भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

३०२ सुभाषीतरत्नभाण्डागारम् [ ६ प्रकरणम् ]


कन्दीयति ॥ ९४ ॥ अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहित । उच्चन्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ ९५ ॥ कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्रायितं मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः । मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः श्वेतद्वीपजनायितं जनपदेर्जाते शशाङ्कोदये ॥ ९६ ॥ पीयूषाश्रपणं जगत्त्रयदृगामालानलेखालवो विश्वोन्माथहुताशनस्य ककुभामुद्घाटिनी कुञ्चिका । वीरेषु प्रथमा च पुष्पधनुषो रेखा मृगाक्षीमुखश्रीणां च प्रतिराजबीजमधिकानन्दी नवश्चन्द्रमाः ॥ ९७ ॥ दिग्बालाकरकन्दुकः स्मरवधूस्रीमन्तमुक्तामणिः कामक्षोणिपतेर्विहारवलभीनिर्यूहपारावतः । हृद्योम्नि विकीर्णतारकमणिः श्यामा वणिक्सुध्रुवः स्फारः स्फाटिकसम्पुटः कुमुदिनीकान्तोऽयमुन्मीलति ॥ ९८ ॥ यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं कमलिनीमालिङ्गितु योजयन् । शीतस्पर्शमुपेत्य संप्रति तया रुद्धे मुखाम्भोरुहे हासेनेव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥ ९९ ॥ एतत्कोककुटुम्बिनीजनमनःशल्यं चकोराङ्गनाचञ्चूकोटिकपाटघटितयितोरूद्घाटिनी कुञ्चिका । दृग्ध्वंसापि नवाङ्कुरः स्मरशरोरार्द्राङ्गसा प्रेयसीमामोदामगजाइकुशो विजयते मुग्धं सुधाशोर्वपुः ॥ १०० ॥ क्षीराब्धेर्लहरीषु फेनधवलाश्चन्द्रोपलेषु स्रवत्याथःसीकरिणो विकासिकुमुदक्रोडे रजःपिञ्जराः । उन्मीलन्ति चकोरचञ्चुगहने छिन्प्रप्ररूढाश्रमांकुर्वन्तः प्रियविप्रयुक्तहरिणीगात्रे सुधाशोः कराः ॥ १०१ ॥ ध्वान्तौघे शितिकण्ठकण्ठमहसि प्राप्ते प्रतीचीमुखं प्राचीमम्बति कि च दुग्धलहरीमुग्धे विधोर्धामनि । एतत्कोकचकोरशोकसम्सम्भानप्रसन्नोल्लसद्दृक्पातोर्मिकदम्बचुम्बितमिव त्रैलोक्यमाभासते ॥ १०२ ॥ शीताशुस्फटिकालवालवलयद्रागुल्लसत्कौमुदीवल्ली नूतनपल्लवाञ्चितमिव प्राप्य क्षणं ताम्रताम् । चञ्चन्मत्तचकोरचञ्चुघटनाच्छिन्नाग्रकाण्डस्रुतक्षीरसन्दनिरन्तराप्लुतभिव श्वेतं वियद्भासते ॥ १०३ ॥ यः श्रीखण्डतमालपत्रति दिशः प्राच्या स्मरक्ष्मापतेः पाण्डुच्छत्रति दन्तपत्रति वियल्लक्ष्मीकुरङ्गीदृशः । केलिश्वेतसहस्रपत्रति रतेः कि च क्षपायोषितः क्रीडाराजतसीधुपात्रति शशी सोऽयं जगन्नेत्रति ॥ १०४ ॥ ये पूर्वं यवसूचिसूत्रसुहृदो ये केतकाग्रच्छदच्छायासाम्यभृतो मृणाललतिकालावण्यभाजोऽत्र ये । ये धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः ॥ १०५ ॥ सद्यश्चन्दनपङ्कपिच्छिलमिव व्योमाङ्गणं कल्पयन्प्रयैरावतकान्त-दन्तमुसलच्छेदोपमेयाकृतिः । उच्चैश्छलयन्मळ्छमौक्तिककताप्राल्म्बम्बम्बैः करैर्मुग्धानां स्मरलेखवाचनकलोकेलिप्रदीपः शशी ॥ १०६ ॥ कोकानाकुलयंश्चकोरतरुणीवैकल्यमुन्मूलयन्पद्मोजानि निमीलयन्कुमुदिनीरुन्मीलयन्सर्वतः । पान्थानाकुलतां नयन्कुलवधूचेतः समुल्लासयन्नस्तं याति दिवापतिः समुदयं यात्येष दोषोपतिः ॥ १०७ ॥ स्वर्गामामृतपानचारुचषक कि कामदेवाङ्गनाक्रीडाकन्दुक एष किं सुरनदीडिण्डीरपिण्डः किमु । किं छत्रं स्मरभूपतेः किमु यशः पुञ्जं पुरस्तादिदं चेतः सशयकारकं समुदितं शीतद्युतेर्मण्डलम् ॥ १०८ ॥ पद्मिन्या दयितेऽनुधावति रुषा स्वं पद्मिनीद्रोहिणं भ्रान्त्वा भीतमना दिगन्तमखिलं चन्द्रो जगाहेऽम्बुधिम् । गाढे तत्र च तत्र विह्वलममुं कर्षन्ति तारा पति सोऽयं तच्छलवारिकुङ्कुमरसैः सिक्तोऽरुणो दृश्यते ॥ १०९ ॥ मानावभ्युदिते तथा मयि गते किं स्यान्मम प्रेयसी हा हेल्यस्तमितः शशी रसविशादीन्दीवरिण्याः स्मरन् । सोऽयं सम्प्रति नीलिमाङ्किततनूत्कस्माद्दारीदृश्यते ये वै यत्किल सस्मरन्ति चरमे तद्रूपमेष्यन्ति ते ॥ ११० ॥ आदायामृतपूर्णमर्कचषक शोणारविन्दप्रभे पाणाविन्द्रवधूर्विलोक्य च पुनस्तत्स्निग्धश्यामिकाम् । चिक्षेपोपरि कोपतः परिजनैऽसशोध्य दत्ता सुधेत्येनं तं शशिनं प्रशसति जनस्तत्पाणिमुक्ताञ्जनम् ॥१११॥ आनीला करपल्लवैरपनयञ्छन्ना तमःकञ्चुकीमाशा संप्रति वासवीमनुसरन्नक्षीष्णरागः शशी । अस्याश्च स्तनसङ्गिनीमिव वहन्नङ्गेन कस्तूरिकामारिङ्गत्ययमादरेण रजनीमर्धोन्मिषत्तारकाम् ॥ ११२ ॥ यत्पीयूषमयूखमालिनि तमःस्तोमावलीढायुषा नेत्राणामपमृत्युहारिणि पुरः सूर्येऽद्य एवातिथौ । अम्भोजानि पराञ्चि तन्निजमघं दत्त्वैव तेभ्यस्ततो गोराङ्गीवदनोपमासुकृतमादत्ते परित्यज्यनाम् ॥ ११३ ॥ यं प्राक्प्रत्यगवागुदश्वि ककुभा नामानि सबिभ्रतं ज्योत्स्नाजालझलञ्झलाभिरभितो लुम्पन्तमन्धं तमः । प्राचीनादचलादितस्त्रिजगतामालोकबीजाङ्कहिरिर्णीयान्तं हरिणाङ्कमङ्कुरमिव द्रष्टु जनो जीवति ॥ ११४ ॥ स श्रीकण्ठकिरीटकूट्टिमपरिष्कारप्रदीपाङ्कुरो देवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिम्भरिः । सस्कर्ता निजकान्तिमौक्तिकमणिश्रेणीभिरिणीदृशा गीर्वाणाधिपतेः सुधारसवतीपौरोगवः प्रोदगात् ॥ ११५॥ प्राचीनाचलचुम्बिचन्द्रममणिर्निर्व्यूढपाथं निजैर्निर्याणैरुडुभिर्निजेन वपुषा दत्तार्धलाजाञ्जलि । अन्त प्रौढकलङ्कतुच्छमभितः सान्द्र परिस्तीर्यते बिम्बाद्कुरभन्मनेभिकतम सदोहमन्दोर्मह ॥ ११६ ॥ सायनाभ्युदेति वासरमणिश्चन्द्रो नु चण्डद्युतिर्दावाग्निः कथमम्बरे किमशनिः स्वच्छान्तरीक्षे कुतः । हन्तेदं निरणायि पान्थरमणीप्राणानिलाशाशया धावद्धोरविभावरीविषधरीभोगस्य भीमो मणिः ॥ ११७॥ प्राणायमोपदेष्टा सरसिरुहमुने-

चन्द्रोदयवर्णनम्३०३
[वाम स्तम्भ][दक्षिण स्तम्भ]
यौवनोन्मादलीलागोष्ठीना पीठमर्द्दस्त्रिभुवनवनितानेत्रयो प्रातराश । कामायुष्टोममज्वा शमितकुमुदिनीमानमुद्रानुराग शृङ्गाराद्वैतवादी प्रभवति भगवानेषु पीयूषभानु ॥ ११८ ॥ कल्लोलक्षिप्तसप्तच्छ्रिपुरहरशिर ख स्रवन्तीमृणालं कर्पूरक्षोदजालं कुसुमशरवधुसीधुभृङ्गारनालम् । एतद्दुग्धाब्धिवन्धोर्गगनकमलिनीपत्रपानीयविन्दोरन्तस्तोष न केषा किसल यति जगन्मण्डन खण्डमिन्दो ॥ ११९ ॥ सरम्भोद्रिक्त नक्तसमयदशमुखोद्दण्डदोर्दण्डहेलाकैलास सप्तलोकीजयसुदितमनोजन्यवादित्रशङ्ख । लोलाक्षीगण्डपालीलवणमजलवेरुद्गत. फेनपिण्ड पश्य व्योमावकाशं विशति विरहिणा दत्तशङ्क. शशाङ्क ॥ १२० ॥ कैतन्मार्त्तण्डविम्बं मरसि सरसिजश्रेणिहास्यं क यात कैते याता रथाङ्गा. सपदि गतहियः क प्रविष्टा मरालाः । सध्यरागारुणाङ्ग· कुपित इव पति. प्रोद्यतोऽयं हिमाशुर्मन्ये हर्षादिवेय हसति कुमुदिनी जाग्रतीवालिनादैः ॥ १२१ ॥ प्राचीभागे सरागे धरणिबिरहिणीक्लान्तवक्त्रे समुद्रे निद्रालौ नीरजातौ विकसति कुमुदे निर्विकारे चकोरे । आकाशे सावकाशे तमसि शममिते नागलोके मशोके कन्दर्पे मन्ददर्पे वितरति किरणान् शर्वरीसार्वभौमः ॥ १२२ ॥ <br><br>चन्द्रकलावर्णनम्<br>अकलङ्कचन्द्रकलया कलिता सा भाति वारुणी तरुणी । भालस्थलीव शभोः सध्याध्यानोपविष्टस्य ॥ १२३ ॥ <br><br>ज्योत्स्नावर्णनम्<br>दलविततिभृता तले तरूणामिह तिलतण्डुलितं मृगाङ्करोचि । मदचपलचकोरचञ्चुकोटीकवलनतुच्छमिवान्तराऽन्तराभूत् ॥ १२४ ॥ आलोक्य चन्द्रमसमभ्युदितं समन्तादुद्वेलदूर्भिविचुलत्कलशाम्बुराशेः । विष्वग्विसारिपरमाणुपरस्परैव ज्योत्स्नात्मना जगदिद धवलीकरोति ॥ १२५ ॥ सितकिरणकपोलीमालिमालोक्यन्ती तिमिरविरहतापव्याकुला व्योमलक्ष्मीम् । रजनिरमलताराशीकरै. सिक्तमस्याः परिमलयति गात्रं चन्द्रिकाचन्दनेन ॥ १२६ ॥ *अपि पिवत चकोरा. कृत्वसुम्नाभ्य कण्ठ क्रमकवलनचञ्च्वचञ्चवश्चन्द्रिकाम्भ । विरहविधुरिताना जीवितत्राणहेतोर्भवति हरिणलक्ष्मा येन तेजोदरिद्र. ॥ १२७ ॥ सह कुमुदकदम्बै. काममुल्लासयन्त. सह घनतिमिरौद्यैर्धैर्यमुत्सारयन्त. । सह सरसिजखण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतागोरशवः सचिरन्ति ॥ १२८ ॥ भास्वत्कर्कशशाणचक्रकषणैराकाशकौलायसाच्चूर्णं निबिड निपत्य तम इत्याख्या जगन्त्यामगात् । यच्चेन्दोश्चलसिद्धपारदमहाबिन्दोः समायौगतो जातं रूप्यरजोमयं वयमिद ज्योत्स्ना समाचक्ष्महे ॥ १२९॥ एतत्कर्षय कैरवङ्कमुहरे शृङ्गारदीक्षागुरौ दिकान्तामुकुरेचकोरसुहृदि प्रौढे तुषारत्विषि । कर्पूरे किमपूरि कि मलयजैरलेपि कि पारदैङ्गक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ॥ १३० ॥ उन्मीलन्ति मृणालकोमलरुचो राजीवसर्वंकषामवर्तव्रतवृत्तय कतिपये पीयूषभानो. कग । अप्युन्मैधवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता विश्वेनेव तमोमयो निविग्पामह्याय फेनायते ॥ १३१ ॥ कि नु ध्वान्तपयोधिरेष केतकक्षोदैरिबेन्दो. करैरत्यच्छोऽयमथश्व पङ्कपटलं छायापदेशादभूत् । कि वा तत्करकर्तरीभिरभितो निस्तक्षणादुज्ज्वल व्योमैवेदमितस्ततश्च पतिताश्छायाच्छलेन त्वच. ॥ १३२ ॥ पौलोमीकुचकुम्भरूङ्कमरज स्वाजन्यजन्मोद्धता. शीतागोद्युतय पुरदरपुरीसीम्नामुपस्कुर्वते । एताभिलिहतीभिरन्वतमन्यान्मुद्रुक्षतीभिर्दिश श्रोणीमास्तृणतीभिरन्तरतम व्योमेदभोजायते ॥ १३३ ॥ नैवाय भगवानुद्वच्छति शशी गब्यूतिमात्रीं<sup></sup>पि यामद्यापि तमस्तु कैरवकुल श्रीचाटुकारा. करा. । मग्नन्ति स्थलसीम्नि शैल गहनोत्सङ्गेषु सरुन्धते जीवगाहमिव कचित्कचिदपि च्छायासु गृह्णन्ति च ॥ १३४ ॥ यन्नद्रावितकेतकोदरदलस्रोतश्रियं विश्रती येयं मौक्तिकदामगुम्फनविधौ योग्यच्छवि प्रागभूत् । उत्सेच्य कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरै पातुञ्च शशिन्यमुग्धविभवे सा चन्द्रिका वर्तते ॥ १३५ ॥ मुग्धा दुग्धधिया गवा विदधते कुम्भानधो वल्लवा. कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । कैर्कन्धूफलमुच्चिनोति शवरी मुक्ताफलाकाङ्ख्या सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रम चन्द्रिका ॥ १३६ ॥ इन्दोरस्य त्रियामायुवतिकुचतटीचन्दनस्यासकस्य व्योमश्रीचामरस्य त्रिपुरहरजटावल्लरीकोरकस्य । कंदर्पक्षोणिपालस्फटिकमणिगृहस्यैतदाखण्डलाशानासामुक्ताफलस्य स्थगयति जगती कोऽपि भासा विलास ॥ १३७ ॥ लक्ष्मीक्रीडात्तडागो रतिधवलगृहं दर्पणो दिग्वधूना पुष्प श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूत हरस्य स्मितममरसरित्पुण्डरीकं मृगाङ्को ज्योत्स्नापीयूषवापी जयति सितवृषस्तैरकागोकुलस्य ॥१३८॥ <br><br>सकलङ्कचन्द्रवर्णनम्<br>दोषागमनमागङ्ग्य रविरेष तिरोहितः । कथमिन्दु समायाति कुतः शङ्का कलङ्किन. ॥ १३९ ॥ यक्ष विरहिण कंचित्त्रासयामास तेजसा । यक्ष एव विलोमेनं सल्लग्नोऽभूद्विधौ क्षय. ॥ १४० ॥ शिवमालानलोत्थेन धूमयोगेन कालिमा । विधौ शङ्कतररे कि वा इति मन्मानसार्थाय ॥ १४१ ॥ इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि वृताया । स्थानमिव तुच्छमेतन्कलङ्करूपेण परिणमति ॥ १४२ ॥ अस्त गतवति सवितरि पायसपिण्ड सुधाकर प्राची । विरचयदम्बरकुशमुवि चरति कलङ्कस्तदन्तरे

पादटिप्पण्यः (Footnotes): १ किरणै
२ 'निर्मली नामरुजलप्रकाशकफलशकले
३ बदरी फलम्
४ विपरीततया
१ चन्द्रमा
२ हृदयम्
३ लोहविशेषात्

