भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 251, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 251
३३६सुभाषितरत्नभाण्डागारम्[ ५ प्रकरणम्

कूर्मः

भ्रमति गिरिराट् पृष्ठे गर्जत्यु पर्यपि सागरो दहति
विततज्वालाजालो जगन्ति विषानलः । म तु विनिहितग्री-
वाकाण्डः कटाहुकटोदर स्वपिति भगवान्कूर्मो निद्रामगलस-
लोचनः ॥ ४ ॥ पुत्रिय कति नात्र सन्ति भुवनेऽभूवन्किय-
न्त्योऽथवा मौभाग्यंकमठी तथादिकमठी स्त्रीषु प्रशंसास्पदम् ।
अंश्वे मोगिनि भङ्गुरेषु करिषु श्रष्टोत्सवे दंष्ट्रिणि क्षोणौ
साहसिकाग्रणीस्तुलयितुं जागर्ति यस्याः सुतः ॥ ५ ॥


वृक्षान्योक्तयः

अहो एषा वर जन्म सर्वप्राण्युपजीवनम् । धन्या मही-
रुहा येभ्यो निराशा यान्ति नार्थिनः ॥ १ ॥ पत्रपुष्पफल-
च्छायामूलवल्कलदारुभिः । गन्धनिर्यासमस्मास्थिन्वोकर्मै
कामान्वितन्वते ॥ २ ॥ प्रत्यग्रै ^१ पत्रनिचयैस्तरुर्यैरव
शोभितः । जहाति जीर्णास्तानेव कि वा चित्रं कुजन्मनाम् ॥ ३ ॥
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे । फलान्यपि
परार्थाय वृक्षाः सत्पुरुषा इव ॥ ४ ॥ परोपसर्पणानन्तचि-
न्तानलशिखाशतैः । अचुम्बित्तान्त करणाः साधु जीवन्ति
पादपाः ॥ ५ ॥ मुखेन गरल मुञ्चन्मूले वसति चेत्फणी ।
फलस्नेहैर्गुरुणा तरुणा कि प्रयोजनम् ॥ ६ ॥ शाखाशत-
चितवियत. सन्ति कियन्तो न कानने तरव । परिमल-
भरमिलदलिकुलदलितदला^५ शाखिनो विरला. ॥ ७ ॥ तीव्रो
निदाघसमयो बहुपथिकजनश्च भैरव. पन्था । मार्गस्थित-
तरुरेकः कियता सतापमपहरति ॥ ८ ॥ हिमसमयो वन-
वह्निर्जवनः पवनस्तडिल्लताविभवः । हन्त सहन्ते यावत्ता-
वद्रुम कुरु परोपकृतिम् ॥ ९ ॥ अध्वन्यध्वनि तरव पथि
पथि पथिकैरूपास्यते छाया । विगल स कोऽपि विटपी
यमध्वगो गृहमगत स्मरति ॥ १० ॥ कश्चिच्चव पल्लवमा-
ददाति कश्चित्प्रसूनानि फलानि कश्चित् । पर करालेऽस्य
निदाघकाले मूले न दाता सलिलस्य कश्चित् ॥ ११ ॥
व्यागुञ्जन्मंधुकरपुञ्जमञ्जुगीतान्याकर्ण्य श्रुतिमदजाह्यातिरे-
कात् । आभूमीतलतन्कन्धराणि मन्येऽरण्येऽस्मिन्नवनिरुहा
कुटुम्बकानि ॥ १२ ॥ भुक्तानि यैस्तव फलानि पंचेली-
मानि क्रोडस्थितैरहह वीतमयैः प्रसुप्तम् । ते पक्षिणो
जलरयेण विकृष्यमाणं पश्यन्ति पादप भवन्तममी तटस्था
॥ १३ ॥ धत्ते भर कुसुमपत्रफलावलौना धर्मव्यधा वहति
शीनमवा रुज च । यो देहमर्पयति चान्यसुखस्य हेतो-
स्तस्मै वैदान्यगुरवे तरवे नमस्ते ॥ १४ ॥ इहोद्याने
सप्रत्यहह परिशिष्टा क्रमवशादमी वल्मीकास्ते भुजगकुल-
लीलावसतयः । गतास्ते विस्तीर्णस्तबकमरसौरभ्यलहरीपरी-
तव्योमान प्रकृतिकुगुरवः केऽपि तरवः ॥ १५ ॥ विपन्नं
पद्मिन्या मृतमनिमिषैर्यात मलिभिः खगैरप्युड्डीन रथचरणहंस-
