भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 269, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 269
२५४सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

नवोढानामेभिर्वदनकमलैर्नेत्रचलितैः स्फुरल्लीलालीनाः प्रचुरपरिपूर्णा इव दृशः ॥ २९ ॥ अमुष्या लावण्यं मृदुलमृदुलानप्यवयवान्मनोलौल्यं धातुः करकठिनतां मे विमृशति । पदं चित्ते धत्ते मतिरिव पुरा पङ्कजभुवा ध्रुवं कल्याणीयैः कलितसुकृतैरेव रचिता ॥ ३० ॥ समीचीना चीनांशुकपरिवृताङ्गी प्रविलसत्कुचापीना हीना जघनघनभागेऽब्जवदना । न दीना दीनान्तःकलितमदना सेयमधुना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३१ ॥ स्फुरन्नानारत्नारुणितवसना वृत्तमसृणस्तनापीना मत्ता तरलजघना हंसगमना । स्मराधीनासीना कविहृदि जिताशेषललना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३२ ॥ उदासीनालीनामपि वचसि लीना तनुत्वमत्रपाधीना दीनालपनपदवीनायकमधुता । कवीनामासीना हृदि कुमुदिनीनाथवदना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३३ ॥ निलीना वेश्मान्तः कथमपि सखीनामभिहितैः कृताधीना हीनाकृतिरपि मतीनामविषया । कवीनामञ्चत्वं झषयति विपीना तनुतया नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३४ ॥ कुचाभ्यां माद्यन्ती विजितलकुचाभ्यां युवमनो हरन्ती बिब्बोकैः सरसि विहरन्ती मधुरगीः । तरुण्या लावण्यं किमपि विदधानाङ्गविधौ नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३५ ॥ अमलमृणालकाण्डकमनीयकपोलरुचेस्तरसलीनलिनलिनप्रतिफुल्लदृशः । विकसदशोकशोणकरकान्तिभृतः सुतनोर्मृदुललितानि हन्त ललितानि हरन्ति मनः ॥ ३६ ॥ किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखं किमब्जे किं मीनौ किमु मदनबाणौ किमु दृशौ । खगौ वा गुच्छौ वा कनककलशौ वा किमु कुचौ तडिद्वा तारा वा कनकलतिका वा किमबला ॥ ३७ ॥ तनुस्पर्शादस्या दरमुकुलिते हन्त नयने मुहुः पक्ष्मोत्तानं व्रजति जडतामङ्गमखिलम् । कपोलौ घर्माद्रौ ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम् ॥ ३८ ॥ मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनैरनलसविलितैरङ्गन्यासैर्महोत्सवबन्धुभिः । असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितेस्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥ ३९ ॥ कर्पूरेण स्थलविरचना कुङ्कुमेनालवालं माध्वीकानि प्रतिदिनपयः पञ्चबाणः कृपाणः^(२) । तत्रोत्पन्ना यदि किल भवेत्काञ्चनी कापि वल्ली सा चेदस्याः किमपि लभते सुभ्रुवः सौकुमार्यम् ॥ ४० ॥ लावण्यामृतदीर्घिका कुलगृहं सौन्दर्यसौभाग्ययोस्त्रैलोक्याभरत्नकन्दलिरियं जीव्यात्सहस्रं समाः । रूपालोकनकौतुकेन बहुना शिल्पश्रमेणादरान्मन्वे या विधिना विहाय विहितं सृष्टेरूर्ध्वजारोपणम् ॥ ४१ ॥

अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ४२ ॥ वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमं लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः । वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली वाचां हारि च मार्दवं युवतियु स्वा स्वाभाविकं मण्डनम् ॥ ४३ ॥ अस्याश्चेद्धृतिसौकुमार्यमधुना ह्रस्वस्य गर्वः गलत्सं^(६)लापो यदि धार्यतां परभृतैर्वाचंयमत्व^(७)व्रतम् । अङ्गानामकठोरता यदि दृषत्प्रायैव^(८) सा मालती कान्तिश्चेत्कमला^(९) किमत्र बहुना कौषाय^(१०)मालम्बताम् ॥ ४४ ॥ निर्मातुं^(११) सुदतीं मखजो^(१२) विरचिते वक्त्रे शशिभ्रान्तितः क्रोडीभूतनिजाम्बुजासन^(१३)मधिष्ठातुं न शक्तो विधिः । मध्यं विस्मृतवान्कुचौ च कठिनौ पीनौ नितम्बौ काञ्चनकान्तिमंतित्वान्मतिः स्फुरति हि स्वस्थे नृणां चेतसि ॥ ४५ ॥ सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मुणकर्म नर्मरहसामुल्लासनावासभूः । विद्या वक्रगिरां विधेरनविप्रावीण्य^(१४)साक्षान्क्रिया बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥ ४६ ॥ दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसम्भोगवार्तास्वपि । पुंसामङ्गमपेतसङ्गमधुना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥ ४७ ॥ आयाति श्रियमञ्जसा नयनयोरम्भोरुहप्रेयसी सनाहः स्तनयोरयं कलयते संभोगयोग्यां दशाम् । वैदग्ध्येन सहासिका वितनुते वाचामियं प्रक्रिया मुग्धायाः पुनरिन्दवी न सहते मुख्यामभिख्यां मुखम् ॥ ४८ ॥

वयःसंधिवर्णनम्

यथा यथा विगलत्यस्या हृदये हृदह्येश्वरः । तथा तथा बहिर्यातौ मन्ये संकोचतः कुचौ ॥ १ ॥

अन्तरङ्गमनङ्गस्य शृङ्गारकुलदैवतम् । अङ्गीकरोति तन्वङ्गी सा विलासमय वयः ॥ २ ॥

अन्येयं रूपसंपत्तिरन्या वैदग्ध्य^(१५)धोरणी । नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥ ३ ॥

अनायासकृशं मध्यमशङ्कतरले दृशौ । अभूषणमनोहारि वपुर्वयसि सुश्रुवः ॥ ४ ॥

दृश्यं दशा सहस्रैर्मनसामयुतैर्विभावनीयं^(१६) च । सुकृतशतकोटिभोग्यं किमपि वयः सुभ्रुवो जयति ॥ ५ ॥


१ उत्पत्तिविधाने २ जीर्णे ३ तुष्टं कुर्वन् ४ जयशील ५ मनोहरम् ६ मिथो भाषणम् ७ मौनव्रतम् ८ पाषाणरूपा ९ लक्ष्मी १० काषायवस्त्रम् ११ निर्मातुमिच्छु १२ ब्रह्मा १३ मुकुलीभूतस्वकीयकमलासनम् १४ चातुर्यम् १५ परिपाटी १६ ध्येयम्

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह) · पृष्ठ 269, कुल 516 में से · BharatKosha