सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 279, कुल 516 में से
संदर्भ में पढ़ें२६४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
यद्वक्षाः सरखती वाद्यते विपञ्चीम् । तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥ २२३ ॥ बाहू दयिताबाहुपाशस्य कुतोऽयमपरो विधिः । जीवयत्यर्पितः कण्ठे मारयत्यपवर्जितः ॥ २२४ ॥ शब्दवद्भिरलङ्कारैरु- पेतमतिकोमलम् । सुवृत्तं काव्यबद्रेजे तद्द्वाहुलतिकाद्वयम् ॥ २२५ ॥ सरले एव दोर्लेखे यदि चञ्चलचक्षुषः । अमुग्धाभ्यो मृणालीभ्यः कथमाजहुतुः श्रियम् ॥ २२६ ॥ बाहू तस्याः कुचाभोगनिरुद्धान्योन्यदर्शनौ । मञ्चितं कथ- मेताभ्या मृणालीकीर्तिलुण्ठनम् ॥ २२७ ॥ बाहू प्रियाया जयता मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् । उच्चैस्तु तच्चित्रममुष्य मध्यमालोक्यते निर्व्यथनं यदन्तः ॥ २२८ ॥ अजीयतावर्त्तशुभंयु नाभ्या दोर्भ्यां मृणालं किमु कोमला- भ्याम् । निःसूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥ २२९ ॥ करौ कुसुमायुधकोदण्डे हस्तौ विस्तीर्णचक्षुष । अशोकपल्ल- वास्त्राणा प्रतिहस्तत्वमागतौ ॥ २३० ॥ नाह धार्यमधीराक्षि मुखेन्दो समुखं त्वया । इतीव लीलापद्मेन करेऽस्याः कान्तिरर्पिता ॥ २३१ ॥ स्पृष्टस्त्वयैव दयिते स्मरपूजा- व्यापृतेन हस्तेन । उद्भिन्नापरमृदुतरकिसलय इव लक्ष्यते- ऽशोकः ॥ २३२ ॥ अस्याः करस्पर्शनगर्धनैर्निर्मलत्व- मापत्वलु पल्लवो यः । भूयोऽपि नामाधरसाम्यगर्वं कुर्वन्कथं वास्तु न स प्रवालः ॥ २३३ ॥ अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । इत्याह धाता हरिणेक्षणाया कि हस्तलेखीकृतया तया स्वाम् ॥२३४॥ मुग्धे प्रतारयसि कि कुसुमानि हर्तुमेतान्यशोकविटपस्य कुतूहलेन । अस्यैव तन्वि नवपल्लवडम्बरेषु त्वं हारयिष्यसि ननु स्वयमेव पाणी २३५ कङ्कणम् गौराङ्ग्या भुजलावण्यमीलितं हेमकङ्कणम् । कण्ठाश्लेषे वयस्याभिः काठिन्यादन्वमीयत ॥ २३६ ॥ प्रकोष्ठबन्धे बिम्बोष्ठ्यास्तस्याः काञ्चनकङ्कणम् । नालं वलयितं हस्ते हेमाब्जसेव राजते ॥ २३७ ॥ सौवर्णकङ्कणश्रेण्या भाति तद्बाहुकन्दली । तूणचम्पकमौर्व्येव पुष्पचापेन वेष्टिता ॥ २३८ ॥ सहेमकटकं धत्ते सा कर पद्मत्सकरम् । पद्मिनीवल्लभस्येव मूले वेष्टितमंशुना ॥ २३९ ॥ हस्ते चकास्ति बालायास्तस्याः कङ्कणमालिका । मन कुरङ्गबन्धाय पाशालीय मनोभुवः ॥ २४० ॥ कृशाङ्ग्याः कुचभारेण दूरमुत्सारितौ भुजौ । वहतः कलहायेव वाचाला वलया- वलिम् ॥ २४१ ॥ न्यस्तानि दन्तवलयानि करे कदा- चित्तानीन्दुकण्डघटितानि ममैष तर्कः । अस्या निसर्गमृदु- पाणिसरोजमेषामामोचने झटिति यन्मुकुलीबभूव ॥ २४२ ॥ हस्तरेखा आयुरेखां चकारास्याः करे द्राघीयसी विधिः । शौण्डीर्य- गर्वैर्निर्वाहप्रत्याशा च मनोभुवः ॥ २४३ ॥ अङ्गुल्यः सुदीर्घा रागशालिन्यो बहुपर्वमनोहराः । तस्या विरेजुर- ङ्गुल्यः कामिना सकथा इव ॥ २४४ ॥ रज्यन्नखसाङ्गुलि- पञ्चकस्य मिषादसौ हैङ्गुलपद्मारातृणे । हैमैकपुङ्खास्ति विशुद्धपर्वा प्रियाकरे पञ्चशरी खरस्य ॥ २४५ ॥ मुद्रिका अङ्गुलीषु कुरङ्गाक्ष्याः शोभते मुद्रिकावलिः । प्रोतेव बाणैः पुष्पेषोः सूक्ष्मलक्ष्यपरम्परा ॥ २४६ ॥ स्तनौ मृद्वङ्गि कठिनौ तन्वि पीनौ सुमुखि दुर्मुखौ । अत एव बहिर्यातौ हृदयात्ते पयोधरौ ॥ २४७॥ तन्वङ्ग्या स्तन- युग्मेन मुख न प्रकटीकृतम् । हाराय गुणिने स्थानं न दत्तमिति लज्जया ॥ २४८ ॥ यन्न माति तदङ्गेषु लावण्य- मतिसम्भृतम् । पिण्डीकृतमुरोदेशे तत्पयोधरता गतम् ॥२४९॥ स्वयंभूः शभुरम्भोजलोचने त्वत्पयोधरः । नखेन कस्य धन्यस्य चन्द्रचूड़ो भविष्यति ॥ २५० ॥ अविवेकि कुचद्वन्द्व हन्तु नाम जगत्त्रयम् । श्रुतिप्रणयिनोरक्षणोर्युक्तं जनमार- णम् ॥ २५१ ॥ प्रायश्चित्तं न गृहीतस्तन्वङ्ग्याः पतितौ स्तनौ । अत एव तयो स्पर्श लोकोऽयं शिथिलादरः ॥ २५२॥ पयोधरघनीभावस्तावदम्बरमध्यगः । आश्लेषोपगमस्तत्र याव- न्नैव प्रवर्तते ॥ २५३ ॥ माति निर्विवरे तस्याश्चित्रं कुच- युगान्तरे । क्रीडाकुण्डलितोचण्डकोदण्डः कुसुमायुधः ॥ २५४ ॥ कुचद्वये चकोराक्षी चिम्बुकप्रान्तचुम्बिनी । मर्मोक्तिषु न शक्नोति स्थातु लज्जानतानना ॥ २५५ ॥ शङ्के तच्चित्तमक्लेशसाध्यं कुसुमधन्वनः । काठिन्यं बहिरेवास्याः स्तनाभ्या येन धारितम् ॥ २५६ ॥ सा स्तनाञ्जलिबन्धेन मन्मथं प्रथमागतम् । करोतीवोन्मुखं बाला बान्धवं यौवन- श्रियः ॥ २५७ ॥ अस्त्यप्रतिसमाधेयं स्तनद्वन्द्वस्य दूषणम् । स्फुटता कञ्चुकाना यन्नायातयावरणीयताम् ॥ २५८ ॥ कुम्भौ सद्दम्भौ करिणा कलशौ मन्दकौशलौ । चक्रवाकौ वराकौ च तदीयकुचयोः परः ॥ २५९ ॥ मुखेन्दुचन्द्रिकापूरप्लाव्य- मानौ पुन. पुन. । शीतभीताविवान्योन्यं तस्याः पीड्यत. स्तनौ ॥ २६० ॥ तत्कुचौ चरतः किंचिन्नूने मनसिजव्रतम् । नित्योन्मुखौ यदासाते मौलीरत्नस भास्वतः ॥ २६१ ॥ सा धारयत्यधीराक्षी दुर्वह स्तनमण्डलम् । गर्वपर्वतमारूढ- श्रित्रं कुसुमकार्मुकः ॥ २६२ ॥ तस्यास्तुङ्गस्तनच्छाया
१ व्यक्त १ विशेषदर्शनरहितम्, पक्षे,-विंशषशून्यम् परस्पर सश्लिष्टत्वात् २ वेद, पक्षे,-कर्णे ३ पापनिकृतिम्, पक्षे,-प्रायो बाहुल्येन चित्त स्वान्तम् ४ पातकिनौ, पक्षे,-गलितौ ५ पयोवराणा मेघाना घनीभाव प्राचुर्यम् ६ आकाशमध्यवती च ७ आश्लेषानक्षत्रस्योदय ; पक्षे,-सुगमस्