भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

३२२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


भरस्तत्याज बन्धं ययौ काञ्ची निर्गुणता निरञ्जनदृशा
हर्म्या समासादिता । नीरागोऽधरपल्लवश्च गुरुणा केनापि
गौराङ्गि ते शङ्के शम्बरशासनोंपनिषदा तत्त्वावबोध कृत
॥ २९ ॥ तन्द्रालुन्दिलशोणलोचनयुग दष्टाङ्गदन्तच्छद्
पर्यस्तालकवल्हि घर्मपटलप्रोद्भिन्मपत्रावलि । जृम्भोद्धृम्भित-
सीधुसौरभमिलद्भृङ्गीमिरङ्गीकृतस्तोत्रं शंसति वृत्तमेव रजनी-
वृत्तान्तमेणीदृशः ॥ ३० ॥ स्वामिन्भङ्गुरयालक सतिलक
भाल विलासिन्कुरु प्राणेश त्रुटितं पयोधरतटे हार पुन
र्योजय । इत्युक्त्वा सुरतावसानसमये संपूर्णचन्द्रानना
स्पृष्टा तेन तथैव जातपुलका प्राप्ता पुनर्मोहनम् ॥ ३१ ॥
व्यालोल· केशपाशस्तर लितमलकैः स्वेदलोलौ कपोलौ क्लिष्टा
बिम्बाधरश्री. कुचकलशरुचा हारिता हारयष्टि. । काञ्ची
काचिद्गतासा स्तनजघनपद पाणिना छादयन्ती भूषाहीनापि
काचित्प्रियहृदयमहो प्रीणयत्येव मुग्धा ॥ ३२ ॥ सव्यासव्यो-
रुबाहुव्यतिकरमधुर कूर्परन्यस्तशीर्षे ससक्तास्रान्जयुग्मश्वसित-
हतचलच्चारुनासाविभूषम् । भूयो निद्रातिरेकात्क्रमशिथिल-
भुजाश्लेषदत्तावकाशोच्छासोदञ्चत्कुचाग्रप्रतिहतहृदयं शेरतेऽमी
रतान्ते ॥ ३३ ॥ व्यामिश्रैकैकबाहु प्रवलितपृथुलैकैकचारू-
रुकाण्ड दष्टा दष्टाधरोष्ठ दर्शितलतनुश्लेषमालिङ्ग्य कान्ताः ।
श्वसद्भिःश्वासवेगस्फुरितगुरुकुचद्वन्द्वसङ्घष्टवक्षाः श्रान्त· शेते
रतान्ते सुखमिह सुकृती लीलया कामिलोकः ॥ ३४ ॥

चन्द्रास्तसमयवर्णनम्

कलङ्कदाशो गगनाम्बुराशौ प्रसार्य चन्द्रातपतन्तुजालम् ।
लग्नोडुमीनांलघु सजिघृक्षुश्चन्द्रप्लवस्थश्वरमान्धिमेति ॥ १ ॥
असौ हि दत्त्वा तिमिरावकाशमस्त ब्रजत्युन्नतकोटिरिन्दुः ।
जलावगाढस्य वनद्विपस्य तीक्ष्णं विषाणाग्रमिवावशिष्टम्
॥ २ ॥ वृन्देन तारावलितण्डुलाना मङ्केन च श्रीफलपल्लवेन ।
अभ्यर्च्य जोगेश्वरमिन्दुबिम्ब विसर्जयन्येष नभोमुनीन्द्र.
॥ ३ ॥ मन्दप्रभिर्मधुरैर्यमोपला दर्शितैश्रथयु चाभवत्तम. ।
दृष्टयस्तिमिरजं सिषेविरे दोषमोषँधिपतेरसन्रिधौ ॥ ४ ॥
अरुणकिरणजालैरन्तरिक्षे गतर्ते चलति शिशिरवाते मन्द-
मन्दं प्रभाते । युवतिजनकदम्बे नाथमूक्तौष्ठबिम्बे चरम-
गिरिनितम्बे चन्द्रबिम्बं ललम्बे ॥ ५ ॥ जरठ इव मलीलो
जर्जराग्रेर्मयूखै· स्खलति शिशिरभानु पश्चिमाम्भोधिपारे ।
श्लथगरुत इवाभूत्तत्र तत्रान्तरिक्षे विरलविरलभास. कि च
तारा लुठन्ति ॥ ६ ॥ चरमगिरिकुरङ्गीशृङ्गकण्डूयनेन
स्वपिति सुखमिदानीमन्तरिन्दोः कुरङ्ग· । परिणतरविगर्भ-
व्याकुला पौरहूती दिगपि घनकपोतीहुंकृतै कुप्यतीव
॥ ७ ॥ उदयमुदितदीप्तियाति य. सगतौ मे पतति न वर-
मिन्दु सोऽपरामेष गत्वा । क्षितरुचिरिव सद्य साम्यसूय
प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनाया ॥ ८ ॥ नव-
कुमुदवनश्रीहासकेलिप्रसङ्गादभिकरुचिरशेषामप्युषा जाग-
रित्वा । अयमपरदिशोऽङ्के सुश्वति स्तस्तहस्तः शिशयिषुरिव
पाण्डुम्लानमात्मानमिन्दु ॥ ९ ॥ सपदि कुमुदिनीभि-
मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ता. समस्ता. ।
इति दयितकलत्रश्चिन्तयन्नङ्कमिन्दुर्वहति कृशमशेषं भ्रष्टशोभ
शुचेव ॥ १० ॥ प्रकदमलिनलक्ष्मा मृष्टपत्रावलीकैरधिगत-
गतिशोमै. प्रत्युष.प्रोषितश्री· । उपहसित इवासौ चन्द्रमाः
कामिनीना परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥ ११ ॥
विकसितमुखी रागासङ्गाद्गलत्तिमिरावृतिं दिनॅकरकरस्पृष्टा-
मैन्द्री निरीक्ष्य दिशं पुर । जरठलवलीपाण्डुच्छायो भृश
कलुषान्तर श्रयति हरितं हन्त प्राचेतसी तुहिनद्युतिः
॥ १२ ॥ नक्षत्रक्षतिनायकोऽयमधुना रुद्ध. प्रभातागमे
सप्ताश्वेन बलीयसातिमहसा रोषारुणज्योतिषा । भ्रश्यद्धान्त-
शिरोरुहा प्रविगलत्तारा लिहारावलीमादाय क्षणदा प्रिया
क्षितिधर पाश्चात्यमारोहति ॥ १३ ॥ सश्लिष्टा सानुरागं
स्वकरपरिचयप्राप्तभूरिप्रसादा या पूर्वा मुक्तपूर्वा रविकर-
कलिता तामुदीक्ष्योन्मुतासु. । निस्तेजा पश्चिमाब्धौ
प्रविशति हि सता दुःसहो मानभङ्ग. कि वक्तव्य सिताशोः
स तु सैकलसता मण्डलस्यापि नेर्त्ता ॥ १४ ॥

