भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 333, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 333

३१८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


कूर्णति वेल्लति विवलति निमिषति विलोकयति तिर्यक् ।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥ ३ ॥

भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि वधूः ।
तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ॥ ४ ॥

असंमुखालोकनमभिमुख्यं निषेध एवानुमतिप्रकारः ।
प्रत्युत्तर मुद्रणमेव वाचो नवाङ्गनाना नव एव पन्थाः ॥ ५ ॥

चुम्बनेषु परिवर्तिताधर हस्तरोधि रसनाविघट्टने ।
विह्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्धुरस्तम् ॥ ६ ॥

विरम नाथ विमुञ्च ममाञ्चलं शमय दीपमिमं समया सखीम् ।
इति नवोढवधूवचनैर्युवा मुदमगादधिका सुरतादपि ॥ ७ ॥

नीवीदृढार्पितकरा निबिडीकृतोरु व्रीडानता तत इतो वदनं हरन्तीम् ।
आरोप्य वक्षसि सुखं परिरब्धुमेना बाला बलादभिलषामि न पारयामि ॥ ८ ॥

पटाञ्चले पत्यौ नमयति मुखं जातविनया हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
न शक्नोत्याख्यातु स्मितमुखसखीदत्तनयना ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ९ ॥

समाकृष्टं वासः कथमपि हठात्पश्यति तदा क्रमादूरुद्वन्द्वं जरठशरगौरं मृगदृशः ।
तथा दृष्टिं दत्त्वा महति मणिदीपे निपुणया निरुद्धं हस्ताभ्यां झटिति निजनेत्रोत्पलयुगम् ॥ १० ॥

बलान्नीता पार्श्व सुखमभिमुखं नैव कुरुते धुनाना मूर्धानं हरति बहुशश्चम्बनविधिम् ।
हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना नवोढा वोढारं सुखयति च संतापयति च ॥ ११ ॥

स्फुरद्रोमोद्भेदस्तरलतरतारकुलदृशो भयोत्कम्पोत्तङ्गस्तनयुगभरासङ्गसुभगः ।
अधीर्राक्ष्या गुञ्जन्म णिवलयदोर्वल्लिरचितः परिरम्भो मोदं जनयति च संमोहयति च ॥ १२ ॥

अप्यौत्सुक्ये महति दयितप्रार्थनासु प्रतीपाः काङ्क्षन्त्योऽपि व्यतिकरसुखं कातरा स्वाङ्गदाने ।
आबाध्यन्ते न खलु मदनेनैव लब्धान्तरत्वादामान्यन्ते मनसिजमपि क्षिप्तकालाः कुमार्यः ॥ १३ ॥

दृष्ट्या दृष्टिमधो ददाति कुरुते नालापमाभाषिता शय्याया परिवृत्य तिष्ठति बलादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते बाला वामतया प्रियस्य नितरा प्रीत्यै नवोढाभवत् ॥ १४ ॥

अकृशाङ्गतुङ्गकुलया सरभस गूढौ भुजाम्बया स्तनावाकृष्ठे जघनांशुके कृतमय.ससक्तमूरुद्वयम् ।
नाभीमूलनिबद्धचक्षुषिपि तया व्रीडानताङ्ग्या प्रिये दीपः फूत्कृतिवातवेपितशिखः कर्णोत्पलेनाहतः ॥ १५ ॥

हस्तं कम्पवती रुणद्धि रशनाव्यापारलोलाङ्गुलि हस्तौ द्वौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् ।
पातुं पक्ष्मलचक्षुरानमयतः साचीकरोत्यानन व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ १६ ॥

कण्ठाश्लेषिणमुन्नतस्तनभरश्रोणीतटग्राहिणं ससक्तोरुयुगं गृहीतजघनप्राकारमप्यन्ततः ।
द्रागेव श्लथबन्धमिन्दुवदना गाढामर्दासंहं विज्ञायात्यजदाशु काञ्चनपटं व्रीडाकुलापि क्षणम् ॥ १७ ॥

कान्ते कञ्चुलिकावलोकिनि कलावत्या नमन्त्या स्थितं तस्मिन्कोमलकाकुभाषिणि तया स्पन्दी निरुद्धोऽधरः ।
उत्थायाथ करस्पृशि प्रियतमे यूनोर्नवे सगमे काञ्चीकूजितकैतवेन मदनो द्यौ शान्तिमभ्यस्यति ॥ १८ ॥

इत्थं तल्पतलाधिरोहणमियं पर्णार्यणप्रक्रिया शय्याया वचनक्रमस्य दयितस्यैवंविधाराधना ।
एवं केलिगृहोपदेहलि बलादानीयमाना मुहुश्चाटुक्तिप्रकरैश्चिरं नववधूरालीभिरध्याप्यते ॥ १९ ॥


सुरतकेलिकथनम्

आस्ता दूरेण विश्लेषः प्रियामालिङ्गतो मम ।
खेदः कि नु सरिन्नाथो रोमाञ्चः कि नु पर्वतः ॥ १ ॥

उग्ररूप कुचद्वन्द्व हारगङ्गाधर तव ।
चन्द्रचूडं करिष्यामि कुरु तावद्दिगम्बरम् ॥ २ ॥

कान्ते कलितचोलान्ते दीपे वैरिणि दीप्यति ।
आसीदसितपद्माक्ष्या पक्ष्मो नयनमुद्रणम् ॥ ३ ॥

ब्रह्मानन्दप्रचुर किमपीदं नेति रतिषु वचनेन ।
श्रुतिसीमगताक्षी सुदृशे सारङ्गमादिशसि ॥ ४ ॥

तव तन्वि तरुणपुण्यादम्बरमर्णिमकरसक्रमो जात ।
अधिवेणि भवति नियमः फलमविलम्बेन भावि कामस्य ॥ ५ ॥

विधुताः प्रियस्य केशाः कण्ठे लग्न भुजे वलितम् ।
मज्जन्त्या रससिन्धौ किं कि न कृतं तया सुदृशा ॥ ६ ॥

पृष्ठे कञ्चुकमुक्त्यै सुतनुस्तस्या प्रहिण्वती पाणिम् ।
हन्तुमिव चित्तहरिण यूनस्तूणादिवेषुमादत्ते ॥ ७ ॥

चारुनूपुररणत्कृतं रते कामिना हरति मानस यथा ।
नो तथा मधुरगीतवादितं केकिचातकपिकस्वना अपि ॥ ८ ॥

हेमकुम्भमिव तुङ्गमु रोजं वल्लभे स्पृशति चोरवद्द्रुसाः ।
जाग्रति स्म सहसैव तदानी यामिका इव तनरूहसघाः ॥ ९ ॥

पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः ।
योषिता रहसि गद्गदवाचामन्मथामृतमुपययुर्मदनस्य ॥ १० ॥

धैर्यमुल्बणमनोभवभावा वामता च वपुरर्पितवत्य ।
व्रीडितं ललितसौरतधार्थास्तेनिरेऽभिरुचितेषु तरुण्यः ॥ ११ ॥

पाणिरोधमविरोवितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्व कुरुते करमोरूर्हारि शुष्करुदिते च सुखेऽपि ॥ १२ ॥

वारणार्थपदगद्गदवाचामीर्ष्याया मुहुर्परप्रतया च ।
कुर्वते स्म सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः ॥ १३ ॥

अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ १४ ॥

बाहुपीडनकचग्रहाभ्यामाहतेन नखदन्तनिपातैः । बोधितस्त-