भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 325, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 325

३१० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

क्व ते वस्त्रान्त शठ मुञ्च मुञ्च शपथैः किं ब्रूते वाग्बन्धने. । खिन्नाहं तव रात्रिजागरवशात्तामेव याहि प्रिया निर्मल्यो- ज्झितपुष्पदामनिकरे का षट्पदाना रति ॥ ८ ॥ साहार वचनं प्रयच्छसि न मे नो वाञ्छितं यच्छसि प्रायः प्रोच्छ्रसिषि द्रुतं हुतवहज्वालासमं रात्रिषु । कण्ठाश्लेषपरिग्रहे शिथि- लता यच्चादराच्चुम्बसे तंत्तं धूर्त हृदि स्थिता प्रियतमा काचिन्ममेवापरा ॥ ९ ॥ सत्यं तथदवोचथा मम महानरा- गस्त्वदीयादिति त्वं प्राप्तोऽसि विभात एव सदनं मां द्रष्टु- कामो यतः । रागं किं च बिभर्षि नाथ हृदये काश्मीर- पङ्कोदितं नेत्रे जागरजं ललाटफलके लाक्षारसापादितम् ॥ १० ॥ गेहन्तौ प्रथमं ममोर्ग्सि तव प्राप्ता विशुद्धिः स्तना सलापास्तव वाक्यभङ्गिमलिना मोग्धेयं परं त्याजिता । धात्री- कण्ठमपास्य बाहुलतिके कण्ठे तवामञ्जिते निर्दाक्षिण्यं करोमि किं नु विगिष्वाप्येष्या ($१$) न पन्थास्तव ॥११॥ अज्ञानेन परा- ङ्मुखां परिभवादाश्लिष्य मा तु स्थिता किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दृशाम् । पश्यैतद्दयिताकुचव्यतिकरेणोन्मृ- द्याङ्गरागारुणं वक्षस्ते मलतैलपङ्कशबलदेणीपदैरङ्कितम्॥१२॥

नायकशिक्षा

अङ्गुलीकिमलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षणम् । मेखलाभरमकृच्च बन्धनं वञ्चयन्प्रणयिनीमपाम् म ॥ १ ॥ अधिरजनि जगाम धाम तस्याः प्रियमतयेति रुषा मनावनद्धः । पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ममा व- सानाम् ॥ २ ॥ सालक्तकेन नवपल्लवकोमलेन पादेन नूपुर- वता मदनालसेन । यस्ताड्यते दयितया प्रणयापगधान्मो ऽङ्गीकृतो भगवता मकरध्वजेन ॥ ३ ॥ मालक्तकं गत- दलाधिककान्तिरम्यं रत्नौघधामनिकरारुणनूपुरं च । क्षिप्तं भृशं कुपितया तरलोत्पलाक्ष्या सौभाग्यचिह्नमित्र मूर्ध्नि पदं विरेजे ॥ ४ ॥ कोपात्किंचिदुपानतोऽपि रमसादाकृष्य केशेष्वल नीत्वा मोहनमन्दिरं दयितया हारेण बद्ध्वा दृढम् । भूयो यास्यति तद्गृहानिति मुहुः कण्ठार्थरुद्धाक्षरं जल्पन्त्याः श्रवणोत्पलेन सुकृती कश्चिद्रहस्ताड्यते ॥ ५ ॥ सा गाढं भवतेक्षितेति निबिडं संयम्य बाह्वोः स्रजा भूयो द्रक्ष्यसि तां शठेति नितरां सम्भर्त्स्य सतर्ज्य च । आलीनां पुर एव निह्नुतिपरः कोपादसन्नूपुरं मानिन्याश्चरणप्रहारविधिना प्रेया- नशोकीकृतः ॥ ६ ॥ पादे मूर्धनि ताम्रतामुपगते कर्णो- त्पले चूर्णिते छिन्ने हारलतागुणे करतले सपाताजातव्रणे । अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुन कोपिता वाञ्छन्ती मुहुरेशणावनायना पर्याकुला रोदिति ॥ ७ ॥ कोपात्कोमल- लोलबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा केलिनिकेतनं


($१$) नवनवकुसुमलोलुपानां श्रमराणाम्, पक्षे,-अनेकस्त्रीसक्तानाम्

दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलत्कल- गिरा ससूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुतिपरः प्रेया- न्रुदत्या हसन् ॥ ८ ॥

नायिकाप्रसादः

भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम् । तदनु वदनं मूर्च्छाच्छेदात्प्रसादि विगजते परिगतमिव प्रारम्भेऽह्नां श्रिया सरसीरुहम् ॥ १ ॥ आविर्भूते शशिनि तमसा मुच्यमानेव रात्रिनैंशास्यार्चिर्हुत- भुज इव छिन्नधूमप्रधूमा । मोहेनान्तर्व्रतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रौवं पतनकलुषा गृह्णतीव प्रसादम् ॥ २ ॥ कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखी कान्तो- दन्तं श्रनमपि पुनः प्रक्षयति यत् । अनिद्रं यच्छ्रान्तः स्वपिति तदहो वेद्यमभिनवा प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलताकम् ॥ ३ ॥ परिम्लाने माने मुखशशिनि तस्यां करधृते मयि व्रीडोपाथे प्रणिपतनमात्रैककरणे । तया पक्ष्म- प्रान्तव्रजपुटनिरुद्धेन सहसा प्रमाडो बाष्पेण स्तनतट- विशीर्णेन कथितम् ॥ ४ ॥ कृष्णस्निग्धकनीनिके विकसतः कर्णान्तदीर्घे दृशावुत्कम्पो हृदयस्य वेपितकुचामोग्रं शनैः शाम्यति । धत्ते शीतरुचो विनुतुदमुखान्मुक्तस्य लक्ष्मी- मद मुग्धाङ्गना विगलद्विमाहातिमिरं वक्त्रं प्रसीदत्क्रमात्॥५॥

परस्परप्रसादः

पदप्रणतमालोक्य कान्तमेकान्तकातरम् । मुञ्चन्ती बाष्पमतानं सुसुखं। तेन चुम्बिता ॥ १ ॥ इह स्फुटं तिष्ठति नाथ कण्टकः शनैः शनैः कर्ष नखायलीलया । इति च्छलात्काचिदलग्नकण्टकं पदं तदुत्सङ्गतले न्यवेशयत् ॥२॥ निपपात ससम्भ्रुतं श्रवणादसित्वश्रवः प्रणदितालिकुलम् । दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥ ३ ॥ उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् । रभ- सोत्थितानुपगतं सहसा परिरभ्य कश्चन वधूमरूरुधत् ॥ ४ ॥ अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुसुद्वहता । मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ॥ ५ ॥ अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता । दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥६॥ कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया । क्षणदृष्टहाटकशिलासदृशस्फुरदूरुमिति वसनं ववसे ॥ ७ ॥ पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति । अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधूर्न्यगदत्


१ तीरपातेन मृदाविला २ नैर्मल्यम् ३ नेत्ररेखे

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह) · पृष्ठ 325, कुल 516 में से · BharatKosha