भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 334, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 334

सुरतकेलिकथनम् ३१९


नुशयस्तरुणीनामुन्निमील विशद विषमेषुः ॥ १५ ॥
कान्त्या सपदि कोऽप्युपगूढः प्रोढपाणिगपनेतुमिषेष । सहत-
सनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यन् ॥ १६ ॥
आहतं कुचतटेन तरुण्या साधु सोढमनुनेति पपान ।
त्रुट्यत प्रियतमोऽसि दृागत्पुष्पवृष्टिरिव मौक्तिकवृष्टिः
॥ १७ ॥ सीत्कृतानि मणित करुणोक्ति स्निग्धमुक्तमल
मर्थवचासि । हासभूषणरवाश्च रमण्या कामसूत्रपदतामुप-
जग्मु ॥ १८ ॥ उद्धतैर्निभृतमेकमनैकेश्छेदवन्मृगदृगा-
मविगमे । श्रूयते स्म मणितं कलकाञ्चीन् पुरध्वनिभिरक्षतमेव
॥ १९ ॥ ईदृशम्य भवत कथमेतल्लाघव सुदृग्नीव गतेषु ।
क्षित्मायतमदगेथदुय्या काञ्चिदाम जघनन्य महत्त्वम्
॥ २० ॥ प्राप्यते स्म गतचित्रकचित्रैश्चित्रमद्रिनखलक्ष्मे
कपोलै । दध्रिरऽथ रभसच्चुतपुष्पा स्वेदबिन्दुकुसुमान्य-
लकान्ता ॥ २१ ॥ यद्यदेव सुरुचे रुचिरंश्य* सुध्रुवो
रहसि तत्तदकुर्वन् । आनुकूलिकतया हि नराणामा-
क्षिपन्ति हृदयानि तरुण्य. ॥ २२ ॥ प्राप्य मन्मथरसाद-
तिभूमि दुर्वहस्तनभरा. सुरतस्य । शश्रमु श्रमजलार्द्र-
ललाटश्लिष्टकेगमसितायतकेश्य. ॥ २३ ॥ पत्यु प्रवृत्तस्य
रतौ जिगीषावचो निशम्याज न किचिदूचे । कला-
वती कि तु विहस्य तस्स कपोलयो. खेदमपाचकार
॥ २४ ॥ उरोरुहाम्भोरुहदर्शनाय विमुञ्चत. कञ्चुकबन्ध-
नानि । आनन्दनीराकुललोचनस्य प्रियस्य जातो विपुल
परिश्रम ॥ २५ ॥ स्वामिन्प्रभो प्रिय गृहाण परिरुवजस्व
कि कि शठोऽस्यकरुणोऽसि सुखोचितोऽसि । हा दुखय-
सलमलं विरमेति वाच स्त्रीणा भवन्ति सुरते प्रणयानु-
कूला. ॥ २६ ॥ मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे कान्ता-
पयोधरयुगे रतिखेदखिन्न । वक्षो निघाय भुजपञ्जरमध्य-
वर्ती धन्य. क्षपा क्षपयति क्षणलब्धनिद्र ॥ २७ ॥ कान्ते
तथा कथमपि प्रथित मृगाक्ष्या चातुर्यमुद्गतमनोभवया
रतेषु । तत्कूजितान्यनुवदद्भिरनेकवार शिष्ययित गृह-
*कपोतशतैर्यथास्सा ॥ २८॥ आमीलितालसविवर्तिततारकाक्षी-
मुरुण्ठबन्धनदरश्लथबाहुवल्लीम् । प्रस्वेदवारिकणिका-
चितगण्डबिम्बा सस्मृत्य तामनिशमेति न शान्तिमन्त
॥ २९ ॥ रतिरभसनितान्तश्रान्तकान्ताकुचान्तश्लथदमल-
कराग्रा नाभिदेशेष्वधो वा । स्मितमधुरमुखीना हीणनेत्रो-
त्पलानांमधरमधु वधूना भाग्यवन्त पिवन्ति ॥ ३० ॥
अविदितसुखदु खं निर्गुणं वस्तु किंचिज्जडममतिरिह कश्चि-
न्मोक्ष इत्याचचक्षे । मम तु मतमनङ्गेरतारुण्यघूर्णन्मद-
कलमदिराक्षीनीविमोक्षो हि मोक्ष ॥३१॥ अभिनवपुलका-
लीमण्डिता गण्डपाली निगदति विनिगूढानन्दहिन्दोलि


