सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 30, कुल 516 में से
संदर्भ में पढ़ेंविष्णुः १५
स्वेदाम्बुपूरमनुपूरयतु प्रिय वः ॥ १८ ॥ श्रेय सदा दिशतु मालम्पक्षमपाते निद्रायिते अपि दृशौ भृशमुन्नमय्य । सवाह्यमानचरणाम्बुजजातहर्षो लक्ष्मीमुखेक्षणपर परमेश्वरो वः ॥ १९ ॥ मकरोभुवनवन्धोर्वैरमिन्दो सरोजैरुरुचितमिति मत्वा य म्याददारविन्दम् । घटयितुमिव मायी योजयत्याननेन्दौ वटदलपुटशायी मङ्गल व कृपीष्ट ॥ २० ॥ कचकुचचुचुकाग्रे पाणिषु व्याप्तृतेषु प्रथमजलधिपुत्रीसङ्गमेऽनङ्गधाम्नि । ग्रथितनिबिडनीवीबन्धनोर्मोचनार्थ चतुरविककराशः पातु वश्चक्रपाणि ॥ २१ ॥ विरमति महाकल्पे नाभीपयैकनिकेतनस्त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणमात्मभू । किमधिकरण कीदृक्क्स्य व्यविस्थितिरित्यमावुदरमविशद्बहु तस्मै जगन्निधये नम ॥ २२ ॥ लक्ष्मीपाणिद्वयविरचित मूलमूर्धश्रुतीना व्यक्त वन्दे चरणकमलद्वन्द्वमाद्यस्य पुस । यत्रैकस्य व्यधित बलिना पाद्यतोयैर्वितीर्णैरार्द्रस्यैव प्रणतितरल. क्षालन पद्मयोनि ॥ २३ ॥ अनादृतचमूपतिप्रहितहस्तमस्वीकृतप्रणीतमणिपादुक किमिति विस्मितान्तःपुरम् । अवाहनपरिक्रिय पतगराजमारोहतः करिप्रवरवृहिते भगवतस्त्वरार्थै नम. ॥ २४ ॥ दृक्पातः कैलासनेऽस्तु भवतो ज्ञान मनाव्यारुते श्रीकठोऽयमित सुरानिति नतास्ताश्चर्येण विज्ञापित. । प्रेयसा. क तदासन क च रुत कण्ठः क चेत्युलमलक्ष्म्यावासितमानसो विजयते सुसप्रबुद्धो हरि. ॥ २५ ॥ निर्मग्नेन मयाम्भसि स्मरशरालैः समालिङ्गिता केनालीकमिद तवाद्य कथित गधे सुधा ताम्यसि । इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचः शार्ङ्गिणमव्याज शिथिलीकृत कमलया कण्ठग्रहः पातु वः ॥ २६ ॥ य शैवा. समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटव. कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमासकाः सोऽय वो विदधातु वाञ्छितफल त्रैलोक्यनाथो हरिः ॥ २७ ॥ येनोत्थाप्य समूलमन्दरगिरिश्छत्रीकृतो गोकुले राहुर्येन महाबलः सुररिपुः कार्यादशेषीकृत. । कृत्वा त्रीणि पदानि येन वसुधा बद्धो बलिर्लीलया सोऽय पातु युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः ॥ २८ ॥ मुग्धे मुञ्च विषादमत्र र्बलिमिक्कम्पो गुरुस्त्यज्यता सद्भाव भज पुण्डरीकनयने मान्यानिमान्मानय । इत्थ शिक्षयतः स्वयवरविधौ धन्वन्तरेर्वीकछलादन्यत्र प्रतिषेधमात्मनि विधि शृण्वन्हरिः पातु व ॥ २९ ॥ नाभीपद्मवसच्चतुर्मुखमुखोद्गीतस्तवाकर्णनप्रोनमीलत्कमनीयलोचनकलाखेलन्मुखेन्दुद्युति । सक्रोध मधुकैटभौ सकरुणस्नेहं सुतामम्बुधेः सोल्लासप्रणयं सरोजवसति पश्यन्हरि. पातु वः ॥ ३० ॥ निष्प्रत्यूहमुपासहे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने । याभ्यामर्धविवोधमुग्धमधुरश्रीरर्थनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृता ॥ ३१ ॥ भक्तिप्रह्ववलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनता समाधिनिरतैर्नीतेहितप्राप्तये । लावण्यैकमहानिधी रसिकता लक्ष्मीदृशोस्तन्वती युष्माकं कुरुता भवार्तिशमन नेत्रे तनुर्वा हरे. ॥ ३२ ॥ चत्वारः प्रथयन्तु विद्रुमलतारक्ताङ्गुलिश्रेणय. श्रेय शोणसरोजकोरकरुचस्ते शार्ङ्गिणः पाणय । मालेष्वम्बुमुवो लिखन्ति युगपद्ये पुण्यवर्णावली. कस्तूरीमकरी पयोधरयुगे गण्डद्वये च श्रियः ॥ ३३ ॥ आकल्प मुरजिन्मुखेन्दुमथुरोन्मीलन्मरुन्माधुरीधीरोदात्तमनोहरः सुखयतु त्वा पाञ्चजन्यध्वनिः । लीलालङ्घितमेघनादविभवो य. कुम्भकर्णव्यथादायी दानवदन्तिना दशमुखं दिक्ष्वक्रमाक्रामति ॥ ३४ ॥ भ्राम्यन्मन्दरकन्दरोदरदरीव्यावर्तिभिर्वारिधेः कल्लोलैररमाकुलं कलयतो लक्ष्म्या मुखाम्भोरुहम् । औत्सुक्यात्तरलाक्षराद्विकसिता भीत्या समाकुञ्चिता. क्रोधेन ज्वलिता मुदा मुकुलिता शौरेर्दृशः पान्तु वः ॥ ३५ ॥ पर्यङ्कीकृतनागनायकफणाश्रेणीमणीना गणे ᶓसक्रान्तप्रतिबिम्बसवलनया बिभ्रद्वपुर्विक्रयाम् । पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षु. शतैः कैतव्यहृमिवाचरन्नुपचित्ताकूतो हरिः पातु व ॥ ३६ ॥ मन्थक्ष्माधरघूर्णिताणवपयःपूरान्तरालोल्लसलक्ष्मीकन्दलकोमलाङ्गदलनप्रादुर्भवत्सद्द्मनाः । हर्षोत्कण्टकितत्वचो मधुपिपोर्देवासुराकर्षणव्यापांरोपर्गांय पान्तु जगतोमाबद्धवीप्सा गिर ॥ ३७ ॥ चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्नापय भो भो नन्दक जीव पन्नगरिपो किं नाथ भिन्नो मया । को दैत्यः कतमो हिरण्यकशिपु. सत्य भवद्भाः शपे केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुख पातु वः ॥ ३८ ॥ प्रत्यग्रोन्मेषंजिह्म क्षणमनभिमुखी रब्नैदीपप्रभाणामात्मव्यापारगुर्वी जनितजलल्वा
पाद-टिप्पणी (Footnotes)
| वाम-भाग | दक्षिण-भाग |
|---|---|
| १ ब्रह्मण्यि, पक्षे,-लक्ष्म्या आसने | १ शङ्खस्य |
| २ वायौ, पक्षे,-लक्ष्म्या शब्दे | २ भक्तिप्रह्लादिविशेषणानि नेत्रपक्षे तनुपक्षे च क्रमेण द्विवचनैकवचनान्तानि |
| ३ शिव, पक्षे,-लक्ष्म्या कण्ठ. | ३ 'नीता ईहितप्राप्तये' इति तनुपक्षे छेद. |
| ४ सखी | ४ पश्यत |
| ५ असत्यम् | ५ अदत्तपरपुत्रिकाप्रानर्थत्वेन |
| ६ कुप्यसि | ६ सबद्ध |
| ७ खेदम्, पक्षे,-शिवम् | ७ बहुशरीरताम्- |
| ८ वल भिनत्तीति तम्, पक्षे,-इन्द्रम् | ८ समृद्धकामभाव |
| ९ बहु; पक्षे,-बृहस्पति | ९ उन्मीलनम् |
| १० सुष्ठुभावम्, पक्षे,-सद्भावेन | १० कुटिला |
| ११ कमलोचने, पक्षे,-विष्णो | ११ शेषशिरस्थानमित्यर्थे |