भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 324, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 324

कलहान्तरिताप्रलापाख्यानम्, नायकानुनयः, नायकयोरुक्तिप्रत्युक्तयः ३०९


[कलहान्तरिताप्रलापाख्यानम्]

दन्तदष्टम्। प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः
केन शक्यो वरीतुम् ॥ ६ ॥ इदं कृष्ण कृष्ण प्रियतम ननु
श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु ।
पुरा येनैव मे चिरमनुसृता चित्तपदवी स एवान्यो जातः
सखि परिचिता कस्य पुरुषा ॥ ७ ॥ कथमपि सखि
क्रीडाकोपाद्गजेति मयोदिते कठिनहृदयस्त्यक्त्वा गत्या
बलाद्गत एव स । इति सरभसध्वस्तप्रेम्णि व्यपेतघृणे
स्पृहा पुनरपि हतव्रीडं चेतं. करोति करोमि किम् ॥ ८ ॥
अद्यारभ्य यदि प्रिये पुनरहं मानस्य चान्यस्य वा गृह्णीया
शठदुर् नयेन मनसा नामापि संक्षोभत । तत्तेनैव विना
शशाङ्ककिरणस्पष्टाट्टहासा निशा एको वा दिवसः पयोध-
मलिनो भूयान्मम प्रावृषि ॥ ९ ॥ मानव्याधिनिपी-
डिताहमधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखी-
जनोऽस्ति चतुरो यो मा बलान्नेष्यति । मानी सोऽपि जनो न
लाघवभयादभ्येति मात स्वयं कालो याति चलं च जीवित-
मिदं क्षुण्णं मनश्चिन्तया ॥ १० ॥ निःश्वासा वदनं
दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैति न दृश्यते
प्रियमुरुं नक्तंदिनं रुद्यते । अङ्गं शोषमुपैति पादपतितः
प्रेयांस्तदोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वय
कारिताः ॥ ११ ॥ तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता
पादयोस्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः
किं करवाणि यान्ति शतशो यत्कञ्चुके संधयः ॥ १२ ॥ नो
चाटु श्रवणं कृतं न च दृशा हारोऽन्तिके वीक्षितः कान्तस्य
प्रियहेतवे निजसखीवाचोऽपि दूरीकृताः । पादान्ते विनिपत्य
तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य हन्त
सहसा कण्ठे कथं नार्पितः ॥ १३ ॥ भर्तुर्यस्य कृते गुरु-
र्लघुरभूद्गोष्ठी कनिष्ठकृता धैर्यं कोषधनं गतं सहचरी नीतिः
कृता दूरत । निर्मुक्ता तृणवत्त्रपा परिचिता स्रोतस्विनी
बिन्दुवत्स क्रोधादवधीरतो हतधिया मातर्बलीयौन्विधिः
॥ १४ ॥ यत्पङ्केरुहलक्ष्म पाणिमलं भाग्यालये यद्धुरुन्यस्तं
वा मम यल्ललाटफलके भाग्याक्षरं वेधसा । तत्सर्वं सखि यो
यथार्थमकरोत्तस्मिन्प्रकोपः कृतो धिङ् मा धिङ् मम जीवितं
धिगतनु धिक्चेष्टितं धिग्वयः ॥ १५ ॥ केकाभि कलयन्तु
४केकिनिवहा सम्भूय कर्णज्वरं विद्युद्भिः सह भीषयन्तु परितः
पाथोधराणा घटाः । पश्चेषुर्वधिरीकरोतु ककुभ सर्वाः शराणां
रवैर्नाहं दग्धदुरन्तजीवनकृते कस्यापि वश्या सखि ॥ १६ ॥


१ त्यक्तरुणे
२ मन
३ एकादशम्स्थान भाग्यस्थान, तस्मिन्
४ मयूरसमूहा


नायकानुनयः

घनघनमपि दृष्ट व्योम वान्तो मरुत्वान् शिखिकुलकलवाचा
श्रोत्रमासीन्निवास । १असुमम न मृताहं त्वद्वियोगेऽपि जाते
तव घनपरिरम्भप्रार्थनाग्रावशेन ॥ १ ॥ मयि मलयममीगे
वर्षतीव स्फुलिङ्गानहह हिमकरो मामग्निना सिञ्चतीव ।
किमिति मकरकेतो किं नु वक्ष्ये कठोरे कथमपि तदहं ते
नाथ नोपेक्षणीया ॥ २ ॥ त्वं तावद्वहुलक्ष्मो नवयुवा कान्त-
सुखी निर्घृणो नो जानासि परव्यथा शठमते नैवासि दुःखी
यत । किं त्वन्याः परिपृच्छ मन्मथशरै पीडाममक्ष्णमिमा
त्राता नो भव येन सज्जनजनैः कापालिको नोच्यसे ॥ ३ ॥
मुक्तो मानपरिग्रहः महू सखीसार्थेन तन्मन्त्रिणा शक्ता
त्वच्चरणप्रसादरहिता नाहं क्षणं प्राणितुम् । पश्य त्व सुकृशं
शरीरकमिदं या यामवस्था गतं सैपाहं तव पादयोर्निपतिता
नाथ प्रसीदाधुना ॥ ४ ॥


नायकयोरुक्तिप्रत्युक्तयः

सार्थे मनोरथशतैस्तव धूर्त्त कान्ता सैव स्थिता मनसि
कृत्रिमभावरम्या । अस्माकमस्ति न कथंचिदिहावकाशस्त-
स्मात्कृतं चरणपातविडम्बनाभिः ॥ १ ॥ तद्वितथमवादीर्य-
न्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूल दधानः । मद्-
धिवसति मागा कामिना मण्डनश्रीयंत्रजति हि सफलत्वं
वल्लभालोकनेन ॥ २ ॥ यदा त्व चन्द्रोऽभू शिरिकरपर्क-
रुचिरस्तदाहं जाता द्राक्षाशधरमणीना प्रतिकृति । इदानी-
मर्कस्त्वं खररुचिसमुत्सारितरसः किरन्ती कोपायीनहमपि
रविग्रावघटिता ॥ ३॥ तवेदं पश्यन्त्याः प्रसरदनुराग बहिरिव
प्रियापादालक्तच्छुरितमरुणद्योतिहृदयम् । ममाद्य प्रख्यात-
प्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जा
जनयति ॥ ४ ॥ कृतककृतकैर्मायाशाठ्यैस्त्वयाप्यतिवर्तितं
निभृतनिभृतै कार्य्यालापैर्मयाप्युपलक्षितम् । भवतु विदितं
नेहा तेऽहं वृथा परिखिद्यते अहमसहना त्वं नि स्नेहः समेन
समं गतम् ॥ ५ ॥ कोपो यत्र भुकुटिरचना निग्रहो यत्र
मौन यत्रान्योन्यस्मितमनुनयो दृष्टिपात प्रसाद । तस्य प्रेम्ण-
स्तदिदमधुना वैगँस पश्य जातं त्वं पादान्ते लुठसि न च मे
मन्युमोक्ष खलायाः ॥ ६ ॥ बाले नाथ विमुञ्च मानिनि
रुष रोषान्मया किं कृत खेदोऽस्मासु न मेऽपराध्यति भवान्
सर्वेऽपराधा मयि । तत्कि रोदिषि गद्गदेन वचसा कस्या-
ग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नासीत्यतो
रुद्यते ॥ ७॥ किं मे वक्त्रमुपेत्य चुम्बसि बलान्निर्लज्ज लज्जा


१ हे प्राणमम
२ अलमित्यर्थे
३ नाशम्
४ क्रोधम्