३०४सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

काकः ॥ १४३ ॥ कृष्णवर्णहृदय सितदीप्ति दुर्धियः किल कलङ्किनमाहुः । कृष्णवर्णसमुदीरणमात्रादेव यद्गलति दृश्यकलङ्कः ॥ १४४ ॥ आयताग्रसितरश्मिनिबद्धा लाञ्छनच्छविमभीरसदिग्धम् । चन्द्रकैतवमरुत्पटचक्रं क्रीडयोत्सृजति किं खरबालः ॥ १४५ ॥ शम्बरारिरमृतं विषगर्भ चन्द्रबिम्बकपटात्प्रयुनक्ति । यद्वहिः सितमथासितमन्तः प्रोषितान्दहति दर्शनमात्रात् ॥ १४६ ॥ अयं पुरः पार्वणशर्वरीशः किं दर्पणोऽयं रजनीरमण्या । यतस्तदीयं प्रतिबिम्बमस्मिन्सल्लक्ष्यते लाञ्छनकैकैतवेन ॥ १४७ ॥ प्रदोषमातङ्गममञ्जदेवस्तुङ्गं समारुह्य समागतोऽयम् । सिन्दूरिते तस्य सुधांशुकुम्भे किमङ्कुशो लक्ष्ममिषेण दत्तः ॥ १४८ ॥ मम प्रियां कैरविणीं करेण संतापयामास दिनाधिनाथः । इतीव दुःखैर्विकलः कलावान्यपौ विषं लक्ष्ममिषेण सद्यः ॥१४९॥ कलाधिनाथानयनाय सायं कुमुद्वतीप्रेषित एष भृङ्गः । किमिन्दुनालिङ्ग्य सरागमङ्के कृतः कलङ्कभ्रममातनोति ॥ १५०॥ नेदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः ॥१५१॥ मधुव्रतोत्थः कुपितः स्वकीयमधुप्रपापद्मनिमीलनेन । बिम्बं समाक्रम्य बलात्सुधाशोः कलङ्कमङ्के ध्रुवमातनोति ॥ १५२॥ अत्रान्तरे च कुलटाकुलवर्मपातसंजातपातक इव स्फुटलाञ्छनश्रीः । वृन्दावनान्तरमदीपयदंशुजालैर्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ १५३ ॥ अच्छप्रकाशवति चन्द्रमसि प्रियेऽस्मिन्नाह्लादकारिणि सुधावति पूर्णबिम्बे । धाता विचिन्त्य मनसाखिलदृष्टिपातं हर्तुं चकार किमु कज्जलविन्दुयोगम् ॥ १५४ ॥ दृष्टे जगद्वपुषि कालभुजंगमेन तत्रान्धकारमिषमाविरभूद्विषं यत् । सजातलक्ष्मणि तदिन्दुमणौ निपाय्य ज्योत्स्नामये पयसि तत्क्षिपति स्म धाता ॥ १५५ ॥ दिग्वस्त्रतस्तिमिरचूर्णविशेषपूर्णादुद्वक्त्ररोडमयरक्षकविस्फुलिङ्गात् । कालेन पूर्वगिरिदुर्गजुषा प्रयुक्तो वृत्तोपलो विधुमिषात्पथिकान्निहन्ति ॥ १५६ ॥ मन्थानभूमिधरमूलशिलासहस्रसंघट्टनव्रणकिणैः स्फुरतीन्दुमध्ये । छाया मृगः शशक इत्यतिपामरोक्तिस्तेषां कथंचिदपि तत्र हि न प्रसक्तिः ॥ १५७ ॥ अवाप्य प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्यैवं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥ १५८ ॥ समयशबरो व्योमारण्ये सुधाशनमक्षिकासुविहितसुधाबिम्बक्षौद्रस्फुरत्पटलं प्रति । कलयति कलङ्काख्यं धूमं निपीय पुनश्च तत्किरति मधुरज्योत्स्नाक्षौद्रं महीतलभाजने ॥१५९॥ रुचिभिरभितस्तङ्गोत्कीर्णैरिव त्रसरेणुभिर्मृदुडुभिरपि छेदैः स्थूलैरिव म्रियते नभः । प्रकृतिमलिनो भास्वद्विम्बोन्मृजाकृतकर्मणस्तदयमपि हि त्वद्युः कुन्दे भविष्यति चन्द्रमाः ॥ १६० ॥ तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते । तदन्तमेव निर्दयविधुतुददन्तपदव्रणविवरोपदर्शितमिदं हि विभाति नभः ॥ १६१॥ अङ्कं केऽपि शशङ्गिरे जलनिधेः पङ्कं परे मेनिरे सारङ्गं कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे । इन्दोर्दालितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥ १६२ ॥ रङ्गावड्कङ्गते त्रिविष्टपवनीखेलत्कुरङ्गीगणैः साकं क्रीडनकौतुकेन रभसादुत्प्लुत्य याते दिवम् । तच्छायानुकृतात्ममूर्तिरधुना धर्तुं तमेनं शशी मन्दं व्यायतरश्मिजालकलितः खाय समारोहति ॥ १६३ ॥ काश्मीरेण दिहानमम्बरतलं वामभ्रुवामाननद्वैराज्यं विदधानमिन्दुदृषदा भिन्दानमम्भःसिराः । प्रत्युद्गत्युरुहूतपत्तनवधूवक्तार्धदूर्वाङ्कुरक्षीबोत्सङ्गरुरङ्गमन्दवमिदं बिम्बं समुज्जृम्भते ॥१६४॥

नायकागमनावस्थावर्णनम्

श्रुत्वायान्तं बहिः कान्तमसमासविभूषया । भालेऽञ्जनं दृशोर्लक्षा कपोले तिलकः कृतः ॥ १ ॥ आगच्छन्स्रुचितो येन येनानीतो गृहं प्रति । प्रथमं सखि कः पूज्यः किं काकः किं क्रमेलकः ॥ २ ॥ सज्जितसकलशरीरा क्षणे क्षणे मनसि किमपि गणयन्ती । उत्सवमिव तं दिवसं मनुते मुग्धा प्रियागमने ॥ ३ ॥ अभ्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय । सा पूर्णकुम्भनवनीरज तोरणस्रक्संभारमङ्गलमयत्नकृतं विधत्ते ॥ ४ ॥ आयातो दयितस्त्वेति सहसा न श्रद्दधे भाषितं सद्यः सम्मुखतां गतेऽपि सुमुखी भ्रान्तिं निजां मन्यते । कण्ठाश्लेषभुजेऽपि शून्यहृदया स्वभ्रान्तरं शङ्कते प्रत्यावृत्तिरियं प्रियस्य कियता प्रत्येतु शातोदरी ॥ ५ ॥ द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लासोरुयुगं परस्परममासक्तं समासादितम् । आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने वाचस्तन्न निवारितं प्रसरणं संकोचिते दोर्लते ॥ ६ ॥

नायकागमने नायिकां प्रति सखीवचनम्

नित्यं मनोरथस्यापि सखि दुर्गम एव यः । अभवत्सांप्रतं कामं प्रत्यक्षेण विभाति सः ॥ १ ॥ धैर्यमाधाय लज्जां च व्यपनीय विलासिनम् । सभावयसि किं नैनं दिष्ट्या स्वयमुपस्थितम् ॥ २ ॥ अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोरगलान्त-


१ मध्यभागे २ मन्दर ३ चिह्नम् ४ मूर्खे ५ छायादीनाम्
१ कलङ्कम् २ अब्रुवन् ३ स्फुटित ४ घनम् ५ गाढध्वान्तम् ६ अत्यन्तसन्निहिते

नायकातिथ्यवर्णनम्, नायकस्य नायिकां प्रति प्रश्नः, प्रणयकलहे नायिकानुनयः | ३०५

विकासि वेल्लनम् । विसारि रोमाञ्चितकञ्चुक तनोस्तनोति योऽसौ सुभगे तवागतः ॥ ३ ॥ कलय वलय धम्मिल्लेऽस्मि- न्निवेशय मल्लिका रचय सिचय मुक्ताहार विभूषय सत्वरम् । मृगमदमषीपत्रालेपं कुरुष्व कपोलयोः सहचरि समायातः प्रातः स ते हृदयप्रियः ॥ ४ ॥

नायकातिथ्यवर्णनम्

आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घ्यता गेहिन्या परितोषबाष्पकलिलामासज्य दृष्टि सुखे । दत्त्वा पीलुशमी- करीरकवलं लोलाञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराञ्च- लग्न रजः ॥ १ ॥ बाला चन्दनमालिकाकिसलयग्रन्थींनध.- कुर्वतः श्रुत्वा वल्लभवाहनस्य रटितं दासेरकस्याङ्गने । आक्र- न्दात्सुहृदो वनाद्रुरुजनं त्रासायसद्भादसूनकान्तं खीर्घपात- कात्खरमसत्कीर्तेः परावर्तयत् ॥२॥ किंचित्कम्पितपाणिकङ्कण- रवैः पृष्ट ननु स्वागतं व्रीडानममुखाम्बुज्या चरणयोर्न्यस्ते च नेत्रोत्पले । द्वारस्थस्तनयुग्ममङ्गलघटे दत्त. प्रवेशो हृदि स्वामिन्किं न तवातिथे. समुचितं सख्यानयानुष्ठितम् ॥ ३ ॥ दीर्घा वन्दनमालिका विरचिता दृष्ट्यैव नेन्दीवरै. पुष्पाणा प्रकर. स्मितेन रचितो नो कुन्दजात्यादिभि । दत्तः खेदमुचा पयोधरभरेणार्घ्यो न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृत मङ्गलम् ॥ ४ ॥

नायकस्य नायिकां प्रति प्रश्नः

कृशा केनासि त्वं प्रकृतिरियमङ्गस्य ननु मे मलाधूम्रा कस्माद्गुरुजनगृहे पाचकतया । खरस्रस्तान्कञ्चिन्जहि नहि नहीत्येवमवदत्खरोत्कम्पं बाला मम हृदि निपत्य प्ररुदिता ॥ १ ॥ कृशासीत्यालीना मलिनवसनासीत्यवनता चिराद्द्द- ष्टासीति स्तनकलशकम्पं प्ररुदिता । परिष्वक्ता यावत्प्रणय- पदवीं कामपि गता ततः सारङ्गाक्ष्या हृदयसदने लीनमभवत् ॥ २ ॥ अङ्गानाममलितानव कुत इदं कस्मादकस्मादये मुग्धे *पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तरव्यापी बाष्पभरस्तया चलि- तया निःश्वस्य मुक्तोऽन्यतः ॥ ३ ॥

प्रणयकलहे नायिकानुनयः

अनिर्देश्योपभोगस्य रूपस्य मृदुन. कथम् । कठिन खलु ते चेतः शिरीषस्येव बन्धनम् ॥ १ ॥ किं त्वा भणामि विच्छेद- दारुणायासकारिणि । कामं कुरु वरारोहे देहि मे परि- रम्भणम् ॥ २ ॥ मयि ते पादपतिते किंकरत्वमुपागते । प्रिये कामातुरः कोपं कान्ते कोऽन्योऽपनेष्यति ॥ ३ ॥ दाक्षिण्यं नाम बिम्बोष्ठि नायकाना कुलव्रतम् । तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ ४ ॥ मुखमिन्दु- र्यथा पाणिः पल्लवेन समः प्रिये । वचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनोऽश्मवत् ॥ ५ ॥ मोढुमलमस्मि नाहं सुन्दरि मन्दागमाद्विलम्बं ते । पञ्चगरास्त्रहत मा सजीवय चारुगात्रि परिरम्भै. ॥ ६ ॥ सकृदिव समर्प्य बाले मम हस्ते मदनघर्मतप्तस्य । अपहरसे कुचकुम्भं तृषितकरा- दमृतकुम्भमिव ॥ ७ ॥ अपराधी नूनमहं प्रसीद रम्भोरु विरम <sup></sup>सरम्भात् । सेव्यो जनश्च कुपित. कथं नु दासो निरपराध ॥ ८ ॥ त्वामेयमावद्धाञ्जलि दासजनस्तमिममर्थ- मर्थयते । स्वपिहि मया सह सुरतव्यतिकरखिन्नेव मा मैवम् ॥ ९ ॥ सरले साहसरागं परिहर रम्भोरु मुञ्च सर- म्भम् । विरसं विरहायास वोढु तव चित्तमसह मे ॥ १० ॥ क्षीण. क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते नित्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ११ ॥ अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा । अयमीहितकुसुमाना सपादयिता तवास्ति दासजनः ॥ १२ ॥ मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् । कृतमुखभङ्गापि रस ददासि मम निम्नगा यथाम्भोघेः ॥१३॥ विराममेवानलयाऽतितोषात्तथापि रोषारुणितेव दृष्टिः । निशापतिः श्लिष्यति पश्चिमाशाframe/मये किमाशा विफलीकरोषि ॥ १४ ॥ यदि प्रिये वेत्सि .तव प्रभु मामनन्यसाधारण- दासमद्वयो. । तदद्य वक्षो मम पात्रमस्तु स्वयंग्रहाश्लेषमहो- त्सवानाम् ॥१५॥ उत्तरङ्गय कुरङ्गलोचने लोचने कमलगर्व- मोचने । अस्तु सुन्दरि कलिङ्गनन्दिनीवीचिदम्बरगभीर- मम्बरम् ॥ १६ ॥ शशिमुखि तव भाति मङ्गुरभ्रुवुवजन- मोहकरालकालसर्प. । यदुदितभयभञ्जनाय यूना त्वदधर- सीधुसुधैव सिद्धमन्त्रः ॥ १७ ॥ मयि निवद्धरते. प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतस. । कमपराधलवं मयि पश्यसि त्यजसि मानिनि दासजनं यतः ॥ १८ ॥ विसृज सुन्दरि सगमसाध्वस ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारता त्वमतिमुक्तलताचरितं मयि ॥ १९ ॥ मोहन्मया सुतनु पूर्वमुपेक्षितस्ते यो बाष्पबिन्दुरधर परि- बाधमान. । तं तावदाकुटिलपक्ष्मविलम्बमद्य कान्ते प्रमृज्य विगैतानुशयो भवामि ॥ २० ॥ मुग्धे विधेहि मयि निर्दय- दन्तदशं दोर्वल्लिबन्धनविडम्तनपीडनानि । चण्डि त्वमेव सुदमञ्चय पञ्चबाणचण्डालकाण्डदलनादसवः प्रयान्ति ॥२१॥ मा मा ससाध्वसमपेहि विलोलनेत्रे दासे जने किमिति सभ्रमकातरासि । किं युज्यते बत मया चिरकाङ्क्षितस्य मध्ये वराङ्गि परिरम्भसुखस्य भङ्ग. ॥ २२ ॥ कि शीकरैः


पादटिप्पणी: १ कृशत्वम्
२ एतन्नामकवृक्ष प्रसिद्ध
३९ सु. र. भा.
१ कोपात्
२ कोपम्
३ नष्टानुताप

अङ्के विधाय चरणावुत पद्मताम्रौ संवाहयामि करभोरु यथासुखं ते ॥ २३ ॥

३०६सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

क्लमविमर्दिभिरार्द्रवातं सचालयामि नलिनीदलतालवृन्तम् ।
अङ्के विधाय चरणावुत पद्मताम्रौ संवाहयामि करभोरु यथासुखं ते ॥ २३ ॥

आताम्रतामपनयामि विलक्ष एष लाक्षाकृता चरणयोस्तव देवि मूर्ध्ना ।
कोपोपरागजनिता तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात् ॥२४॥

इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन ।
अङ्गानि चम्पकदलेः स विधाय वेधाः कान्ते कथं घटितवानुपलेन चेतः ॥ २५ ॥

किं मुक्तमासनमलं मयि सम्भ्रमेण नोत्थातुमित्यमुचितं मम तन्तुमध्ये ।
दृष्टिप्रसादविधिमात्रहतो जनोऽयमत्यादरेण किमिति क्रियते विलक्षः ॥२६॥

शुभ्रालकं सितपराजितचन्द्रलेखं दृग्लीलया कुवलयश्रियमाददानम् ।
एतन्मुखं दिविषदामपि दुर्निरीक्ष्यं तन्वङ्गि मामिव सुधा किमद्य करोषि ॥ २७ ॥

लावण्यकान्तिपरिपूरितदिखण्डेऽस्मिन्स्रेऽधुना इव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥ २८ ॥

किं ते निसर्गरुचिरौ चरणौ कराभ्यां संवाहयामि नयने च तवाञ्जनेन ।
किं रञ्जयामि किमु ते स्तनयोर्विचित्रां पत्रावलीं विरचयाम्यचिरेण तन्वि ॥ २९ ॥

सुतनु जहिहि मौनं मुञ्च वाचो जडत्वं प्रणयिनि मयि कोपं किंकरे किं करोषि ।
अथ यदि तव चित्ते सापराधोऽस्मि बाले निजभुजयुगवल्लीबन्धनं मा विधेहि ॥ ३० ॥

किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि ।
कलयसि कलितोऽहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥ ३१ ॥

यदिदमगणयित्वा दुर्वहं श्रोणिभारं मदभिसरणलोभात्प्रस्थितं पद्मताम्रम् ।
अयमहमिहवान्छाम्यप्रमृज्यैव पांसुं सुमुखि पदतलं ते चूडितुं चुम्बितुं च ॥ ३२ ॥

वितरय कुचयोस्त्वद्दर्शनोपक्रमाणां मदनशररुजानां शान्तये मामकीनाम् ।
सकृदपि परिरम्भं सुभ्रु दोर्मूलकूलकषधनपरिणाहस्र्यातयोरेतयोस्ते ॥ ३३ ॥

चरणकमलदासस्त्वेष सङ्कल्पसङ्गे सुमुखि यदभिधत्से त्वं बलात्कारधूर्तम् ।
प्रसभवधृततैर्घः पीडयाम्यत्मनैव द्विरद इव सरोजं पाणिमापाटलं ते ॥ ३४ ॥

विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं संभ्रमेण ।
स्मितमधुरमुदारं देवि मामल्पोच्चैः प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वाम् ॥ ३५ ॥

परिलुठति ललाटे मञ्जुरा भ्रूलता किं मदनजयपताकाविभ्रमं बिभ्रतीयम् ।
स्फुरति च किमकाण्डे चण्डि बिम्बाधरोऽयं मृदुपवनविधूतोच्छिद्रबन्धूकबन्धुः ॥ ३६ ॥

मुहुर्मुहुर्वेक्षणं सरसमञ्जसा सस्रवः समुच्छलत्तरङ्गिणी प्रचुरनर्ममर्मस्पृहा । मुहुर्निबिड-


नम्रता परिजनव्यपेक्षापि नो कुतः सुमुखि शिक्षिता कथय कोपरीतिस्त्वया ॥ ३७ ॥

तरङ्गय दृशोऽञ्जने रचय वन्ध्यमिन्दीवरं क्षण वपुरपावृणु स्पृशतु काञ्चनं कालिमा ।
स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेततामुदुञ्चय मुखं मनाग्भवतु लज्जितश्चन्द्रमाः ॥ ३८ ॥

उदञ्चय दृगञ्चलं चलतु चञ्चरीकोचयः प्रपञ्चय वचःसुधां श्रवणपालिमालिङ्गतु ।
भ्रुवं नटय नागरि त्यजतु मन्मथः कार्मुकं मुखं च कुरु संमुखं व्रजतु लाघवं चन्द्रमाः ॥ ३९ ॥

पुरोदिगनुरागिणी तदपि नानुरागोदयः कृशोदरि निशा कृशा तदपि ते न मानः कृशः ।
प्रसन्नमिदमम्बरं तदपि न प्रसन्नं मनो ननाद चरणाद्युदस्तदपि मौनमालम्बसे ॥ ४० ॥

कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमुच्चैः प्रणमितम् ।
न दृष्टेः शैथिल्यं मिलत इति चेतो दहति मे निगूढान्तःकोपा कठिनहृदये संवृत्तिरियम् ॥ ४१ ॥

गतप्राया रात्रिः कृशतनु शशी सीदत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव ।
प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो कुचप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ॥ ४२ ॥

इदं दूर्वाकाण्डद्युतिमुषि कपोले कतिपयैः श्रमाम्भोभिः कीर्णं सहजबकुलामोदसुभगम् ।
समाकाङ्क्षे ताम्राधरमनुमनुष्व प्रियतमे मनोज्ञं ते पातुं मुखकमलमाघ्रातुमथवा ॥ ४३ ॥

प्रसादे वर्तस्व प्रकटय मुदं सत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः ।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥ ४४ ॥

प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ।
न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे ॥४५॥

कृतेऽप्याज्ञाभङ्गे कथमिव मया ते प्रणतयो धृताः स्तित्वा हस्ते विसृजसि रुषं सुभ्रु बहुशः ।
प्रकोपः कोऽप्यन्यः पुनरयमसीमाद्य गुणितो वृथा यत्र स्निग्धाः प्रियसहचरीणामपि गिरः ॥४६॥

कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥४७॥

सुतनु हृदयात्प्रेत्यादेशव्यलीकमपैतु ते किमपि मनसः संमोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवं प्रायाः शुभेषु हि वृत्तयः स्रजमपि शिरस्यन्धः क्षित्वा धुनोत्यहिशङ्कया ॥ ४८ ॥

परिहर कृतातङ्के शङ्कां त्वया सततं घनस्तनजघनाक्रान्ते स्वान्ते परानवकाशिनि ।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तर स्तनभरपरीरम्भारम्भे विधेहि


१ नीलोत्पलेन २ पाषाणेन तत्सदृशकठिनत्वात् ३ अभिलाष
१ अत्यन्तकोपने; २ निराकृतिदुःखम् ३ मालाम् ४ सर्पभ्रान्त्या