मध्यरात्रक्रीडावर्णनम्

शमितनिखिलदीपे सुप्तनिद्रालुलोके रतपरवशचित्ता
मध्यरात्रे विबुद्धाः । प्रथमसुरतखिन्ना मुग्धिका बोधयन्तो
बहुदृढपरिरम्भै. कामुका. खेदयन्ति ॥ १ ॥ अनुनयम-
गृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य
कैल्ये । कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलित-
नयनैवाश्लिष्यति प्राणनाथम् ॥ २ ॥ चिररतिपरिखेदप्राप्त-
निद्रासुखाना चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरि-
चलितगात्रा. कुर्वते न प्रियाणामशिथिलभुजचक्रा श्लेषमेद
तरुण्य. ॥ ३ ॥ वदनशशिन. स्पर्शे शीतादिवागतवेपथु-
स्तनयुगलके भ्रान्त्वा तुङ्गे निविष्ट इव श्रमात् । ज्वलित-
मदनाङ्गारे तन्व्यास्ततो जघनस्थले सपुलकजल. पत्यु·
पाणिर्विलीन इवाभवत् ॥ ४ ॥ रतिकृति गते मायानिद्रा


पादटिप्पण्यः (Footnotes):
१ शिवम् २ मन्दीभूतसद्भिम् पक्षे,-रोगविशेष ३ धृतवन्त ४ सूर्यकान्ता ५ पुष्टत्वम्, पक्षे,-रोगविशेष ६ आन्ध्यम्, पक्षे,-रोगविशेष ७ चन्द्रस्य, पक्षे,-वैद्यस ८ हस
१ सूर्यहस्तलज्ञाम २ चन्द्र ३ नक्षत्राणाम्, पक्षे,-द्विजानाम् ४ नायक ५ निर्धर्यमुखी ६ प्रभाते

मध्यरात्रक्रीडावर्णनम्, प्रभातवर्णनम् ३२३

प्रवर्तितचुम्बना पुलकपद्मया तत्त्वं मत्वा मुग्वादहृत्तानना।
कृतकशयनो निद्राग्लोऽसीत्युदीर्य कलं वधूर्वणितमधरं कृत्वा
दन्तैरपूरयत स्पृहाम् ॥ ५ ॥

प्रभातवर्णनम्

ततोऽरुणपरिस्पन्दमन्दीकृतवपु शशी । दध्रे कामपरि-
क्षामकामिनीगण्डपाण्डुताम् ॥ १ ॥ कुक्कुटे कुर्वति क्काण-
माननं श्लिष्टयोस्तयोः । दिवाकरकराक्रान्तं शशिकान्तमिवा-
बभौ ॥ २ ॥ विकसितसकुचितपुनर्विकस्वरेष्वम्बुजेषु
दुर्लक्ष्याः । कलिकाः कथयति नूतनविकासिनीर्मधुलिहामर्घः
॥ ३ ॥ प्रियवसतेरपयान्त्यो मिथ करम्बितकराम्बुजन्मानः ।
करजपदव्रणविरलस्तनपुलकममू किमपि विवदन्ते ॥ ४ ॥
आश्लेषशेषा रतिरञ्जनानामामोदशेषा कुचकुङ्कुमश्रीः । तूणीर-
शेषः कुसुमायुधोऽपि प्रभातशेषा रजनी बभूव ॥ ५ ॥
नभोवन नक्तमसौ विगाह्य नक्षत्रसेनासहितः शशाङ्कः ।
कगभ्रलभ्मान्कतिचित्प्रहृत्य पान्थान्प्रभाते प्रपलायतेऽद्य ॥६॥
चन्द्रकान्तगलदम्बुनाधुना हा चकोरनयने समाश्रिते ।
कोकलोकहृदयानलं पुन सूर्यकान्तमणिमाश्रयत्यहो ॥ ७ ॥
संनिगृह्य चिकुर तमोगयं यामिनी तदनु केलिविच्युतम् ।
कुर्वती श्रवसि चन्द्रमण्डल कुण्डल गगनकेलिमुज्झति
॥ ८ ॥ तरुणा दिवाकरमयूखमञ्जरीमरुणामशोकशिखरा-
वलम्बिनीम् । कमनीयपुष्पमनसा समाश्रिता मधुपे विड-
म्बयति मञ्जुभाषिणीम् ॥ ९ ॥ प्राची दिगम्बरमणौ दयिते
विभाते प्रान्तेऽम्बर स्पृशति वासकसजिकेयम् । धीरा
जगाद रमणस्य न भूषणानि रोषादरुणा त्यजति तारक-
भूषणानि ॥ १० ॥ यात्येकतोऽस्तशिखरं पतिरोषधीनामावि-
ष्कृतारुणपुर सर एकतोऽर्कः । तेजोद्वयस्य युगपद्व्यसनो-
दयाभ्या लोको नियम्यत इवैष दशान्तरेषु ॥ ११ ॥
अन्तर्हिते शशिनि सैव कुमुद्वतीय दृष्टि न नन्दयति संस्मर-
णीयशोभा । इष्टप्रवासजनितान्यबलाजनेन दु खानि नून-
मतिमात्रदुरुद्वहानि ॥ १२ ॥ प्रालेयमिश्रमकरन्दकरालकोशै
पुष्पै. सम निपतिता रजनी प्रबुद्धे । अर्कांशुभिन्नमुकुलोदर-
सान्द्रमन्धसमूचितानि कमलान्यलय पतन्ति ॥ १३ ॥
दिङ्मण्डलीमुकुटमण्डनपद्मरागरत्नाङ्कुरे किरणमालिनि गर्भि-
तेऽपि । सौरभ्यप्रसुसिकमधुव्रतचक्रवालवाचालपङ्कजजनी-
सरसाः सरसः ॥ १४ ॥ पीत्वा भृशं कमलकुड्मलशक्ति-
कोषा दोषातनी तिमिरवृष्टिमथ स्फुटन्त । निर्यन्मधुव्रत-
कदम्बमिषाद्वमन्ति बिभ्रन्ति कारणगुणानिव मौक्तिकानि
॥ १५ ॥ आपाटलै. प्रथममङ्कुरितैर्मयूखैरद्यापतिः प्रथम-
शैलविहारिणीनाम् । सोऽयं करोति सुरपुङ्गवसुन्दरीणा
कर्णेषु कल्पतरुपल्लवभङ्गलक्ष्मीम् ॥ १६ ॥ अन्यत्र यापित-
निशं परिलोहिताङ्गमन्‍याङ्गनागतमिवागतमुष्णरश्मिम् ।
प्रातर्निर्रीक्ष्य कुपितेव हि पद्मिनीमुत्फुल्लहल्लकलुलोहित-
लोचनाभूत् ॥ १७ ॥ का कावला निधुवनश्रमपीडिताङ्गी
निद्रा गता दयितबाहुलतानुबद्धा । सा मा तु यातु भवनं
मिहिरोद्गमोऽय संकेतकवाक्यमिति काकचया वदन्ति ॥ १८ ॥
दिशि दिशि मृगयन्ते वल्गुना घासमेते मुहुरपगतनिद्राः
संस्रयो हेषितेन । अयमपि च सरोषे कामिभि. श्रूयमाणो
नंदति मधुरतारं ताम्रचूडो विहग. ॥ १९ ॥ अविरतमवि-
रामा रागिणा सर्वगत्र नवनिधुवनलीला. कौतुकेनाभिवीक्ष्य ।
इदमुदवमितानामस्फुटालोकसपन्नयनमिव सनिद्रं घूर्णते
दैपमर्चि ॥ २० ॥ रतिरभसविलासाम्यासतान्तं न याव-
न्नयनयुगममीलत्तावदेवावृतोऽसौ । रजनिविरतिंशींसी कामि-
नीना भविष्यद्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्ग. ॥ २१ ॥
प्रहरकमपनीय स्वं निदिद्रासतोच्चै प्रतिपदमुपहूत. केन-
चिजागृह्रीति । सुहुरविशदवर्णा निद्रया शून्यशून्या दददपि
गिरमन्तर्बुध्यते नो मनुष्य. ॥ २२ ॥ विपुलतरनितम्बा-
भोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशोऽवकाशम् ।
रतिपरिचयनश्यन्नैद्रतन्द्रः कथंचिद्गमयति शयनीये शर्वरीं
किं करोतु ॥ २३ ॥ द्रुततरकरदक्षा क्षिसवैशाखशैले
दधति दधनि धीरामारवान्वारिणीष । शशिनमिव सुरौघाः
सारमुद्धर्तुमेते कलशिमुदधिगुर्वी बद्धवा लोडयन्ति ॥ २४ ॥
परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमन्भुभूय स्वप्न-
मूर्ध्वञ्चुरेव । रिरसयिषति भूयः शष्पमग्रे विकीर्ण पटुतरचप-
लौष्ठः प्रस्फुरत्घोथमश्व. ॥ २५ ॥ कृतधवलिमभेदै. कुङ्कु-
मेनेव किञ्चिन्मलयहुरजोभिर्भूषयन्पश्चिमाशाभू । हिम-
रुचिररुणिन्रा राजते रज्यमानैर्रजरठकमलकन्दच्छेदगौरैर्मयूखैः
॥ २६ ॥ शिशिरकिरणकान्त वासरान्तेऽभिसार्य श्वसनसुरभि-
गन्धिः साप्रतं सत्वरेव । व्रजति रजनिरेशा तन्मयूखाङ्ग-
रागैः परिमिलितमनिन्द्यैरम्बरान्तं वहन्ती ॥ २७ ॥ व्रजति
विषयमक्ष्णामंशुमाली न यावत्तिमरमखिलमस्तं तावदेवा-
रुणेन । परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि
विपक्षोच्छेदमेग्रेसरोऽपि ॥ २८ ॥ विगततिमिरपङ्कं पश्यति
व्योम यावद्भवति विरहखिन्नः पक्षती यावदेव । रथचरण-
समाहस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्र-
वाकी ॥ २९ ॥ अरुणजलदराजीमुग्धहस्ताग्रपादा बहुल-
मधुपमालाकज्जलेन्दीवराक्षी । अनुपतति विरावै. पत्रिणा
व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव ॥ ३० ॥
अयमुदयमहीभृन्मूर्ध्नि पाणि गृहीत्वा दिवसपतिरहौषी-


