सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 327, कुल 516 में से
संदर्भ में पढ़ें| ३१२ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
यावच्छेदेनामुना। दृष्टेनैव मनो हृतं द्युतिमुषा प्राणेश्वरेणाद्य मे तत्केनापि निरूप्यमाणनिपुणो मानः समाधीयताम् ॥३२॥
प्रियचाटूक्तयः
मुग्धे यानुष्कता केयमपूर्वा त्वयि दृश्यते । यथा विध्यसि चेतांसि गुणैरेव न नायकैः ॥ १॥
कृष्णार्जुनोनुरक्तापि दृष्टिः कर्णायतम्बिनौ । याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ २ ॥
सितपुष्पोद्गमोऽयं ते दृश्यतेऽवरपल्लवे । फलं तु जातं मुग्धाक्षि चक्षुषोर्मम पश्यतः ॥ ३ ॥
अपूर्वं चौर्यमभ्यस्तं त्वया चञ्चललोचने । दिवैव जाग्रता पुंसां चेतो हरसि दूरतः ॥ ४॥
कुतः कुवलयं कर्णे करोषि कलभाषिणि । किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥ ५ ॥
दृष्टिं देहि पुनर्बाले कमলায়तलोचने । श्रूयते हि पुरा लोके विषस्य विषमौषधम् ॥ ६ ॥
विभ्रमैर्विश्वहृत्यैस्व विद्ययाप्यनवद्यया । केनापि हेतुना मन्ये प्राप्ता विद्याधरी क्षितिम् ॥ ७ ॥
त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता ॥ ८ ॥
बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत । अधुना हृदयेऽप्येष मृगशावाक्षि दृश्यते ॥ ९ ॥
पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः ॥ १०॥
अनङ्गोऽयमनङ्गःत्वमद्य निन्दिष्यति ध्रुवम् । यदनेन न सम्प्राप्तं पाणिसम्पर्शोत्सवस्तव ॥ ११ ॥
कमले कमलोत्पत्तिः श्रूयते न च दृश्यते । बाले तव मुखाम्भोजे दृष्टमिन्दीवरद्वयम् ॥ १२ ॥
आकर्ण्य सरोजाक्षि वचनीयमिदं भुवि । शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ॥ १३ ॥
नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः । मदंशं वनवृद्धानां कँमलानां त्वदीक्षणे ॥ १४ ॥
यन्मध्यदेशादपि ते सूक्ष्मं लोलाक्षि दृश्यते । मृणालसूत्रमपि ते न समाति स्तनान्तरे ॥१५॥
अनयोरनवद्याङ्गी स्तनयोर्जृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ १६ ॥
निर्णेतुं शक्यमस्तीति तव मध्यं नितम्बिनि । अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥ १७ ॥
राकाविभावरीकान्तसक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभी कटिश्च हरते मनः ॥ १८ ॥
आक्षिपन्त्यरविन्द्वानि मुग्धे तव मुखश्रियम् । कोषद्ण्डसमग्राणां किमेषामस्ति दुष्करम् ॥ १९ ॥
आवर्त एव नाभिस्ते नेत्रे नीलसरोरुहे । तरङ्गा वलयस्तेन त्वं लावण्याम्बुवापिका ॥ २० ॥
साहजिकरूपवत्या भवति भवत्या विभूषणं भारः । सर्वाङ्गसौरभिण्या दमनकवल्याः किमालि कुसुमेन ॥ २१ ॥
इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितविलास्रवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥ २२ ॥
आरुह्य शैलशिखरं त्वद्वदनापहृतकान्तिसर्वस्वः । फूत्कर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः ॥ २३ ॥
कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥ २४ ॥
आक्षिपसि कर्णमक्ष्णा बैलिरपि बद्धस्त्वया त्रिधा मध्ये । इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ॥ २५ ॥
नयननिपातेऽङ्कुरितः पल्लवितो वचसि पुष्पितो हसिते । फलतु कृशाङ्गि तवाङ्गस्पर्गेन मनोरथोड्स्माकम् ॥ २६ ॥
उचितं गोपनमनयोः कुचयोः कनकाद्रिकान्ति तस्करयोः । अवधीरितविधुमण्डलमूखमण्डलगोपनं किमिति ॥ २७ ॥
वदनेन निर्जितं तव निलीयते चन्द्रविम्बमम्बुधरे । अरविन्दमपि च सुन्दरि निलीयते पॊथसां पूरे ॥ २८ ॥
सत्यं तपः सुगत्यै यत्तत्वाम्बुषु रविप्रतीक्षं सत् । अनुभवति सुगतिम्बज्ज त्वत्पद्मजन्मानं समस्तकमनीयम् ॥ २९ ॥
दलदमलकोमलोत्पलपालाशशङ्काकुलोऽयमलिपॊतः । तव लोचनयोरनयोः परिसरमनुवेलमनुसरति ॥ ३० ॥
तव कुवलयाक्षि वक्षसि कुण्डलिता कापि काञ्चनी कान्तिः । कुसुमेषोर्विजिगीषोर्भवति च भवतीह भूयसी कण्डूः ॥ ३१ ॥
कम्बुकण्ठि चरणं शनैश्चरो राहुरेष तव केशकलापः । न च्युतं तदपि यौवनमेतत्समा पयोधरगुरोरनुकम्पा ॥ ३२ ॥
कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने । दृढलममिदं दृगोर्युगं शनकैरद्य समुद्धराम्यहम् ॥ ३३ ॥
अयि मन्मथचूतसञ्जरि श्रवणायतचारुलोचने । अपहृत्य मनः क्व यासि तत्किमराजकमत्र राजते ॥ ३४॥
भवत्कृते खञ्जनमञ्जुलाक्षि शिरो मदीयं यदि याति यातु । नीतानि नाशं जनकात्मजार्थं दशाननेनापि दशाननानि ॥ ३५ ॥
ताम्बूलरागोऽधरलोलुपो यद्यदञ्जनं लोचनचुम्बनौत्सुकम् । हरश्च कण्ठग्रहलालसो यत्स्वार्थं स तेषां न तु भूषणं ते ॥ ३६ ॥
यत्पद्ममादिक्सु तवाननीया कुरङ्गलक्ष्मा च मृगाक्षि लक्ष्मीम् । एकार्थलिप्स्याकृत एव मन्ये शशाङ्कपङ्केरुहयोर्विरोधः ॥ ३७ ॥
सदा प्रदोषो मम याति जाग्रतः सदा च मे निःश्वसतो गता निशा । त्वया समेतस्य विशाललोचने ममाद्य शोकान्तकरः प्रदोषकः ॥३८॥
पादटिप्पण्यः (Left Footnotes): १ इन्दीवरसदृशं नेत्रयुगलम् २ अङ्गीकृतया निन्दितम् ३ व्याप्तताम्, पक्षे,-चपलताम् ४ लोभशीले, पक्षे,-व्याधे ५ अमरैः पक्षे,-वाणै ६ जलम्, पक्षे,-अरण्यम् ७ पद्मानाम, पक्षे,-हरिणानाम्
पादटिप्पण्यः (Right Footnotes): १ आर्त्तव्याहरणं फूत्कारः २ श्रोत्रम्, पक्षे,-अष्टाधिपम् ३ वलि नामा दैत्यः, पक्षे,-वयसो सावर्ण्यात् वलिः वलित्रितयम् ४ जितमवदानशौण्डे ५ जलानाम्