प्रणयकलहे नायिकानुनयः, सख्यनुनयः३०७

विधेयताम् ॥ ४९ ॥ व्यथयति वृथा मौनं तन्वि प्रपञ्चय पक्ष्मलं तरुणि मधुरालापैस्ताप विनोदय दृष्टिभिः । सुमुखि विमुखीभाव तावद्विमुञ्च न वञ्चय स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थित ॥ ५० ॥ कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम्। किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ५१ ॥ पादासक्ते सुचिरमिह ते वामता कैव मुग्धे नर्मासक्ते प्रणयिनि जने कोऽपराधोऽपराध। इत्थं तस्या परिजनकथा कोमले कोपवेगे बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ५२ ॥ कोऽयं कोपविधि. प्रयच्छ करुणागर्भं वचो जायता पीयूष- द्रवदीर्घिकापरिमलैरामोदिनी मेदिनी । आस्ता वा स्पृहयालु- लोचनमिदं व्यावर्तयन्ती मुहुर्यस्मै कुप्यसि तस्य सुन्दरि तपोवृन्द्वानि वन्दामहे ॥ ५३ ॥ सूर्येऽस्ताचलमौलिमालिनि गृहे दीपावलीशालिनि प्राणस्वामिनि मानिनि प्रतिपदं सत्कारमातन्वति । यन्मानं न जहासि कोपकलनादालोहित- स्तत्क्षणादिन्दुः सुन्दरि पूर्वपर्वतशिर.सीमानमारोहति ॥५४॥ सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना प्रेयांसः प्रणमन्ति किं तव पुनर्जासो यथा वर्तते । आत्मद्रोहिणि दुर्जनप्रलपितं कर्णे वृथा मा कृथाश्छिन्नस्नेहरसा भवन्ति पुरुषा दु खानुवर्त्या यत. ॥ ५५ ॥ क्षीणांशु शशलाञ्छनः सखि पुनः क्षीणो न मानस्तव ²सैरं पद्मवनं मना- गपि न ते ¹खेर मुखाम्भोरुहम् । पीत श्रोत्रयुगेन ³चैद्रपदस्तं पीत न ते जल्पितं रक्ता ⁴शैकदिगङ्गना रविकरैर्नाद्यापि रक्तासि किम् ॥ ५६ ॥ कि कण्ठे शिथिली- कृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनैष्त्वमि- मुखी नाद्यापि सभाविता । अन्यस्त्रीजनसकथायलघुरहं स्वप्रे त्वया लक्षितो दोष पश्यसि किं प्रिये परिजनोपालम्भयोग्ये मयि ॥ ५७ ॥ चक्षुर्जाड्यमपैतु मानिनि मुखं सदर्शय श्रोत्रयोः पीयूषस्रुतिसौरभ्यमस्तु मधुरा वाचं प्रिये व्याहर । तापः शाम्यतु मे प्रसादशिशिरा दृष्टि शनैः पातय त्यक्त्वा दीर्घमभूतपूर्वमचिराद्दोषं सखीदोषजम् ॥ ५८ ॥ कल्याणाङ्ग- रुचानुरक्तमनसा त्व येन सप्रार्थ्यते यस्यार्थे सुमुखि त्वया पुनरसुत्यागोऽपि सनह्यते । सोऽयं सुन्दरि पञ्चबाणवि- शिखव्यालीढदोरन्तरस्त्वैरोत्पीडितपीवरस्तनतटस्त्वद्दोलतापञ्जरे ॥ ५९ ॥ शीतांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ रम्भागर्भनिभं तयोरुयुगलं बाहू मृणालोपमौ । इत्याह्लादकरा- खिलाङ्गि रभसान्निःशङ्कमालिङ्ग्य मामङ्गानि त्वमनङ्गतताप- विधुराण्येह्येहि निर्वापय ॥ ६० ॥ स्निग्धं यद्यपि वीक्षितं नयनयोस्ताम्रा तथापि द्युतिर्माधुर्यापि सती स्वलत्यनुपदं ते गद्गदा वागियम् । निःश्वासा नियता अपि स्तनभरोत्कम्पेन सलक्षिता. कोपस्ते प्रकटं प्रयत्नविघृतोऽप्येष स्फुटं लक्ष्यते ॥ ६१ ॥ भ्रूभङ्गैः क्रियते ललाटशशिन. कस्मात्कलङ्को मुधा वाताकम्पितबन्धुपुष्पसमता नीतोऽधरः कि स्फुरन् । मध्यश्रा- धिककम्पितस्तनमरेणार्यं पुनः खिद्यते कोप मुञ्च तवैव चित्त- हरणार्यैतन्मया क्रीडितम् ॥ ६२ ॥ भ्रूभङ्गं न करोषि रोदिषि मुहुर्मुर्मुवेक्षणे केवलं नातिप्रस्फुरिताधरानवरतं निःश्वासमेवो- ज्झसि । वाचं नापि ददासि तिष्ठसि पर प्रध्यातनम्रानना कोपस्ते स्तिमितोऽतिपीडयति मा गूढप्रहारोपमः ॥ ६३ ॥ धृष्ट. कि पुरतोऽवरुध्य विहसन्गृह्णामि कण्ठे प्रिया कि वा चाटुशतप्रचण्डरचनाप्रीता करिष्यामि ताम् । कि तिष्ठामि कृताञ्जलिर्निपतितस्तस्या. पुरः पादयोः सत्यं सत्यमहो न वेद्यमनुनयस्तस्याः कथं स्यादिति ॥ ६४ ॥ सुभ्रु त्वं कुपितेत्य- पास्तमशनं त्यक्ताः कथा योषिता दूरादेव मयोज्झिताः सुरभयः स्रग्गन्धधूपादद्य. । रागं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदा- धुना सद्यस्त्वद्विरहे भवन्ति सुभगे सर्वा ममान्धा दिशः ॥ ६५ ॥ व्यावृत्तं खलु सर्वतो विषयतस्त्वय्येव लीनं मनो नित्यं च त्वदधीनमेव नियतं मज्जीवितं मानिनि । मत्वैवं मयि नूनमन्यविषया शङ्का त्वया त्यज्यता किं वान्यत्र निशाकरोऽ- भिरमते मुक्त्वा क्षणं कौमुदीम् ॥ ६६ ॥ यद्रम्यं गुरुगौरवस्य सुहृदो यस्मिँल्लभन्तेऽन्तर यद्दाक्षिण्यवशात्प्रसह्य सहते नर्माप- चारानपि । यल्लज्जा निरुणद्धि यत्र शपथैस्तूप्याद्यते प्रेत्यय- स्तत्कि प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम् ॥ ६७॥ मुग्धे मानिनि कोपरीतिरियती युक्ता न तथ्यं त्विदं कान्ते कि त्वदुपेक्षिता मम तनु. शोभेत नेहाद्भुतम् । अन्यायो भवति च्छलस्य करणे दक्षे जनेऽन्यादृशं काहेति प्रतिरुद्ध- वागकरवं वाक्स्तम्भनं चुम्बनैः ॥ ६८ ॥ मानं मानिनि मुञ्च देवि दयिते मिथ्या वचः श्रूयते कि कोपो निजसेवके यदि वचः सत्यं त्वथा गृह्यते । दोभ्यों बन्धवमाशु दन्तदलनं पीनस्तनास्फालन दोषश्रेन्नम ते कटाक्षविशिखै. शस्त्रैः प्रहार कुरु ॥ ६९ ॥ सुभ्रु त्व नवनीतकल्पहृदया केनापि दुर्मन्त्रिणा मिथ्यैव प्रियकारिणा मधुमुखेनाक्षासु चण्डीकृता । किं त्वेतद्विमृश क्षणं प्रणयिनामेणाक्षि कस्ने हित. कि धात्री- तनया वयं किमु सखी कि वा किमक्षत्सुहृत् ॥ ७० ॥


सख्यनुनयः

मुग्धे मानं न ते कर्तुं युक्तं प्राणाधिके प्रिये । धत्से मत्सी कियत्कालं जीवितं ³जीवैनं विना ॥ १ ॥ कुपितासि यदा तन्वि निधाय करजक्षतम् । बधान भुजपाशाभ्या


१ प्रिया २ विकसितम् ३ अमरशब्द ४ प्राची
१ दृढ २ विश्वास ३ जलम्

३०८सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

कण्ठमस्य दृढं तदा ॥ २ ॥ स्मेरराजीवनयने नयने किं निमीलिते । पश्य निर्जितकंदर्प कंदर्पवशगं प्रियम् ॥ ३ ॥ रमणे चरणप्रान्ते प्रणतिप्रवणेऽधुना । वदामि सखि ते तत्त्वं कदाचिन्नोचिताः क्रुधः ॥ ४ ॥ यदि कुप्यसि नास्ति रतिः कोपेन विनाऽथवा कुतः कामः । कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम् ॥ ५ ॥ अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् । मुखमानतं च सखि ते ज्वलितश्वासान्तरे खरज्वलनः ॥ ६ ॥ अध्वति रजनिरुद्ध्यति तिमिरमिदं चञ्चति मनोभूः । उक्तं न त्यज युक्तं विरचय रक्तं मनस्तस्मिन् ॥ ७ ॥ वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशा श्रीः । धरनिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे ॥ ८ ॥ जहीहि कोपं दयितोऽनुगम्यता पुरोऽनुशेते तव चञ्चलं मनः । इति प्रिये काचिदुपैतुमिच्छती पुरानुनान्ये निपुणः सखीजनः ॥ ९ ॥ समयचकितं विन्यस्यन्ती दृशं तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् । कथमपि रहःप्राप्तामङ्गै रनङ्गरतङ्गिभि सुमुखि सुभगः स त्वा पश्यन्नुपैतु कृतार्थताम् ॥ १० ॥ चपलहृदये किं स्वातन्त्र्यात्स्वयं गृहमागतश्चरणपतितः प्रेमार्द्राङ्गैः प्रियः समुपेक्षितः । तदिदमधुना यावज्जीवं निरस्तसुखोदया रुदितशरणा दुर्जातानां सहस्व रुषा फलम् ॥ ११ ॥ लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरोदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥ १२ ॥ असद्वृत्तो नायं न च खलु गुणैरेष रहितः प्रियो मुक्ताहारस्तव चरणमूले निपतितः । गृहाणैनं मुग्धे भजतु निजकण्ठप्रणयितामुपायो नास्त्यन्यस्तव हृदयसंतापशमने ॥ १३ ॥ अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्वयाकाण्डे मानः किमिति सरले संप्रति कृतः । समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखा स्वहस्तेनाङ्गारास्तदलमधुणारण्यरुदितैः ॥ १४ ॥ अयेऽस्तमयते शशी नहि कृशीभवत्याग्रहो विनश्यति तमो हठं किमणुमर्प्यपास्ते मनः । सखि प्रकटितोऽरुणो न करुणोदयेस्ते मनाक्प्रयाति खलु यामिनी न विमनीकृथा नायकम् ॥ १५ ॥ आयात कुसुमदेश्वरो विजयते सर्वेश्वरो मारुतो भृङ्ग स्फूर्जति भैरवो न निकटं प्राणेश्वरो मुञ्चति । एते सिद्धरसाः प्रसूनविशिखो वैद्योऽनवद्योत्सवो मानव्याधिं कृशोदरि कथं त्वच्चेतसि स्थास्यति ॥ १६ ॥ मानं मानिनि मुञ्च मानसमुवः साम्राज्यमुज्जृम्भता हा हा गच्छति यामिनी न समयो यातः पुनः प्राप्यते । अत्यन्तागति कल्पिताधिकमये कान्ते पदान्तानते कोऽयं कोकिलवाणि केलिसमये कोपस्त्वयालम्बितः ॥ १७ ॥ स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखता यातासि तस्मिन्प्रिये । तन्मुग्धे विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिम हुतवहः क्रीडामुदो यातना ॥ १८ ॥ त्वा चित्तेन चिरं वहन्नयमविश्रान्तो भृशं तापितः कन्दर्पेण च पातुमिच्छति सुधासवादि विम्बाधरम् । अङ्गाङ्गं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलवक्रीते दासजनेऽपि सेवितपदाम्भोजे कुतः संभ्रमः ॥ १९ ॥ मुग्धे किं नखरैः क्षिपस्यविरतं नेत्राम्बु मानोन्नते पश्यैनं चरणाग्रनम्रशिरसं कान्तमाज्ञाञ्जलिम् । अप्रह्ने तव चेतसि प्रणयिनि प्राप्तेऽतिनिर्विण्णतामन्यासक्तमनस्युपेक्षितगता फूत्कृत्य रोदिष्यसि ॥ २० ॥ मुग्धे मुग्धतयैव नेतुमखिलः काल किंमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरीकुरु प्रेयसि । सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंसै हृदि स्थितो हि ननु मे प्राणेश्वर श्रोष्यति ॥ २१ ॥ अङ्गुल्यग्रनखेन बाष्पसलिलं निक्षिप्य निक्षिप्य किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि । यस्यास्ते पिशुनोपदेशवचनैर्मानोऽतिभूमिं गते निर्विण्णोऽनु नयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ २२ ॥ नो तल्पं मजसे न जल्पसि सुधाधारानुकारा गिरो दृक्पातं कुरुषे न वा परिजने कोपप्रकाशच्छलात् । इत्थं केतकगर्भगौरि दयिते कोपस्य संगोपर्ने तत्स्यादेव न चेत्युनः सहचरी कुर्वीत साचिक्षितम् ॥ २३ ॥


कलहान्तरिताप्रलापाख्यानम्

उपचारादुनयनास्ते कितवस्योपेक्षिताः सखीवचसा । अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ॥ १ ॥ प्रयाहि तत्रैव ययानुरज्यसे किमत्र निर्विर्शा तव प्रयोजनम् । न कञ्चुकग्रन् lay ... कञ्चुकग्रन्थिमपाकुरूष्व मे कथं हृदि ग्रन्थिमपाकरिष्यसि ॥ २ ॥ अकेरोः किमु नेत्रशोणिमानं किमकार्षी करपल्लवावरोधम् । कलहं किमधा वृथा रसज्ञे हितमर्थं न विदन्ति दैवदष्टाः ॥ ३ ॥ स्फुरसि बाहुलते किमनर्थकं त्वमपि लोचनभावमहो गता । तमहमगातप्यपराधिनं न परिरन्धुमलं न च वीक्षितुम् ॥ ४ ॥ मानोन्नेतेत्यसहनेत्यतिपण्डितेति मय्येव धिक्कृतिरनेकमुखी सखीनाम् । दाक्षिण्यमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणानुपवर्णयन्ति ॥ ५ ॥ नवनखपदभङ्गं गोपयन्संशुकेन स्थगयसि पुनरोष्ठं पाणिना


पादटिप्पण्यः :

वामभागः : १ नम्र २ उपवासशील ३ सततरोदनेन शोथयुक्तानि नयनानि यासाम् ४ पाषाणहृदये ५ मौक्तिकानां हार, पक्षे,-मुक्तस्त्यक्त आहारोऽशन येन प्रियेणेत्यर्थ ६ हृदयदाहशान्त्यै ७ अनवसरे ८ नाशयति.

दक्षिणभागः : १ क्रोध २ सरलत्वम् ३ कथय ४ उदासीनताम् ५ शय्याम् ६ अमृतधारातुल्या ७ केतकीगर्भश्वच्छेताङ्गि ८ निर्दोष

कलहान्तरिताप्रलापाख्यानम्, नायकानुनयः, नायकयोरुक्तिप्रत्युक्तयः ३०९


[कलहान्तरिताप्रलापाख्यानम्]

दन्तदष्टम्। प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः
केन शक्यो वरीतुम् ॥ ६ ॥ इदं कृष्ण कृष्ण प्रियतम ननु
श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु ।
पुरा येनैव मे चिरमनुसृता चित्तपदवी स एवान्यो जातः
सखि परिचिता कस्य पुरुषा ॥ ७ ॥ कथमपि सखि
क्रीडाकोपाद्गजेति मयोदिते कठिनहृदयस्त्यक्त्वा गत्या
बलाद्गत एव स । इति सरभसध्वस्तप्रेम्णि व्यपेतघृणे
स्पृहा पुनरपि हतव्रीडं चेतं. करोति करोमि किम् ॥ ८ ॥
अद्यारभ्य यदि प्रिये पुनरहं मानस्य चान्यस्य वा गृह्णीया
शठदुर् नयेन मनसा नामापि संक्षोभत । तत्तेनैव विना
शशाङ्ककिरणस्पष्टाट्टहासा निशा एको वा दिवसः पयोध-
मलिनो भूयान्मम प्रावृषि ॥ ९ ॥ मानव्याधिनिपी-
डिताहमधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखी-
जनोऽस्ति चतुरो यो मा बलान्नेष्यति । मानी सोऽपि जनो न
लाघवभयादभ्येति मात स्वयं कालो याति चलं च जीवित-
मिदं क्षुण्णं मनश्चिन्तया ॥ १० ॥ निःश्वासा वदनं
दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैति न दृश्यते
प्रियमुरुं नक्तंदिनं रुद्यते । अङ्गं शोषमुपैति पादपतितः
प्रेयांस्तदोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वय
कारिताः ॥ ११ ॥ तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता
पादयोस्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः
किं करवाणि यान्ति शतशो यत्कञ्चुके संधयः ॥ १२ ॥ नो
चाटु श्रवणं कृतं न च दृशा हारोऽन्तिके वीक्षितः कान्तस्य
प्रियहेतवे निजसखीवाचोऽपि दूरीकृताः । पादान्ते विनिपत्य
तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य हन्त
सहसा कण्ठे कथं नार्पितः ॥ १३ ॥ भर्तुर्यस्य कृते गुरु-
र्लघुरभूद्गोष्ठी कनिष्ठकृता धैर्यं कोषधनं गतं सहचरी नीतिः
कृता दूरत । निर्मुक्ता तृणवत्त्रपा परिचिता स्रोतस्विनी
बिन्दुवत्स क्रोधादवधीरतो हतधिया मातर्बलीयौन्विधिः
॥ १४ ॥ यत्पङ्केरुहलक्ष्म पाणिमलं भाग्यालये यद्धुरुन्यस्तं
वा मम यल्ललाटफलके भाग्याक्षरं वेधसा । तत्सर्वं सखि यो
यथार्थमकरोत्तस्मिन्प्रकोपः कृतो धिङ् मा धिङ् मम जीवितं
धिगतनु धिक्चेष्टितं धिग्वयः ॥ १५ ॥ केकाभि कलयन्तु
४केकिनिवहा सम्भूय कर्णज्वरं विद्युद्भिः सह भीषयन्तु परितः
पाथोधराणा घटाः । पश्चेषुर्वधिरीकरोतु ककुभ सर्वाः शराणां
रवैर्नाहं दग्धदुरन्तजीवनकृते कस्यापि वश्या सखि ॥ १६ ॥


१ त्यक्तरुणे
२ मन
३ एकादशम्स्थान भाग्यस्थान, तस्मिन्
४ मयूरसमूहा


नायकानुनयः

घनघनमपि दृष्ट व्योम वान्तो मरुत्वान् शिखिकुलकलवाचा
श्रोत्रमासीन्निवास । १असुमम न मृताहं त्वद्वियोगेऽपि जाते
तव घनपरिरम्भप्रार्थनाग्रावशेन ॥ १ ॥ मयि मलयममीगे
वर्षतीव स्फुलिङ्गानहह हिमकरो मामग्निना सिञ्चतीव ।
किमिति मकरकेतो किं नु वक्ष्ये कठोरे कथमपि तदहं ते
नाथ नोपेक्षणीया ॥ २ ॥ त्वं तावद्वहुलक्ष्मो नवयुवा कान्त-
सुखी निर्घृणो नो जानासि परव्यथा शठमते नैवासि दुःखी
यत । किं त्वन्याः परिपृच्छ मन्मथशरै पीडाममक्ष्णमिमा
त्राता नो भव येन सज्जनजनैः कापालिको नोच्यसे ॥ ३ ॥
मुक्तो मानपरिग्रहः महू सखीसार्थेन तन्मन्त्रिणा शक्ता
त्वच्चरणप्रसादरहिता नाहं क्षणं प्राणितुम् । पश्य त्व सुकृशं
शरीरकमिदं या यामवस्था गतं सैपाहं तव पादयोर्निपतिता
नाथ प्रसीदाधुना ॥ ४ ॥


