भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 332, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 332

वाह्यरतक्रीडावर्णनम्, सुरतप्रशंसा, नववधूसंगमे सखीवाक्यम्, नववधूसंगमः ३१७


ष्वपि काम ॥ १३ ॥ ह्रीभ्रादवनतं परिरम्भे रागवानव-
टुजेष्ववकृष्य । अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्ष-
मधासीत् ॥ १४ ॥ पल्लवोपमिति साम्यसपक्षं दृष्टवत्यधरबि-
म्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण
॥ १५ ॥ केनचिन्मधुरमुल्बणरागं बाष्पतममधिकं विरहेषु ।
ओष्ठपल्लवमपास्य मुहूर्तं सुभ्रुवः सरसमक्षि चुचुम्बे ॥ १६ ॥

विहार

आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वितयेन ।
रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि
॥ १७ ॥ कामिनामसकलानि विमुग्धैः खेदवारिमृदुभिः
करजाग्रैः । अक्रियन्त कठिनेषु कथंचित्कामिनीकुच-
तटेषु पदानि ॥ १८ ॥ सोष्मणस्तनशिलाशिखराग्रादात्तघर्म-
सलिलैस्तरुणानाम् । उच्छ्रसत्कमलचारुषु हस्तैर्निम्ननाभिसर-
सीषु निपेते ॥ १९ ॥ आमृशद्भिरभितो वलिवीचीर्लोल-
मानवितताङ्गुलिहस्तैः । सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति
मध्यमभीष्टैः ॥ २० ॥ प्राप्य नाभिनदमज्जनमाशु प्रस्थितं
निवसनग्रहणाय । औपनीविकमरुन्ध किल स्त्री वल्लभस्य
करमात्मकराभ्याम् ॥ २१ ॥ कामिनः कृतवतोत्सवकाल-
क्षेपमाकुलवधूकरात्सपदि । मेखलागुणविलग्नमसूर्या दीर्घसूत्र-
मकरोत्परिधानम् ॥ २२ ॥ अम्बरं विनुदतः प्रियपाणेर्यो-
षितश्च करयोः कलहंसः । वारणामिव विधातुमभीक्ष्णं
कक्ष्यया च वलयैश्च शिशिञ्जे ॥ २३ ॥ ग्रन्थिमुद्ग्रथयितुं हृद-
येशे वाससः स्पृशति मानधनायाः । भ्रूयुगेण सपदि प्रति-
पेदे रोममिश्रं सममेव विभेदः ॥ २४ ॥ आशु लङ्घित-
वतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधर-
तन्त्रीमण्डलक्वणितचारु चुकूजे ॥ २५ ॥ आयताङ्गुलिरभूद-
तिरिक्तः सुभ्रुवा कशिमशालिनि मध्ये । श्रोणिषु प्रियकरः
पृथुलासु स्पर्शमाप सकलेन तलेन ॥ २६ ॥ चक्रुरेव लल-
नोरुषु राजीः स्पर्शलोभवशलोलकराणाम् । कामिनामनिभृ-
तान्यपि रम्भास्तम्भकोमलतलेषु नखानि ॥ २७ ॥ ऊरुमूल-
चपलेक्षणभग्नैर्वतंसकुसुमैः प्रियमेताः । चकिरे सपदि
तानि यथार्थं मन्मथस्य कुसुमायुधनाम ॥ २८ ॥

