भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 302, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 302

दूती प्रति स्वावस्थाकथनम्, नायकं प्रति दूतीप्रेषणम्, नायकस्याग्रे दूत्युक्तयः २८७


निधाय सुचिर रोमाञ्चिताङ्गी मुहुर्जृम्भा मन्थरतारका सुल- लितापाङ्गा दधाना दृशम् । सुप्तेवालिखितेव शून्यहृदया लेखाविशेषीभवत्सात्मद्रोहिणि किं हिया कथय मे गूढो निहन्ति स्मर ॥ ३२ ॥ श्वासास्ते सखि सूचयन्त्यविरताः संतापबाधा परं विस्रस्तत्र न कारणं वयमिति स्वान्तेऽतिचिन्ताभरः । किं वा धर्मनिपीडिता तव तनूवली निकाशं प्रिये पुष्पाद्- प्यतिकोमलो मलिना यातो मृणाली यथा ॥ ३३ ॥


दूती प्रति स्वावस्थाकथनम् ।

अष्टिसवीक्षणं चक्षुरद्विसमीलनं मनः । अष्टिसस्पर्शनः पाणिग्द्य मे किं करिष्यति ॥ १ ॥ हन्त कान्तमपि तं दिदृक्षते मानस मम न साधु यत्यते । इन्दुरिन्दुमुखि मन्दमारुतश्चन्दन च वितनोति वेदनाम् ॥ २ ॥ तुष्यन्तु मे छिद्रमवाप्य शत्रव करोतु मे शान्तिभर गृहेश्वर । मणिस्तु वक्षोरुहमध्यभूषणं ममास्तु सौन्दर्यनिकेतनं प्रिय ॥ ३ ॥ कालो मधु कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहरा समीगः । केलिवनीयमपि वञ्जुलकुञ्ज- मञ्जुर्दुरे पतिः कथय किं करणीयमद्य ॥ ४ ॥ कान्त कृतान्तरित. कुटिला तदम्बा वज्रोपमानि वचनानि च दुर्जनानाम् । प्रत्यक्ष मन्तर्गतनोः प्रहरन्ति बाणा प्राणा पुनः सखि वहिर्न खलु प्रयान्ति ॥ ५ ॥ अकस्मादेकस्मि- न्यथि सखि मयासुं वनतट व्रजन्त्या दृष्टो यो नवजलधरश्या- मलतनु । स दृग्भञ्ग्या कि वाकुरुत नहि जाने तत इदं मनो मे व्यालोलं क्वचन गृहकृत्ये न वलते ॥ ६ ॥ गते प्रेमाबन्धे प्रणयबहुमाने विगलिते निवृत्ते सद्भावे प्रणयिनि जने गच्छति पुर । तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतास्ताश्च दिवसान्न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥ ७ ॥ स्वामी कुप्यतु कुप्यता परिजनो निन्दन्तु मामन्यवत्कि शावत्प्रथतामयं तु जगति प्रौढो ममोपद्रव । आश्वास पुन- रेतदेव यदिदं चक्षुश्चिर वर्षता येनेद परिचीयते मुररिपोः सौन्दर्यसार वपुः ॥ ८ ॥ निःस्नेह. पतिरुज्झिता करुणया श्वश्रूरजसं वृथा वाग्बाणैर्हृदय भिनत्ति कलहोत्ताला पुन- र्यातर । नित्य निन्दति नैव नन्दति कदाप्येषा ननान्दापि तन्मातः कं शरणं व्रजामि तरुणी दीनाहमेकाकिनी ॥ ९ ॥ किं स्वप्न किमु जागर किमथवा रात्रि किमासीद्दिनं मोहावस्थितया मया न किमपि ज्ञात किमेतत्सवखि । यन्नाम- श्रवणादनन्तरमिद वृत्तं तमेव प्रियं चेतो दुर्लभमप्यपास्त- सकलव्यापारमाकाङ्क्षति ॥ १० ॥


