भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 335, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 335
३२०सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

काञ्ची क्षुभ्यति काञ्चनक्षितिधरे किं च क्षतं चञ्चति प्रारम्भे
मदनाहवस्य विजयी देवो मनोभूरभूत् ॥ ४४ ॥ सिन्दूरं
रविमिन्दुमाननमसो वम्मिल्लराहुस्त्वयं यद्गाढं ग्रसतीव
तत्प्रियतमे निर्णीतमौत्पातिकम् । चोले चञ्चलता भविष्यति
मुहुः स्यात्कुन्तले कर्षणं नीवी स्यात्सति न स्थिरा समुदये-
दङ्गे महान्स्मरः ॥ ४५ ॥ पश्यन्ती परिणामकेलिषु
मुहुर्निश्शङ्कमालिङ्ग्य तां प्रोत्कूजत्कलमग्रहीषमधर् स्पर्धावती
साप्यभूत् । नाहं वेद्मि न वेत्ति सा च दयिता तत्रावयो-
श्चेष्टितं शय्या वेत्ति न वेत्ति वा स तु कुतः सङ्गामलोलः
स्मरः ॥ ४६ ॥ प्रत्यूहः पुलकाङ्कुरेण निविडाश्लेषे निमेषेण
च क्रीडाकूतविलोकितेऽधरसुवापाने कथाकेलिभिः । आन-
न्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभूदुद्धतः स तयो-
र्बभूव सुरतारम्भः प्रियभावुकः ॥ ४७ ॥ ईषत्कम्पपयोधरं
गुरुकटिप्रौढप्रहाराद्भुतं स्विद्यद्भालमनेकहासस्रसरं संरम्भ-
मन्दव्यथम् । वारंवारमुरःप्रहारसुभगं सदृश्यमानाधरं
किंचिद्दन्तचितम्व्रदेशनखरं धन्यो रतं सेवते ॥ ४८ ॥ त्वं
मुग्धाक्षि विनैव कञ्चुलिकया वत्से मनोहारिणीं लक्ष्मीमि-
त्यभिधायिनि प्रियतमे तद्घटिकासस्पृशि । शय्योपान्तनि-
विष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनो-
पन्यासमालीजनः ॥ ४९ ॥ कोकः स्तोकविमुक्तमौक्तिक-
भरो निस्यन्दमिन्दीवरं चापं चापलवर्जितं हिमकरक्रोडे तमः
क्रीडति । वातः कातरयत्यपाक्तरसं बन्धूकमेतावती वार्ता
कापि कदापि पाणिपिहिता कस्यापि वा तिष्ठति ॥ ५० ॥
धम्मिल्लो भङ्गमेतु प्रविशतु तिलकः केशपाशान्धकारं पत्राली
गण्डपालीं त्यजतु च विवरं कर्णयोर्गन्तुकामा । वामायाः
कान्तदन्तक्षतततिसहने एक एवाधरोऽसौ वीरः कामा-
हवेऽस्मिन्निति वदति मुहुर्नूपुरः क्वाणभङ्ग्या ॥ ५१ ॥

विपरीतरतक्रिया

प्रशान्ते नूपुरारावे श्रूयते मेखलाध्वनिः । कान्ते नूनं
रतश्रान्ते कामिनी पुरुषायते ॥ १ ॥ पततु तवोरसि सततं
दयिताधम्मिल्लमल्लिकानिकरः । रतरसरभसकचग्रहलुलिता-
लकवल्लरीगलितः ॥ २ ॥ विपरीतमविपरीतं यद्रतमन्यत्तदेव
विपरीतम् । तरुमारोहति लतिका नारोहति च लतिकां
तरुः क्वापि ॥ ३ ॥ साक्षादभूत्स्वयंभूरथ मुक्तास्तिमिरनिकर-
भरा । प्रणामं शीतरोचिस्तवपाठं मेखला विदधे ॥ ४ ॥
वियति विलोलति जलदः स्खलति विधुश्चलति कूजति
कपोतः । निष्पतति तारकाततिरन्दोलति वीचिरम्बरवाहिन्याः


