सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 321, कुल 516 में से
संदर्भ में पढ़ें| ३०६ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
क्लमविमर्दिभिरार्द्रवातं सचालयामि नलिनीदलतालवृन्तम् ।
अङ्के विधाय चरणावुत पद्मताम्रौ संवाहयामि करभोरु यथासुखं ते ॥ २३ ॥
आताम्रतामपनयामि विलक्ष एष लाक्षाकृता चरणयोस्तव देवि मूर्ध्ना ।
कोपोपरागजनिता तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात् ॥२४॥
इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन ।
अङ्गानि चम्पकदलेः स विधाय वेधाः कान्ते कथं घटितवानुपलेन चेतः ॥ २५ ॥
किं मुक्तमासनमलं मयि सम्भ्रमेण नोत्थातुमित्यमुचितं मम तन्तुमध्ये ।
दृष्टिप्रसादविधिमात्रहतो जनोऽयमत्यादरेण किमिति क्रियते विलक्षः ॥२६॥
शुभ्रालकं सितपराजितचन्द्रलेखं दृग्लीलया कुवलयश्रियमाददानम् ।
एतन्मुखं दिविषदामपि दुर्निरीक्ष्यं तन्वङ्गि मामिव सुधा किमद्य करोषि ॥ २७ ॥
लावण्यकान्तिपरिपूरितदिखण्डेऽस्मिन्स्रेऽधुना इव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥ २८ ॥
किं ते निसर्गरुचिरौ चरणौ कराभ्यां संवाहयामि नयने च तवाञ्जनेन ।
किं रञ्जयामि किमु ते स्तनयोर्विचित्रां पत्रावलीं विरचयाम्यचिरेण तन्वि ॥ २९ ॥
सुतनु जहिहि मौनं मुञ्च वाचो जडत्वं प्रणयिनि मयि कोपं किंकरे किं करोषि ।
अथ यदि तव चित्ते सापराधोऽस्मि बाले निजभुजयुगवल्लीबन्धनं मा विधेहि ॥ ३० ॥
किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि ।
कलयसि कलितोऽहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥ ३१ ॥
यदिदमगणयित्वा दुर्वहं श्रोणिभारं मदभिसरणलोभात्प्रस्थितं पद्मताम्रम् ।
अयमहमिहवान्छाम्यप्रमृज्यैव पांसुं सुमुखि पदतलं ते चूडितुं चुम्बितुं च ॥ ३२ ॥
वितरय कुचयोस्त्वद्दर्शनोपक्रमाणां मदनशररुजानां शान्तये मामकीनाम् ।
सकृदपि परिरम्भं सुभ्रु दोर्मूलकूलकषधनपरिणाहस्र्यातयोरेतयोस्ते ॥ ३३ ॥
चरणकमलदासस्त्वेष सङ्कल्पसङ्गे सुमुखि यदभिधत्से त्वं बलात्कारधूर्तम् ।
प्रसभवधृततैर्घः पीडयाम्यत्मनैव द्विरद इव सरोजं पाणिमापाटलं ते ॥ ३४ ॥
विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं संभ्रमेण ।
स्मितमधुरमुदारं देवि मामल्पोच्चैः प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वाम् ॥ ३५ ॥
परिलुठति ललाटे मञ्जुरा भ्रूलता किं मदनजयपताकाविभ्रमं बिभ्रतीयम् ।
स्फुरति च किमकाण्डे चण्डि बिम्बाधरोऽयं मृदुपवनविधूतोच्छिद्रबन्धूकबन्धुः ॥ ३६ ॥
मुहुर्मुहुर्वेक्षणं सरसमञ्जसा सस्रवः समुच्छलत्तरङ्गिणी प्रचुरनर्ममर्मस्पृहा । मुहुर्निबिड-
नम्रता परिजनव्यपेक्षापि नो कुतः सुमुखि शिक्षिता कथय कोपरीतिस्त्वया ॥ ३७ ॥
तरङ्गय दृशोऽञ्जने रचय वन्ध्यमिन्दीवरं क्षण वपुरपावृणु स्पृशतु काञ्चनं कालिमा ।
स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेततामुदुञ्चय मुखं मनाग्भवतु लज्जितश्चन्द्रमाः ॥ ३८ ॥
उदञ्चय दृगञ्चलं चलतु चञ्चरीकोचयः प्रपञ्चय वचःसुधां श्रवणपालिमालिङ्गतु ।
भ्रुवं नटय नागरि त्यजतु मन्मथः कार्मुकं मुखं च कुरु संमुखं व्रजतु लाघवं चन्द्रमाः ॥ ३९ ॥
पुरोदिगनुरागिणी तदपि नानुरागोदयः कृशोदरि निशा कृशा तदपि ते न मानः कृशः ।
प्रसन्नमिदमम्बरं तदपि न प्रसन्नं मनो ननाद चरणाद्युदस्तदपि मौनमालम्बसे ॥ ४० ॥
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमुच्चैः प्रणमितम् ।
न दृष्टेः शैथिल्यं मिलत इति चेतो दहति मे निगूढान्तःकोपा कठिनहृदये संवृत्तिरियम् ॥ ४१ ॥
गतप्राया रात्रिः कृशतनु शशी सीदत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव ।
प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो कुचप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ॥ ४२ ॥
इदं दूर्वाकाण्डद्युतिमुषि कपोले कतिपयैः श्रमाम्भोभिः कीर्णं सहजबकुलामोदसुभगम् ।
समाकाङ्क्षे ताम्राधरमनुमनुष्व प्रियतमे मनोज्ञं ते पातुं मुखकमलमाघ्रातुमथवा ॥ ४३ ॥
प्रसादे वर्तस्व प्रकटय मुदं सत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः ।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥ ४४ ॥
प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ।
न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे ॥४५॥
कृतेऽप्याज्ञाभङ्गे कथमिव मया ते प्रणतयो धृताः स्तित्वा हस्ते विसृजसि रुषं सुभ्रु बहुशः ।
प्रकोपः कोऽप्यन्यः पुनरयमसीमाद्य गुणितो वृथा यत्र स्निग्धाः प्रियसहचरीणामपि गिरः ॥४६॥
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥४७॥
सुतनु हृदयात्प्रेत्यादेशव्यलीकमपैतु ते किमपि मनसः संमोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवं प्रायाः शुभेषु हि वृत्तयः स्रजमपि शिरस्यन्धः क्षित्वा धुनोत्यहिशङ्कया ॥ ४८ ॥
परिहर कृतातङ्के शङ्कां त्वया सततं घनस्तनजघनाक्रान्ते स्वान्ते परानवकाशिनि ।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तर स्तनभरपरीरम्भारम्भे विधेहि
१ नीलोत्पलेन २ पाषाणेन तत्सदृशकठिनत्वात् ३ अभिलाष
१ अत्यन्तकोपने; २ निराकृतिदुःखम् ३ मालाम् ४ सर्पभ्रान्त्या