नायकयोरुक्तिप्रत्युक्तयः

सार्थे मनोरथशतैस्तव धूर्त्त कान्ता सैव स्थिता मनसि
कृत्रिमभावरम्या । अस्माकमस्ति न कथंचिदिहावकाशस्त-
स्मात्कृतं चरणपातविडम्बनाभिः ॥ १ ॥ तद्वितथमवादीर्य-
न्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूल दधानः । मद्-
धिवसति मागा कामिना मण्डनश्रीयंत्रजति हि सफलत्वं
वल्लभालोकनेन ॥ २ ॥ यदा त्व चन्द्रोऽभू शिरिकरपर्क-
रुचिरस्तदाहं जाता द्राक्षाशधरमणीना प्रतिकृति । इदानी-
मर्कस्त्वं खररुचिसमुत्सारितरसः किरन्ती कोपायीनहमपि
रविग्रावघटिता ॥ ३॥ तवेदं पश्यन्त्याः प्रसरदनुराग बहिरिव
प्रियापादालक्तच्छुरितमरुणद्योतिहृदयम् । ममाद्य प्रख्यात-
प्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जा
जनयति ॥ ४ ॥ कृतककृतकैर्मायाशाठ्यैस्त्वयाप्यतिवर्तितं
निभृतनिभृतै कार्य्यालापैर्मयाप्युपलक्षितम् । भवतु विदितं
नेहा तेऽहं वृथा परिखिद्यते अहमसहना त्वं नि स्नेहः समेन
समं गतम् ॥ ५ ॥ कोपो यत्र भुकुटिरचना निग्रहो यत्र
मौन यत्रान्योन्यस्मितमनुनयो दृष्टिपात प्रसाद । तस्य प्रेम्ण-
स्तदिदमधुना वैगँस पश्य जातं त्वं पादान्ते लुठसि न च मे
मन्युमोक्ष खलायाः ॥ ६ ॥ बाले नाथ विमुञ्च मानिनि
रुष रोषान्मया किं कृत खेदोऽस्मासु न मेऽपराध्यति भवान्
सर्वेऽपराधा मयि । तत्कि रोदिषि गद्गदेन वचसा कस्या-
ग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नासीत्यतो
रुद्यते ॥ ७॥ किं मे वक्त्रमुपेत्य चुम्बसि बलान्निर्लज्ज लज्जा


१ हे प्राणमम
२ अलमित्यर्थे
३ नाशम्
४ क्रोधम्

३१० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

क्व ते वस्त्रान्त शठ मुञ्च मुञ्च शपथैः किं ब्रूते वाग्बन्धने. । खिन्नाहं तव रात्रिजागरवशात्तामेव याहि प्रिया निर्मल्यो- ज्झितपुष्पदामनिकरे का षट्पदाना रति ॥ ८ ॥ साहार वचनं प्रयच्छसि न मे नो वाञ्छितं यच्छसि प्रायः प्रोच्छ्रसिषि द्रुतं हुतवहज्वालासमं रात्रिषु । कण्ठाश्लेषपरिग्रहे शिथि- लता यच्चादराच्चुम्बसे तंत्तं धूर्त हृदि स्थिता प्रियतमा काचिन्ममेवापरा ॥ ९ ॥ सत्यं तथदवोचथा मम महानरा- गस्त्वदीयादिति त्वं प्राप्तोऽसि विभात एव सदनं मां द्रष्टु- कामो यतः । रागं किं च बिभर्षि नाथ हृदये काश्मीर- पङ्कोदितं नेत्रे जागरजं ललाटफलके लाक्षारसापादितम् ॥ १० ॥ गेहन्तौ प्रथमं ममोर्ग्सि तव प्राप्ता विशुद्धिः स्तना सलापास्तव वाक्यभङ्गिमलिना मोग्धेयं परं त्याजिता । धात्री- कण्ठमपास्य बाहुलतिके कण्ठे तवामञ्जिते निर्दाक्षिण्यं करोमि किं नु विगिष्वाप्येष्या ($१$) न पन्थास्तव ॥११॥ अज्ञानेन परा- ङ्मुखां परिभवादाश्लिष्य मा तु स्थिता किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दृशाम् । पश्यैतद्दयिताकुचव्यतिकरेणोन्मृ- द्याङ्गरागारुणं वक्षस्ते मलतैलपङ्कशबलदेणीपदैरङ्कितम्॥१२॥

नायकशिक्षा

अङ्गुलीकिमलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षणम् । मेखलाभरमकृच्च बन्धनं वञ्चयन्प्रणयिनीमपाम् म ॥ १ ॥ अधिरजनि जगाम धाम तस्याः प्रियमतयेति रुषा मनावनद्धः । पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ममा व- सानाम् ॥ २ ॥ सालक्तकेन नवपल्लवकोमलेन पादेन नूपुर- वता मदनालसेन । यस्ताड्यते दयितया प्रणयापगधान्मो ऽङ्गीकृतो भगवता मकरध्वजेन ॥ ३ ॥ मालक्तकं गत- दलाधिककान्तिरम्यं रत्नौघधामनिकरारुणनूपुरं च । क्षिप्तं भृशं कुपितया तरलोत्पलाक्ष्या सौभाग्यचिह्नमित्र मूर्ध्नि पदं विरेजे ॥ ४ ॥ कोपात्किंचिदुपानतोऽपि रमसादाकृष्य केशेष्वल नीत्वा मोहनमन्दिरं दयितया हारेण बद्ध्वा दृढम् । भूयो यास्यति तद्गृहानिति मुहुः कण्ठार्थरुद्धाक्षरं जल्पन्त्याः श्रवणोत्पलेन सुकृती कश्चिद्रहस्ताड्यते ॥ ५ ॥ सा गाढं भवतेक्षितेति निबिडं संयम्य बाह्वोः स्रजा भूयो द्रक्ष्यसि तां शठेति नितरां सम्भर्त्स्य सतर्ज्य च । आलीनां पुर एव निह्नुतिपरः कोपादसन्नूपुरं मानिन्याश्चरणप्रहारविधिना प्रेया- नशोकीकृतः ॥ ६ ॥ पादे मूर्धनि ताम्रतामुपगते कर्णो- त्पले चूर्णिते छिन्ने हारलतागुणे करतले सपाताजातव्रणे । अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुन कोपिता वाञ्छन्ती मुहुरेशणावनायना पर्याकुला रोदिति ॥ ७ ॥ कोपात्कोमल- लोलबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा केलिनिकेतनं


($१$) नवनवकुसुमलोलुपानां श्रमराणाम्, पक्षे,-अनेकस्त्रीसक्तानाम्

दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलत्कल- गिरा ससूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुतिपरः प्रेया- न्रुदत्या हसन् ॥ ८ ॥

नायिकाप्रसादः

भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम् । तदनु वदनं मूर्च्छाच्छेदात्प्रसादि विगजते परिगतमिव प्रारम्भेऽह्नां श्रिया सरसीरुहम् ॥ १ ॥ आविर्भूते शशिनि तमसा मुच्यमानेव रात्रिनैंशास्यार्चिर्हुत- भुज इव छिन्नधूमप्रधूमा । मोहेनान्तर्व्रतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रौवं पतनकलुषा गृह्णतीव प्रसादम् ॥ २ ॥ कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखी कान्तो- दन्तं श्रनमपि पुनः प्रक्षयति यत् । अनिद्रं यच्छ्रान्तः स्वपिति तदहो वेद्यमभिनवा प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलताकम् ॥ ३ ॥ परिम्लाने माने मुखशशिनि तस्यां करधृते मयि व्रीडोपाथे प्रणिपतनमात्रैककरणे । तया पक्ष्म- प्रान्तव्रजपुटनिरुद्धेन सहसा प्रमाडो बाष्पेण स्तनतट- विशीर्णेन कथितम् ॥ ४ ॥ कृष्णस्निग्धकनीनिके विकसतः कर्णान्तदीर्घे दृशावुत्कम्पो हृदयस्य वेपितकुचामोग्रं शनैः शाम्यति । धत्ते शीतरुचो विनुतुदमुखान्मुक्तस्य लक्ष्मी- मद मुग्धाङ्गना विगलद्विमाहातिमिरं वक्त्रं प्रसीदत्क्रमात्॥५॥

परस्परप्रसादः

पदप्रणतमालोक्य कान्तमेकान्तकातरम् । मुञ्चन्ती बाष्पमतानं सुसुखं। तेन चुम्बिता ॥ १ ॥ इह स्फुटं तिष्ठति नाथ कण्टकः शनैः शनैः कर्ष नखायलीलया । इति च्छलात्काचिदलग्नकण्टकं पदं तदुत्सङ्गतले न्यवेशयत् ॥२॥ निपपात ससम्भ्रुतं श्रवणादसित्वश्रवः प्रणदितालिकुलम् । दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥ ३ ॥ उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् । रभ- सोत्थितानुपगतं सहसा परिरभ्य कश्चन वधूमरूरुधत् ॥ ४ ॥ अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुसुद्वहता । मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ॥ ५ ॥ अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता । दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥६॥ कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया । क्षणदृष्टहाटकशिलासदृशस्फुरदूरुमिति वसनं ववसे ॥ ७ ॥ पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति । अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधूर्न्यगदत्


१ तीरपातेन मृदाविला २ नैर्मल्यम् ३ नेत्ररेखे

परस्परप्रसादः३११
॥ ८ ॥ उदितोरुसादमतिवेपथुमत्सुदृढोऽभिभर्त्तुं विधुर<br>त्रपया । वपुरादरातिशयगंसि पुन प्रतिपत्तिमूढमपि बाढम-<br>भूत् ॥ ९ ॥ परिमन्थराभिगलगुरुभराधधिवेश्म पत्युरुपचार-<br>विधा । स्खलिताभिरप्यनुपदं प्रमदा प्रणयातिभूमिमगम-<br>न्नातिभिः ॥ १० ॥ मधुरोन्नतञ्च ललितं च दृशो सकर-<br>प्रयोगचतुर च वच. । प्रकृतिस्थमेव निपुणागमितं स्फुट-<br>नृत्यलीलम्भवत्सुतनो. ॥ ११ ॥ लोलाक्षुकस पवनाकुलि-<br>ताशुंकान्त त्वदृष्टिहारि मम लोचनबान्धवस्य । अध्यामितुं<br>तव चिर जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम् ।<br>॥ १२ ॥ सुतनु जँहिहि मौन पश्य पादानतं मा न खलु<br>तव कदाचित्कोप एवंविधोऽभूत् । इति निगदति नाथे<br>तिर्यङ्गामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किंचित्<br>॥ १३ ॥ वचोवीचीदानं स्फुरदधरपानं विविनयं कृशीभूते<br>माने मयि मृगयमाणे मृगदृश । वभूव भ्रूभङ्ग सनयन<br>तरङ्ग. सपदि य. प्रमुल व्यताने जगदुपरेि तेनेह मदन<br>॥ १४ ॥ तदेवाजिह्माक्ष सुखमविशदस्ता गिर इमा स<br>एवाङ्गश्लेषो मयि सरसमाश्रिष्यति तनुम् । तदुक्तं प्रत्युक्तं<br>यदपटु शिर.कम्पनपर प्रिया मानेनेय पुनरपि कृता मे<br>नववधू. ॥ १५ ॥ दृष्टैकासनसंस्थिते प्रियतमे पश्चादुपेल्या-<br>दरादेकस्या नयने निमील्य विहितक्रीडानूबन्धच्छल. ।<br>ईषद्वक्रितकन्धर. सपुलकः प्रेमोल्लसन्मानसामन्तर्हासलस-<br>त्कपोलफलका धूर्तौऽपरा चुम्बति ॥ १६ ॥ आगल्य प्रणि<br>पातसान्त्वितसखीदत्तान्तरे सागसि खैर कुर्वति तल्पपार्श्व-<br>निभृते धूर्तेऽङ्गसवाहनम् । ज्ञात्वा स्पर्शवशात्प्रिय किल<br>सखीभ्रान्त्या स्वमक्षं शनै खिन्नासीत्यभिधाय मीलितदृशा<br>सानन्दमारोपित ॥ १७ ॥ सत्यं दुर्लभ एष वल्लभतरो<br>रागो ममास्मिन्पुन कोपोऽस्यातिगुरुर्न चातिनिपुणा.<br>सख्योऽपि सबोधने । सचिन्त्येति मृगीदृशा प्रियतमे दृष्टे<br>श्रथा मेखला बन्नन्त्या न गत स्थितं न च चलद्वासोऽथवा<br>संवृतम् ॥ १८ ॥ वाचो वाग्मिनि कि तवाद्य परुषाः सुभ्रु<br>ध्रुवो विभ्रमोऽप्युद्ग्रान्त. कृत एष लोलनयने कि लोहिते<br>लोचने । नास्त्यागो मयि कि मुखैव कुपितेत्युक्ते पुन.<br>प्रेयसा मानिन्या जलविन्दुदुन्तुरपुटा दृष्टि. सखीष्वाहिता<br>॥ १९ ॥ सा यावन्ति पदान्यलीकवचनैरालीजने पाठिता<br>तावन्त्येव कृतागसो द्रुततर सल्प्य पत्यु पुर । आरेभे<br>पुरतो यथा मनसिजस्येच्छा तथा वर्तितुं प्रेम्णो मौर्य्य-<br>विभूषणस्य सहज. कोऽप्येष कान्त. क्रम. ॥ २० ॥ दृष्टे<br>लोचनवन्मनाञ्चुकुलित पार्श्वस्थिते वक्रवच्र्यङ्गभूतं बहिरासित<br>पुलकवत्स्पर्श समातन्वति । नीवीबन्धवदागत शिथिलतासभाषमाणे अणान्मानेनापमृतं हियेव सुदृशः पाद-<br>स्पृशि प्रेयसि ॥ २१ ॥ एकस्मिन्शयने पराङ्मुखतया<br>वीतोत्तर ताम्यतोन्त्योन्यस्य हृदि स्थितेऽप्यनुनये सरक्षतो-<br>गौरवम् । दंत्यो श्नकगपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्भग्नो<br>मानकलि महामगमसव्यामक्तकण्ठग्रह. ॥ २२ ॥ कृत्वा<br>विग्रहमश्रुपातकल्लुष शय्यासनादुत्थिता कोवाच्चापि विहाय<br>गर्भभवनद्वार रुपा प्रस्थिता । दृष्ट्वा चन्द्रमस प्रभाविरहितं<br>प्रत्यूषवाताहता हा रात्रिरत्वरिता गतेति पतिता कान्ता<br>प्रियस्रोगसि ॥ २३ ॥ पश्याम. किमियं प्रधक्ष्यत इति स्थैर्ये<br>मयालम्बित कि मा नालपतीत्यय खलु शठ कोपस्तया-<br>प्याश्रित. । इत्यन्योन्यविलक्षदृष्टियुतुरे तस्मिन्नवस्थान्तरे<br>सव्याजं हमित मया त्रुटिहरे मुक्तस्तु बाष्पस्तया ॥ २४ ॥<br>चक्षुर्लुसमषीकणं कवलितस्ताम्बूलरागोऽधरे विश्रान्ता कवरी<br>कपोलफलके लूँशव गात्रद्युति । जाने संप्रति मानिनि प्रण-<br>यिना कैरप्युपायकर्ममंथो मानमहातहरुस्तृणो ते चेत.स्थली-<br>वर्धित. ॥ २५ ॥ तस्या. सान्द्रविलेपनस्तनयुगप्रक्षेषमुद्राङ्कितं<br>कि वक्षश्चरणानतिव्यतिकरव्याजैन गोपाप्यते । इत्युक्ते क<br>तदित्युदीर्य सहसा तत्सप्रमार्टु मया संश्लिष्टा रभसेन तत्सुख-<br>वशात्तन्व्यापि तद्विस्मृतम् ॥ २६ ॥ नापेतोऽनुनयेन य.<br>प्रियसृहृद्वाक्यैर्न य. सहतो यो दीर्घ दिवस विषह्य हृदये<br>यत्नात्कथंचिद्धृत । अन्योन्यस्य हृते सुखे विहितयोस्तिर्यक्कथं-<br>चिदृशो समेदे सपदि स्मितव्यतिकरे मानो विहस्योज्झित<br>॥ २७ ॥ शून्य वासगृहं विलोक्य शयनादुत्थाय किचिच्छनै-<br>र्निद्राव्याजमुपागतस्य सुचिर निर्वर्ण्य पत्युर्मुखम् । विश्रब्धं<br>परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली लजानन्रमूखी<br>प्रियेण हसता बाठा चिर चुम्बिता ॥ २८ ॥ कान्ते<br>घोरकृतान्तवक्त्रकुहरत्त्वं पुण्यपुञ्जेन मे मुक्ता कृन्त तर्द्धन-<br>श्रमभर प्रत्यङ्कमालिङ्ग्य माम् । इत्याकर्ण्य निमीलितार्थ-<br>नयनं खैर शनैरानतं सोल्लास वदनाम्बुजं मृगदृश खैर<br>चुचुम्ब प्रिय. ॥ २९ ॥ एकस्मिन्शयने सरोरुहद्वि-<br>ज्ञाय निद्रा तयोरेका पल्लवितावगुण्ठनवतीमुत्कन्धरो<br>दृष्टवान् । अन्यस्या सविधे समेत्य निभृतव्यालोलहस्ताङ्गुलि-<br>व्यापारैर्वसनाञ्चलं चपलयन्स्वापच्युति क्रमवान् ॥ ३० ॥<br>लीलातामरसाहतोऽन्यनित्तानि.शङ्कष्टदाघर कश्चित्केसर-<br>दूषितेक्षण इव व्यामील्य नेत्रे स्थित. । मुग्धा कुञ्चलिता-<br>ग्नेन दधती वायु स्थिता तस्य सा भ्रान्त्या धूर्ततया च वेपे-<br>थुमती तेनानिशं चुम्बिता ॥ ३१ ॥ जाता नोत्कलिका स्तनौ<br>न लुलितौ गात्रं न रोमाञ्चितं वक्त्रं खेदकणान्वितं न सहसा
१ लज्ज २ न किञ्चिदप्युक्तम् ३ तिरस्कृतम्१ मौनरूपम् २ कपायमाना
३१२सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

यावच्छेदेनामुना। दृष्टेनैव मनो हृतं द्युतिमुषा प्राणेश्वरेणाद्य मे तत्केनापि निरूप्यमाणनिपुणो मानः समाधीयताम् ॥३२॥

प्रियचाटूक्तयः

मुग्धे यानुष्कता केयमपूर्वा त्वयि दृश्यते । यथा विध्यसि चेतांसि गुणैरेव न नायकैः ॥ १॥

कृष्णार्जुनोनुरक्तापि दृष्टिः कर्णायतम्बिनौ । याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ २ ॥

सितपुष्पोद्गमोऽयं ते दृश्यतेऽवरपल्लवे । फलं तु जातं मुग्धाक्षि चक्षुषोर्मम पश्यतः ॥ ३ ॥

अपूर्वं चौर्यमभ्यस्तं त्वया चञ्चललोचने । दिवैव जाग्रता पुंसां चेतो हरसि दूरतः ॥ ४॥

कुतः कुवलयं कर्णे करोषि कलभाषिणि । किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥ ५ ॥

दृष्टिं देहि पुनर्बाले कमলায়तलोचने । श्रूयते हि पुरा लोके विषस्य विषमौषधम् ॥ ६ ॥

विभ्रमैर्विश्वहृत्यैस्व विद्ययाप्यनवद्यया । केनापि हेतुना मन्ये प्राप्ता विद्याधरी क्षितिम् ॥ ७ ॥

