भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 317, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 317

३०२ सुभाषीतरत्नभाण्डागारम् [ ६ प्रकरणम् ]


कन्दीयति ॥ ९४ ॥ अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहित । उच्चन्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ ९५ ॥ कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्रायितं मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः । मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः श्वेतद्वीपजनायितं जनपदेर्जाते शशाङ्कोदये ॥ ९६ ॥ पीयूषाश्रपणं जगत्त्रयदृगामालानलेखालवो विश्वोन्माथहुताशनस्य ककुभामुद्घाटिनी कुञ्चिका । वीरेषु प्रथमा च पुष्पधनुषो रेखा मृगाक्षीमुखश्रीणां च प्रतिराजबीजमधिकानन्दी नवश्चन्द्रमाः ॥ ९७ ॥ दिग्बालाकरकन्दुकः स्मरवधूस्रीमन्तमुक्तामणिः कामक्षोणिपतेर्विहारवलभीनिर्यूहपारावतः । हृद्योम्नि विकीर्णतारकमणिः श्यामा वणिक्सुध्रुवः स्फारः स्फाटिकसम्पुटः कुमुदिनीकान्तोऽयमुन्मीलति ॥ ९८ ॥ यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं कमलिनीमालिङ्गितु योजयन् । शीतस्पर्शमुपेत्य संप्रति तया रुद्धे मुखाम्भोरुहे हासेनेव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥ ९९ ॥ एतत्कोककुटुम्बिनीजनमनःशल्यं चकोराङ्गनाचञ्चूकोटिकपाटघटितयितोरूद्घाटिनी कुञ्चिका । दृग्ध्वंसापि नवाङ्कुरः स्मरशरोरार्द्राङ्गसा प्रेयसीमामोदामगजाइकुशो विजयते मुग्धं सुधाशोर्वपुः ॥ १०० ॥ क्षीराब्धेर्लहरीषु फेनधवलाश्चन्द्रोपलेषु स्रवत्याथःसीकरिणो विकासिकुमुदक्रोडे रजःपिञ्जराः । उन्मीलन्ति चकोरचञ्चुगहने छिन्प्रप्ररूढाश्रमांकुर्वन्तः प्रियविप्रयुक्तहरिणीगात्रे सुधाशोः कराः ॥ १०१ ॥ ध्वान्तौघे शितिकण्ठकण्ठमहसि प्राप्ते प्रतीचीमुखं प्राचीमम्बति कि च दुग्धलहरीमुग्धे विधोर्धामनि । एतत्कोकचकोरशोकसम्सम्भानप्रसन्नोल्लसद्दृक्पातोर्मिकदम्बचुम्बितमिव त्रैलोक्यमाभासते ॥ १०२ ॥ शीताशुस्फटिकालवालवलयद्रागुल्लसत्कौमुदीवल्ली नूतनपल्लवाञ्चितमिव प्राप्य क्षणं ताम्रताम् । चञ्चन्मत्तचकोरचञ्चुघटनाच्छिन्नाग्रकाण्डस्रुतक्षीरसन्दनिरन्तराप्लुतभिव श्वेतं वियद्भासते ॥ १०३ ॥ यः श्रीखण्डतमालपत्रति दिशः प्राच्या स्मरक्ष्मापतेः पाण्डुच्छत्रति दन्तपत्रति वियल्लक्ष्मीकुरङ्गीदृशः । केलिश्वेतसहस्रपत्रति रतेः कि च क्षपायोषितः क्रीडाराजतसीधुपात्रति शशी सोऽयं जगन्नेत्रति ॥ १०४ ॥ ये पूर्वं यवसूचिसूत्रसुहृदो ये केतकाग्रच्छदच्छायासाम्यभृतो मृणाललतिकालावण्यभाजोऽत्र ये । ये धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः ॥ १०५ ॥ सद्यश्चन्दनपङ्कपिच्छिलमिव व्योमाङ्गणं कल्पयन्प्रयैरावतकान्त-दन्तमुसलच्छेदोपमेयाकृतिः । उच्चैश्छलयन्मळ्छमौक्तिककताप्राल्म्बम्बम्बैः करैर्मुग्धानां स्मरलेखवाचनकलोकेलिप्रदीपः शशी ॥ १०६ ॥ कोकानाकुलयंश्चकोरतरुणीवैकल्यमुन्मूलयन्पद्मोजानि निमीलयन्कुमुदिनीरुन्मीलयन्सर्वतः । पान्थानाकुलतां नयन्कुलवधूचेतः समुल्लासयन्नस्तं याति दिवापतिः समुदयं यात्येष दोषोपतिः ॥ १०७ ॥ स्वर्गामामृतपानचारुचषक कि कामदेवाङ्गनाक्रीडाकन्दुक एष किं सुरनदीडिण्डीरपिण्डः किमु । किं छत्रं स्मरभूपतेः किमु यशः पुञ्जं पुरस्तादिदं चेतः सशयकारकं समुदितं शीतद्युतेर्मण्डलम् ॥ १०८ ॥ पद्मिन्या दयितेऽनुधावति रुषा स्वं पद्मिनीद्रोहिणं भ्रान्त्वा भीतमना दिगन्तमखिलं चन्द्रो जगाहेऽम्बुधिम् । गाढे तत्र च तत्र विह्वलममुं कर्षन्ति तारा पति सोऽयं तच्छलवारिकुङ्कुमरसैः सिक्तोऽरुणो दृश्यते ॥ १०९ ॥ मानावभ्युदिते तथा मयि गते किं स्यान्मम प्रेयसी हा हेल्यस्तमितः शशी रसविशादीन्दीवरिण्याः स्मरन् । सोऽयं सम्प्रति नीलिमाङ्किततनूत्कस्माद्दारीदृश्यते ये वै यत्किल सस्मरन्ति चरमे तद्रूपमेष्यन्ति ते ॥ ११० ॥ आदायामृतपूर्णमर्कचषक शोणारविन्दप्रभे पाणाविन्द्रवधूर्विलोक्य च पुनस्तत्स्निग्धश्यामिकाम् । चिक्षेपोपरि कोपतः परिजनैऽसशोध्य दत्ता सुधेत्येनं तं शशिनं प्रशसति जनस्तत्पाणिमुक्ताञ्जनम् ॥१११॥ आनीला करपल्लवैरपनयञ्छन्ना तमःकञ्चुकीमाशा संप्रति वासवीमनुसरन्नक्षीष्णरागः शशी । अस्याश्च स्तनसङ्गिनीमिव वहन्नङ्गेन कस्तूरिकामारिङ्गत्ययमादरेण रजनीमर्धोन्मिषत्तारकाम् ॥ ११२ ॥ यत्पीयूषमयूखमालिनि तमःस्तोमावलीढायुषा नेत्राणामपमृत्युहारिणि पुरः सूर्येऽद्य एवातिथौ । अम्भोजानि पराञ्चि तन्निजमघं दत्त्वैव तेभ्यस्ततो गोराङ्गीवदनोपमासुकृतमादत्ते परित्यज्यनाम् ॥ ११३ ॥ यं प्राक्प्रत्यगवागुदश्वि ककुभा नामानि सबिभ्रतं ज्योत्स्नाजालझलञ्झलाभिरभितो लुम्पन्तमन्धं तमः । प्राचीनादचलादितस्त्रिजगतामालोकबीजाङ्कहिरिर्णीयान्तं हरिणाङ्कमङ्कुरमिव द्रष्टु जनो जीवति ॥ ११४ ॥ स श्रीकण्ठकिरीटकूट्टिमपरिष्कारप्रदीपाङ्कुरो देवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिम्भरिः । सस्कर्ता निजकान्तिमौक्तिकमणिश्रेणीभिरिणीदृशा गीर्वाणाधिपतेः सुधारसवतीपौरोगवः प्रोदगात् ॥ ११५॥ प्राचीनाचलचुम्बिचन्द्रममणिर्निर्व्यूढपाथं निजैर्निर्याणैरुडुभिर्निजेन वपुषा दत्तार्धलाजाञ्जलि । अन्त प्रौढकलङ्कतुच्छमभितः सान्द्र परिस्तीर्यते बिम्बाद्कुरभन्मनेभिकतम सदोहमन्दोर्मह ॥ ११६ ॥ सायनाभ्युदेति वासरमणिश्चन्द्रो नु चण्डद्युतिर्दावाग्निः कथमम्बरे किमशनिः स्वच्छान्तरीक्षे कुतः । हन्तेदं निरणायि पान्थरमणीप्राणानिलाशाशया धावद्धोरविभावरीविषधरीभोगस्य भीमो मणिः ॥ ११७॥ प्राणायमोपदेष्टा सरसिरुहमुने-