सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 319, कुल 516 में से
संदर्भ में पढ़ें| ३०४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
काकः ॥ १४३ ॥ कृष्णवर्णहृदय सितदीप्ति दुर्धियः किल कलङ्किनमाहुः । कृष्णवर्णसमुदीरणमात्रादेव यद्गलति दृश्यकलङ्कः ॥ १४४ ॥ आयताग्रसितरश्मिनिबद्धा लाञ्छनच्छविमभीरसदिग्धम् । चन्द्रकैतवमरुत्पटचक्रं क्रीडयोत्सृजति किं खरबालः ॥ १४५ ॥ शम्बरारिरमृतं विषगर्भ चन्द्रबिम्बकपटात्प्रयुनक्ति । यद्वहिः सितमथासितमन्तः प्रोषितान्दहति दर्शनमात्रात् ॥ १४६ ॥ अयं पुरः पार्वणशर्वरीशः किं दर्पणोऽयं रजनीरमण्या । यतस्तदीयं प्रतिबिम्बमस्मिन्सल्लक्ष्यते लाञ्छनकैकैतवेन ॥ १४७ ॥ प्रदोषमातङ्गममञ्जदेवस्तुङ्गं समारुह्य समागतोऽयम् । सिन्दूरिते तस्य सुधांशुकुम्भे किमङ्कुशो लक्ष्ममिषेण दत्तः ॥ १४८ ॥ मम प्रियां कैरविणीं करेण संतापयामास दिनाधिनाथः । इतीव दुःखैर्विकलः कलावान्यपौ विषं लक्ष्ममिषेण सद्यः ॥१४९॥ कलाधिनाथानयनाय सायं कुमुद्वतीप्रेषित एष भृङ्गः । किमिन्दुनालिङ्ग्य सरागमङ्के कृतः कलङ्कभ्रममातनोति ॥ १५०॥ नेदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः ॥१५१॥ मधुव्रतोत्थः कुपितः स्वकीयमधुप्रपापद्मनिमीलनेन । बिम्बं समाक्रम्य बलात्सुधाशोः कलङ्कमङ्के ध्रुवमातनोति ॥ १५२॥ अत्रान्तरे च कुलटाकुलवर्मपातसंजातपातक इव स्फुटलाञ्छनश्रीः । वृन्दावनान्तरमदीपयदंशुजालैर्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ १५३ ॥ अच्छप्रकाशवति चन्द्रमसि प्रियेऽस्मिन्नाह्लादकारिणि सुधावति पूर्णबिम्बे । धाता विचिन्त्य मनसाखिलदृष्टिपातं हर्तुं चकार किमु कज्जलविन्दुयोगम् ॥ १५४ ॥ दृष्टे जगद्वपुषि कालभुजंगमेन तत्रान्धकारमिषमाविरभूद्विषं यत् । सजातलक्ष्मणि तदिन्दुमणौ निपाय्य ज्योत्स्नामये पयसि तत्क्षिपति स्म धाता ॥ १५५ ॥ दिग्वस्त्रतस्तिमिरचूर्णविशेषपूर्णादुद्वक्त्ररोडमयरक्षकविस्फुलिङ्गात् । कालेन पूर्वगिरिदुर्गजुषा प्रयुक्तो वृत्तोपलो विधुमिषात्पथिकान्निहन्ति ॥ १५६ ॥ मन्थानभूमिधरमूलशिलासहस्रसंघट्टनव्रणकिणैः स्फुरतीन्दुमध्ये । छाया मृगः शशक इत्यतिपामरोक्तिस्तेषां कथंचिदपि तत्र हि न प्रसक्तिः ॥ १५७ ॥ अवाप्य प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्यैवं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥ १५८ ॥ समयशबरो व्योमारण्ये सुधाशनमक्षिकासुविहितसुधाबिम्बक्षौद्रस्फुरत्पटलं प्रति । कलयति कलङ्काख्यं धूमं निपीय पुनश्च तत्किरति मधुरज्योत्स्नाक्षौद्रं महीतलभाजने ॥