त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता ॥ ८ ॥

बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत । अधुना हृदयेऽप्येष मृगशावाक्षि दृश्यते ॥ ९ ॥

पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः ॥ १०॥

अनङ्गोऽयमनङ्गःत्वमद्य निन्दिष्यति ध्रुवम् । यदनेन न सम्प्राप्तं पाणिसम्पर्शोत्सवस्तव ॥ ११ ॥

कमले कमलोत्पत्तिः श्रूयते न च दृश्यते । बाले तव मुखाम्भोजे दृष्टमिन्दीवरद्वयम् ॥ १२ ॥

आकर्ण्य सरोजाक्षि वचनीयमिदं भुवि । शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ॥ १३ ॥

नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः । मदंशं वनवृद्धानां कँमलानां त्वदीक्षणे ॥ १४ ॥

यन्मध्यदेशादपि ते सूक्ष्मं लोलाक्षि दृश्यते । मृणालसूत्रमपि ते न समाति स्तनान्तरे ॥१५॥

अनयोरनवद्याङ्गी स्तनयोर्जृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ १६ ॥

निर्णेतुं शक्यमस्तीति तव मध्यं नितम्बिनि । अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥ १७ ॥

राकाविभावरीकान्तसक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभी कटिश्च हरते मनः ॥ १८ ॥

आक्षिपन्त्यरविन्द्वानि मुग्धे तव मुखश्रियम् । कोषद्ण्डसमग्राणां किमेषामस्ति दुष्करम् ॥ १९ ॥

आवर्त एव नाभिस्ते नेत्रे नीलसरोरुहे । तरङ्गा वलयस्तेन त्वं लावण्याम्बुवापिका ॥ २० ॥

साहजिकरूपवत्या भवति भवत्या विभूषणं भारः । सर्वाङ्गसौरभिण्या दमनकवल्याः किमालि कुसुमेन ॥ २१ ॥

इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितविलास्रवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥ २२ ॥

आरुह्य शैलशिखरं त्वद्वदनापहृतकान्तिसर्वस्वः । फूत्कर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः ॥ २३ ॥

कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥ २४ ॥

आक्षिपसि कर्णमक्ष्णा बैलिरपि बद्धस्त्वया त्रिधा मध्ये । इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ॥ २५ ॥

नयननिपातेऽङ्कुरितः पल्लवितो वचसि पुष्पितो हसिते । फलतु कृशाङ्गि तवाङ्गस्पर्गेन मनोरथोड्स्माकम् ॥ २६ ॥

उचितं गोपनमनयोः कुचयोः कनकाद्रिकान्ति तस्करयोः । अवधीरितविधुमण्डलमूखमण्डलगोपनं किमिति ॥ २७ ॥

वदनेन निर्जितं तव निलीयते चन्द्रविम्बमम्बुधरे । अरविन्दमपि च सुन्दरि निलीयते पॊथसां पूरे ॥ २८ ॥

सत्यं तपः सुगत्यै यत्तत्वाम्बुषु रविप्रतीक्षं सत् । अनुभवति सुगतिम्बज्ज त्वत्पद्मजन्मानं समस्तकमनीयम् ॥ २९ ॥

दलदमलकोमलोत्पलपालाशशङ्काकुलोऽयमलिपॊतः । तव लोचनयोरनयोः परिसरमनुवेलमनुसरति ॥ ३० ॥

तव कुवलयाक्षि वक्षसि कुण्डलिता कापि काञ्चनी कान्तिः । कुसुमेषोर्विजिगीषोर्भवति च भवतीह भूयसी कण्डूः ॥ ३१ ॥

कम्बुकण्ठि चरणं शनैश्चरो राहुरेष तव केशकलापः । न च्युतं तदपि यौवनमेतत्समा पयोधरगुरोरनुकम्पा ॥ ३२ ॥

कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने । दृढलममिदं दृगोर्युगं शनकैरद्य समुद्धराम्यहम् ॥ ३३ ॥

अयि मन्मथचूतसञ्जरि श्रवणायतचारुलोचने । अपहृत्य मनः क्व यासि तत्किमराजकमत्र राजते ॥ ३४॥

भवत्कृते खञ्जनमञ्जुलाक्षि शिरो मदीयं यदि याति यातु । नीतानि नाशं जनकात्मजार्थं दशाननेनापि दशाननानि ॥ ३५ ॥

ताम्बूलरागोऽधरलोलुपो यद्यदञ्जनं लोचनचुम्बनौत्सुकम् । हरश्च कण्ठग्रहलालसो यत्स्वार्थं स तेषां न तु भूषणं ते ॥ ३६ ॥

यत्पद्ममादिक्सु तवाननीया कुरङ्गलक्ष्मा च मृगाक्षि लक्ष्मीम् । एकार्थलिप्स्याकृत एव मन्ये शशाङ्कपङ्केरुहयोर्विरोधः ॥ ३७ ॥

सदा प्रदोषो मम याति जाग्रतः सदा च मे निःश्वसतो गता निशा । त्वया समेतस्य विशाललोचने ममाद्य शोकान्तकरः प्रदोषकः ॥३८॥


पादटिप्पण्यः (Left Footnotes): १ इन्दीवरसदृशं नेत्रयुगलम् २ अङ्गीकृतया निन्दितम् ३ व्याप्तताम्, पक्षे,-चपलताम् ४ लोभशीले, पक्षे,-व्याधे ५ अमरैः पक्षे,-वाणै ६ जलम्, पक्षे,-अरण्यम् ७ पद्मानाम, पक्षे,-हरिणानाम्

पादटिप्पण्यः (Right Footnotes): १ आर्त्तव्याहरणं फूत्कारः २ श्रोत्रम्, पक्षे,-अष्टाधिपम् ३ वलि नामा दैत्यः, पक्षे,-वयसो सावर्ण्यात् वलिः वलित्रितयम् ४ जितमवदानशौण्डे ५ जलानाम्

प्रियचाटूक्तयः | ३१३

तवाननं सुन्दरि फुल्लपङ्कजं स्फुटं जपापुष्पमसौ तवाधरः ।<br>विनिद्रपद्मं तव लोचनद्वयं तवाङ्गमन्यत्किल पुष्पसञ्चयः<br>॥३९॥ प्रिये सदा पूर्णतरं मनोहरं ते निष्कलङ्कं मुखचन्द्र-<br>मण्डलम् । विलोक्य सव्रीडतया निशापतिर्गत प्रतसो जलधे-<br>र्जलान्तरम् ॥ ४० ॥ त्वद्वर्तुलस्थूलसुवर्णकान्ति रम्यस्तन-<br>श्रीफलयुग्ममेतत् । दृष्ट्वा वने श्रीफलमाकुले किं लज्जाभिराल-<br>म्बितमेव वृक्षे ॥ ४१ ॥ जघान बाणैर्दशभिर्दशास्यंशिरांसि<br>सीताहरणे स रामः । त्वदङ्गसङ्गाय सदानुरक्तः प्रयातु मे<br>मस्तकमेकमेव ॥ ४२ ॥ शिखरिणि क्व नु नाम कियच्चिरं<br>किमभिधानमसावकरोत्तपः । तरुणि येन तवावरपाटलं<br>दशति बिम्बफलं शुकशावकः ॥ ४३ ॥ अनधिगत-<br>मनोरथस्य पूर्वं शतगुणितेव गता मम त्रियामा । यदि तु<br>तव समागमे तथैव प्रसरति सुभ्रु ततः कृती भवेयम्<br>॥ ४४ ॥ दलितकुचनखाङ्कमङ्गपालिं रचय ममाङ्कमुपेत्य<br>पीवरोरु । अनुहर हरिणाक्षि शङ्कराङ्कस्थितहिमशैलसुता-<br>विलासक्ष्मीम् ॥ ४५ ॥ कुमुदकमलनीलनीरजातिर्ललित-<br>विलासजुषोर्दृशो पुर का । अमृतममृतरश्मिरम्बुजन्म<br>प्रतिहतमेकपदे तवाननस्य ॥ ४६ ॥ नारब्धं कुचपरि-<br>रम्भणेषु वाम्य वैमुख्यं किमपि न चुम्बने कदाचित् ।<br>किं नीवीगतमबले रुणत्सि पाणिं विक्रीते करिणी किमङ्कुशे<br>विवादः ॥ ४७ ॥ दासे कृतागसि भवेदुचितः प्रभूणां<br>पादप्रहार इति मानिनि नांस्मि दूये । उञ्चत्कठोरपुलकाङ्कित<br>कण्टकाग्रैर्यद्विद्यते तव पद् ननु सा व्यथा मे ॥ ४८ ॥<br>बाले तवाधरसुधारसपानकाले चेतो मदीयमिवाञ्छति<br>शेष॑भावम् । आलिङ्गने तव विरोचैनपौत्रभावमर्मीखण्डल-<br>त्वमखिलाङ्कनिरीक्षणे ते ॥ ४९ ॥ एको हि खञ्जनवरो<br>नलिनीदलस्थो दृष्टः करोति चतुरङ्गबलाधिपत्यम् । किं वा<br>करिष्यति भवद्वदनारविन्दे जानामि नो नयनखञ्जनयुग्म-<br>मेतत् ॥ ५० ॥ कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि<br>सोऽस्तु प्रियस्तव किमत्र विधेयमन्यत् । आश्लेषमर्पय<br>मदर्पितपूर्वमुञ्चैर्दन्तक्षतं मम समर्पय चुम्बनं च ॥ ५१ ॥<br>म्लानस्य जीवकुसुमस्य विकासनानि संतर्पणांनि सकले-<br>न्द्रियमोहनानि । एतानि ते सुवचनानि सरोरुहाक्षि<br>कर्णामृतानि मनसश्च रसायनानि ॥ ५२ ॥ मौल्यन्मब्ज-<br>शशिनोर्मधुलिट्कलङ्कौ धत्तो मुखे तु तव दृक्तितलकाञ्जना-<br>भास् । दोषावितैः क्वचन मेलँनतो गुणस्वं वक्तुर्गुणो हि<br>वचसि श्रमविप्रलम्भौ ॥ ५३ ॥ पादास्त एव शशिनःसुखयन्ति गात्रं बाणास्त एव मदनस्य ममानुकूला । संरम्भ-<br>रूक्षमिव सुन्दरि यद्यदासीत्तत्सगमेन मम तत्तदिवाधुनीतंम्<br>॥५४॥ पद्द्मातपत्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि<br>वापिकायाम् । काल कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा<br>हरिष्यति सुखस्य तवैव लक्ष्मीम् ॥ ५५ ॥ त्वद्वक्त्रसाम्यम-<br>यमम्बुजकोशंमुद्रामङ्गात्तत्तत्सुषममित्रंकरोपक्लृप्त्या । लब्ध्वापि<br>पर्वणि विधु कमहीयमानं शंसत्यनीय्युपचिता श्रियमाशु-<br>नाशाम् ॥ ५६ ॥ मृदुलकनककान्ति श्वाससौरभ्यरम्य<br>वदनकमलमेतन्नेत्रमत्तद्विरफम् । तव किमु सुसमीक्ष्य<br>व्रीडया पद्मवृन्द सरसि सलिलपूर्णे मर्तुकाम विवेश ॥ ५७ ॥<br>यः प्रागासीदभिनववयोविभ्रमावाप्तजन्मा चित्तोन्माथी विगत-<br>विषयोपप्लवानन्दसान्द्रः । वृत्तीरन्तस्त्विर्यति तवाश्लेषजन्मा<br>स कोऽपि प्रौढप्रेमा नव इव पुनर्मन्मथो मे विकारः<br>॥ ५८ ॥ गोत्रे साक्षादजनि भगवानेष यत्पद्मयोनिः<br>शय्योत्यायं यदखिलमह. प्रीयणन्ति द्विरफान । एकाग्रा<br>यद्घति भगवत्युष्णमानौ च भक्ति तत्रापुस्ते सुतनु<br>वदनौपम्यमम्भोरुहाणि ॥ ५९ ॥ उन्मेषं यो मम न सहते<br>जातिवैरी निशायामिन्दोरिन्दीवरदलदृशा तस्स सोन्दर्य-<br>दर्पः । नीत. शान्ति प्रसभमनया वक्त्रकान्त्येति हर्षाल्लभा<br>मन्ये ललिततनु ते पादयो पद्मलक्ष्मी ॥ ६० ॥ हस्त-<br>स्वेदस्नपित इव यश्चन्दनक्षोदवृन्दैरालिप्तोऽलंकृतपरिसर.<br>फुल्लकह्वारहारै. । आराधीत्थ तव नवकुरङ्गाक्षि वक्षोजशंभुः<br>साक्षात्कारं तदपि न दिशत्येष कि वा करोमि ॥ ६१ ॥<br>विनिश्चेतु शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा<br>वा किमु विषविसर्प. किमु मदः । तव स्पर्शे स्पर्शे मम हि<br>परिभूतेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च संमीलयति च<br>॥ ६२ ॥ सितज्योत्स्नाम्भिस्ते धवलयति विश्व शशिसुखि<br>दृशस्ते पीयूषद्रवमिव विमुञ्चन्ति परितः । वपुस्ते लावण्यं<br>किरति मधुर दिक्षु तदिद कुतस्ते पारुष्य सुतनु हृदयेनाद्य<br>गुणितम् ॥ ६३ ॥ स्तुमः कं वामाक्षि क्षणमपि विना यं न<br>रमसे विलेभे कः प्राणान् रणमखमुखे यं मृगयसे । सुलभे<br>को जात शशिमुखि यमालिङ्गसि बलात्तप.श्रीः कस्यैषा<br>मदननगरि ध्यायसि तु यम् ॥ ६४ ॥ पुराभूदस्माक प्रथम-<br>म॑विभिन्ना तनुरिय ततो नु त्व प्रेयान् वयमपि हताशा-<br>प्रियतमा. । इदानीं नाथस्व वयमपि कलत्र किमपर हताना<br>प्राणाना कुंलिशकठिनाना फलमिदम् ॥ ६५ ॥ दृशौ तव<br>मदालसे मदनमिन्दुमुत्यान्वितं गतिर्जनमनोरमा विधुतरम्भ-

पादटिप्पण्यः (Footnotes):

वामभागः: १ अस्तीत्यर्थे २ शेषत्वम् जिहासङ्गरूत्त्वात्, ३ बाणासुरत्वम्, हस्तसहस्रवत्त्वात् ४ इन्द्रत्वम्, चक्षु सहस्रत्वात् ५ मलिनत्वम् ६ प्राप्नुत ७ मिथो मिलनातू ८ भ्रान्तिप्रतारणे
४० सु र. भा

दक्षिणभागः: १ कुष्ठल , पक्षे,-भाण्डारगृहम् २ मुकुलीभाव , पक्षे,-मुद्रणम् ३ गृहीता ४ शोभा ५ सूर्यकिरणा , पक्षे,-सुहृत्पाणय ६ एका ७ वज्रवत्कठोराणाम्

३१४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


मूरुद्वयम् । रतिस्तव कलादती रुचिरचित्रलेखे भ्रुवावहो विबुधयौवनं वहसि तन्वि पृथ्वीगता ॥ ६६ ॥ दिनकरकराभृष्टं बिभ्रद्युति परिपाटला दशनकिरणैरुत्सर्षद्भिः स्फुटीकृतकेसरम् । अयि मुखमिदं मुग्धे सत्यं समं कमलेन ते मधु मधुकर, किं त्वेतत्स्निग्धन्न विभाव्यते ॥ ६७ ॥ बन्धूकद्युति बान्धवोऽयमधरः स्निग्धो मधूकच्छविर्गण्डे चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् । नासान्वेति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ ६८ ॥ केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने हन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः । मुक्तानां सततं निवास रुचिरं वक्षोजकुम्भद्वयं चेत्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः ॥ ६९ ॥ भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिल करोतु कबरीभारोऽपि मारोद्यमम् । मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवान्सङ्गतः स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ ७० ॥ ये ये खञ्जनमेकमेव कमले पश्यन्ति दैवात्क्वचिन्ते सर्वे कवयो भवन्ति सुतरां प्रख्यातभूमीभुजः । त्वद्वक्त्राम्बुजनेत्रखञ्जनयुगं पश्यन्ति ये ये जनास्त ते मन्मथबाणजालविकला मुग्धे किमत्यद्भुतम् ॥ ७१ ॥ धत्ते बर्हभरे शिखी तव न किं धम्मिल्लमाश्रित्य सारङ्गो भजते न किं तव दृशोः सौभाग्यमालोकते । मत्तेभश्च शिरःपदे वहति ते वक्षोजलक्ष्मीं न किं तन्मन्ये तरुणि त्वया विवृणुते साम्यं वनश्रीरियम् ॥ ७२ ॥ किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् । वक्त्रेन्दौ तव सत्य यदपरः शीतांशुरुज्जृम्भते दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥ ७३ ॥ लावण्यामृतवर्षिणि प्रतिदिशं कृष्णागरुश्यामले वर्षाणामिव ते पयोधरभरे तन्वङ्गि दूरोन्नते । नासावंशमनोज्ञकेतकतनुभ्रूपुत्रगर्भोह्लसत्पुष्पश्रीस्तिलकः सहेलमलकैशृङ्गैरैर्विवापीयते ॥ ७४ ॥ अन्तःकूजदुदारकण्ठमसकृन्मुग्धेति लोलेक्षणं प्रायः स्मेरकपोलमूलममृतप्रस्यन्दि बिम्बाधरम् । आधूताङ्गुलिपल्लवाग्रमलमित्यानर्तितभ्रूलतं पीतं येन मुखं त्वदीयमबले सोऽहं हि धन्यो युवा ॥ ७५ ॥ हुंकारैर्ददता मया प्रतिवचो यन्मौनमासेवितं यद्वावानलदीप्तिभिस्तनुरियं चन्द्रातपैस्तापिता । ध्यातं यत्सु-बहून्यनन्यमनसा नक्तंदिनानि प्रिये तस्यैतत्पसः फलं मुखमिदं पश्यामि यत्तेऽधुना ॥ ७६ ॥ काश्मीरद्रवगौरि हन्त किमयं भूयोऽङ्गरागे ग्रहः, को वा नीलसरोरुहाक्षि नितरा नेत्राञ्जने संभ्रमः । रक्ताशोकदलोपमेयचरणे किं लाक्षया दत्तया नो रागान्तरमीहते निजरुचा विभ्राजमानो मणिः ॥ ७७ ॥ तन्वि त्वद्वदनस्य विश्रममलं लावण्यवारानिधेरिन्दुः सुन्दरि दुग्धसिन्धुलहरीबिन्दुः कथं विन्दतु । उत्कल्लोलविलोचने क्षणमय शीताशुरालम्बतामुन्मीलन्नवनीलनीरजबनीखेलन्मरुत्प्रियम् ॥ ७८ ॥ वेणी ते प्रसमीक्ष्य चित्रकुसुमैरुरुद्धासिता बर्हिणो लज्जन्ते निजबर्हवृन्दमधिकं भारं विदित्वा प्रिये । निर्याता शनकैरिति स्वनिलयाद्दूरे निलीय स्थिताः पश्यैतानपि लज्जयैव मधुपान्वल्लीर्विहायोद्गतान् ॥ ७९ ॥

