सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 336, कुल 516 में से
संदर्भ में पढ़ें| विपरीतरतक्रिया, सुरतनिवृत्तिः | ३२१ |

| लताण्डव च रुचिर विक्रम्य कान्तोपरि क्रान्ता वक्षसि कामिना मुकुलितप्रान्ताक्षिक शेरते ॥ २० ॥ प्रागल्भ्य पुरुषायिते मम पुर. पश्येति सनद्धया तन्व्या ताम्यदुरोजयापि सुचिर विक्रम्य रम्यं तया । श्रान्ता वक्षसि मे निपत्य च पुन. मापत्नपं सस्मितं साकूतं च समीक्षित मृगदृशा यत्तत्कथ कथ्यते ॥ २१ ॥

सुरतनिवृत्तिः

सन्यासमकृत काञ्ची जहौ कलत्र दुकूलमबलाया । तत्याज रागमवरो मुक्तिमुरीचक्रिरे चिकुर. ॥ १ ॥ सुतनु श्रुतिसेवनतो मन्ये नयन निरञ्जनं जातम् । मुग्वा स्नेहात्कबरी युक्ता मुक्ति कथ प्राप ॥ २ ॥ खिन्नमलमनयनान्तं खिन्नालिकलम्नकुन्तलस्तबकम् । वदनमवलुप्ततिलकं मदन नेद्यति दद्यति वृति मे ॥ ३ ॥ पपात मेगे सुरसिन्धुधारा ववर्ष तारागणमन्धकार । बभूव भृङ्गावलिरप्यकम्पा शशाम शम्पालतिकाविलास ॥ ४ ॥ पपात गङ्गा हरमौलिसङ्गादन्धं तमोभूतमपेतबन्धम् । तडिल्लता चञ्चलतामहासीदस्पन्दमासीदरविन्दयुग्मम् ॥ ५ ॥ कामसगरविधौ मृगीदृश प्रौढपौरुषधरे पयोधरे । स्वेदराजिरुदियाय सर्वतः पुष्पवृष्टिरिव पुष्पधन्वनः ॥ ६ ॥ सगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव । भूय एव समगंस्त रतान्ते ह्रीर्वधूमिरसहा विरहस्य ॥ ७ ॥ प्रेक्षणीयकमिव क्षणमासन्हीविभङ्गुरविलोचनपाता. । सन्नमद्रुतगृहीतदुकूलच्छाद्यमानवपुष सुरतान्ता ॥ ८ ॥ अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु । क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टमथैव ॥ ९ ॥ मृष्टचन्दनविशेषकभक्तिर्भ्रष्टभूषणकदर्थितमाल्यः । सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोग. ॥ १० ॥ योषित. पतितकाञ्चनकाञ्ची मोहनातिरभसेन नितम्बे । मेखलेव परित. स्म विचित्रा राजते नेवनखक्षतलक्ष्मी ॥ ११ ॥ भातु नाम सुदृशा दशनाङ्कः पाटलो धवलगण्डतलेषु । दन्तवाससि समानगुणश्री. समुखोऽपि परमागमवाप ॥ १२ ॥ सुभ्रुवामधिपयोधरपीठपीडनैस्त्रुटितवत्यपि पत्यु । मुक्तमौक्तिक लघुर्गुणशेषा हारयष्टिरभवद्गुरुरेव ॥ १३ ॥ विश्रमार्थमुपगूढमजस्त्र यत्प्रियै प्रथमरत्यवसाने । योषितामुदितमन्मथमादौ तद्वितीयसुरतस्य बभूव ॥ १४ ॥ आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिगताभ्य । दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूम्य. ॥ १५ ॥ उपबर्हमम्बुजदृशो निजं भुजं विरचय्य वक्रमपि गण्डमण्डले । निजसक्थि सक्थिनि निधाय सादर स्वपिति स्तनार्पितकराम्बुजो युवा ॥ १६ ॥