१ अश्वा २ शब्दं करोति ३ कुक्कुट ४ ऊर्ध्वजानु

३२४सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

[वामभागः]

दिन्दुपादान्हर्वीषि । अरुणकिरणवह्नौ कन्यका पौरहूति हरिदपि किमकार्षीत्तारकालाजहोमम् ॥ ३१ ॥ कुमुद- वनमपश्रिय श्रीमदम्भोजखण्डं त्यजति मुदमैलूकः प्रीतिमा- ंश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुदस्तं हतविधि- लसिताना ही विचित्रो विपाकः ॥ ३२ ॥ लुलितनयनतारा- क्षामवक्त्रेन्दुबिम्बा रजनय इव निद्राक्रान्तनीलोत्पलाक्ष्यः । तिमिरमिव दधानाः संसिनः केशपाशान्नवनिपतिगृहेभ्यो यान्त्यमूर्वार्वध्वः ॥ ३३ ॥ शिथिलयति सरागो यावदर्को नलिन्याः कमलमुकुलनीवीग्रन्थिमुद्रां करेण । प्रविकसदलि- माला गुञ्जितैर्मञ्जुशब्दा जनयति मुदमुच्चै कामिना कामि- नीव ॥ ३४ ॥ नभसि विरलतारा मौक्तकानीव भान्ति स्फुटरतमयमध्यस्तक्ष्मधार चुम्बतीन्दुः । रविरुदयधरिञ्धीधारि- मूर्धानमेतुं हृदयमनु नितान्तोल्लासमङ्गीकरोति ॥ ३५ ॥ अभूत्प्राची पिङ्गा रसपतिरिव प्राश्य कनकं गतच्छाय- श्चन्द्रो बुधजन इव ग्राम्यसदसि । क्षणात्क्षीणास्तारा नृपतय इवानुद्यमपरा न दीपा राजन्ते द्रविणरहितानामिव गुणाः ॥ ३६ ॥ इतः शुक्ला चन्द्रद्युतिमिरिह रक्तारुण- कैरस्तमैश्चर्यपन्तस्खलितगतिमिर्र्चकरुचि । प्रभातश्रीरेषा विलसति पुरस्था सुकृतिना मिमङ्क्षूणा जह्नुद्युमणिविधिजा- सगम इव ॥ ३७ ॥ तमोभिः पीयन्ते गतवयसि पीयूषवपुषि ज्वलिष्यन्मार्तण्डोपलपटलधूमैरिव दिशः । सरोजाना कर्ष- न्नलिमयमयस्कान्तमणिवत्क्षणादन्तःशल्यं तपति पतिरद्यापि न रुचाम् ॥ ३८ ॥ इतः पौरस्त्याया ककुभि विवृणोति क्रमदलन्मिषामर्मणि किरणकलिका मम्बरमणिः । इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तूरीपत्राङ्कुर- मकरिकासुद्रितसुरः ॥ ३९ ॥ द्रुमाः पाण्डुग्राया धृत- निबिडगर्भाः स्त्रिय इव प्रफुल्लास्ते कन्दा नृपतिकृतमाना इव जनाः । पिको मन्द मन्दं हृदि मदननामानि जपति प्रभोरग्रे पूर्वापरिचितसभाइकः कविरिव ॥ ४० ॥ विरल- विरलीभूतास्ताराः कलौ सुजना इव व्यपसरति च ध्वान्तं चित्तात्सतामिव दुर्जनः । मन इव मुनेः सर्वत्रापि प्रसन्नमभू- न्नभो विगलति निशा क्षिप्रं लक्ष्मीरनुद्यमिनामिव ॥ ४१ ॥ व्रजत्यपरवारिधि रजतपिण्डपाण्डुः शशी न भान्ति जल- बुद्बुद्युतिसपलिकास्तारकाः । कुरण्टकविपाण्डुरं दधति धाम दीपाङ्कुराश्चकोरनयनारुणा भवति दिक्कच सौत्रामणी ॥४२॥ अयं मृदुमृणालिनीवनविलासवैहासिकस्तिवा वितपते पति- सपदि दृश्यमाना निजाः । स्तनौ पुलकयन्ति चोत्पलदृशा