पानगोष्ठीवर्णनम्

दृश्यते पानगोष्ठीषु कान्तावक्त्रगतं मधु । खर सहायमासाद्य ग्रस्तो राहुरिवेन्दुना ॥ १ ॥ सागसि प्रियतमे कृतकोपा याद्रियुग्मपतितेऽपि न तुष्टा । सैव मद्यपरिलुप्तविवेका तां तथैव परितोषयति स्म ॥ २ ॥ मूर्तिमन्तमिव रागरसौघ ते परस्परसमर्पितवक्त्राः । आननासवमिषेण तदानीमक्षिपन्त हृदयेषु युवानः ॥ ३ ॥ सज्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि । आययुः सुघटितानि सुरायाः पात्रेता प्रियतमौवदनानि ॥ ४ ॥ सोपचारमुपशान्तविचार सानुवर्षमनुतर्षपदेन । ते मुहूर्तमथ मूर्तमपीप्यन्नेम मानमवधूय वधूः स्वाः ॥ ५ ॥ कान्तकान्तवदनप्रतिबिम्बे मग्नबालसहकारसुगन्धौ । स्वादुनि प्रमदितालिनी शीते निर्ववार मधुनीन्द्रियवर्गः ॥ ६ ॥ कापि शायनसुगन्धि विधूर्णन्मन्मदोऽधिशयितुं समशेत । फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्गिः १ ॥ ७ ॥ बिम्बितं भृतपरिश्रुति जानन्भाजने जलजमित्यबलायाः । भ्रातुमक्षि पतति भ्रमरः, सा भ्रान्तिभाजि भवति क्व विवेकः ॥ ८ ॥ दत्तमिष्टमया मधु पत्युर्बाढमाप पिबतो रसवत्ताम् । यत्सुवर्णमुकुटाशुभिर्नासीच्चेतनाविरहितैरपि पीतम् ॥ ९ ॥ खादनेन सुतनोरविचाराद्बोष्ठत समचरिष्ट रसोऽत्र । अन्यमन्यदिव यन्मधु यूनः स्वादुमिष्टमतनिष्ट तदेव ॥ १० ॥ बिभ्रतौ मधुरतामतिमात्र रागिभिर्युगपदेव पपाते । आननैर्मधुरसो विकसद्दिर्नासिकाभिरसितोत्पलगन्धः ॥ ११ ॥ पीतवत्यभि-मते मधुतुल्यस्वादमोह्ररुचक विददद्वैौ३ । लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ॥ १२ ॥ कस्यचित्समदनं मदनीयप्रेयसीवदनपानपरस्य । खादितः मकुदि-


१ बन्धनयुक्ता, पक्षे,-नियमवन्त २ कर्णस्य, पक्षे,-वेदस्य ३ दन्तानाम्, पक्षे,-ब्राह्मणानाम्, ४ मौक्तिकानाम्, पक्षे,-जीवन्मुक्तानाम् ५ भ्रूरेव चापस्तस्मिन् ६ कटाक्ष एव विशिखो बाण ७ मलिनस्वभाव ८ समुद्रस्य, पक्षे,-कामस्य ९ आलोक, पक्षे,-प्रकाश १० उदितो भवति ११ चञ्चलनेत्रम्
१ निवृत्तिं पाप २ मद्ये ३ विद्रष्टुमिच्छौ

पानगोष्ठीवर्णनम् ३१५


वासव एव प्रत्युत क्षणविदशपदेऽभूत् ॥ १३ ॥ पीतशीधु-
मधुरैर्मिथुनानामाननै परिहृत चषकान्त । व्रीडया
रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् ॥ १४ ॥ प्रौतिभ^१
स्त्रिमरकेण गतानां वक्त्रवाक्यरचनारमणीय । गूढ-
सूचितरहससहासः सुभ्रुवा प्रवृते परिहास ॥ १५ ॥
हावहारि हसितं वचनाना कौशलं दृशि विकारविशेषा. ।
चक्रिरे भृशमृजोरपि वध्वा. कामिनेव तरुणेन मदेन^२
॥ १६ ॥ अप्रसन्नमपराध्वरि पत्लौ कोपदीप्तमुररीकृतधैर्यम् ।
क्षालितं नु शमितं नु वधूना द्रावितं नु हृदय मधुपारै
॥ १७ ॥ सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदियुतदङ्गे ।
विभ्रम मधुमदः प्रमदाना धातुलौनमपमर्ग इवार्थम् ॥ १८ ॥
सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । गन्तु-
मुत्थितमकारन्तः श्व द्योतयन्ति मदविभ्रमामासाम् ॥ १९ ॥
मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या । वीक्ष्यते
स्म शनकैर्नववध्वा कामिनो मुखमधोमुखयैव ॥ २० ॥
या कथञ्चन सखीवचनेन प्रागभिप्रियतम प्रजगल्भे । व्रीड-
जाड्यममजन्मधुना सा स्वा मदात्प्रकृतिमेति हि सर्वः ॥२१॥
छादितः कथमपि त्रपयान्तर्य. प्रियं प्रति चिराय रमण्या. ।
वारुणीमदविशङ्कमथाविश्चक्षुषोऽभवदसाविव राग. ॥ २२ ॥
आगतानगणितप्रतिघातानव्लभानभिसिमारयिषूणाम् । प्रापि
चेतसि स विप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ २३ ॥ मा
पुनस्तमभिसौसरमागस्कारिणं मदविमोहितचित्ता । योषि-
दित्यभिलाष न हाला दुस्त्यज. खलु सुखादपि मान.
॥ २४ ॥ हीविमोहमहरद्दयितानामन्तिक रतिसुखाय
निनाय । सप्रसादमिव सेवितमासीत्सद्य एव फलद मधु
तासाम् ॥ २५ ॥ दत्तमत्तवदनं दयितेन व्यासमातिशयिकेन
रसेन । सखदे मुखसुरा प्रमदाभ्यो नाम रूढमपि च व्युद-
पादि ॥ २६ ॥ लब्धसौरमगुणो मदिराणामङ्कनास्स्रचष-
कस्य च गन्ध. । मोदितालिरितरेतरयोगादन्यतामभजता-
तिशयं नु ॥ २७ ॥ मानभङ्गपटुना सुरतेच्छा तन्वता प्रथ-
यता दृशि रागम् । लेभिरे सपदि भावयतान्तर्योषित. प्रण-
यिनेव मदेन ॥ २८ ॥ पानधौतनवयावकरागं सुभ्रुवो
निभृतचुम्बनदक्षाः । प्रेयसामधररागरसेन स्वं किलाभरमुपाले
ररङ्गु ॥ २९ ॥ अर्पित रसितवत्यपि नामग्राहमन्ययुवते-
र्दयितेन । उज्जति स्म मदमप्यपिबन्ती वीक्ष्य मध्यमितरा
तु ममाद ॥ ३० ॥ अन्ययान्यवनितातगचित्तं चित्तनाथ-
मभिशङ्कितवत्या । पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो
मदहेतुः ॥ ३१ ॥ कोपवत्यनुनयानगृहीत्वा प्रागथो मधु-
मदाहितमोहा । कोपितं विरहखेवितचित्ता कान्तयेव कल-
यन्त्यनुनिन्ये ॥ ३२ ॥ कुर्वता मुकुलिताक्षियुगानामङ्गमाद-
मवमादितवाचाम् । ईर्ष्ययेव हरता ह्रियमासा तद्गुण. स्वयम-
कारि मदेन ॥३३॥ गण्डभित्तिषु पुरा सदृशीषु व्याङ्गि नाश्वि-
तदृशा प्रतिमेन्दुः । पानपाटलिकान्तिषु पश्चाल्लोभ्रचूर्णतिल-
काकृतिरासीत् ॥ ३४ ॥ उद्धतैरिव परस्परसङ्गादीरितान्यु-
भयत कुचकुम्भे । योषितामतिमदेन जुघूर्णैविश्रमातिशय-
पुषि वपूंषि ॥ ३५ ॥ चारुता वपुरभूषयदासा तामनून-
नवयौवनयोगः । त पुनर्मकरकेतनलक्ष्मीस्ता मदो दयित-
सगमभूप. ॥ ३६ ॥ क्लीवतामुपगतास्वनुवेलं तासु गेषपरि-
तोषवनीषु । अग्रहीन्न मगशर धनुरुज्झामास नूज्जितनिषङ्ग-
मनङ्गः ॥ ३७ ॥ शङ्कयान्त्ययुवतौ वनितामि प्रत्यभेदि
दयित. स्फुटमेव । न क्षम मवति तत्त्वविचारे मत्सरण हृत-
संवृति चेत ॥ ३८ ॥ आननैर्विचकसे हपिताभिर्बह्लभानभि-
तन्नूभिरमावि । आर्द्रता हृदयमाप च रोषो लोलति स्म
वचनेषु वधूनाम् ॥ ३९ ॥ रूपमप्रतिविधानमनोज्ञ प्रेग्कार्य
मनपेक्ष्य विकासि । चाटु चाकृतकसभ्रस्रमासा कार्म्णत्वमगम-
न्नरमणेपु ॥ ४० ॥ लीलयव सुतनोरतुलयित्वा गोरवाढ्यमपि
लावणिकेन । मानवञ्चनविदा वड्नेन कीतमेव हृद्य दयि-
तस्स ॥ ४१ ॥ शीधुपानविधुरासु निगृह्णन्मानमाशु शिथिली
कृतलज्ज । सगतासु दयितैरुपलेमे कामिनीषु मदनो नु मदो नु
॥ ४२ ॥ पातुमाहितरतीन्प्रमिलेषुस्तर्र्यन्त्यपुनरुक्तरसानि ।
सक्षितानि वदनानि वधूना सोत्पलानि च मधूनि युवान-
॥४३॥ कान्तसगमपगाजितमन्यौ वारुणीरसनशान्तविवादे ।
मानिनीजन उपाहितसधौ सदधे धनुषि नेपुमनङ्ग. ॥४४॥
कुप्यताशु भवतानतचित्ताः कोपिनाश्र वरिवरूज यून. ।
इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवार. ॥ ४५ ॥
भर्तृभिः प्रणयसभ्रमदत्ता वारुणीमतिरसा रसयित्वा ।
हीविमोहविरहादुपलेभे पाटवं नु हृदय नु वधूबि ॥ ४६ ॥
खादितः स्वयमथैधितमान लम्भित प्रियतमैः मह पीत. ।
आसवः प्रतिपद प्रमदाना नैकरूपरसतामिव भेजे ॥ ४७ ॥
भ्रूविलाससुभगाननुकर्त्तु विभ्रमानिव वधूनयनानाम् ।
आददे मृदुविलोलपलाशैरूत्वलैश्रषकवीचिषु कम्प. ॥ ४८ ॥
ओष्ठपल्लवविदंशरुचीना हृद्यतामुपययौ रमणानाम् । फुल्ल-
लोचनविनीलसरोर्जैरङ्गनास्यचषकैर्मधुवारः ॥ ४९ ॥ प्राप्यते
गुणवतापि गुणाना व्यक्तमाश्रयवशेन विशेष । तत्तथा
हि दयिताननदत्त व्यानशे मधु रसातिशयेन ॥ ५० ॥
वीक्ष्य रत्नचषकेष्वतिरिक्त कान्तदन्तपदमण्डललक्ष्मीम् ।
जज्ञिरे बहुमता प्रमदानामोष्ठयावकनुदो मधुवाराः ॥ ५१ ॥
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा । वारुणी
परगुणात्मगुणाना व्यत्यय विनिमयं नु वितेने ॥ ५२ ॥


^१ प्रागल्भ्यम्
^२ मद्येन

३१६सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

तुल्यरूपमसितोत्पलमक्ष्णोः कर्णगं निरुपकारि विदित्वा ।
योषितः सुहृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः ॥ ५३ ॥
क्षीणयावकरसोऽप्यतिपातैः कान्तदन्तपदसम्भृतशोभः ।
आययावतितरामिव वध्वाः सान्द्रतामधरपल्लवरागः ॥ ५४ ॥
रागकान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु । सर्व-
गापि ददृशे वनिताना दर्पणेष्विव मुखेषु मदश्रीः ॥ ५५ ॥
बद्धकोपविकृतीरपि गम्भीरारुताभिमततामुपनिन्ये । वश्यता
मधुमदो दयितानामात्मवर्गहितमिच्छति सर्वः ॥ ५६ ॥
वाससा शिथिलतामुपनाभि हीनिरासमपदे कुपितानि ।
योषिता विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥ ५७ ॥
भर्तृषूपसखि निक्षिपतीनामात्मनो मधुमदोद्यमितानाम् ।
व्रीडया विफलता वनिताना न स्थितं न विगतं हृदयेषु
॥ ५८ ॥ रुन्धती नयनवाक्यविकास सादितोभयकरा परि-
रम्भे । व्रीडितस्य ललितं युवतीना क्षीबता बहुगुणैरनुजह्ने
॥ ५९ ॥ योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयि-
ताङ्कम् । कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्य-
विभेदम् ॥ ६० ॥ आहिते नु मधुना मधुरत्वे चेष्टितस्य
गमिते नु विकासम् । आबभौ नव इवोद्धतरागः कामिनी-
ष्ववसरः कुसुमेषोः ॥ ६१ ॥ मा गमन्मदविमूढधियो नः
प्रोज्झ्य रन्तुमिति शङ्कितनाथाः । योषितो न मदिरा भृश-
मीषुः प्रेम पश्यति भयान्यपदेऽपि ॥ ६२ ॥ चित्तनिर्वृतिनिधायि
विविक्तं मन्मथो मधुमद शशिभासः । सगमश्च दयितैः
स नयन्ति प्रेम कामपि भुव प्रमदानाम् ॥ ६३ ॥ धार्ष्ट्य-
लङ्घितयथोचितभूभौ निर्दयं विलुलितालक्रमात्ये । मानिनी-
रतिविधौ कुसुमेषोर्मत्तमत्त इव विभ्रभमाप ॥ ६४ ॥
शीधुपानविधुरेषु वधूना निम्रतामुपगतेषु वपुःषु । ईहितं
रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे ॥ ६५ ॥
पीतस्तुपारकिरणो मधुनेव सार्धमन्तः प्रविश्य चषकप्रति-
बिम्बवर्ती । मानान्धकारमपि मानवतीजनस्य नूनं बिभेद
यदसौ प्रससाद सद्यः ॥ ६६ ॥ पिपि प्रिय सस स्वयं मुमु
मुखासवं देहि मे तत त्यज दुदु द्रुतं भभम भाजन काञ्चनम् ।
इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः प्रगे हसितहेतवे
सहचरीभिरध्याय्यत ॥ ६७ ॥

द्यूतक्रीडावर्णनम्

स्मितेनोपायनं दूरादागतस्य कृतं मम । स्तनोपपीडमा-
श्लेषः कृतो द्यूते पणस्तया ॥ १ ॥ आश्लेषचुम्बनवतोत्सव-
कौतुकानि क्रीडादुरोदरपणः प्रेरितभूरुनङ्गः । भोगः स यद्यपि
जये च पराजये च यूनोर्मनस्तदपि वाञ्छति जेतुमेव ॥ २ ॥
रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः
क्वणितकलकण्ठार्थमधरे । कृतभ्रूभङ्गासौ प्रकटितविलक्षार्ध-
रुदितस्मितक्रोधोद्ध्रान्तं पुनरपि विदध्यानमयि मुखम् ॥ ३ ॥
अद्य द्यूतजिताधरग्रहविधावीशोऽसि तत्खण्डनादाधिक्ये वद
को भवानिति मृषा कोपान्वितभ्रूलता । सद्यः स्विन्नकराग्रकुन्तल-
परायत्तीकृतास्वस्य मे मुग्धाक्षी प्रतिकृत्य तत्कृतवती द्यूतेऽपि
यन्मार्जितम् ॥ ४ ॥ गाढालिङ्गनपूर्वमेकमनया द्यूते जिते
चुम्बनं तत्किंचित्परिरभ्य दत्तममुना प्रत्यर्पितं चानया ।
नैतत्तादृगिद न तादृशमिति प्रत्यर्पणप्रक्रमैर्यूनोश्चुम्बनमेक-
मेव बहुधा रात्रिर्गता तन्वतोः ॥ ५ ॥ आश्लेषे प्रथमं क्रमेण
विजिते हृष्टेऽधरस्यार्पणे नर्मद्यूतविधौ पण प्रियतमे कान्ता
पुनः पृच्छति । अन्तर्हास निरोधसभृत रसोद्भेद स्फुरद्दण्डया
स्वैर सारिविमोरणाय विहित खेदाम्बुगर्भः करः ॥ ६ ॥

बाह्यरतक्रीडावर्णनम्

आलिङ्गनम्

ह्रीतया गलितनीवि निरस्यन्नन्तरीयमवलम्बितकाञ्चि ।
मण्डलीकृतपृथुस्तनभार सस्वजे दयितया हृदयेश ॥ १ ॥
उत्तरीयविनयात्रपमाणा रुन्धती किल तदीक्षणमार्गम् ।
आवरिष्ट विकटेन विबोदुर्लक्षकेश कुचमण्डलमन्या ॥ २ ॥
अशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा । भिन्न-
शङ्खवलयं परिणेत्रा पर्य रम्भि रभसात्पचिरोढा ॥ ३ ॥
सजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् । सहितं
रतिपतिः क्षितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥ ४ ॥
संसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपलि रसेन । आत्मनैव
रुरुधे कृतिनेव खेदसङ्गि वसनं जघनेन ॥ ५ ॥ पीडिते पुर
उरःप्रतिपेष भर्तरि स्तनयुगेन युवत्याः । स्पष्टमेव दलत-
प्रतिनार्यास्तन्गतयमभवद्बुद्धयस्य ॥ ६ ॥ दीपितस्मरमुरस्युप-
पीडं वल्लभ्रे घनमभिष्वजमाने । वक्रता न ययतुः कुचकुम्भौ
सुभ्रुवः कठिनतातिशयेन ॥ ७ ॥ सप्रवेष्टुमिव योषित ईषु
श्लिष्यता हृदयमिष्टमनानाम् । आत्मन सततमेव तदन्त-
र्वर्तिनो न खलु नूनमजानन् ॥ ८ ॥ स्नेहनिर्भरमधत्त
वधूनामार्द्रता वपुरसशयमान्तः । यूनि गाढपरिरम्भिणि-
वस्त्रकोपमम्बु ववृपे यदनेन ॥ ९ ॥ न स्म माति वपुषः
प्रमदानामन्तरिष्ठतमसगमजन्मा । यद्बहूर्बहिर्वाप्य विकास
व्यानशे तनुरुहाण्यपि हर्ष ॥ १० ॥ यत्प्रियव्यतिकराद्भू-
नितानामङ्गजेन पुलकेन बभूवे । प्रापि तेन भृशमुच्छ्वसिता-
भिर्नीविभिः सपदि बन्धनमोक्षः ॥ ११ ॥

चुम्बनम्

लोलदृष्टि वदन दयितायाश्चुम्बति प्रियतमे रभसेन ।
व्रीडया सह विनीवि नितम्बार्दंशुकं शिथिलतामुपपेदे
॥ १२ ॥ आहता नखपदैः परिरम्भाश्चुम्बितानि
घनदन्तनिपातैः । सौकुमार्यगुणसभृतकीर्तिर्वाम एव सुरते-


१ अनवसरे अस्थाने वा. २ प्रभाते ३ 'जामीन' इति लोके
१ अक्षणा स्थलान्तरीकरणधम्

वाह्यरतक्रीडावर्णनम्, सुरतप्रशंसा, नववधूसंगमे सखीवाक्यम्, नववधूसंगमः ३१७


ष्वपि काम ॥ १३ ॥ ह्रीभ्रादवनतं परिरम्भे रागवानव-
टुजेष्ववकृष्य । अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्ष-
मधासीत् ॥ १४ ॥ पल्लवोपमिति साम्यसपक्षं दृष्टवत्यधरबि-
म्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण
॥ १५ ॥ केनचिन्मधुरमुल्बणरागं बाष्पतममधिकं विरहेषु ।
ओष्ठपल्लवमपास्य मुहूर्तं सुभ्रुवः सरसमक्षि चुचुम्बे ॥ १६ ॥