नायकं प्रति दूतीप्रेषणम् ।

अपूजितेवास्तु गिरीन्द्रकन्या कि पक्षपातेन मनोभवस्य । यद्यस्ति दूर्नी सरमोक्तिदक्षा दास पति पादतले वधूनाम् ॥ १ ॥ न च मेऽवगच्छति यथा लघुता करुणा यथा च कुरुते स मयि । निपुणं तथैनमवगम्य वदेरभिदूति काचि- दिति सदिदिशे ॥ २ ॥ ननु मदिष्टेति मह्नोदितया त्रपया न किंचन किलाभिदवे । निजमैक्षि मन्दमनिर्श निग्रितै कृशितं शरीरमशरीरशरै ॥ ३ ॥ दिशि दिशि परिहासगूढगर्भाः पिशुनगिरो गुरुगञ्जनं च तादृक् । सहचरि हृदये निवेदनीयं भवदनुरोधवशाय विक्राकः ॥ ४ ॥ वृथा गाथाश्लोकेरल्म- लमलीका मम रुजं कदाचिद्धूर्तोऽसौ कविवचनमित्याकल- यति । इदं पार्श्वे तस्य प्रहिणु परिलाञ्जनचयस्रवद्वाष्पो- त्पीडस्थगितलिपि ताटङ्कयुगलम् ॥ ५ ॥ वाच्यं तस्मै सह- चरि भवद्विरहविशेषवह्वौ स्नेहेरेंद्रे मम वपुरिढं कामहोता जुहोति । प्राणान्स्रै तदिहसुचिता दक्षिणा दातुमीहे तत्रा- देशो भवतु भवता यत्त्वमेषामधीश ॥ ६ ॥ जीवामीति वियोगिनी यदि लिखेत्तत्रैव वृत्ता. कथा अद्य श्रोऽथ मरि- ष्यतीति मरणे कालात्ययः किं कृतः । आगन्तव्यमिहेति सप्रति सखे सभावना निष्फला भ्रात. सप्रति याहि नास्ति लिखितं तद्देहि यत्ते क्षमम् ॥ ७ ॥ उल्लङ्ख्यापि सखीवचः समुचितामुल्लङ्घ्य लजामलं भित्वा भीतिमर निरस्य च निजं सौभाग्यगर्व मनाक् । आज्ञा केवलमेव मन्मथगुगे- रादाय नूतं मया त्व निःशेषविलासिवर्गगणनाचूडामणिः सभूत ॥ ८ ॥ दूति त्वं तरुणी युवा स चपलः श्यामा- स्तमोभिर्दिश संदेशक स रहस्य एव विपिने सकेतकावासक । भूयोभूय इमे वसन्तमरुतश्चेतो नयन्त्यन्यथा गच्छ क्षेम- समागमाय निपुणे रक्षन्तु ते देवता ॥ ९ ॥


नायकस्याग्रे दूत्युक्तयः ।

सुभग त्वत्कथारम्भे कर्णकण्डूतिलालमा । उज्जृम्भव- दनाम्भोजी मिनत्यङ्गानि साङ्गना ॥ १ ॥ त्वयि दृष्टे कुर- ङ्गाक्ष्याः समते मदनव्यथा । यथा हृदयमाजीन्दौ ग्लानि. कुमुदसद्हते ॥ २ ॥ विरहे तव तन्वङ्गी कथ क्षपयतु क्षपाम् । दारुणव्यवसायस्य पुरस्ते भणितेन किम् ॥ ३ ॥ सा सुन्दर तव विरहे सुतनुरियन्मात्रलोचना सपदि । एता- वतीमवस्था याता दिवसैरियन्मात्रै. ॥ ४ ॥ तव विरहे विधुवदना मदनाधिक का न सीदन्ति । सीदसि विरहे यस्या साधु तपस्याफलं तस्याः ॥ ५ ॥ प्राणेश तव विरहिणी हिमकरकिरणेषु हर्म्यमिलितेषु । सतापनिशाङ्गी मुञ्चति