृ⁵जुवर्त्मता द्विरर्स⁶ना वक्रे विषं वीक्षणं सर्वामङ्गल-
सूचक कथय भो भोगिन्सुखे कि न्विदम् ॥ १६३ ॥

शेषः

अनेके फणिनः सन्ति भेकमक्षणतत्पराः । एक एव हि
शेषोऽय धरणीधरणक्षम. ॥ १६४ ॥ युक्तोऽसि भुवनभारे
मा वक्रा वितनु कन्धरा शेष । त्वय्येकस्मिन्दु खिनि
सुखितानि भवन्ति भुवनानि ॥ १६५ ॥


जलचरान्योक्तयः

मत्स्यः

क्षारं वारि न चिन्तितं न गणिताः क्रूराश्च नक्रादयश्चञ्च-
द्वीचि कदम्बडम्बरमिलत्त्रासोऽपि दूरीकृत । मध्येऽम्भोनिधि
मत्स्यरङ्ग भवता झम्पः कृतो लीलया सपत्तिर्मकराजनं
विपदिह प्राणप्रयाणावधिः ॥ १ ॥

रोहितः

अगाधजलसचारी न गर्व याति रोहितः । अङ्गुष्ठोदक-
मात्रेण शफरी फर्फरायते ॥ २ ॥

राघवः

यस्मिन्वेल्लति सर्वतः परिचलत्कल्लोलकोलाहलैर्मन्थाद्रि-
भ्रमणभ्रमे हृदि हरिदन्तावलाः पेदिरे । सोऽयं तुङ्ग-
तिमिगिलाङ्गकवलीकारक्रियाकोविदः कोडे क्रीडतु कस्य
केलिकलहव्युत्पार्णवो राघवः ॥ ३ ॥


१ श्वभ्रम् २ शकटस्वामिनि ३ नगरे ४ दुर्गन्धवति ५ अल्पजलाशयोदके ६ विषमोन्नतदेशाम् ७ कन्दविशेषवतीम् ८ पङ्कसम्मिश्रम्
१ सर्प २ गारुडिककरण्डे ३ आत्मभोगकञ्चुकस्य ४ वर्तनम् ५ वक्रमार्गता ६ द्विरावृत्ता रसना-रसनाद्वयमित्यर्थः