विहार

आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वितयेन ।
रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि
॥ १७ ॥ कामिनामसकलानि विमुग्धैः खेदवारिमृदुभिः
करजाग्रैः । अक्रियन्त कठिनेषु कथंचित्कामिनीकुच-
तटेषु पदानि ॥ १८ ॥ सोष्मणस्तनशिलाशिखराग्रादात्तघर्म-
सलिलैस्तरुणानाम् । उच्छ्रसत्कमलचारुषु हस्तैर्निम्ननाभिसर-
सीषु निपेते ॥ १९ ॥ आमृशद्भिरभितो वलिवीचीर्लोल-
मानवितताङ्गुलिहस्तैः । सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति
मध्यमभीष्टैः ॥ २० ॥ प्राप्य नाभिनदमज्जनमाशु प्रस्थितं
निवसनग्रहणाय । औपनीविकमरुन्ध किल स्त्री वल्लभस्य
करमात्मकराभ्याम् ॥ २१ ॥ कामिनः कृतवतोत्सवकाल-
क्षेपमाकुलवधूकरात्सपदि । मेखलागुणविलग्नमसूर्या दीर्घसूत्र-
मकरोत्परिधानम् ॥ २२ ॥ अम्बरं विनुदतः प्रियपाणेर्यो-
षितश्च करयोः कलहंसः । वारणामिव विधातुमभीक्ष्णं
कक्ष्यया च वलयैश्च शिशिञ्जे ॥ २३ ॥ ग्रन्थिमुद्ग्रथयितुं हृद-
येशे वाससः स्पृशति मानधनायाः । भ्रूयुगेण सपदि प्रति-
पेदे रोममिश्रं सममेव विभेदः ॥ २४ ॥ आशु लङ्घित-
वतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधर-
तन्त्रीमण्डलक्वणितचारु चुकूजे ॥ २५ ॥ आयताङ्गुलिरभूद-
तिरिक्तः सुभ्रुवा कशिमशालिनि मध्ये । श्रोणिषु प्रियकरः
पृथुलासु स्पर्शमाप सकलेन तलेन ॥ २६ ॥ चक्रुरेव लल-
नोरुषु राजीः स्पर्शलोभवशलोलकराणाम् । कामिनामनिभृ-
तान्यपि रम्भास्तम्भकोमलतलेषु नखानि ॥ २७ ॥ ऊरुमूल-
चपलेक्षणभग्नैर्वतंसकुसुमैः प्रियमेताः । चकिरे सपदि
तानि यथार्थं मन्मथस्य कुसुमायुधनाम ॥ २८ ॥

सुरतप्रशंसा

सुरते च समाधौ च मनो यत्र न लीयते । ध्यानेनापि
हि किं तेन किं तेन सुरतेन वा ॥ १ ॥ यत्र न मदन-
विकारः सद्भावसमर्पणं च गात्राणाम् । तस्मिन्नुद्धतभावे पशु-
कर्मणि पशव एव रज्यन्ते ॥ २ ॥ प्रतिक्षणसमुल्लसन्नव-
कलाकलापान्वितक्षपाकरविलोकेने यदि तवास्ति कौतूहलम् ।
विलोकय तदा सखे सुरतसगरालोकनप्रहृष्टदयितामुखं
निबिडकञ्चुकोत्तारणे ॥ ३ ॥ नरैर्विफलजन्मभिर्गिरिदरी न किं
सेव्यते न चेच्छ्रवणगोचरीभवति जातुचिज्जन्मनि । कपोत-
रवमाधुरीविग्वचनानुकारादरीतरासहकृतोदरीवचनकाकुरीति-
ध्वनि ॥ ४ ॥ सदष्टेऽधरपल्लवे मचकितं हस्ताग्रमा-
धुन्वती मा मा मुञ्च शठेति कोपवचनेनगर्तिनभ्रूलता ।
सीत्कागञ्चितलोचना सग्भसं यैश्चुम्बिता मानिनी प्राप्तं तै-
रमृतं श्रमाय मथितो मूढैः सुरैः सागरः ॥ ५ ॥ किं चेतर्गुरु-
सेवनैः किमपरव्योमार्चने किं फलं किं स्यादध्ययनेन मे
सुरपदप्राप्त्याथ किं वा फलम् । एतस्याः कुचकुम्भसश्रम-
परीरम्भप्रवाहोद्गमस्वेदाम्भोभिरनङ्गवह्निरधुना निर्वापितो नो
यदि ॥ ६ ॥ प्राङ् मा मेति मनागनागतगुणं जाताभि-
लाषं ततः सव्रीडं तदनु श्लथोद्यममनु प्रम्नष्टधैर्यं पुनः ।
प्रेमार्ट्रस्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो निःसङ्गाङ्गविघर्ष-
णाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ ७ ॥ शङ्काराष्टुलितेन
यत्र नयनप्रान्तेन न प्रेक्ष्यते केयूरध्वनिभूरिभीतिचकितं नो
यत्र वाश्लिष्यते । नो वा यत्र शनैरलक्षदशनं विम्बावरः
पीयते नो वा यत्र विवीर्यते च मणितं तत्किं रतं कामिनो
॥ ८ ॥ आकाशे नटनं सरोरुहयुगे मञ्जीरमञ्जुध्वनिः
शीतांशौ कलकूजितं किसलये पीयूषपानोत्सवः । स्वर्गक्षोणि-
धरे नखात्परिभवो ध्वान्ते कराकर्षणं रम्भाया रसनारव-
स्तरणयोः पुण्यानि मन्यामहे ॥ ९ ॥

नववधूसंगमे सखीवाक्यम्

रक्षामालिकया बाले बद्धया किं प्रयोजनम् । अवश्यं-
भाविनावेतौ कुचग्रहकचग्रहौ ॥ १ ॥ बाला तन्वी मृदुतनु-
रियं त्यज्यतामत्र शङ्का दृष्टा काचिद्भ्रमरभरतो मञ्जरी भज्य-
माना । तस्मादेषा रहसि भवता निर्दयं पीडनीया मन्दा-
क्रान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥ २ ॥ नीरन्ध्रं
परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते तद्वाढं क्रियते यदस्य
रुचिरं चाटूत्करैः स्तूयते । सख्या मुग्धवधूरसौ रतविधौ
यत्नेन सा शिक्षिता निर्भ्रान्तं गुरुणा पुनः शतगुणं पञ्चेषुणा
कारिता ॥ ३ ॥ नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो
वारितास्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा
कृथा । कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरे
किं नो बर्बरकर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ४ ॥

नववधूसंगमः

यावक्सरार्द्रपादप्रहारगोणितकचेन दयितेन । मुग्धा
साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥ १ ॥
आभाति बालिकेयं पाणिस्पर्शेन पुलकितावयवा । अभिनव-
वसन्तसङ्गादाविर्मुकुलेव बालचूतलता ॥ २ ॥ खिद्यति

३१८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


कूर्णति वेल्लति विवलति निमिषति विलोकयति तिर्यक् ।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥ ३ ॥

भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि वधूः ।
तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ॥ ४ ॥

असंमुखालोकनमभिमुख्यं निषेध एवानुमतिप्रकारः ।
प्रत्युत्तर मुद्रणमेव वाचो नवाङ्गनाना नव एव पन्थाः ॥ ५ ॥

चुम्बनेषु परिवर्तिताधर हस्तरोधि रसनाविघट्टने ।
विह्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्धुरस्तम् ॥ ६ ॥

विरम नाथ विमुञ्च ममाञ्चलं शमय दीपमिमं समया सखीम् ।
इति नवोढवधूवचनैर्युवा मुदमगादधिका सुरतादपि ॥ ७ ॥

नीवीदृढार्पितकरा निबिडीकृतोरु व्रीडानता तत इतो वदनं हरन्तीम् ।
आरोप्य वक्षसि सुखं परिरब्धुमेना बाला बलादभिलषामि न पारयामि ॥ ८ ॥

पटाञ्चले पत्यौ नमयति मुखं जातविनया हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
न शक्नोत्याख्यातु स्मितमुखसखीदत्तनयना ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ९ ॥

समाकृष्टं वासः कथमपि हठात्पश्यति तदा क्रमादूरुद्वन्द्वं जरठशरगौरं मृगदृशः ।
तथा दृष्टिं दत्त्वा महति मणिदीपे निपुणया निरुद्धं हस्ताभ्यां झटिति निजनेत्रोत्पलयुगम् ॥ १० ॥

बलान्नीता पार्श्व सुखमभिमुखं नैव कुरुते धुनाना मूर्धानं हरति बहुशश्चम्बनविधिम् ।
हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना नवोढा वोढारं सुखयति च संतापयति च ॥ ११ ॥

स्फुरद्रोमोद्भेदस्तरलतरतारकुलदृशो भयोत्कम्पोत्तङ्गस्तनयुगभरासङ्गसुभगः ।
अधीर्राक्ष्या गुञ्जन्म णिवलयदोर्वल्लिरचितः परिरम्भो मोदं जनयति च संमोहयति च ॥ १२ ॥

अप्यौत्सुक्ये महति दयितप्रार्थनासु प्रतीपाः काङ्क्षन्त्योऽपि व्यतिकरसुखं कातरा स्वाङ्गदाने ।
आबाध्यन्ते न खलु मदनेनैव लब्धान्तरत्वादामान्यन्ते मनसिजमपि क्षिप्तकालाः कुमार्यः ॥ १३ ॥

दृष्ट्या दृष्टिमधो ददाति कुरुते नालापमाभाषिता शय्याया परिवृत्य तिष्ठति बलादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते बाला वामतया प्रियस्य नितरा प्रीत्यै नवोढाभवत् ॥ १४ ॥

अकृशाङ्गतुङ्गकुलया सरभस गूढौ भुजाम्बया स्तनावाकृष्ठे जघनांशुके कृतमय.ससक्तमूरुद्वयम् ।
नाभीमूलनिबद्धचक्षुषिपि तया व्रीडानताङ्ग्या प्रिये दीपः फूत्कृतिवातवेपितशिखः कर्णोत्पलेनाहतः ॥ १५ ॥

हस्तं कम्पवती रुणद्धि रशनाव्यापारलोलाङ्गुलि हस्तौ द्वौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् ।
पातुं पक्ष्मलचक्षुरानमयतः साचीकरोत्यानन व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ १६ ॥

कण्ठाश्लेषिणमुन्नतस्तनभरश्रोणीतटग्राहिणं ससक्तोरुयुगं गृहीतजघनप्राकारमप्यन्ततः ।
द्रागेव श्लथबन्धमिन्दुवदना गाढामर्दासंहं विज्ञायात्यजदाशु काञ्चनपटं व्रीडाकुलापि क्षणम् ॥ १७ ॥

कान्ते कञ्चुलिकावलोकिनि कलावत्या नमन्त्या स्थितं तस्मिन्कोमलकाकुभाषिणि तया स्पन्दी निरुद्धोऽधरः ।
उत्थायाथ करस्पृशि प्रियतमे यूनोर्नवे सगमे काञ्चीकूजितकैतवेन मदनो द्यौ शान्तिमभ्यस्यति ॥ १८ ॥

इत्थं तल्पतलाधिरोहणमियं पर्णार्यणप्रक्रिया शय्याया वचनक्रमस्य दयितस्यैवंविधाराधना ।
एवं केलिगृहोपदेहलि बलादानीयमाना मुहुश्चाटुक्तिप्रकरैश्चिरं नववधूरालीभिरध्याप्यते ॥ १९ ॥


सुरतकेलिकथनम्

आस्ता दूरेण विश्लेषः प्रियामालिङ्गतो मम ।
खेदः कि नु सरिन्नाथो रोमाञ्चः कि नु पर्वतः ॥ १ ॥

उग्ररूप कुचद्वन्द्व हारगङ्गाधर तव ।
चन्द्रचूडं करिष्यामि कुरु तावद्दिगम्बरम् ॥ २ ॥

कान्ते कलितचोलान्ते दीपे वैरिणि दीप्यति ।
आसीदसितपद्माक्ष्या पक्ष्मो नयनमुद्रणम् ॥ ३ ॥

ब्रह्मानन्दप्रचुर किमपीदं नेति रतिषु वचनेन ।
श्रुतिसीमगताक्षी सुदृशे सारङ्गमादिशसि ॥ ४ ॥

तव तन्वि तरुणपुण्यादम्बरमर्णिमकरसक्रमो जात ।
अधिवेणि भवति नियमः फलमविलम्बेन भावि कामस्य ॥ ५ ॥

विधुताः प्रियस्य केशाः कण्ठे लग्न भुजे वलितम् ।
मज्जन्त्या रससिन्धौ किं कि न कृतं तया सुदृशा ॥ ६ ॥

पृष्ठे कञ्चुकमुक्त्यै सुतनुस्तस्या प्रहिण्वती पाणिम् ।
हन्तुमिव चित्तहरिण यूनस्तूणादिवेषुमादत्ते ॥ ७ ॥

चारुनूपुररणत्कृतं रते कामिना हरति मानस यथा ।
नो तथा मधुरगीतवादितं केकिचातकपिकस्वना अपि ॥ ८ ॥

हेमकुम्भमिव तुङ्गमु रोजं वल्लभे स्पृशति चोरवद्द्रुसाः ।
जाग्रति स्म सहसैव तदानी यामिका इव तनरूहसघाः ॥ ९ ॥

पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः ।
योषिता रहसि गद्गदवाचामन्मथामृतमुपययुर्मदनस्य ॥ १० ॥

धैर्यमुल्बणमनोभवभावा वामता च वपुरर्पितवत्य ।
व्रीडितं ललितसौरतधार्थास्तेनिरेऽभिरुचितेषु तरुण्यः ॥ ११ ॥

पाणिरोधमविरोवितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्व कुरुते करमोरूर्हारि शुष्करुदिते च सुखेऽपि ॥ १२ ॥

वारणार्थपदगद्गदवाचामीर्ष्याया मुहुर्परप्रतया च ।
कुर्वते स्म सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः ॥ १३ ॥

अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ १४ ॥

बाहुपीडनकचग्रहाभ्यामाहतेन नखदन्तनिपातैः । बोधितस्त-

सुरतकेलिकथनम् ३१९


नुशयस्तरुणीनामुन्निमील विशद विषमेषुः ॥ १५ ॥
कान्त्या सपदि कोऽप्युपगूढः प्रोढपाणिगपनेतुमिषेष । सहत-
सनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यन् ॥ १६ ॥
आहतं कुचतटेन तरुण्या साधु सोढमनुनेति पपान ।
त्रुट्यत प्रियतमोऽसि दृागत्पुष्पवृष्टिरिव मौक्तिकवृष्टिः
॥ १७ ॥ सीत्कृतानि मणित करुणोक्ति स्निग्धमुक्तमल
मर्थवचासि । हासभूषणरवाश्च रमण्या कामसूत्रपदतामुप-
जग्मु ॥ १८ ॥ उद्धतैर्निभृतमेकमनैकेश्छेदवन्मृगदृगा-
मविगमे । श्रूयते स्म मणितं कलकाञ्चीन् पुरध्वनिभिरक्षतमेव
॥ १९ ॥ ईदृशम्य भवत कथमेतल्लाघव सुदृग्नीव गतेषु ।
क्षित्मायतमदगेथदुय्या काञ्चिदाम जघनन्य महत्त्वम्
॥ २० ॥ प्राप्यते स्म गतचित्रकचित्रैश्चित्रमद्रिनखलक्ष्मे
कपोलै । दध्रिरऽथ रभसच्चुतपुष्पा स्वेदबिन्दुकुसुमान्य-
लकान्ता ॥ २१ ॥ यद्यदेव सुरुचे रुचिरंश्य* सुध्रुवो
रहसि तत्तदकुर्वन् । आनुकूलिकतया हि नराणामा-
क्षिपन्ति हृदयानि तरुण्य. ॥ २२ ॥ प्राप्य मन्मथरसाद-
तिभूमि दुर्वहस्तनभरा. सुरतस्य । शश्रमु श्रमजलार्द्र-
ललाटश्लिष्टकेगमसितायतकेश्य. ॥ २३ ॥ पत्यु प्रवृत्तस्य
रतौ जिगीषावचो निशम्याज न किचिदूचे । कला-
वती कि तु विहस्य तस्स कपोलयो. खेदमपाचकार
॥ २४ ॥ उरोरुहाम्भोरुहदर्शनाय विमुञ्चत. कञ्चुकबन्ध-
नानि । आनन्दनीराकुललोचनस्य प्रियस्य जातो विपुल
परिश्रम ॥ २५ ॥ स्वामिन्प्रभो प्रिय गृहाण परिरुवजस्व
कि कि शठोऽस्यकरुणोऽसि सुखोचितोऽसि । हा दुखय-
सलमलं विरमेति वाच स्त्रीणा भवन्ति सुरते प्रणयानु-
कूला. ॥ २६ ॥ मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे कान्ता-
पयोधरयुगे रतिखेदखिन्न । वक्षो निघाय भुजपञ्जरमध्य-
वर्ती धन्य. क्षपा क्षपयति क्षणलब्धनिद्र ॥ २७ ॥ कान्ते
तथा कथमपि प्रथित मृगाक्ष्या चातुर्यमुद्गतमनोभवया
रतेषु । तत्कूजितान्यनुवदद्भिरनेकवार शिष्ययित गृह-
*कपोतशतैर्यथास्सा ॥ २८॥ आमीलितालसविवर्तिततारकाक्षी-
मुरुण्ठबन्धनदरश्लथबाहुवल्लीम् । प्रस्वेदवारिकणिका-
चितगण्डबिम्बा सस्मृत्य तामनिशमेति न शान्तिमन्त
॥ २९ ॥ रतिरभसनितान्तश्रान्तकान्ताकुचान्तश्लथदमल-
कराग्रा नाभिदेशेष्वधो वा । स्मितमधुरमुखीना हीणनेत्रो-
त्पलानांमधरमधु वधूना भाग्यवन्त पिवन्ति ॥ ३० ॥
अविदितसुखदु खं निर्गुणं वस्तु किंचिज्जडममतिरिह कश्चि-
न्मोक्ष इत्याचचक्षे । मम तु मतमनङ्गेरतारुण्यघूर्णन्मद-
कलमदिराक्षीनीविमोक्षो हि मोक्ष ॥३१॥ अभिनवपुलका-
लीमण्डिता गण्डपाली निगदति विनिगूढानन्दहिन्दोलि