४१ सु० र भा. | करकिसलयै धृत्वा धृत्वा विमार्गीत वाससी क्षिपति सुमनोमालाशेष प्रदीपशिखा प्रति । स्थगयति मुहु. पत्युर्नेत्रे विहृस्य समाकुला सुरतविगतौ रम्या तन्वी मुहुर्मुहुरीक्षते ॥ १७ ॥ सुरतविरतक्रीडावेशश्रमश्लथहस्तया रहसि गलितं तन्व्या प्राप्तु न पारितमंशुकम् । रतिरसजडेरङ्गैरङ्ग पिधातुमशक्तया प्रियतमतनौ सर्वाङ्गीणं प्रविष्टमधृष्टया ॥ १८ ॥ प्रियकृतपटस्तेयव्रीडाविलम्बनविह्वला किमपि कृपणआलापा वाला विलोक्य ससभ्रम. । अपि विचलिते स्कन्धावारे गते सुरताहवे त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथ ॥ १९ ॥ शयानस्योत्तान हृदि निहितवक्षोरुहमरा तिरश्चीने वक्त्रे निबिडकलितात्मीयवदना । समाक्रम्योरुभ्यामतिदृढतर सक्थियुगलं स्वपित्यम्भोजाक्षी शिथिलभुजबन्धेयमधुना ॥ २० ॥ मुख जुम्भारम्भि प्रमरति मदामोदलहरी दृगोस्तन्द्रामार. स्फुरति विगलत्यङ्गलतिका । त्वमेतादृक्कान्ति कमलमुखि धन्यैव नितरामसौ धन्यो यस्ते सकलरजनी जागरयिता ॥ २१ ॥ प्रियाया प्रत्यूषे गलितकबरीबन्धनविधावुदुञ्चद्दोध्वैल्लीदरदलितचेलाञ्चलभुर. । घनाकूते पश्यत्यथ मयि समन्दाक्षवलितं नमन्त्या यद्रूप नहि लिखितुमीशो मनसिज. ॥ २२ ॥ रतान्ते प्राणेशे वसनमददाने कथमपि स्थिताया याचन्त्या वितर मम चेल गुणनिधे । सरोषं पश्यन्त्या. किमपि च हसन्त्या. परिचलन्नमन्त्यास्तद्रूप न हि लिखितुमीगो मनसिज ॥ २३ ॥ शान्ते मन्मथसगरे रणभृता सत्कारमातन्वती वासोऽदाज्जघनस्य पीनकुचयोर्हार श्रुतेः कुण्डलम् । विम्बोष्ठस्य च वीटिका सुनयना पाण्यो रणत्कङ्कणे पश्चाल्लम्बिनि केशपाशनिचये युक्तो हि बन्धक्रम. ॥ २४ ॥ नेपथ्यादपि राजते हि नितरा व्यालुप्तभूषा तनु. समोगश्रममीलितं विजयते चक्षु कटाक्षादपि । गाढालिङ्गनकौतुकादपि नवं दोर्वल्लिविस्रंसन प्रीत्यालापरसादपि प्रियतम मौन कुरङ्गीदृश. ॥ २५ ॥ निर्वृत्ते सुरतोत्सवे बहुविधे जातेऽधिकेऽङ्गक्लमे तल्पे स्वेदजलार्द्रचन्दनमये किचिद्रहीतेऽम्बरे । सान्द्रस्नेहवशाद्विशेषविषयव्यासङ्गजिह्वामनोर्दम्पत्यो. खरघसरातुरतया भूयोऽपि जाता स्पृहा ॥ २६॥ मुक्ताभूषणमिन्दुबिम्बमजनि व्याकीर्णतार नभ. स्मार चापमपेतचापलभभूदिन्दीवरे मुद्रिते । व्यालीनं कलकण्ठकण्ठनिनदैर्मन्दानिलैर्मन्दितं निष्कम्पस्तबकापि चम्पकलता साभून्न जानेऽथ किम् ॥ २७ ॥ नीव्या सयमर्न कचे नियमनं श्रोणीतले चासनं निःश्वासाभ्यसनं मुखे समभवत्प्रत्याहृतिर्भूषणे । ध्यानं प्रेर्माणि धारणा स्तनतटे तन्व्या. समाधिः प्रिये निर्वेदादिव कि रतान्तसुलभात्सर्वाङ्गयोगोत्सवः ॥ २८ ॥ निर्लेपौ कुचकुम्बलौ कच- |