सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 257, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 257
| २४२ | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

| बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धुरः । तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं स्थाने तस्य तु काकलोकवसतिर्निम्बः समारोपितः ॥ १५९ ॥

बब्बुलः
पत्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृतं च खलु शुकैः । उपसर्पेम भवन्तं बब्बुल वद कस्य लोभेन ॥ १६० ॥
गात्रं कण्टकसंकटं प्रविरलच्छाया न चायासहृन्निर्गन्धः कुसुमोत्करस्तव फलं न क्षुद्विनाशक्षमम् । बब्बूलद्रुम मूलमेति न जनस्तत्तावदास्तामहो ह्यन्येषामपि शाखिनां फलवतां गुह्ये $^{२}$वृत्तिर्जायसे ॥ १६१ ॥
आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पोद्गमश्छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतोपकम् । रे रे बब्बुल साधुसङ्गरहितस्तत्तावदास्तामहो ह्यन्येषामपि शाखिनां फलवतां गुह्ये वृत्तिर्जायसे ॥ १६२ ॥
शाखा कण्टककोटिभिः परिवृता वज्रं फलं कुत्सितं पत्रं क्षुद्रतरं न चास्ति गहना छायापि पान्थप्रिया । अन्येषामपि शाखिनां फलभृतां रक्षार्थमानीयसे बब्बूलद्रुम कैर्गुणैर्गुरुतरैर्वृक्षेषु संभाव्यसे ॥ १६३ ॥

खदिरः
विना खदिरसारेण हारेण हरिणीदृशाम् । नाधरे जायते रागो नानुरागः पयोधरे ॥ १६४ ॥
चन्दने विषधरान्सहामहे वस्तु सुन्दरमगुप्तिसत्कृतम् । रक्षितुं वद किमात्मसौष्ठवं सञ्चिताः खदिर कण्टकास्त्वया ॥ १६५ ॥
परं तदिह नास्ति यन्न खदिरैः खैराग्रैरावृतं न तेऽपि खदिरा न ये कुटिलकण्टकैरावृताः । न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिदस्समुज्झत वृथास्थितिं बत सहध्वमध्वश्रमम् ॥ १६६ ॥

किंशुकः
किंशुक किं शुकमुखवत्कुसुमानि विकासयस्यनिशम् । यस्या जनोऽनुरागी सा गीरेतैः कदापि नोच्चार्या ॥ १६७ ॥
त्यज किंशुक पुष्पिताभिमानं निजशिरसि भ्रमरोपसेवनेन । विकसन्नवमालिकावियोगात्कुरुते वह्नधिया त्वयि प्रवेशम् ॥ १६८ ॥
उपनदिपुलिने महापलाशः पवनसमुच्छलदेकपत्रपाणिः । दवदहनविनष्टजीवितानां सलिलमिवैष ददाति पादपानाम् ॥ १६९ ॥

शाखोटः
शाखोट शाल्मलिपलाशकरीरकाद्याः शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः । युष्मभ्यमर्पयति पल्लवपुष्पलक्ष्मीं सौरभ्यसम्भवविधिस्तु विधेरधीनः ॥ १७० ॥
कस्त्वं भो कथयामि दैवहतकं मा विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥ १७१ ॥

पीलुः
धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ | क्षुत्क्षीणेन जनेन हि प्रतिदिनं येषां फलं $^{१}$भुज्यते । किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्द्रुमैर्येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते ॥ १७२ ॥

करीरः
फलं दूरतरेऽप्यास्तां पुष्णासि कुसुमैर्जनान् । इतरे तरवो मन्ये करीर तव किंकराः ॥ १७३ ॥
किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः । येन वृद्धिं समासाद्य न कृतः पत्रसंग्रहः ॥ १७४ ॥

बिल्वः
आमोदीनि सुमेदुराणि च मृदुस्वादूनि च क्ष्मासहासूद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि । किं तु श्रीफलता तवैव जयिनी मालूग्य दिक्पाण्डले यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ १७५ ॥

शालिः
शाखासन्ततिसंनिरुद्धनभसो भूयांस एवावनौ विद्यन्ते तरवः फलैर्विकलैरार्तिच्छिदः प्राणिनाम् । किंतु द्वित्रदलैरलंकृततनोः शालेः स्तुमस्तुङ्गतां दत्त्वा येन निजं शिरः सुकृतिना को नाम न प्रीणितः ॥ १७६ ॥

कुटजः
समुपागतवति दैवादवलेहात्कुटज मधुकरे मा गाः । मकरन्दतुन्दिलानामग्विन्दानामयं यतो मान्यः ॥ १७७ ॥

इक्षुः
कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि किं चासि पञ्चशरकार्मुकमद्वितीयम् । इक्षो तवास्ति सकलं परमेकमूनं यत्सेवितो भजसि नीरसतां क्रमेण ॥ १७८ ॥
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु $^{२}$विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमैक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥ १७९ ॥
मुखे $^{३}$ यद्वैरस्यं वपुरपि पुनग्र्रन्थिनिचितं न $^{४}$सूतसः कोऽपि क्षणमपि भजेन्मूलमभितः । फलं चैवाप्राप्य $^{५}$वितथग्सलिप्सोर्हि भवतस्तदिक्शोर्नायुक्तं विहितमितरैर्यत्तु दलनम् ॥ १८० ॥

लवङ्गी
अयि दुष्कृतकेन केन वत्से हलिकद्वारे लवङ्गि पुष्पितासि । स्तबकास्तव पांसुभिः परीताः परितः प्राङ्गणसीम्नि यल्लुठन्ति ॥ १८१ ॥
लूनं मत्तमतङ्गजैः कियदपि च्छिन्नं तुषारार्दितं शिष्टं ग्रीष्मजतीक्ष्णभानुकिरणैर्भस्मीकृतं काननम् । एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥ १८२ ॥
सौरभ्येण समावृणोषि ककुभः पुष्णासि पुष्पन्ध्यौल्हुतातन्तुं वृथा तथापि कियतीरूर्ध्वं यापयेर्यामिनीः । अस्मिन्दासपुरे परस्तत इतो विन्यस्तविस्रामिषे मालाकारमृते लवङ्गि ललितान्कस्ते गुणान् ज्ञास्यति ॥ १८३ ॥ |
| $^{१}$ निवास $^{२}$ पुष्पप्रकर $^{३}$ प्राचीरम् $^{४}$ सर्पान् $^{५}$ रक्षारहितम् $^{६}$ पलाशवृक्ष $^{७}$ समित्पत्रच्छायादिभिः | $^{१}$ फलानीति शेषः $^{२}$ गुटशर्करादि $^{३}$ अग्रे $^{४}$ पर्वण्यासम् $^{५}$ वितथा दलनाविरिक्ततावनाभावेन विफला रसस्य लिप्सा लब्धुमिच्छा यसिस्तस्य |