१ वेदान्तविद्यापङ्क

चेत । सुदति वदति पुण्ये कन्य धन्यैर्मनोजप्रसरग्रसकूदे-
तच्चापल लोचनस्य ॥ ३२ ॥ भजन्त्यास्तत्क्रान्त कृतकपट-
कण्डूतिपिहितस्मित याते गेहाद्वहिग्यहितालीपरिजने ।
प्रियास्य पश्यन्त्या म्मरशग्समाकृन्सुभग मरुज्जाय लज्जा
व्यगमदिव दूर मृगदृश ॥ ३३ ॥ "दुकुल दोर्मूलत्क्षणयिनि
परीरम्भसिके दृगन्त्यम्मोजाक्षी निभृतनिभृत नम्रवदना ।
प्रियाश्लेषद्वेषिण्यपमग्तु रुजा स्फुटमिति सितक्षीरेणेव
स्तनकलशशंभु स्त्रपयति ॥ ३४ ॥ चिग्विरहिणो रत्युत्कण्ठा-
श्लथीकृतगात्रयोर्नवमिव जगज्जात भूयश्चिरादभिनन्दतो ।
कथमपि दिने दीर्घे याते निशामविरुद्धयो प्रसगति कथा
वह्री यूनोर्यथा न तथा रति ॥ ३५ ॥ दृशा सपदि मीलित
दशनरोचिषा निर्गत करेण परिवेपितं वलयकेश्चाक्रन्दितम्।
प्रिये समदयोषिता ननु विकण्ड्यमानेऽधरे परव्यसनकातरा.
किमिव कुर्वता साधव ॥ ३६ ॥ नैषा वेग मृदुतर-
तनुस्तावकीन विमोढु शक्ता नैना चपल नितरा खेदये-
न्दीवराक्षीम् । रत्यभ्यास विदधत इति प्राणनाथस्स गत्वा
कर्णोपान्ते निभृतनिभृत नूपुर शस्ततीव ॥ ३७ ॥ आयाते
दयिते मनोरथशतेर्नीते कथंचिद्दिने वैदग्ध्यापगमाजडे परि-
जने दीघ्रा कथा कुर्वति । दृष्टास्मीत्यभियाय सत्वरपदं
व्याध्रूय चीनांशुक तन्वङ्ग्या रतिकातरेण मनसा नीत. प्रदीप.
शमम् ॥ ३८ ॥ गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोगो-
द्रूमा सान्द्रस्नेहरसातिरेकविगलल्लक्ष्मीन्नितम्बाम्बरा । मा मा
मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु
मृता नु किं मनसि मे लीना विलीना नु किम् ॥ ३९ ॥
दोर्भ्यां संयमितः पयोधरभरेणापीडित पाणिजैराविद्धो
दशनै क्षताधरपुट. श्रोणीतलेनाहत । हस्तेनागमित. करे-
ऽधरसुधास्यन्देन संमोहित. कान्त कामपि तृप्तिमाप तदहो
कामस्य वामा गति ॥ ४० ॥ ईषन्मीलितदृष्टिमुग्धहसितं
सीत्कारधागवशाद्व्यक्ताकुलकेलिकानुकविकसद्दन्ताशुधौता
वरम् । श्वामोत्कम्पिपयोधरोपरिपरिष्वक्त कुरङ्गीदृशो हर्षो-
त्कर्षविमुक्तनि सहतनोर्वन्यो धयत्याननम् ॥ ४१ ॥ स्विन्ने
मण्डलमैन्यवं विगलितं स्रग्भारनद्धं तम प्रागेव प्रथमान-
केतकशिखावीरायित च स्थितम् । श्रान्त कुण्डलताण्डवं
कुवलयद्वन्द्व तिरो मीलित वीतं विद्रुमसीकृतं नहि ततो
जाने किमासीदिति ॥ ४२ ॥ गाढाश्लेषनिपीडनान्निपतिता-
मालोक्य हारावलीं स्यातुं हन्त मिया क्षण निबिडया
नीव्यापि न व्यापृतम् । विश्लेषज्वरवेदना सहनयोः कारुण्य-
कीर्णात्मना क्वापि प्रापितयो. समागमसुखं यूनोर्मनोजन्यना
॥ ४३ ॥ हारखुख्यति कङ्कण निपतति सक्कौसुदी क्लिश्यति
ध्वान्त धावति सीत्करोति रजनीजानिर्वली भज्यति ।

३२०सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

काञ्ची क्षुभ्यति काञ्चनक्षितिधरे किं च क्षतं चञ्चति प्रारम्भे
मदनाहवस्य विजयी देवो मनोभूरभूत् ॥ ४४ ॥ सिन्दूरं
रविमिन्दुमाननमसो वम्मिल्लराहुस्त्वयं यद्गाढं ग्रसतीव
तत्प्रियतमे निर्णीतमौत्पातिकम् । चोले चञ्चलता भविष्यति
मुहुः स्यात्कुन्तले कर्षणं नीवी स्यात्सति न स्थिरा समुदये-
दङ्गे महान्स्मरः ॥ ४५ ॥ पश्यन्ती परिणामकेलिषु
मुहुर्निश्शङ्कमालिङ्ग्य तां प्रोत्कूजत्कलमग्रहीषमधर् स्पर्धावती
साप्यभूत् । नाहं वेद्मि न वेत्ति सा च दयिता तत्रावयो-
श्चेष्टितं शय्या वेत्ति न वेत्ति वा स तु कुतः सङ्गामलोलः
स्मरः ॥ ४६ ॥ प्रत्यूहः पुलकाङ्कुरेण निविडाश्लेषे निमेषेण
च क्रीडाकूतविलोकितेऽधरसुवापाने कथाकेलिभिः । आन-
न्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभूदुद्धतः स तयो-
र्बभूव सुरतारम्भः प्रियभावुकः ॥ ४७ ॥ ईषत्कम्पपयोधरं
गुरुकटिप्रौढप्रहाराद्भुतं स्विद्यद्भालमनेकहासस्रसरं संरम्भ-
मन्दव्यथम् । वारंवारमुरःप्रहारसुभगं सदृश्यमानाधरं
किंचिद्दन्तचितम्व्रदेशनखरं धन्यो रतं सेवते ॥ ४८ ॥ त्वं
मुग्धाक्षि विनैव कञ्चुलिकया वत्से मनोहारिणीं लक्ष्मीमि-
त्यभिधायिनि प्रियतमे तद्घटिकासस्पृशि । शय्योपान्तनि-
विष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनो-
पन्यासमालीजनः ॥ ४९ ॥ कोकः स्तोकविमुक्तमौक्तिक-
भरो निस्यन्दमिन्दीवरं चापं चापलवर्जितं हिमकरक्रोडे तमः
क्रीडति । वातः कातरयत्यपाक्तरसं बन्धूकमेतावती वार्ता
कापि कदापि पाणिपिहिता कस्यापि वा तिष्ठति ॥ ५० ॥
धम्मिल्लो भङ्गमेतु प्रविशतु तिलकः केशपाशान्धकारं पत्राली
गण्डपालीं त्यजतु च विवरं कर्णयोर्गन्तुकामा । वामायाः
कान्तदन्तक्षतततिसहने एक एवाधरोऽसौ वीरः कामा-
हवेऽस्मिन्निति वदति मुहुर्नूपुरः क्वाणभङ्ग्या ॥ ५१ ॥

विपरीतरतक्रिया

प्रशान्ते नूपुरारावे श्रूयते मेखलाध्वनिः । कान्ते नूनं
रतश्रान्ते कामिनी पुरुषायते ॥ १ ॥ पततु तवोरसि सततं
दयिताधम्मिल्लमल्लिकानिकरः । रतरसरभसकचग्रहलुलिता-
लकवल्लरीगलितः ॥ २ ॥ विपरीतमविपरीतं यद्रतमन्यत्तदेव
विपरीतम् । तरुमारोहति लतिका नारोहति च लतिकां
तरुः क्वापि ॥ ३ ॥ साक्षादभूत्स्वयंभूरथ मुक्तास्तिमिरनिकर-
भरा । प्रणामं शीतरोचिस्तवपाठं मेखला विदधे ॥ ४ ॥
वियति विलोलति जलदः स्खलति विधुश्चलति कूजति
कपोतः । निष्पतति तारकाततिरन्दोलति वीचिरम्बरवाहिन्याः


॥ ५ ॥ स्थगयति तमः शशाङ्कं चलति गिरिः स्रवति तारका-
पटलम् । कथयति मन्ये काञ्चीपुरसीमनि किमपि संक्षो-
भम् ॥ ६ ॥ मुक्ताः पतन्ति भूमौ बाला कलयन्ति केवलां
मुक्तिम् । चुम्बल्यम्बरमवनिर्विपरीते किं न विपरीतम् ॥ ७ ॥
वल्गत्कुचं व्याकुलकेशपाशं स्विद्यन्मुखं स्वीकृतमन्द-
हासम् । पुण्यातिरेकात्पुरुषा लभन्ते पुंभावमम्भोरुहलोचना-
नाम् ॥ ८ ॥ वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्टा भिन्नं कुङ्कुमं
क्वापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा
पाणौ खङ्गरेखां लिलेख ॥ ९ ॥ मधुपानसमुल्लसत्कपोलं
चलहेमाचलकान्तिभिर्जटालम् । विधुनि पतदन्धकारजालं
शुभकालं क्व पुनर्विलोकयामः ॥ १० ॥ अभिमुखपतयालु-
भिर्ललाटश्रमसलिलैरपनीतपत्रलेखम् । कथयति पुरुषायितं
वधूनां मृदितहिमद्युतिनिर्मलं कपोलम् ॥ ११ ॥ तन्नास्ति
कारयति यन्न मनोभवस्स सा शक्तिरप्रतिहता भुवने तथा हि ।
उद्धृत्य पीवरपयोधरमण्डलाग्रं वल्गन्ति यत्पुरुषवत्प्रमदा
अपोह ॥ १२ ॥ मुग्धे तवासि दृपिता पुरुषो भव त्वम्मि-
त्युक्त्या नहि नहीति शिरो विधूय । स्वस्साकरात्प्रियकरे
वलयं क्षिपन्त्या वाचं विनाभ्युपगमः कथितो मृगाक्ष्या ॥ १३ ॥
वीरायितेषु मृगशावविलोचनानां कण्ठोदितान्यचरमं कल-
कूजितानि । आम्रेडयद्भिरथ सौधगतैः कपोतैर शङ्के गृहीत
इति संप्रति शिष्यभावः ॥ १४ ॥ तमःस्तोमं सोमं गिलति
वमनीवोडुनिकरं रथाङ्गद्वन्द्वेऽस्मिन्स्मरतटिनी खेलति मुहुः ।
लतायामुक्तम्पो मदनवसतीकाञ्चनगिरिर्विपर्यैति प्रायो रति-
पतिमते सर्वमधुना ॥ १५ ॥ विहायसि विहारिणी भवतु
नाम सौदामिनी सुमेरुशिखरादधः पततु नाम मन्दाकिनी ।
परं तदिदमद्भुतं यदयमेत्य भूमीतलं नमन्नमृतदीधितिः
कमलसारमाकर्षति ॥ १६ ॥ प्रारब्धे रतिकेलिसङ्कुलरणारम्भे
तया साहसात् कान्तजयाय किंचिदुपारे प्रारम्भि तत्तत्क्षण-
मात् । खिन्ना येन कटीतटी शिथिलिता दोर्वल्लिरुत्कम्पिनं
वक्षो मीलितमैक्षि पौरुषरसः क्षीणा कुतः सिध्यति ॥ १७ ॥
आलोलामलकावलीं सकुसुमां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्ट-
विशेषकं तनुतरैः स्वेदाम्भसः सीकरैः । तन्व्या यत्सुरतान्त-
तान्तनयनं वक्त्रं रतव्यत्यये तच्चा पातु चिराय किं हरि-
हरब्रह्मादिभिर्देवैतैः ॥ १८ ॥ प्रारब्धे विपरीतानामनि रते
सर्वं तदाभूत्क्षणाक्षामाझ्या विपरीतमेव कुटिला मुक्ताः
सुवृत्ता अपि । मुक्ता निःपतिता भवन्ति तरलास्तौ चाचलौ
चेलतुः सीदन्ति श्रुतिपारगाः सुमनसः कान्ता तु कान्तायते
॥ १९ ॥ निःशेषं व्यपनीय नीविवसनं मञ्जुक्वणन्मेखलं
क्रीडान्दोलनखिन्नमध्यलतिकं किंचित्प्रकम्पस्तनम् । उद्यत्कुण्ड-


१ केशकलापरूप २ मुखरूप ३ कण्ठरूप ४ मुक्ताकलापरूपा ५ त्रिवलिरूपा | १ वाराभि

विपरीतरतक्रिया, सुरतनिवृत्तिः३२१

| लताण्डव च रुचिर विक्रम्य कान्तोपरि क्रान्ता वक्षसि कामिना मुकुलितप्रान्ताक्षिक शेरते ॥ २० ॥ प्रागल्भ्य पुरुषायिते मम पुर. पश्येति सनद्धया तन्व्या ताम्यदुरोजयापि सुचिर विक्रम्य रम्यं तया । श्रान्ता वक्षसि मे निपत्य च पुन. मापत्नपं सस्मितं साकूतं च समीक्षित मृगदृशा यत्तत्कथ कथ्यते ॥ २१ ॥<br><br>सुरतनिवृत्तिः<br><br>सन्यासमकृत काञ्ची जहौ कलत्र दुकूलमबलाया । तत्याज रागमवरो मुक्तिमुरीचक्रिरे चिकुर. ॥ १ ॥ सुतनु श्रुतिसेवनतो मन्ये नयन निरञ्जनं जातम् । मुग्वा स्नेहात्कबरी युक्ता मुक्ति कथ प्राप ॥ २ ॥ खिन्नमलमनयनान्तं खिन्नालिकलम्नकुन्तलस्तबकम् । वदनमवलुप्ततिलकं मदन नेद्यति दद्यति वृति मे ॥ ३ ॥ पपात मेगे सुरसिन्धुधारा ववर्ष तारागणमन्धकार । बभूव भृङ्गावलिरप्यकम्पा शशाम शम्पालतिकाविलास ॥ ४ ॥ पपात गङ्गा हरमौलिसङ्गादन्धं तमोभूतमपेतबन्धम् । तडिल्लता चञ्चलतामहासीदस्पन्दमासीदरविन्दयुग्मम् ॥ ५ ॥ कामसगरविधौ मृगीदृश प्रौढपौरुषधरे पयोधरे । स्वेदराजिरुदियाय सर्वतः पुष्पवृष्टिरिव पुष्पधन्वनः ॥ ६ ॥ सगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव । भूय एव समगंस्त रतान्ते ह्रीर्वधूमिरसहा विरहस्य ॥ ७ ॥ प्रेक्षणीयकमिव क्षणमासन्हीविभङ्गुरविलोचनपाता. । सन्नमद्रुतगृहीतदुकूलच्छाद्यमानवपुष सुरतान्ता ॥ ८ ॥ अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु । क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टमथैव ॥ ९ ॥ मृष्टचन्दनविशेषकभक्तिर्भ्रष्टभूषणकदर्थितमाल्यः । सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोग. ॥ १० ॥ योषित. पतितकाञ्चनकाञ्ची मोहनातिरभसेन नितम्बे । मेखलेव परित. स्म विचित्रा राजते नेवनखक्षतलक्ष्मी ॥ ११ ॥ भातु नाम सुदृशा दशनाङ्कः पाटलो धवलगण्डतलेषु । दन्तवाससि समानगुणश्री. समुखोऽपि परमागमवाप ॥ १२ ॥ सुभ्रुवामधिपयोधरपीठपीडनैस्त्रुटितवत्यपि पत्यु । मुक्तमौक्तिक लघुर्गुणशेषा हारयष्टिरभवद्गुरुरेव ॥ १३ ॥ विश्रमार्थमुपगूढमजस्त्र यत्प्रियै प्रथमरत्यवसाने । योषितामुदितमन्मथमादौ तद्वितीयसुरतस्य बभूव ॥ १४ ॥ आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिगताभ्य । दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूम्य. ॥ १५ ॥ उपबर्हमम्बुजदृशो निजं भुजं विरचय्य वक्रमपि गण्डमण्डले । निजसक्थि सक्थिनि निधाय सादर स्वपिति स्तनार्पितकराम्बुजो युवा ॥ १६ ॥<br><br>४१ सु० र भा. | करकिसलयै धृत्वा धृत्वा विमार्गीत वाससी क्षिपति सुमनोमालाशेष प्रदीपशिखा प्रति । स्थगयति मुहु. पत्युर्नेत्रे विहृस्य समाकुला सुरतविगतौ रम्या तन्वी मुहुर्मुहुरीक्षते ॥ १७ ॥ सुरतविरतक्रीडावेशश्रमश्लथहस्तया रहसि गलितं तन्व्या प्राप्तु न पारितमंशुकम् । रतिरसजडेरङ्गैरङ्ग पिधातुमशक्तया प्रियतमतनौ सर्वाङ्गीणं प्रविष्टमधृष्टया ॥ १८ ॥ प्रियकृतपटस्तेयव्रीडाविलम्बनविह्वला किमपि कृपणआलापा वाला विलोक्य ससभ्रम. । अपि विचलिते स्कन्धावारे गते सुरताहवे त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथ ॥ १९ ॥ शयानस्योत्तान हृदि निहितवक्षोरुहमरा तिरश्चीने वक्त्रे निबिडकलितात्मीयवदना । समाक्रम्योरुभ्यामतिदृढतर सक्थियुगलं स्वपित्यम्भोजाक्षी शिथिलभुजबन्धेयमधुना ॥ २० ॥ मुख जुम्भारम्भि प्रमरति मदामोदलहरी दृगोस्तन्द्रामार. स्फुरति विगलत्यङ्गलतिका । त्वमेतादृक्कान्ति कमलमुखि धन्यैव नितरामसौ धन्यो यस्ते सकलरजनी जागरयिता ॥ २१ ॥ प्रियाया प्रत्यूषे गलितकबरीबन्धनविधावुदुञ्चद्दोध्वैल्लीदरदलितचेलाञ्चलभुर. । घनाकूते पश्यत्यथ मयि समन्दाक्षवलितं नमन्त्या यद्रूप नहि लिखितुमीशो मनसिज. ॥ २२ ॥ रतान्ते प्राणेशे वसनमददाने कथमपि स्थिताया याचन्त्या वितर मम चेल गुणनिधे । सरोषं पश्यन्त्या. किमपि च हसन्त्या. परिचलन्नमन्त्यास्तद्रूप न हि लिखितुमीगो मनसिज ॥ २३ ॥ शान्ते मन्मथसगरे रणभृता सत्कारमातन्वती वासोऽदाज्जघनस्य पीनकुचयोर्हार श्रुतेः कुण्डलम् । विम्बोष्ठस्य च वीटिका सुनयना पाण्यो रणत्कङ्कणे पश्चाल्लम्बिनि केशपाशनिचये युक्तो हि बन्धक्रम. ॥ २४ ॥ नेपथ्यादपि राजते हि नितरा व्यालुप्तभूषा तनु. समोगश्रममीलितं विजयते चक्षु कटाक्षादपि । गाढालिङ्गनकौतुकादपि नवं दोर्वल्लिविस्रंसन प्रीत्यालापरसादपि प्रियतम मौन कुरङ्गीदृश. ॥ २५ ॥ निर्वृत्ते सुरतोत्सवे बहुविधे जातेऽधिकेऽङ्गक्लमे तल्पे स्वेदजलार्द्रचन्दनमये किचिद्रहीतेऽम्बरे । सान्द्रस्नेहवशाद्विशेषविषयव्यासङ्गजिह्वामनोर्दम्पत्यो. खरघसरातुरतया भूयोऽपि जाता स्पृहा ॥ २६॥ मुक्ताभूषणमिन्दुबिम्बमजनि व्याकीर्णतार नभ. स्मार चापमपेतचापलभभूदिन्दीवरे मुद्रिते । व्यालीनं कलकण्ठकण्ठनिनदैर्मन्दानिलैर्मन्दितं निष्कम्पस्तबकापि चम्पकलता साभून्न जानेऽथ किम् ॥ २७ ॥ नीव्या सयमर्न कचे नियमनं श्रोणीतले चासनं निःश्वासाभ्यसनं मुखे समभवत्प्रत्याहृतिर्भूषणे । ध्यानं प्रेर्माणि धारणा स्तनतटे तन्व्या. समाधिः प्रिये निर्वेदादिव कि रतान्तसुलभात्सर्वाङ्गयोगोत्सवः ॥ २८ ॥ निर्लेपौ कुचकुम्बलौ कच- |