सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 318, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 318
| चन्द्रोदयवर्णनम् | ३०३ |

| [वाम स्तम्भ] | [दक्षिण स्तम्भ] |

| यौवनोन्मादलीलागोष्ठीना पीठमर्द्दस्त्रिभुवनवनितानेत्रयो प्रातराश । कामायुष्टोममज्वा शमितकुमुदिनीमानमुद्रानुराग शृङ्गाराद्वैतवादी प्रभवति भगवानेषु पीयूषभानु ॥ ११८ ॥ कल्लोलक्षिप्तसप्तच्छ्रिपुरहरशिर ख स्रवन्तीमृणालं कर्पूरक्षोदजालं कुसुमशरवधुसीधुभृङ्गारनालम् । एतद्दुग्धाब्धिवन्धोर्गगनकमलिनीपत्रपानीयविन्दोरन्तस्तोष न केषा किसल यति जगन्मण्डन खण्डमिन्दो ॥ ११९ ॥ सरम्भोद्रिक्त नक्तसमयदशमुखोद्दण्डदोर्दण्डहेलाकैलास सप्तलोकीजयसुदितमनोजन्यवादित्रशङ्ख । लोलाक्षीगण्डपालीलवणमजलवेरुद्गत. फेनपिण्ड पश्य व्योमावकाशं विशति विरहिणा दत्तशङ्क. शशाङ्क ॥ १२० ॥ कैतन्मार्त्तण्डविम्बं मरसि सरसिजश्रेणिहास्यं क यात कैते याता रथाङ्गा. सपदि गतहियः क प्रविष्टा मरालाः । सध्यरागारुणाङ्ग· कुपित इव पति. प्रोद्यतोऽयं हिमाशुर्मन्ये हर्षादिवेय हसति कुमुदिनी जाग्रतीवालिनादैः ॥ १२१ ॥ प्राचीभागे सरागे धरणिबिरहिणीक्लान्तवक्त्रे समुद्रे निद्रालौ नीरजातौ विकसति कुमुदे निर्विकारे चकोरे । आकाशे सावकाशे तमसि शममिते नागलोके मशोके कन्दर्पे मन्ददर्पे वितरति किरणान् शर्वरीसार्वभौमः ॥ १२२ ॥

चन्द्रकलावर्णनम्
अकलङ्कचन्द्रकलया कलिता सा भाति वारुणी तरुणी । भालस्थलीव शभोः सध्याध्यानोपविष्टस्य ॥ १२३ ॥

