भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 322, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 322
प्रणयकलहे नायिकानुनयः, सख्यनुनयः३०७

विधेयताम् ॥ ४९ ॥ व्यथयति वृथा मौनं तन्वि प्रपञ्चय पक्ष्मलं तरुणि मधुरालापैस्ताप विनोदय दृष्टिभिः । सुमुखि विमुखीभाव तावद्विमुञ्च न वञ्चय स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थित ॥ ५० ॥ कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम्। किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ५१ ॥ पादासक्ते सुचिरमिह ते वामता कैव मुग्धे नर्मासक्ते प्रणयिनि जने कोऽपराधोऽपराध। इत्थं तस्या परिजनकथा कोमले कोपवेगे बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ५२ ॥ कोऽयं कोपविधि. प्रयच्छ करुणागर्भं वचो जायता पीयूष- द्रवदीर्घिकापरिमलैरामोदिनी मेदिनी । आस्ता वा स्पृहयालु- लोचनमिदं व्यावर्तयन्ती मुहुर्यस्मै कुप्यसि तस्य सुन्दरि तपोवृन्द्वानि वन्दामहे ॥ ५३ ॥ सूर्येऽस्ताचलमौलिमालिनि गृहे दीपावलीशालिनि प्राणस्वामिनि मानिनि प्रतिपदं सत्कारमातन्वति । यन्मानं न जहासि कोपकलनादालोहित- स्तत्क्षणादिन्दुः सुन्दरि पूर्वपर्वतशिर.सीमानमारोहति ॥५४॥ सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना प्रेयांसः प्रणमन्ति किं तव पुनर्जासो यथा वर्तते । आत्मद्रोहिणि दुर्जनप्रलपितं कर्णे वृथा मा कृथाश्छिन्नस्नेहरसा भवन्ति पुरुषा दु खानुवर्त्या यत. ॥ ५५ ॥ क्षीणांशु शशलाञ्छनः सखि पुनः क्षीणो न मानस्तव ²सैरं पद्मवनं मना- गपि न ते ¹खेर मुखाम्भोरुहम् । पीत श्रोत्रयुगेन ³चैद्रपदस्तं पीत न ते जल्पितं रक्ता ⁴शैकदिगङ्गना रविकरैर्नाद्यापि रक्तासि किम् ॥ ५६ ॥ कि कण्ठे शिथिली- कृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनैष्त्वमि- मुखी नाद्यापि सभाविता । अन्यस्त्रीजनसकथायलघुरहं स्वप्रे त्वया लक्षितो दोष पश्यसि किं प्रिये परिजनोपालम्भयोग्ये मयि ॥ ५७ ॥ चक्षुर्जाड्यमपैतु मानिनि मुखं सदर्शय श्रोत्रयोः पीयूषस्रुतिसौरभ्यमस्तु मधुरा वाचं प्रिये व्याहर । तापः शाम्यतु मे प्रसादशिशिरा दृष्टि शनैः पातय त्यक्त्वा दीर्घमभूतपूर्वमचिराद्दोषं सखीदोषजम् ॥ ५८ ॥ कल्याणाङ्ग- रुचानुरक्तमनसा त्व येन सप्रार्थ्यते यस्यार्थे सुमुखि त्वया पुनरसुत्यागोऽपि सनह्यते । सोऽयं सुन्दरि पञ्चबाणवि- शिखव्यालीढदोरन्तरस्त्वैरोत्पीडितपीवरस्तनतटस्त्वद्दोलतापञ्जरे ॥ ५९ ॥ शीतांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ रम्भागर्भनिभं तयोरुयुगलं बाहू मृणालोपमौ । इत्याह्लादकरा- खिलाङ्गि रभसान्निःशङ्कमालिङ्ग्य मामङ्गानि त्वमनङ्गतताप- विधुराण्येह्येहि निर्वापय ॥ ६० ॥ स्निग्धं यद्यपि वीक्षितं नयनयोस्ताम्रा तथापि द्युतिर्माधुर्यापि सती स्वलत्यनुपदं ते गद्गदा वागियम् । निःश्वासा नियता अपि स्तनभरोत्कम्पेन सलक्षिता. कोपस्ते प्रकटं प्रयत्नविघृतोऽप्येष स्फुटं लक्ष्यते ॥ ६१ ॥ भ्रूभङ्गैः क्रियते ललाटशशिन. कस्मात्कलङ्को मुधा वाताकम्पितबन्धुपुष्पसमता नीतोऽधरः कि स्फुरन् । मध्यश्रा- धिककम्पितस्तनमरेणार्यं पुनः खिद्यते कोप मुञ्च तवैव चित्त- हरणार्यैतन्मया क्रीडितम् ॥ ६२ ॥ भ्रूभङ्गं न करोषि रोदिषि मुहुर्मुर्मुवेक्षणे केवलं नातिप्रस्फुरिताधरानवरतं निःश्वासमेवो- ज्झसि । वाचं नापि ददासि तिष्ठसि पर प्रध्यातनम्रानना कोपस्ते स्तिमितोऽतिपीडयति मा गूढप्रहारोपमः ॥ ६३ ॥ धृष्ट. कि पुरतोऽवरुध्य विहसन्गृह्णामि कण्ठे प्रिया कि वा चाटुशतप्रचण्डरचनाप्रीता करिष्यामि ताम् । कि तिष्ठामि कृताञ्जलिर्निपतितस्तस्या. पुरः पादयोः सत्यं सत्यमहो न वेद्यमनुनयस्तस्याः कथं स्यादिति ॥ ६४ ॥ सुभ्रु त्वं कुपितेत्य- पास्तमशनं त्यक्ताः कथा योषिता दूरादेव मयोज्झिताः सुरभयः स्रग्गन्धधूपादद्य. । रागं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदा- धुना सद्यस्त्वद्विरहे भवन्ति सुभगे सर्वा ममान्धा दिशः ॥ ६५ ॥ व्यावृत्तं खलु सर्वतो विषयतस्त्वय्येव लीनं मनो नित्यं च त्वदधीनमेव नियतं मज्जीवितं मानिनि । मत्वैवं मयि नूनमन्यविषया शङ्का त्वया त्यज्यता किं वान्यत्र निशाकरोऽ- भिरमते मुक्त्वा क्षणं कौमुदीम् ॥ ६६ ॥ यद्रम्यं गुरुगौरवस्य सुहृदो यस्मिँल्लभन्तेऽन्तर यद्दाक्षिण्यवशात्प्रसह्य सहते नर्माप- चारानपि । यल्लज्जा निरुणद्धि यत्र शपथैस्तूप्याद्यते प्रेत्यय- स्तत्कि प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम् ॥ ६७॥ मुग्धे मानिनि कोपरीतिरियती युक्ता न तथ्यं त्विदं कान्ते कि त्वदुपेक्षिता मम तनु. शोभेत नेहाद्भुतम् । अन्यायो भवति च्छलस्य करणे दक्षे जनेऽन्यादृशं काहेति प्रतिरुद्ध- वागकरवं वाक्स्तम्भनं चुम्बनैः ॥ ६८ ॥ मानं मानिनि मुञ्च देवि दयिते मिथ्या वचः श्रूयते कि कोपो निजसेवके यदि वचः सत्यं त्वथा गृह्यते । दोभ्यों बन्धवमाशु दन्तदलनं पीनस्तनास्फालन दोषश्रेन्नम ते कटाक्षविशिखै. शस्त्रैः प्रहार कुरु ॥ ६९ ॥ सुभ्रु त्व नवनीतकल्पहृदया केनापि दुर्मन्त्रिणा मिथ्यैव प्रियकारिणा मधुमुखेनाक्षासु चण्डीकृता । किं त्वेतद्विमृश क्षणं प्रणयिनामेणाक्षि कस्ने हित. कि धात्री- तनया वयं किमु सखी कि वा किमक्षत्सुहृत् ॥ ७० ॥


सख्यनुनयः

मुग्धे मानं न ते कर्तुं युक्तं प्राणाधिके प्रिये । धत्से मत्सी कियत्कालं जीवितं ³जीवैनं विना ॥ १ ॥ कुपितासि यदा तन्वि निधाय करजक्षतम् । बधान भुजपाशाभ्या


१ प्रिया २ विकसितम् ३ अमरशब्द ४ प्राची
१ दृढ २ विश्वास ३ जलम्