प्रभृतिभिः । दशा दीना नीते सरसि विषमग्रीष्मदिवसैः
कुलीनत्वाद्रास्ते तटरुहतरुः कोऽपि तदपि ॥ १६ ॥ इयं
वात्या वल्ली मृदुकिसलयं तापविलय घनच्छाय शालं वनम-
तिविशाल परिगताः । पर त्वस्याभ्यन्तर्गरललवभस्मीकृतवनं
भुजंगं प्रोत्तुङ्गं कथमिव वराकी कलयतु ॥ १७ ॥ यज्जातो-
ऽसि चतुष्पथे घनल्सच्छायोऽसि कि छायया सयुक्तः
फलितोऽसि कि यदि फलै. पूर्णोऽसि कि संततः । हे सवृक्ष
सहस्व संप्रति सखे शाखाशिखाकर्षणक्षोभामोष्टनभञ्जनानि
जनत खैरैव दुष्प्रेष्ठितैः ॥ १८ ॥ छायासुसमृग. शकुन्तनिव-
हैर्विष्वग्विलसच्छदः कीटैरावृतकोटर कपिकुलै स्कन्धे
कृतप्रश्रय । विश्वन्धं मधुपैर्निपीतकुसुम. श्लाघ्य. स एकस्तरुर्य-
न्नाङ्गीकृतसत्त्वसष्ठवमरे मत्रापदोऽन्ये द्रुमाः ॥ १९ ॥ भुक्त
स्वादुफलं कृत च शयन शाखाग्रजै. पल्लवैस्त्वच्छायापरि-
शीतलं सुसलिलं पीतं व्यपेतश्रमः । विश्रान्तः सुचिर पर
सुमनसः प्रीतिः किमत्रोच्यते त्व सन्मार्गतरोर्वयं च पथिका
याम पुनर्दशनम् ॥ २० ॥ पान्थाधार इति द्विजाश्रय
इति श्लाघ्यस्तरूणामिति स्निग्धच्छाय इति प्रियो दश इति
स्थान गुणानामिति । पर्यालोच्य महातरो तव घनच्छाया
वय सञ्चितास्तत्कोटरावासिनो द्विंरंसना दूरीकरिष्यन्ति
नः ॥ २१ ॥ मूलं स्थूलमतीव बन्धनदृढं शाखाः शतं
मांसला वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।
एकः कितु मनागयं जनयति स्वान्ते ममाधिव्वरं ज्वाला-
लीवलयीमवन्नकरुणो दावानलो घखर. ॥ २२ ॥ ये पूर्व
परिपालिता. फलभग्च्छायादिभि प्राणिनो विश्रामद्रुम
कथ्यता तत्र विपत्काले क ते साप्रतम् । एता संगतिमात्र-
कल्पितपुरस्कारास्तु धन्यास्तवो यासा छेदनमन्तरेण
पतितो नायं कुठारस्त्वयि ॥ २३ ॥ वृद्धिर्यस्य तरोर्मनोरथ-
शतैराशावता प्रार्थिता जातोऽसौ सरसप्रकामफलद्
सर्वाश्रितोपाश्रयः । नाना देशसमागतैर्विदितैराक्रान्तमन्यैः
खगैस्त लब्धावसरोऽपि वृद्धशकुनिर्दूरे स्थितो वीक्षते
॥ २४ ॥ छायाभि. प्रथम ततस्तु कुसुमै. पश्चात्फलै.
स्वादुभि. प्रीणात्येव तरुः पथीति पथिकै. श्रान्तैः सुख
स्थीयते । को जानाति यदत्र कोटरगतः प्रत्यग्रहालाहल-
ज्वालाजालकरालवक्रकुहरः कृष्णः फणी वर्तते ॥ २५ ॥
आमोदैर्मरुतो मृग. किसलयैर्लम्बैस्त्वचा तापसाः पुष्पैः
षट्चरणा. फलैः शकुनयो घर्मादिताश्छायया । स्कन्धै-
र्गन्धगजाश्च विश्रमरुजा. शश्वद्द्रिमक्तास्त्वया प्राप्तस्त्वं द्रुम
बोधिसत्त्वपदवीं सत्यं कुजाता. परे ॥ २६ ॥ रोलम्बै-


पादटिप्पण्यः (Footnotes):

१ दिग्गजेषु २ नूतनै ३ कु पृथ्वी तस्या जन्म यस्य, पक्षे,- कुत्सित जन्म यस्य ४ समूह ५ मरुदेशसबन्धी ६ पक्वानि ७ दानशौण्डाना गुरवे ८ व्यासम् ९ स्वभावतो महान्त
१ सर्पा, राजपक्षे,-पिशुना सचिवाद्य २ पुष्टा