सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 264, कुल 516 में से
संदर्भ में पढ़ेंसंकीर्णान्योक्तयः २४९
॥ ९० ॥ यः कुन्तपानिरिह भूप इति प्रसिद्धो भूखण्ड-
मात्रविभवः परसेवकश्च । तस्यात्मज. सततमिच्छति राजशब्दं
क्रीडे जगज्जननि हन्त निराश्रयासि ॥ ९१ ॥ इन्द्रो
यमोऽसि वरुणोऽसि हुताशनोऽसि ब्रह्मा हरो हरिरसीत्य-
सकृद्यदुक्तिः । भूपालमौलिमणिरञ्जितपादपीठ तस्यानृतस्य
फलमिन्धनमुद्वहामि ॥ ९२ ॥ आः सर्वत. स्फुरतु कैरवमा-
पिबन्तु ज्योत्स्नाकरम्भमुदरंभरयश्चकोरा. । यातो यदेष
चरमाचलमूलचुम्बी पङ्केरुहप्रकरजागरणप्रदीप. ॥ ९३ ॥
खरनखरविमुक्ता रक्तरक्ताश्च मुक्ता परिणतबदराणा
विश्रमेणोपगृह्य । सपदि सरसि धौता. प्रत्यभिज्ञाय मुक्ता
इति किरति किराती हन्त कान्तार एव ॥ ९४ ॥ अब्धे-
रम्भ स्थगितभुवनाभोगपातालकुक्षे पोतोपाया इह हि
बहवो लङ्घनेऽपि क्षमन्ते । आहो रिक्त कथमपि भवेदेष
दैवात्तदानी को नाम स्याद्वटकुहरालोकनेऽप्यस्य कल्प.
॥ ९५ ॥ इयत्येतस्मिन्वा निरवधिचमत्कृत्यतिशये वराहो
वा राहुः प्रभवति चमत्कारविषयः । महीमेको मग्ना यद-
यमवहद्दन्तमुसलै. शिर.शेष शत्रुं निगिलति पर सत्यजति
च ॥ ९६ ॥ श्रुत्वा कुम्भसमुद्भवेन मुनिना किचित्तदा-
त्याहितं सिन्धावन्धुकुटुम्बदर्दुरकुल हर्षादिद ध्यायति ।
गाम्भीर्याद्यदि ते न बिभ्यति न वा त्रस्यन्ति भेकी-
शिशोरत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम्
॥ ९७ ॥ वक्रा नैष तनूविवर्तनगति गृह्णाति साचिस्मित-
^१ कूपनिवासिभेकसमूह
स्मेरैर्गण्डवलैनैरैमुष्य न मनाक्चेतः परावर्तते । हस्ते त्व
मुनिदारकस्य पतिता कल्याणि तन्नीयता वेदीमार्जनबर्हिरर्पण-
वषट्कर्तव्यपाकैर्वय ॥ ९८ ॥ सन्त्यन्येऽपि बृहस्पति-
प्रभृतय. सभाविताः पञ्चषास्तान्प्रत्येष विशेषविक्रमरुची
राहुर्न वैरायते । द्वावेव ग्रसते दिनेश्वरनिशाप्राणेश्वरौ
भासुरौ भ्रात. पर्वनि पश्य दानवपति. शीर्षावशेषीकृत.
॥ ९९ ॥ वीणाप्येकगुणेन राजरमणीनीरन्ध्रपीनस्तनद्वन्द्वे
खेलति शुष्कदारुनिचया नि.सारतुम्बीफला । चञ्चत्या-
र्विंकशर्वरीपरिवृढप्रौढप्रथाभासुर मुक्ताजातमपीह निर्गुण-
तया योग्य न सभाव्यते ॥ १०० ॥ तृष्णालोलविलोचने
कलयति प्राची चकोरीगणे मोनं मुञ्चति कि च कैरवकुले
कामे धनुर्धुन्वति । माने मानवतीजनस्य सपदि प्रस्थातु-
कामेऽधुना धातः कि नु विधौ विधातुमुचितो धाराधरा-
डम्बर. ॥ १०१ ॥ कस्मै हन्त फलाय सज्जनगुणग्रामार्जने
सज्जसि स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय । ये
भावा हृदयं हरन्ति नितग शोभाभरैः सम्भृतास्तैरेवास्य कलेः
कलेवरपुषो दैनदिनं वर्धनम् ॥ १०२ ॥ मर्यादानिलयो
महोदधिरयं रत्नाकरो निश्चितः सर्वाशापरिपूरकोऽनुगमितः
सपत्तिहेतोर्मया । शम्बूकोऽपि न लभ्यते किमपर रत्न महार्घ
पर दोषोऽयं न महोदधेः फलमिद जन्मान्तरीय मम ॥१०३॥
एक. कर्णमहीपति. प्रतिदिनं लक्षाधिका याचकाः कस्मै कि
वितरिष्यतीति मनसा चिन्ता वृथा मा कृथा. । आस्ते किं
प्रतियाचकं सुरतरुः प्रत्यम्बुजं कि रविश्चन्द्र कि प्रतिकैरवं
प्रतिलतागुल्म किमम्भोधरः ॥ १०४ ॥
इति श्रीसुभाषितरत्नभाण्डागारे पञ्चममन्योक्तिप्रकरणं समाप्तम् ।
३२ सु. र. भां