सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 320, कुल 516 में से
संदर्भ में पढ़ेंनायकातिथ्यवर्णनम्, नायकस्य नायिकां प्रति प्रश्नः, प्रणयकलहे नायिकानुनयः | ३०५
विकासि वेल्लनम् । विसारि रोमाञ्चितकञ्चुक तनोस्तनोति योऽसौ सुभगे तवागतः ॥ ३ ॥ कलय वलय धम्मिल्लेऽस्मि- न्निवेशय मल्लिका रचय सिचय मुक्ताहार विभूषय सत्वरम् । मृगमदमषीपत्रालेपं कुरुष्व कपोलयोः सहचरि समायातः प्रातः स ते हृदयप्रियः ॥ ४ ॥
नायकातिथ्यवर्णनम्
आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घ्यता गेहिन्या परितोषबाष्पकलिलामासज्य दृष्टि सुखे । दत्त्वा पीलुशमी- करीरकवलं लोलाञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराञ्च- लग्न रजः ॥ १ ॥ बाला चन्दनमालिकाकिसलयग्रन्थींनध.- कुर्वतः श्रुत्वा वल्लभवाहनस्य रटितं दासेरकस्याङ्गने । आक्र- न्दात्सुहृदो वनाद्रुरुजनं त्रासायसद्भादसूनकान्तं खीर्घपात- कात्खरमसत्कीर्तेः परावर्तयत् ॥२॥ किंचित्कम्पितपाणिकङ्कण- रवैः पृष्ट ननु स्वागतं व्रीडानममुखाम्बुज्या चरणयोर्न्यस्ते च नेत्रोत्पले । द्वारस्थस्तनयुग्ममङ्गलघटे दत्त. प्रवेशो हृदि स्वामिन्किं न तवातिथे. समुचितं सख्यानयानुष्ठितम् ॥ ३ ॥ दीर्घा वन्दनमालिका विरचिता दृष्ट्यैव नेन्दीवरै. पुष्पाणा प्रकर. स्मितेन रचितो नो कुन्दजात्यादिभि । दत्तः खेदमुचा पयोधरभरेणार्घ्यो न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृत मङ्गलम् ॥ ४ ॥
नायकस्य नायिकां प्रति प्रश्नः
कृशा केनासि त्वं प्रकृतिरियमङ्गस्य ननु मे मलाधूम्रा कस्माद्गुरुजनगृहे पाचकतया । खरस्रस्तान्कञ्चिन्जहि नहि नहीत्येवमवदत्खरोत्कम्पं बाला मम हृदि निपत्य प्ररुदिता ॥ १ ॥ कृशासीत्यालीना मलिनवसनासीत्यवनता चिराद्द्द- ष्टासीति स्तनकलशकम्पं प्ररुदिता । परिष्वक्ता यावत्प्रणय- पदवीं कामपि गता ततः सारङ्गाक्ष्या हृदयसदने लीनमभवत् ॥ २ ॥ अङ्गानाममलितानव कुत इदं कस्मादकस्मादये मुग्धे *पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तरव्यापी बाष्पभरस्तया चलि- तया निःश्वस्य मुक्तोऽन्यतः ॥ ३ ॥
प्रणयकलहे नायिकानुनयः
अनिर्देश्योपभोगस्य रूपस्य मृदुन. कथम् । कठिन खलु ते चेतः शिरीषस्येव बन्धनम् ॥ १ ॥ किं त्वा भणामि विच्छेद- दारुणायासकारिणि । कामं कुरु वरारोहे देहि मे परि- रम्भणम् ॥ २ ॥ मयि ते पादपतिते किंकरत्वमुपागते । प्रिये कामातुरः कोपं कान्ते कोऽन्योऽपनेष्यति ॥ ३ ॥ दाक्षिण्यं नाम बिम्बोष्ठि नायकाना कुलव्रतम् । तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ ४ ॥ मुखमिन्दु- र्यथा पाणिः पल्लवेन समः प्रिये । वचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनोऽश्मवत् ॥ ५ ॥ मोढुमलमस्मि नाहं सुन्दरि मन्दागमाद्विलम्बं ते । पञ्चगरास्त्रहत मा सजीवय चारुगात्रि परिरम्भै. ॥ ६ ॥ सकृदिव समर्प्य बाले मम हस्ते मदनघर्मतप्तस्य । अपहरसे कुचकुम्भं तृषितकरा- दमृतकुम्भमिव ॥ ७ ॥ अपराधी नूनमहं प्रसीद रम्भोरु विरम <sup>१</sup>सरम्भात् । सेव्यो जनश्च कुपित. कथं नु दासो निरपराध ॥ ८ ॥ त्वामेयमावद्धाञ्जलि दासजनस्तमिममर्थ- मर्थयते । स्वपिहि मया सह सुरतव्यतिकरखिन्नेव मा मैवम् ॥ ९ ॥ सरले साहसरागं परिहर रम्भोरु मुञ्च सर- म्भम् । विरसं विरहायास वोढु तव चित्तमसह मे ॥ १० ॥ क्षीण. क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते नित्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ११ ॥ अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा । अयमीहितकुसुमाना सपादयिता तवास्ति दासजनः ॥ १२ ॥ मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् । कृतमुखभङ्गापि रस ददासि मम निम्नगा यथाम्भोघेः ॥१३॥ विराममेवानलयाऽतितोषात्तथापि रोषारुणितेव दृष्टिः । निशापतिः श्लिष्यति पश्चिमाशाframe/मये किमाशा विफलीकरोषि ॥ १४ ॥ यदि प्रिये वेत्सि .तव प्रभु मामनन्यसाधारण- दासमद्वयो. । तदद्य वक्षो मम पात्रमस्तु स्वयंग्रहाश्लेषमहो- त्सवानाम् ॥१५॥ उत्तरङ्गय कुरङ्गलोचने लोचने कमलगर्व- मोचने । अस्तु सुन्दरि कलिङ्गनन्दिनीवीचिदम्बरगभीर- मम्बरम् ॥ १६ ॥ शशिमुखि तव भाति मङ्गुरभ्रुवुवजन- मोहकरालकालसर्प. । यदुदितभयभञ्जनाय यूना त्वदधर- सीधुसुधैव सिद्धमन्त्रः ॥ १७ ॥ मयि निवद्धरते. प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतस. । कमपराधलवं मयि पश्यसि त्यजसि मानिनि दासजनं यतः ॥ १८ ॥ विसृज सुन्दरि सगमसाध्वस ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारता त्वमतिमुक्तलताचरितं मयि ॥ १९ ॥ मोहन्मया सुतनु पूर्वमुपेक्षितस्ते यो बाष्पबिन्दुरधर परि- बाधमान. । तं तावदाकुटिलपक्ष्मविलम्बमद्य कान्ते प्रमृज्य विगैतानुशयो भवामि ॥ २० ॥ मुग्धे विधेहि मयि निर्दय- दन्तदशं दोर्वल्लिबन्धनविडम्तनपीडनानि । चण्डि त्वमेव सुदमञ्चय पञ्चबाणचण्डालकाण्डदलनादसवः प्रयान्ति ॥२१॥ मा मा ससाध्वसमपेहि विलोलनेत्रे दासे जने किमिति सभ्रमकातरासि । किं युज्यते बत मया चिरकाङ्क्षितस्य मध्ये वराङ्गि परिरम्भसुखस्य भङ्ग. ॥ २२ ॥ कि शीकरैः
पादटिप्पणी:
१ कृशत्वम्
२ एतन्नामकवृक्ष प्रसिद्ध
३९ सु. र. भा.
१ कोपात्
२ कोपम्
३ नष्टानुताप