१५९॥ रुचिभिरभितस्तङ्गोत्कीर्णैरिव त्रसरेणुभिर्मृदुडुभिरपि छेदैः स्थूलैरिव म्रियते नभः । प्रकृतिमलिनो भास्वद्विम्बोन्मृजाकृतकर्मणस्तदयमपि हि त्वद्युः कुन्दे भविष्यति चन्द्रमाः ॥ १६० ॥ तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते । तदन्तमेव निर्दयविधुतुददन्तपदव्रणविवरोपदर्शितमिदं हि विभाति नभः ॥ १६१॥ अङ्कं केऽपि शशङ्गिरे जलनिधेः पङ्कं परे मेनिरे सारङ्गं कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे । इन्दोर्दालितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥ १६२ ॥ रङ्गावड्कङ्गते त्रिविष्टपवनीखेलत्कुरङ्गीगणैः साकं क्रीडनकौतुकेन रभसादुत्प्लुत्य याते दिवम् । तच्छायानुकृतात्ममूर्तिरधुना धर्तुं तमेनं शशी मन्दं व्यायतरश्मिजालकलितः खाय समारोहति ॥ १६३ ॥ काश्मीरेण दिहानमम्बरतलं वामभ्रुवामाननद्वैराज्यं विदधानमिन्दुदृषदा भिन्दानमम्भःसिराः । प्रत्युद्गत्युरुहूतपत्तनवधूवक्तार्धदूर्वाङ्कुरक्षीबोत्सङ्गरुरङ्गमन्दवमिदं बिम्बं समुज्जृम्भते ॥१६४॥
नायकागमनावस्थावर्णनम्
श्रुत्वायान्तं बहिः कान्तमसमासविभूषया । भालेऽञ्जनं दृशोर्लक्षा कपोले तिलकः कृतः ॥ १ ॥ आगच्छन्स्रुचितो येन येनानीतो गृहं प्रति । प्रथमं सखि कः पूज्यः किं काकः किं क्रमेलकः ॥ २ ॥ सज्जितसकलशरीरा क्षणे क्षणे मनसि किमपि गणयन्ती । उत्सवमिव तं दिवसं मनुते मुग्धा प्रियागमने ॥ ३ ॥ अभ्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय । सा पूर्णकुम्भनवनीरज तोरणस्रक्संभारमङ्गलमयत्नकृतं विधत्ते ॥ ४ ॥ आयातो दयितस्त्वेति सहसा न श्रद्दधे भाषितं सद्यः सम्मुखतां गतेऽपि सुमुखी भ्रान्तिं निजां मन्यते । कण्ठाश्लेषभुजेऽपि शून्यहृदया स्वभ्रान्तरं शङ्कते प्रत्यावृत्तिरियं प्रियस्य कियता प्रत्येतु शातोदरी ॥ ५ ॥ द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लासोरुयुगं परस्परममासक्तं समासादितम् । आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने वाचस्तन्न निवारितं प्रसरणं संकोचिते दोर्लते ॥ ६ ॥
नायकागमने नायिकां प्रति सखीवचनम्
नित्यं मनोरथस्यापि सखि दुर्गम एव यः । अभवत्सांप्रतं कामं प्रत्यक्षेण विभाति सः ॥ १ ॥ धैर्यमाधाय लज्जां च व्यपनीय विलासिनम् । सभावयसि किं नैनं दिष्ट्या स्वयमुपस्थितम् ॥ २ ॥ अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोरगलान्त-
१ मध्यभागे २ मन्दर ३ चिह्नम् ४ मूर्खे ५ छायादीनाम्
१ कलङ्कम् २ अब्रुवन् ३ स्फुटित ४ घनम् ५ गाढध्वान्तम् ६ अत्यन्तसन्निहिते