सुरतप्रशंसा

सुरते च समाधौ च मनो यत्र न लीयते । ध्यानेनापि
हि किं तेन किं तेन सुरतेन वा ॥ १ ॥ यत्र न मदन-
विकारः सद्भावसमर्पणं च गात्राणाम् । तस्मिन्नुद्धतभावे पशु-
कर्मणि पशव एव रज्यन्ते ॥ २ ॥ प्रतिक्षणसमुल्लसन्नव-
कलाकलापान्वितक्षपाकरविलोकेने यदि तवास्ति कौतूहलम् ।
विलोकय तदा सखे सुरतसगरालोकनप्रहृष्टदयितामुखं
निबिडकञ्चुकोत्तारणे ॥ ३ ॥ नरैर्विफलजन्मभिर्गिरिदरी न किं
सेव्यते न चेच्छ्रवणगोचरीभवति जातुचिज्जन्मनि । कपोत-
रवमाधुरीविग्वचनानुकारादरीतरासहकृतोदरीवचनकाकुरीति-
ध्वनि ॥ ४ ॥ सदष्टेऽधरपल्लवे मचकितं हस्ताग्रमा-
धुन्वती मा मा मुञ्च शठेति कोपवचनेनगर्तिनभ्रूलता ।
सीत्कागञ्चितलोचना सग्भसं यैश्चुम्बिता मानिनी प्राप्तं तै-
रमृतं श्रमाय मथितो मूढैः सुरैः सागरः ॥ ५ ॥ किं चेतर्गुरु-
सेवनैः किमपरव्योमार्चने किं फलं किं स्यादध्ययनेन मे
सुरपदप्राप्त्याथ किं वा फलम् । एतस्याः कुचकुम्भसश्रम-
परीरम्भप्रवाहोद्गमस्वेदाम्भोभिरनङ्गवह्निरधुना निर्वापितो नो
यदि ॥ ६ ॥ प्राङ् मा मेति मनागनागतगुणं जाताभि-
लाषं ततः सव्रीडं तदनु श्लथोद्यममनु प्रम्नष्टधैर्यं पुनः ।
प्रेमार्ट्रस्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो निःसङ्गाङ्गविघर्ष-
णाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ ७ ॥ शङ्काराष्टुलितेन
यत्र नयनप्रान्तेन न प्रेक्ष्यते केयूरध्वनिभूरिभीतिचकितं नो
यत्र वाश्लिष्यते । नो वा यत्र शनैरलक्षदशनं विम्बावरः
पीयते नो वा यत्र विवीर्यते च मणितं तत्किं रतं कामिनो
॥ ८ ॥ आकाशे नटनं सरोरुहयुगे मञ्जीरमञ्जुध्वनिः
शीतांशौ कलकूजितं किसलये पीयूषपानोत्सवः । स्वर्गक्षोणि-
धरे नखात्परिभवो ध्वान्ते कराकर्षणं रम्भाया रसनारव-
स्तरणयोः पुण्यानि मन्यामहे ॥ ९ ॥

नववधूसंगमे सखीवाक्यम्

रक्षामालिकया बाले बद्धया किं प्रयोजनम् । अवश्यं-
भाविनावेतौ कुचग्रहकचग्रहौ ॥ १ ॥ बाला तन्वी मृदुतनु-
रियं त्यज्यतामत्र शङ्का दृष्टा काचिद्भ्रमरभरतो मञ्जरी भज्य-
माना । तस्मादेषा रहसि भवता निर्दयं पीडनीया मन्दा-
क्रान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥ २ ॥ नीरन्ध्रं
परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते तद्वाढं क्रियते यदस्य
रुचिरं चाटूत्करैः स्तूयते । सख्या मुग्धवधूरसौ रतविधौ
यत्नेन सा शिक्षिता निर्भ्रान्तं गुरुणा पुनः शतगुणं पञ्चेषुणा
कारिता ॥ ३ ॥ नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो
वारितास्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा
कृथा । कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरे
किं नो बर्बरकर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ४ ॥

नववधूसंगमः

यावक्सरार्द्रपादप्रहारगोणितकचेन दयितेन । मुग्धा
साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥ १ ॥
आभाति बालिकेयं पाणिस्पर्शेन पुलकितावयवा । अभिनव-
वसन्तसङ्गादाविर्मुकुलेव बालचूतलता ॥ २ ॥ खिद्यति