[दक्षिणभागः]

प्रियोरःस्थले विपर्ययितवृत्तयो घुसूणपङ्कपत्राङ्कुराः ॥ ४३ ॥ जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टैर्हस्तैर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः । स्त्रीभिः सार्धं घनपरिमलस्तोक- लक्ष्याङ्गरागा मुञ्चन्त्येते विकचनलिनीगर्भशय्या द्विरेफाः ॥ ४४ ॥ य सैन्ये स्मरपार्थिवस्य विरहिप्रत्यर्थिना मग्रेणी- र्ज्योत्स्नानिर्झरसमुज्झति स्म जगता यस्तापनिवारणम् । सोऽय तारकनायकः किमपर शृङ्गारसजीवन जातः पृष्ठपराग- पाण्डुरजरत्कूष्माण्डपिण्डाकृतिः ॥ ४५ ॥ ये कुण्ठीकृतवल्लभ- प्रणतय शस्त्रैरनङ्गस्य ये न प्रासाश्च निशीथिनीपतिकरैः शैथिल्यवीथीमपि । ते निःशङ्कविटङ्कताळुतुमुलप्रोत्तङ्गूत- प्लावितैश्छिन्ना कुक्कुटकूजितैर्मुगदृशा मानग्रहग्रन्थयः ॥४६॥ कान्ते जग्युषि ताम्रचूडरटित श्रुत्वा प्रबुद्धा जैवात्किञ्चि- द्वासवदिङ्मुखे प्रविकसद्दृष्ट्वा गवाक्षाध्वना । सत्रासेन समी- रिता प्रियतमप्रेम्णावरुद्धा शनैरूत्थानोपनिवेशनानि कुरुते तल्पे मुहुः पौंशुला ॥ ४७ ॥ निर्यन्त्यां रतिवेश्मनः पैरितप्रौया विलोक्य क्षेपा गाढालिङ्गनचुम्बनानि बहुशः कृत्वोप्यमन्तुष्टया । एकं भूमितले निधाय चरण तल्पे प्रैकल्प्यापर तन्वङ्ग्या परिवर्तितताङ्गलतया प्रेयान्भिर चुम्बितः ॥ ४८ ॥ पद्मिन्याः सकला विधाय विकलाँ ताराधिपः सपद् तत्प्रेयस्युदयोन्मुखे सति र्वावुद्विग्नतामा- श्रित । ताराः स्वस कैरैर्विकृष्य सहसा गच्छन्नितोऽस्ता- चलं लभ्रा काश्चन ताः प्रभाकरकरे पश्यन्परिम्लायति ॥ ४९ ॥ एते केतकधूलिधूसररुचः शीतद्युतेरशवः प्रासाः सप्रति पश्चिमस्य जलधेस्तीर जरार्जराः । अप्येते विकस- त्सरोरुहवनीदृक्पातसभावितः प्राचीरागमूदीरयन्ति तरणे- स्तारुण्यभाजः कराः ॥ ५० ॥ सच सघटमानकोकमिथुन- व्याजेन पीनस्तनद्वन्द्वव्यक्तिर्यौवनोज्ज्वलरुचो निर्माय दिक्कन्यकाः । दुर्दैवाक्षरमालिकामिव झटित्याकृष्य भृङ्गा- वलीं लक्ष्मीमम्बुजिनीजनस्य तनुते देवस्त्विषामीश्वरः ॥ ५१ ॥ उन्मीलन्ति निशानिशाचरवधूलोञ्चाटनामान्त्रिकाः सायं सालसुसुपङ्कजवनप्रोद्बोधवैतालिकाः । फुल्लङ्कज- कोशगर्भकुहरप्रोत्तुतभृङ्गावलीझङ्कारप्रणवोपदेशगुरवस्तीव्रद्युते- रशवः ॥ ५२ ॥ एतत्तर्कय चक्रवाकसुहृदामाश्वासनादायिनः प्रौढध्वान्तपयोधिममजगतोद्दत्तावलम्बोत्सवाः । दीप्ताशो- र्विकसन्ति दिङ्म्गदृशा काश्मीरपङ्कोदकंव्यंत्यूक्षीचतुराः


[पादटिप्पण्यः]

वामपादटिप्पण्यः: १ गतशोभम् २ धूक ३ चञ्चलनयनकनीनिका ४ क्षाम कृश वक्त्रेन्दुमण्डल यासा ता ५ शिथिलान् ६ राजगृहेभ्य ७ वाराङ्गना ८ पारद ९ उद्योगरहिता १० रौप्यगोलकवत्पाण्डुर ११ ऐन्द्री प्राचीत्यर्थे

दक्षिणपादटिप्पण्यः: १ शत्रूणाम् २ श्रेष्ठ अग्रेसर इत्यर्थे ३ ज्योत्स्नाप्रवाहम् ४ शृङ्गारस्य जीवनौषधम् ५ जीर्ण ६ कुक्कुटारावम् ७ सभ्रमेण ८ प्राचीमुखम् ९ स्वैरिणी १० निर्गच्छन्त्या ११ केलिमन्दिरात् १२ प्रभातप्रायाम् १३ रात्रिम् १४ निधाय १५ वलिताङ्गवलियैथा सा १६ प्रियतम १७ हीनाम् १८ शोभाम् १९ र् तत्वम २० किरणै २१ जलेन परस्पराभ्युक्षणरूपा क्रीडा

