भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 323, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 323
३०८सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

कण्ठमस्य दृढं तदा ॥ २ ॥ स्मेरराजीवनयने नयने किं निमीलिते । पश्य निर्जितकंदर्प कंदर्पवशगं प्रियम् ॥ ३ ॥ रमणे चरणप्रान्ते प्रणतिप्रवणेऽधुना । वदामि सखि ते तत्त्वं कदाचिन्नोचिताः क्रुधः ॥ ४ ॥ यदि कुप्यसि नास्ति रतिः कोपेन विनाऽथवा कुतः कामः । कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम् ॥ ५ ॥ अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् । मुखमानतं च सखि ते ज्वलितश्वासान्तरे खरज्वलनः ॥ ६ ॥ अध्वति रजनिरुद्ध्यति तिमिरमिदं चञ्चति मनोभूः । उक्तं न त्यज युक्तं विरचय रक्तं मनस्तस्मिन् ॥ ७ ॥ वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशा श्रीः । धरनिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे ॥ ८ ॥ जहीहि कोपं दयितोऽनुगम्यता पुरोऽनुशेते तव चञ्चलं मनः । इति प्रिये काचिदुपैतुमिच्छती पुरानुनान्ये निपुणः सखीजनः ॥ ९ ॥ समयचकितं विन्यस्यन्ती दृशं तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् । कथमपि रहःप्राप्तामङ्गै रनङ्गरतङ्गिभि सुमुखि सुभगः स त्वा पश्यन्नुपैतु कृतार्थताम् ॥ १० ॥ चपलहृदये किं स्वातन्त्र्यात्स्वयं गृहमागतश्चरणपतितः प्रेमार्द्राङ्गैः प्रियः समुपेक्षितः । तदिदमधुना यावज्जीवं निरस्तसुखोदया रुदितशरणा दुर्जातानां सहस्व रुषा फलम् ॥ ११ ॥ लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरोदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥ १२ ॥ असद्वृत्तो नायं न च खलु गुणैरेष रहितः प्रियो मुक्ताहारस्तव चरणमूले निपतितः । गृहाणैनं मुग्धे भजतु निजकण्ठप्रणयितामुपायो नास्त्यन्यस्तव हृदयसंतापशमने ॥ १३ ॥ अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्वयाकाण्डे मानः किमिति सरले संप्रति कृतः । समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखा स्वहस्तेनाङ्गारास्तदलमधुणारण्यरुदितैः ॥ १४ ॥ अयेऽस्तमयते शशी नहि कृशीभवत्याग्रहो विनश्यति तमो हठं किमणुमर्प्यपास्ते मनः । सखि प्रकटितोऽरुणो न करुणोदयेस्ते मनाक्प्रयाति खलु यामिनी न विमनीकृथा नायकम् ॥ १५ ॥ आयात कुसुमदेश्वरो विजयते सर्वेश्वरो मारुतो भृङ्ग स्फूर्जति भैरवो न निकटं प्राणेश्वरो मुञ्चति । एते सिद्धरसाः प्रसूनविशिखो वैद्योऽनवद्योत्सवो मानव्याधिं कृशोदरि कथं त्वच्चेतसि स्थास्यति ॥ १६ ॥ मानं मानिनि मुञ्च मानसमुवः साम्राज्यमुज्जृम्भता हा हा गच्छति यामिनी न समयो यातः पुनः प्राप्यते । अत्यन्तागति कल्पिताधिकमये कान्ते पदान्तानते कोऽयं कोकिलवाणि केलिसमये कोपस्त्वयालम्बितः ॥ १७ ॥ स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखता यातासि तस्मिन्प्रिये । तन्मुग्धे विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिम हुतवहः क्रीडामुदो यातना ॥ १८ ॥ त्वा चित्तेन चिरं वहन्नयमविश्रान्तो भृशं तापितः कन्दर्पेण च पातुमिच्छति सुधासवादि विम्बाधरम् । अङ्गाङ्गं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलवक्रीते दासजनेऽपि सेवितपदाम्भोजे कुतः संभ्रमः ॥ १९ ॥ मुग्धे किं नखरैः क्षिपस्यविरतं नेत्राम्बु मानोन्नते पश्यैनं चरणाग्रनम्रशिरसं कान्तमाज्ञाञ्जलिम् । अप्रह्ने तव चेतसि प्रणयिनि प्राप्तेऽतिनिर्विण्णतामन्यासक्तमनस्युपेक्षितगता फूत्कृत्य रोदिष्यसि ॥ २० ॥ मुग्धे मुग्धतयैव नेतुमखिलः काल किंमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरीकुरु प्रेयसि । सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंसै हृदि स्थितो हि ननु मे प्राणेश्वर श्रोष्यति ॥ २१ ॥ अङ्गुल्यग्रनखेन बाष्पसलिलं निक्षिप्य निक्षिप्य किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि । यस्यास्ते पिशुनोपदेशवचनैर्मानोऽतिभूमिं गते निर्विण्णोऽनु नयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ २२ ॥ नो तल्पं मजसे न जल्पसि सुधाधारानुकारा गिरो दृक्पातं कुरुषे न वा परिजने कोपप्रकाशच्छलात् । इत्थं केतकगर्भगौरि दयिते कोपस्य संगोपर्ने तत्स्यादेव न चेत्युनः सहचरी कुर्वीत साचिक्षितम् ॥ २३ ॥


कलहान्तरिताप्रलापाख्यानम्

उपचारादुनयनास्ते कितवस्योपेक्षिताः सखीवचसा । अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ॥ १ ॥ प्रयाहि तत्रैव ययानुरज्यसे किमत्र निर्विर्शा तव प्रयोजनम् । न कञ्चुकग्रन् lay ... कञ्चुकग्रन्थिमपाकुरूष्व मे कथं हृदि ग्रन्थिमपाकरिष्यसि ॥ २ ॥ अकेरोः किमु नेत्रशोणिमानं किमकार्षी करपल्लवावरोधम् । कलहं किमधा वृथा रसज्ञे हितमर्थं न विदन्ति दैवदष्टाः ॥ ३ ॥ स्फुरसि बाहुलते किमनर्थकं त्वमपि लोचनभावमहो गता । तमहमगातप्यपराधिनं न परिरन्धुमलं न च वीक्षितुम् ॥ ४ ॥ मानोन्नेतेत्यसहनेत्यतिपण्डितेति मय्येव धिक्कृतिरनेकमुखी सखीनाम् । दाक्षिण्यमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणानुपवर्णयन्ति ॥ ५ ॥ नवनखपदभङ्गं गोपयन्संशुकेन स्थगयसि पुनरोष्ठं पाणिना


पादटिप्पण्यः :

वामभागः : १ नम्र २ उपवासशील ३ सततरोदनेन शोथयुक्तानि नयनानि यासाम् ४ पाषाणहृदये ५ मौक्तिकानां हार, पक्षे,-मुक्तस्त्यक्त आहारोऽशन येन प्रियेणेत्यर्थ ६ हृदयदाहशान्त्यै ७ अनवसरे ८ नाशयति.

दक्षिणभागः : १ क्रोध २ सरलत्वम् ३ कथय ४ उदासीनताम् ५ शय्याम् ६ अमृतधारातुल्या ७ केतकीगर्भश्वच्छेताङ्गि ८ निर्दोष