१ वेदान्तविद्यापङ्क

चेत । सुदति वदति पुण्ये कन्य धन्यैर्मनोजप्रसरग्रसकूदे-
तच्चापल लोचनस्य ॥ ३२ ॥ भजन्त्यास्तत्क्रान्त कृतकपट-
कण्डूतिपिहितस्मित याते गेहाद्वहिग्यहितालीपरिजने ।
प्रियास्य पश्यन्त्या म्मरशग्समाकृन्सुभग मरुज्जाय लज्जा
व्यगमदिव दूर मृगदृश ॥ ३३ ॥ "दुकुल दोर्मूलत्क्षणयिनि
परीरम्भसिके दृगन्त्यम्मोजाक्षी निभृतनिभृत नम्रवदना ।
प्रियाश्लेषद्वेषिण्यपमग्तु रुजा स्फुटमिति सितक्षीरेणेव
स्तनकलशशंभु स्त्रपयति ॥ ३४ ॥ चिग्विरहिणो रत्युत्कण्ठा-
श्लथीकृतगात्रयोर्नवमिव जगज्जात भूयश्चिरादभिनन्दतो ।
कथमपि दिने दीर्घे याते निशामविरुद्धयो प्रसगति कथा
वह्री यूनोर्यथा न तथा रति ॥ ३५ ॥ दृशा सपदि मीलित
दशनरोचिषा निर्गत करेण परिवेपितं वलयकेश्चाक्रन्दितम्।
प्रिये समदयोषिता ननु विकण्ड्यमानेऽधरे परव्यसनकातरा.
किमिव कुर्वता साधव ॥ ३६ ॥ नैषा वेग मृदुतर-
तनुस्तावकीन विमोढु शक्ता नैना चपल नितरा खेदये-
न्दीवराक्षीम् । रत्यभ्यास विदधत इति प्राणनाथस्स गत्वा
कर्णोपान्ते निभृतनिभृत नूपुर शस्ततीव ॥ ३७ ॥ आयाते
दयिते मनोरथशतेर्नीते कथंचिद्दिने वैदग्ध्यापगमाजडे परि-
जने दीघ्रा कथा कुर्वति । दृष्टास्मीत्यभियाय सत्वरपदं
व्याध्रूय चीनांशुक तन्वङ्ग्या रतिकातरेण मनसा नीत. प्रदीप.
शमम् ॥ ३८ ॥ गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोगो-
द्रूमा सान्द्रस्नेहरसातिरेकविगलल्लक्ष्मीन्नितम्बाम्बरा । मा मा
मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु
मृता नु किं मनसि मे लीना विलीना नु किम् ॥ ३९ ॥
दोर्भ्यां संयमितः पयोधरभरेणापीडित पाणिजैराविद्धो
दशनै क्षताधरपुट. श्रोणीतलेनाहत । हस्तेनागमित. करे-
ऽधरसुधास्यन्देन संमोहित. कान्त कामपि तृप्तिमाप तदहो
कामस्य वामा गति ॥ ४० ॥ ईषन्मीलितदृष्टिमुग्धहसितं
सीत्कारधागवशाद्व्यक्ताकुलकेलिकानुकविकसद्दन्ताशुधौता
वरम् । श्वामोत्कम्पिपयोधरोपरिपरिष्वक्त कुरङ्गीदृशो हर्षो-
त्कर्षविमुक्तनि सहतनोर्वन्यो धयत्याननम् ॥ ४१ ॥ स्विन्ने
मण्डलमैन्यवं विगलितं स्रग्भारनद्धं तम प्रागेव प्रथमान-
केतकशिखावीरायित च स्थितम् । श्रान्त कुण्डलताण्डवं
कुवलयद्वन्द्व तिरो मीलित वीतं विद्रुमसीकृतं नहि ततो
जाने किमासीदिति ॥ ४२ ॥ गाढाश्लेषनिपीडनान्निपतिता-
मालोक्य हारावलीं स्यातुं हन्त मिया क्षण निबिडया
नीव्यापि न व्यापृतम् । विश्लेषज्वरवेदना सहनयोः कारुण्य-
कीर्णात्मना क्वापि प्रापितयो. समागमसुखं यूनोर्मनोजन्यना
॥ ४३ ॥ हारखुख्यति कङ्कण निपतति सक्कौसुदी क्लिश्यति
ध्वान्त धावति सीत्करोति रजनीजानिर्वली भज्यति ।