प्रभातवर्णनम्, प्रभातवायुवर्णनम् । ३२५


सरोरुहवनश्रीकेलिकारा करा. ॥ ५३ ॥ द्वित्रैर्व्योम्नि पुराणमौक्तिकमणिरुच्छाये स्थित तारकज्योत्स्नापानमरालसेन वपुषा मत्ताश्चकोराङ्गना । यान्तोऽस्ताचलचूलमुद्धसमधुच्छत्र- च्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचा जाता च पात्रं ककुप् ॥ ५४ ॥ जाता. पक्वपलाण्डुपाण्डुमधुरुच्छाया- किरस्तारका. प्राचीमङ्कुरयन्ति किंचन रुचो राजीवजीवा- तव. । लूतातन्तुवितानवर्तुलमतो बिम्बं दधच्चुम्बति प्रात. प्रोषितरोचिरम्बरतलादस्ताचलं चन्द्रमा ॥ ५५ ॥ प्राची- विभ्रमकर्णिकाकमलिनीसंवर्तिका संप्रति द्वे तिस्रो रमणीय- मम्बरमणेर्धाम्नोच्चरन्ते रुच । सूक्ष्मोच्छ्वासमपीदमूत्सुकतया सभूय कोषाद्बहिर्निष्क्रामद्भ्रमरौघसम्भ्रमभरादम्भोजमुज्जृम्भते ॥५६॥ एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यता कुर्वाणा समकोचयद्दशशतान्यम्भोजसंवर्तिका. । भूयोऽपि क्रमश. प्रसारयति ताः सप्रत्यमूनूद्यता संख्यातु सकुतूहलेव नलिनी भानो. सहस्रं करान् ॥ ५७ ॥ प्रत्यासन्नसुरेन्द्रसिन्धुरशिरः- सिन्दूरसान्द्रारुणा यत्तेजस्स्ररेणवो वियदित प्राचीनमाचि- न्वते । शङ्के संप्रति यावदभ्युदयते तत्तत्कुटङ्कोन्मजारज्य- द्बिम्ब्रजश्छटावलयितो देवस्तिवषामीश्वरः ॥ ५८ ॥ प्रत्यग्र- ज्वलित. पतङ्गमणिभिर्नीराजिता भानव. सावित्रा कुरुविन्द- कन्दलरुचः प्राचीमलंकुर्वते । प्रौढध्वान्तकरालितस्य वपुष- श्छायाछलेन क्षणादप्रक्षालितनिर्मलं जगदहो निर्मोक- मुन्मुञ्चति ॥ ५९ ॥ स्तोकोन्निद्रनिदाघदीधितिमहस्तन्द्रालु- चन्द्रातपास्तायन्ते ककुभो रथाङ्गगृहिणीगार्हस्थ्यगर्हाभिद. । अद्यापि श्वकुलायशंखिशिरसि स्थित्वा रुवन्तो मुहुस्तूर्णां प्रत्यभिजानते बलिभुजो भीताः स्वयूथ्यस्वरान् ॥६०॥ प्राचीं वासकसज्जिकामुपगते भानौ दिशा वल्लभे पश्यैता रुच्यः पतङ्गधषदामार्येयनाडिघमाः । लोकस्य क्षणदानिरङ्कुशरसो सभोगनिद्रागमो कोकद्वन्द्वकुमुद्वतीविपिनयोर्निक्षेपमातन्वते ॥ ६१ ॥ मालिन्य परिदृश्यते हिमरुचौ मन्दश्रियस्तारका. शीताः केचन सचरन्ति कमलामोदस्पृशो मारुता । आसी- दन्ति च चक्रवाकमिथुनान्यन्योन्यमुत्कण्ठया पादैस्ताडित- कैरवा मधुलिहो गच्छन्ति पद्माटवीम् ॥ ६२ ॥ किचिद्धि श्लथकेशवान्तकुसुमाः क्रीडाविलोलांशुका लुप्तांलुप्तशरीरचन्द- नतया लोकैकनेत्रोत्सवा. । समोगश्रमविह्वलेरवयवै. सकेत- शालांन्तराच्छिद्राशेषकषायितार्धनयना निर्यान्ति वाराङ्गना. ॥ ६३ ॥ मौरभ्ये चलिते रसे विगलिते चाशालिवर्गे गते म्लानातीव कुमुद्वतीयमधुना मूर्च्छा परामृच्छति । तामु- द्वीक्ष्य तथाविधा कमलिनी जाता प्रहासोन्मुखी हन्तोदीक्ष्य विपन्नवैरिवनिता का वा न संतुष्यति ॥६४॥ आलोकैरति- पाटलेरचरमा विस्तार्यद्भिर्दिश नक्षत्रद्युतिमाक्षिपद्भिरचिरादा- शङ्क सूर्योदयम् । पुञ्जीभूय भयादिवान्धतमस मन्ये द्विरेफ- च्छलान्मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ॥ ६५ ॥ भिन्दानो मानिनीना पतिषु रुषमय हर्म्यपागावतेभ्यो वाचा- लत्वं ददान कवितृषु कविताप्रातिभ संदधानः । प्रातस्त्यस्तूर्- र्यनाद. स्थगयति गगनं मासल पाशुतल्पादखल्यादुत्थिताना नरवरकरिणा शृङ्खलासिञ्जितेन ॥६६॥ कुर्वन्नासुद्यपृष्ठो मुख- निकटकटीस्कन्धरोमा तिरश्ची लोलेनाहन्यमानस्तुहिनकण- मुचा चक्षता केशरेण । निद्राकण्डूकषायं कषति निविडित- श्रोत्रशुक्तिस्तुरङ्गरुवद्ङ्गत्वक्ष्माग्रलग्नप्रतनुबुसकण कोणमक्षणः खुरेण ॥ ६७ ॥ कोकानुद्वीवयन्त. पथि पथि कुलटामानस कम्पयन्त. प्रस्थातार प्रभाते प्रियतममबला गाढमालिङ्ग- यन्त । उत्थातुं चाङ्गमङ्गी कुलकमलदृशा कारयन्तो निशान्ते कूंकारा कुक्कुटाना मधुरधुरसमारम्भगम्भीरधीरा. ॥ ६८ ॥

प्रभातवायुवर्णनम्

लता पुष्पवतीं स्पृष्ट्वा स्नातो विमलवारिणा । पुन' सपर्क- गङ्गीव मन्द चरति मारुत. ॥ १ ॥ लवङ्गलतिकाभङ्ग- दयालुईक्षणानिल । कथमुन्मूलयत्येष मानिनीमानपर्व- तान् ॥ २ ॥ सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्ज- रितः । पुनरपि विरहश्वासैर्मलयमरुन्मासलीक्रियते ॥ ३ ॥ दरफुल्लकमलकाननसौरभसभारमन्थर. पवनः । दयितोरसि शयितामपि दयिता संतापयांचक्रे ॥ ४ ॥ भिक्षितकमल- कुटुम्बा. शिक्षितगजगामिनीगतयः । लक्षितहिमगिरिपादाः प्रातरमी मातरिश्वान. ॥ ५ ॥ आदाय बकुलगन्धानन्धी- कुर्वन्पदे पदे भ्रमरान् । अयमेति मन्दमन्दं कावेरीवारि- पावन. पवन ॥ ६ ॥ अपहाय शनैः पटीरवाटीरिह लाटी- जनमानलुण्ठनाय । समुदेति मनोजराजधाटीपरिपाटीपटुरेष गन्धवाह. ॥ ७ ॥ वासो विधूय स्तनयोरमुख्या. कपोल- कीर्णा कबरीमुदस्य । अवारित प्रोञ्छति वारिधारा मुखे मृगाक्ष्याः सुकृती समीरः ॥ ८ ॥ अरविन्दवृन्दमकरन्द- तुन्दिलो मरुदेति मन्दमिह मन्दराचलात् । सुरतान्ततान्त- सुदतीमतल्लिकाकबरीपरीमलझरीपरीवृत. ॥ ९ ॥ उत्सार्य कुन्तलमपास्य दुकूलकूलमुन्नाम्य बाहुलतिकामलसास्तरुण्यर । स्वेदाम्बुसिक्ततनव स्पृहयन्ति यस्मै तस्मै नम. सुकृतिने मलयानिलाय ॥ १० ॥ चोलाङ्गनाकुचनिचोलतलानुलीनो द्राकेरलीविरलकुन्तलकम्पलोलः । लाटीललाटतटशोषणमान- सोऽय फुल्लारविन्दघनबन्धुरपैति वायु. ॥११॥ वैभातिको मरु- दनुक्रमवर्धमानपद्माटवीपरिमलप्रसरानुमेयः । आयाति सोऽय- मलसोत्थितसारसाक्षीपुंभाववृत्यपुनरुद्यमसूनधारः ॥ १२ ॥ झञ्झानिलोऽपि सुरतान्तनितान्ततान्तकान्ताकुचान्तघनधर्म