ज्योत्स्नावर्णनम्
दलविततिभृता तले तरूणामिह तिलतण्डुलितं मृगाङ्करोचि । मदचपलचकोरचञ्चुकोटीकवलनतुच्छमिवान्तराऽन्तराभूत् ॥ १२४ ॥ आलोक्य चन्द्रमसमभ्युदितं समन्तादुद्वेलदूर्भिविचुलत्कलशाम्बुराशेः । विष्वग्विसारिपरमाणुपरस्परैव ज्योत्स्नात्मना जगदिद धवलीकरोति ॥ १२५ ॥ सितकिरणकपोलीमालिमालोक्यन्ती तिमिरविरहतापव्याकुला व्योमलक्ष्मीम् । रजनिरमलताराशीकरै. सिक्तमस्याः परिमलयति गात्रं चन्द्रिकाचन्दनेन ॥ १२६ ॥ *अपि पिवत चकोरा. कृत्वसुम्नाभ्य कण्ठ क्रमकवलनचञ्च्वचञ्चवश्चन्द्रिकाम्भ । विरहविधुरिताना जीवितत्राणहेतोर्भवति हरिणलक्ष्मा येन तेजोदरिद्र. ॥ १२७ ॥ सह कुमुदकदम्बै. काममुल्लासयन्त. सह घनतिमिरौद्यैर्धैर्यमुत्सारयन्त. । सह सरसिजखण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतागोरशवः सचिरन्ति ॥ १२८ ॥ भास्वत्कर्कशशाणचक्रकषणैराकाशकौलायसाच्चूर्णं निबिड निपत्य तम इत्याख्या जगन्त्यामगात् । यच्चेन्दोश्चलसिद्धपारदमहाबिन्दोः समायौगतो जातं रूप्यरजोमयं वयमिद ज्योत्स्ना समाचक्ष्महे ॥ १२९॥ एतत्कर्षय कैरवङ्कमुहरे शृङ्गारदीक्षागुरौ दिकान्तामुकुरे | चकोरसुहृदि प्रौढे तुषारत्विषि । कर्पूरे किमपूरि कि मलयजैरलेपि कि पारदैङ्गक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ॥ १३० ॥ उन्मीलन्ति मृणालकोमलरुचो राजीवसर्वंकषामवर्तव्रतवृत्तय कतिपये पीयूषभानो. कग । अप्युन्मैधवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता विश्वेनेव तमोमयो निविग्पामह्याय फेनायते ॥ १३१ ॥ कि नु ध्वान्तपयोधिरेष केतकक्षोदैरिबेन्दो. करैरत्यच्छोऽयमथश्व पङ्कपटलं छायापदेशादभूत् । कि वा तत्करकर्तरीभिरभितो निस्तक्षणादुज्ज्वल व्योमैवेदमितस्ततश्च पतिताश्छायाच्छलेन त्वच. ॥ १३२ ॥ पौलोमीकुचकुम्भरूङ्कमरज स्वाजन्यजन्मोद्धता. शीतागोद्युतय पुरदरपुरीसीम्नामुपस्कुर्वते । एताभिलिहतीभिरन्वतमन्यान्मुद्रुक्षतीभिर्दिश श्रोणीमास्तृणतीभिरन्तरतम व्योमेदभोजायते ॥ १३३ ॥ नैवाय भगवानुद्वच्छति शशी गब्यूतिमात्रीं१पि यामद्यापि तमस्तु कैरवकुल श्रीचाटुकारा. करा. । मग्नन्ति स्थलसीम्नि शैल गहनोत्सङ्गेषु सरुन्धते जीवगाहमिव कचित्कचिदपि च्छायासु गृह्णन्ति च ॥ १३४ ॥ यन्नद्रावितकेतकोदरदलस्रोतश्रियं विश्रती येयं मौक्तिकदामगुम्फनविधौ योग्यच्छवि प्रागभूत् । उत्सेच्य कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरै पातुञ्च शशिन्यमुग्धविभवे सा चन्द्रिका वर्तते ॥ १३५ ॥ मुग्धा दुग्धधिया गवा विदधते कुम्भानधो वल्लवा. कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । कैर्कन्धूफलमुच्चिनोति शवरी मुक्ताफलाकाङ्ख्या सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रम चन्द्रिका ॥ १३६ ॥ इन्दोरस्य त्रियामायुवतिकुचतटीचन्दनस्यासकस्य व्योमश्रीचामरस्य त्रिपुरहरजटावल्लरीकोरकस्य । कंदर्पक्षोणिपालस्फटिकमणिगृहस्यैतदाखण्डलाशानासामुक्ताफलस्य स्थगयति जगती कोऽपि भासा विलास ॥ १३७ ॥ लक्ष्मीक्रीडात्तडागो रतिधवलगृहं दर्पणो दिग्वधूना पुष्प श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूत हरस्य स्मितममरसरित्पुण्डरीकं मृगाङ्को ज्योत्स्नापीयूषवापी जयति सितवृषस्तैरकागोकुलस्य ॥१३८॥

सकलङ्कचन्द्रवर्णनम्
दोषागमनमागङ्ग्य रविरेष तिरोहितः । कथमिन्दु समायाति कुतः शङ्का कलङ्किन. ॥ १३९ ॥ यक्ष विरहिण कंचित्त्रासयामास तेजसा । यक्ष एव विलोमेनं सल्लग्नोऽभूद्विधौ क्षय. ॥ १४० ॥ शिवमालानलोत्थेन धूमयोगेन कालिमा । विधौ शङ्कतररे कि वा इति मन्मानसार्थाय ॥ १४१ ॥ इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि वृताया । स्थानमिव तुच्छमेतन्कलङ्करूपेण परिणमति ॥ १४२ ॥ अस्त गतवति सवितरि पायसपिण्ड सुधाकर प्राची । विरचयदम्बरकुशमुवि चरति कलङ्कस्तदन्तरे |
पादटिप्पण्यः (Footnotes):
१ किरणै
२ 'निर्मली नामरुजलप्रकाशकफलशकले
३ बदरी फलम्
४ विपरीततया
१ चन्द्रमा
२ हृदयम्
३ लोहविशेषात्