॥ ५ ॥ स्थगयति तमः शशाङ्कं चलति गिरिः स्रवति तारका-
पटलम् । कथयति मन्ये काञ्चीपुरसीमनि किमपि संक्षो-
भम् ॥ ६ ॥ मुक्ताः पतन्ति भूमौ बाला कलयन्ति केवलां
मुक्तिम् । चुम्बल्यम्बरमवनिर्विपरीते किं न विपरीतम् ॥ ७ ॥
वल्गत्कुचं व्याकुलकेशपाशं स्विद्यन्मुखं स्वीकृतमन्द-
हासम् । पुण्यातिरेकात्पुरुषा लभन्ते पुंभावमम्भोरुहलोचना-
नाम् ॥ ८ ॥ वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्टा भिन्नं कुङ्कुमं
क्वापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा
पाणौ खङ्गरेखां लिलेख ॥ ९ ॥ मधुपानसमुल्लसत्कपोलं
चलहेमाचलकान्तिभिर्जटालम् । विधुनि पतदन्धकारजालं
शुभकालं क्व पुनर्विलोकयामः ॥ १० ॥ अभिमुखपतयालु-
भिर्ललाटश्रमसलिलैरपनीतपत्रलेखम् । कथयति पुरुषायितं
वधूनां मृदितहिमद्युतिनिर्मलं कपोलम् ॥ ११ ॥ तन्नास्ति
कारयति यन्न मनोभवस्स सा शक्तिरप्रतिहता भुवने तथा हि ।
उद्धृत्य पीवरपयोधरमण्डलाग्रं वल्गन्ति यत्पुरुषवत्प्रमदा
अपोह ॥ १२ ॥ मुग्धे तवासि दृपिता पुरुषो भव त्वम्मि-
त्युक्त्या नहि नहीति शिरो विधूय । स्वस्साकरात्प्रियकरे
वलयं क्षिपन्त्या वाचं विनाभ्युपगमः कथितो मृगाक्ष्या ॥ १३ ॥
वीरायितेषु मृगशावविलोचनानां कण्ठोदितान्यचरमं कल-
कूजितानि । आम्रेडयद्भिरथ सौधगतैः कपोतैर शङ्के गृहीत
इति संप्रति शिष्यभावः ॥ १४ ॥ तमःस्तोमं सोमं गिलति
वमनीवोडुनिकरं रथाङ्गद्वन्द्वेऽस्मिन्स्मरतटिनी खेलति मुहुः ।
लतायामुक्तम्पो मदनवसतीकाञ्चनगिरिर्विपर्यैति प्रायो रति-
पतिमते सर्वमधुना ॥ १५ ॥ विहायसि विहारिणी भवतु
नाम सौदामिनी सुमेरुशिखरादधः पततु नाम मन्दाकिनी ।
परं तदिदमद्भुतं यदयमेत्य भूमीतलं नमन्नमृतदीधितिः
कमलसारमाकर्षति ॥ १६ ॥ प्रारब्धे रतिकेलिसङ्कुलरणारम्भे
तया साहसात् कान्तजयाय किंचिदुपारे प्रारम्भि तत्तत्क्षण-
मात् । खिन्ना येन कटीतटी शिथिलिता दोर्वल्लिरुत्कम्पिनं
वक्षो मीलितमैक्षि पौरुषरसः क्षीणा कुतः सिध्यति ॥ १७ ॥
आलोलामलकावलीं सकुसुमां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्ट-
विशेषकं तनुतरैः स्वेदाम्भसः सीकरैः । तन्व्या यत्सुरतान्त-
तान्तनयनं वक्त्रं रतव्यत्यये तच्चा पातु चिराय किं हरि-
हरब्रह्मादिभिर्देवैतैः ॥ १८ ॥ प्रारब्धे विपरीतानामनि रते
सर्वं तदाभूत्क्षणाक्षामाझ्या विपरीतमेव कुटिला मुक्ताः
सुवृत्ता अपि । मुक्ता निःपतिता भवन्ति तरलास्तौ चाचलौ
चेलतुः सीदन्ति श्रुतिपारगाः सुमनसः कान्ता तु कान्तायते
॥ १९ ॥ निःशेषं व्यपनीय नीविवसनं मञ्जुक्वणन्मेखलं
क्रीडान्दोलनखिन्नमध्यलतिकं किंचित्प्रकम्पस्तनम् । उद्यत्कुण्ड-


१ केशकलापरूप २ मुखरूप ३ कण्ठरूप ४ मुक्ताकलापरूपा ५ त्रिवलिरूपा | १ वाराभि

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह) · पृष्ठ 335, कुल 516 में से · BharatKosha