३२६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


मपाकरोति । भूयोऽभिलाषजननी पुनरन्यथैव खेदा- पनोदनकला मलयानलिस्य ॥ १३ ॥ विकचकमलगन्धै- रन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः । प्रमदमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ॥ १४ ॥ स्तनपरिसरभागे दूरमावर्तमानः स्फुटतनिनिमि मध्ये किंचिदेव स्खलन्तः । वधुरलघुनितम्बाभोगरुद्धा वधूना निधुवनरसखेदच्छेदिनः प्राह्लवाताः ॥ १५ ॥ दर- विगलितमल्लीवल्लिविभ्रष्टपरागप्रकटितपटवासैर्वासयन्काननानि । इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसम- बाणप्राणवद्गन्धवाहः ॥ १६ ॥ सललितमलकाना वल्लरी- र्नर्तयन्तो मधुरसुरभिमुखाव्लोच्छ्वासगन्धानुबन्धाः । नवतर- रतभाजा योषिता खेदबिन्दून्सतृष इव पिबन्तो वान्ति मन्द समीराः ॥ १७ ॥ उपसि मलयवासी जालमार्गप्रविष्टो विकचकमलरेणू व्याकिरन्मोहचूर्णम् । सपदि शमितदीपे वायुचोरो वधूना हरति सुरतखेदस्वेदमुक्ताफलानि ॥ १८ ॥ कुसुमपरिमलेनामोदितार्लिंलताना वलितकिसलयाना लास- लीलोपदेशा । लुलितकमलबृन्दः शीकरासारवोढा मृदुमलय- समीरो वाति वैभातिकोऽयम् ॥ १९ ॥ विलुलित- कमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः । क्वचिदद्यमनवस्थः स्थाणुतामेति वायुर्वनकुसुमविमर्दोद्गन्धि- वेश्मान्तरेषु ॥ २० ॥ पुरातनपरीमलप्रकरमेदुरा मारुता न वान्ति मुकुलीभवत्कुसुदगर्भलीना इव । चरन्ति नवसौरभाः पुनरमी समीराङ्कुराः सजृम्भणसरोजिनीसरसिजास्यमुक्ता इव ॥ २१ ॥ अमी तटसमीपनिर्झरतरङ्गरिङ्गत्ययो जडीकृत- पटीरभूरूहकुटीरसंचारिणः । मनो विधुरयन्ति मे मलय- मेखलामेदुरादुरासदवनप्रियप्रियतमारुता मारुताः ॥ २२ ॥ लताकुञ्जे गुञ्जन्मधुपदलिपुञ्जं चपलयन्समालिङ्गन्नङ्गं दृढतर- मनङ्गं प्रबलयन् । मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन्ग्जो- वृन्दं विन्दन्किरति मकरन्दं दिशि दिशि ॥ २३ ॥ अनन्य- क्षुण्णश्रीमलयवनजन्मायमनिलो निपीय खेदाम्बु क्षरमरकर- समुक्तविभवम् । विदर्भाणा भूरि प्रियतमपरीरम्भरभस- प्रसङ्गादङ्गानि द्विगुणपुलकासङ्गि तनुते ॥ २४ ॥ वृथा धूलीधाराः परिकिरसि वात्याः प्रथयसे नवावेगः कोऽय पवन तव हा नन्वसमये । रतान्तश्रान्ताभिः स्तिमितनयनान्ता- भिरनिशं स्मृतौ यत्कान्ताभिर्न सुलभतरः कापि च भवान् ॥ २५ ॥ वारंवारं धुतकुसुमितारण्यरेवातटे वा सेवापुण्यं परिणतमिद तावक तर्कयामि । यत्त्वा मत्वान्तिकमुपगतं कामवामाभिरामा रामाः स्वैरं कुचकलशतो वस्त्रमुत्सार- यन्ति ॥ २६ ॥ चूतश्रेणीपरिमलमुषश्चञ्चरीकानुयाता भूयो भूयः कुवलयकुटीकोटरे लीयमानाः । मन्दं मन्दं सुरत- विरतौ वान्ति सीमन्तिनीना गण्डाभोगश्रमजललवग्राहिणो गन्धवाहाः ॥ २७ ॥ रामाणा रमणीयवक्त्रशशिनः स्वेदोद्- बिन्दुप्लुतो व्यालोलालकमञ्जरी. प्रचलयन्धुन्वन्नितम्बाम्ब- रम् । प्रातर्वाति मधौ प्रकामविकसद्भाजीवराजीरजःपुञ्जामो- दमनोहरो रतिरसग्लानि हरन्मारुतः ॥ २८ ॥ उत्सिक्तः कुसुमासवैः कुमुदिनीं रोजप्रिया पुँष्पिणीमालिङ्ग्यन्निशि निर्भय परिचय कुर्वन्पुनः पैल्लवैः । यावत्स्रैज्सौरभखम- खिलं गृर्हेल्लँघु प्रस्थितस्तावत्कैल्य उपस्थिते मरुदयं विश्वव- ग्मयाद्भावति ॥ २९ ॥ अधोत्सङ्गवसद्भुजंगकवलक्लेशादि- वेशाचलप्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैला निलः । कि च स्निग्धरसालमाँलिमुकुलान्यालोक्य हर्षोदयादुन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकाना गिरः ॥ ३० ॥ नारीणा मृगनाभिकुङ्कुमरसप्रक्षालनश्यामलामसंभोगश्रमशीकरान्यरिहर- न्नाकम्पयन्कुन्तलान् । पुष्पामोदमनोरमान्विगलितारतन्म्भो- जगन्धं वहन्प्रातस्त्यः पवनो वहत्ययमल शान्तप्रमोदप्रदः ॥ ३१ ॥ प्रातः सीमन्तिनीना निधुवनलुलित्तान्ससयन्केश- पाशानून्मीलत्पङ्कजान्तःपरिमलसुरभिः स्फारयन्कामलीलाः । स्वच्छावश्यायबिन्दून्दिशि दिशि विकिरन्स्थूलमुक्ताफलाभा- न्धूलीभि केतकीना धवलितभुवनो वाति मन्दं नभस्वान् ॥३२॥ धुन्वानाश्चन्दनालीं बकुलमकुलजा धूलिमुद्धूलयन्त- श्चुम्बन्तश्चूतयूथीः परिमलबहलाश्चम्पकान्कम्पयन्तः । आरा- दारामसी मातघटितघटीयन्त्रनिर्मुक्तवारा धारामाघारयन्त- श्रमशमपटवो वान्त्यमी गन्धवाहाः ॥ ३३ ॥ कुप्यल्लोकेश- बाहुप्रकरनियमिताशेषलेखाम्बुजाक्षीशापक्षीणा. क्षरन्तः क्षणपरिकलिता केकिना कामिनीभिः । कार्णाटीना प्रकाण्डे मृगमदमसृणं केशपाशं स्पृशन्तः पम्पापातसम्पगा मलयज- मरुतो जातकम्पा पतन्ति ॥ ३४ ॥ कृत्वा कार्णाटकाम्ता- कुच कनकगिरिप्रान्तसचारलीला क्ष्मपामासाद्य पम्पापयसि वनभुवि क्षिप्तमल्लीरजस्काः । आकर्षन्तः पुरस्तान्निगडमिव कलध्वानपुष्पन्धयालीं धावन्त्येते मदान्धा मदननरपतेः सिन्धुरा गन्धवाहाः ॥ ३५ ॥ एते पाटीरवाटीनवविटपन- टीलास्यशिक्षानिदक्षा दोला खेलत्पुरन्ध्रीश्रमजलकणिकाजाल- पातिप्रताना. । सौरभ्यादापतद्भिर्मधुकरपटलैः पृष्ठतोऽनु- प्रयाताः कामाग्नेः स्फारर्घाव्याः पथिककुलवधूबुद्धवैराः समीराः ॥ ३६ ॥ एष क्रीडन्तताम्यत्कुसुमपुरवधूवक्त्रसौरभ्यबन्धुर्मुग्ध निद्राजडाना रसितमनुसरो द्राघयन्सारसानाम् । आवाल्य-


१ मत्त पक्षे,-सपृक्त २ चन्द्रप्रियाम्, पक्षे,-नृपप्रियाम् ३ पुष्पयुक्ताम्, पक्षे,-रजस्वलाम् ४ किसलयै, पक्षे,-विटै ५ पङ्क- जसौरभ कमलामौदस्तदेव स्व धनम् ६ सत्वरम् ७ प्रभाते ८ अग्निप्रज्वलनऋक्षु ९ प्रसारयन्

प्रभातवायुवर्णनम्सूर्योदयवर्णनम् ३२७
ङ्गानुकूलश्ललितविचकिलश्रेणिगन्धानुधावद्द्रोलम्बोद्धूष्यमाण- <br> स्रग्जयबिरुदाडम्बरो मातरिश्वा ॥ ३७॥ कावेरीवारिवेल- <br> ल्लहरिपरिकरक्रीडनक्लान्तशान्तस्फीतश्रीखण्डखण्डश्रमपहर- <br> भवद्भूरिसौरभ्यगर्भाः । चोलस्त्रीचीनचेलाञ्चलकलनकलाक्रान्त- <br> कान्ताकुचान्ता वान्ति प्रेमाग्निकीलाकलितवरवधूबद्धवैराः <br> समीराः ॥ ३८ ॥ चञ्चत्कर्पूरचौरा मलयगिरिगुरुग्रावहावा- <br> दवाग्मा मन्दानन्दैर्मिलिन्देरहमहमिकयानुद्रवद्दीर्घपान्थाः । <br> कावेरीवारिसेका विरलतरतटीरवानीरसिक्ता मुक्ताद्रीः <br> स्वेदनिद्रालव इव पवनास्तालवन्या विशन्ति ॥ ३९ ॥ <br> लीलादोलातिखेलारसरभसलसद्बालचेलाञ्चलाना चोलीनामा- <br> पिबन्तो मृगमदसुरभिखेदबिन्दून्मन्दान् । लोलन्तं केर- <br> लीना कुचकलशलसत्कुङ्कुमालेपनेषु श्लिष्यन्तो मालवीना <br> मलयजमथुराः कञ्चुकीर्वान्ति वाताः ॥ ४० ॥ भुङ्गाली- <br> कण्ठमालाः स्फुटितकमलिनीधूलिभिर्धूसराङ्गाश्चञ्चत्तत्श्चन्द्र- <br> कल्पालघुतरलहरीशीकरासारलालाः । अङ्गादङ्गं व्रजन्तो <br> विकसितविलसत्केतकीमालतीना मोदन्ते मन्दमन्दं मलय- <br> गिरिदरीगर्भतो वातपोताः ॥ ४१ ॥मन्दारपुष्पम् । विरहविधुरकोकद्वन्द्वबन्धुर्विमिन्दन्कुपितकपि- <br> कपोलक्रोडताम्रस्तमासि ॥ १० ॥ करनखरविदीर्णध्वान्त- <br> कुम्भीन्द्रकुंभात्तुहिनकणमिषेण क्षिप्तमुक्ताप्ररोहः । अयमुदय- <br> धरित्रीधारिमूर्धाधिरूढो नयनपथमुपेतो भानुमत्केसरीन्द्र <br> ॥ ११ ॥ नवकनकपिषङ्ग बासराणा विधातुः ककुभि <br> कुलिशपाणेर्भाति भासा वितानम् । जनितभुवनदाहाग्ग्रमम- <br> म्भासि दग्ध्वा ज्वलितमिव महाश्वेरूर्ध्वमौर्र्वानलार्चिः <br> ॥ १२ ॥ विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरी- <br> यान्दिग्भिराकृष्यमाण । कृतचपलविहङ्गालापकोलाहला- <br> र्मिजलनिधिजलमध्यादेष उच्चार्यतेऽर्कः ॥ १३ ॥ पयसि <br> सलिलराशेर्नक्तमन्तर्निमग्न स्फुटमर्शनशमतापि ज्वालया <br> वाडवाग्नेः । यदयमिदमिदानीमङ्कमुधन्धधाति ज्वलितखदिर- <br> काष्ठारङ्गारगौर विवस्वान् ॥ १४ ॥ अतुहिनरुचिनासौ <br> केवल नोदयाद्रिः क्षणमुपारगतन क्ष्माभृतः सर्व एव । नव- <br> करनिकरण स्पृष्टबन्धूकसूनस्तवकरचितमैते शेखर बिभ्रतीव <br> ॥ १५ ॥ उदयशिखरि शृङ्गाङ्गणेष्वेव रिङ्गन्कमलमुख- <br> हास वीक्षित पद्मिनीभिः । विततमुद्रकराय शब्दयन्त्या <br> वैयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः ॥ १६ ॥ <br> क्षणमयमुपविष्ट क्ष्मातलन्धस्तपादः प्रणतिपरमवेक्ष्य प्रीतम- <br> ह्नाय लोकम् । भुवनतलमशेष प्रत्यवेक्षिष्यमाणः क्षितिधर- <br> तटपीठादुत्थितः संससतिः ॥ १७ ॥ उदयमयते दिङ्मा- <br> लिन्यं निराकुरुतेतरा नयति निधनं निद्रासमुद्रा प्रवर्तयति <br> क्रियाः । रचयतितरा खैग्गचारप्रवर्तनकर्तनं बत बत लस- <br> तेजःपुञ्जो विभाति विभाकरः ॥ १८ ॥ अय खलु मृणालिनी- <br> नवविलासवैहासिकस्तिवधा वितपते पतिः सपदि दृश्यमाना <br> निजाः । स्तनौ पुलकयन्ति चोत्पलदृशा प्रियोर स्थले विप- <br> र्यसितवृत्तयो घुसुणपङ्कपत्राङ्कुराः ॥ १९ ॥ आयान्त्या <br> दिवसश्रियः पदतलस्पर्शानुभावादिव व्योमाशोकतरोर्नवीन- <br> कलिकागुच्छः समुज्जृम्भते । आतन्वन्वतसविभ्रममसा- <br> वाशाकुरङ्गीदृशामुन्मीलत्तरुणप्रभाकरस्तोमः समुद्भासते <br> ॥ २० ॥ एतत्तर्कय चक्रवाकहृदयाश्वासाय तारागण- <br> ग्रासाय स्फुरदिन्दुमण्डलपरीहासाय भासानिधि । दिक्कान्ता- <br> कुचकुम्मकुङ्कुमरसन्यासाय पङ्केरुहोल्लासाय स्फुटवैर- <br> कैरववनत्रासाय विद्योतते ॥ २१ ॥ मीलत्कंवरवलोचना प्रवि- <br> गलत्ताराच्छहारावली म्लायचन्द्रमुखा विश्रङ्खलतम केशा <br> सशेषाम्बराम् । प्राप्त सत्वरमित्वरीमिव बलादुद्गाढरागे <br> करैराकर्षन्निव यामिनीमनुपत्यम्भोजिनीवल्लभः ॥ २२ ॥ <br> यावच्चीरनिधेः प्रभातसमय प्रोद्धृत्य लोकत्रयीमाणिक्यं रवि- <br> बिम्बमम्बरवणिग्वीथीपथे न्यस्यति । तावत्कर्तुमर्तिवास मूल्य- <br> मुचितं पद्माकरेण स्वयं लक्ष्मीर्लब्धविकासपङ्कजकरन्यस्तं
सूर्योदयवर्णनम् <br> ततः कोकवधूबन्धुर्बन्धूककुसुमप्रभः। उदयाद्रिशिरोरत्न- <br> मुद्ययौ तेजसा निधिः ॥ १ ॥ निजांशुकावृता प्राची <br> चुम्बत्यर्केऽतिरागिणीम्। लज्जयेव ययौ कापि श्यामा मीलित- <br> लोचना ॥ २ ॥ निसर्गसौरभोद्भ्रान्तभृङ्गसङ्गीतशालिनी । <br> उदिते वासराधीशे सेराजने सरोजिनी ॥३॥ पुरूहूतदिगङ्गना^१ <br> प्रसूता रविमुद्दामसुतं चिरादुपेतम् । अलिनो नलिनोदराद्वि- <br> मुक्ताः प्रियबाहुद्वयबन्धनान्नवोढाः ॥ ४ ॥ उदयति वित- <br> तोर्ध्वरश्मिरञ्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति <br> गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ ५ ॥ <br> घटमानकोककुचमाशुशन्कैर्विकसत्पयोजनयनावलोकितः । <br> परिचुम्बतीदमरुणप्रभाधर रविरद्य बारवनितामुख मुहुः <br> ॥ ६ ॥ आगत्य संप्रति वियोगविसस्थुलाङ्गीमम्भोजिनीं <br> क्वचिदपि क्षपितत्रियामः । एता प्रसादयति पश्य शनैः <br> प्रभाते तन्वङ्गि पादपतनेन सैहस्ररश्मिः^३ ॥ ७ ॥ उच्छिद्र- <br> कोकनदररेणुपिषङ्गिताङ्गा गायन्ति मत्तमधुपा गृह- <br> दीर्घिकासु । एतच्चकास्ति च रखेर्नवबन्धुजीवपुष्पच्छदाममुदया- <br> चलचुम्बि बिम्बम् ॥ ८ ॥ भूयो निपीय लवणाम्बुधि- <br> माप्रभातं पुञ्जीभवन्नुदयते तपनच्छलेन । और्वाग्निरम्बर- <br> पयोनिधिमद्य पातुं लीनोडुबुद्बुदकदम्बमिति प्रतीमः ॥ ९ ॥ <br> अयमुदयति मुँद्रामञ्जन पद्मिनीनामुदयगिरिवनालीबाल-

पादटिप्पणी (वामभागः)पादटिप्पणी (दक्षिणभागः)
१ प्राची दिक् <br> २ भ्रमरा <br> ३ सूर्य <br> ४ विकासनशील१ पश्चिमि <br> २ सूर्य
३२८सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

पुरः स्थाप्यते ॥ २३ ॥ मञ्जिष्ठारुणदीधितिर्मधुकरैर्मङ्गल्य-
गीतिस्ततः कोकाह्लादपटुः सरोरुहवन प्रीत्या समुज्जृम्भ-
यन् । लोकालोककरः करैश्च तमसा स्तोमं समुत्सारयन्ना-
रोहत्युदयाचल रंविरयं बन्धूकगुच्छच्छवि. ॥२४॥ कीलोलै.
कुङ्कुमाना सकलमपि जगज्जालमेतन्निषिक्त मुक्ताश्चोन्मत्त-
भृङ्गा विघटनकमलक्रोडकारागृहेभ्य. । उत्सृष्टं गोसहस्रं
किमुत कलकल श्रूयते च द्विजाना भाग्यैर्वृन्दारकाणा
हरिहयहरिता सूयते पुत्ररत्नम् ॥ २५ ॥

नायिकानिर्गमनम्

निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपद परास्ते ।
श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽञ्जना सा
॥ १ ॥ गुरुत्रासादासादितभवदुपालम्भवचसा मुहुः स्मार
स्मार कथमपि निशीथे संगममम् । इदानी मुञ्च त्व दयित
पुनेरेष्यामि सुभगदुष.कालीनोऽयं चटुलचटकालीकलकलः
॥ २ ॥ प्रबुद्धायाः प्रातर्लसदलसदूर्वाविलययं गलन्मल्लीदाम्नः
शिथिलकबरीबन्धसमये । प्रियालोके घूर्णन्नयनमसृणस्मेर-
मधुरो मुखे जृम्भारम्भो जयति भृशमिन्दीवरदृश. ॥ ३ ॥
प्राणेशेन प्रहितनखरेष्वङ्केषु क्षपान्ते जाताताङ्का रचयति
चिर चन्दनालेपनानि । धत्ते लाक्षामसकृदधरे दन्तदन्ताव-
घाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती ॥ ४ ॥
धम्मिल्ल परिवघ्नती नखसुखै सीमन्तमातन्वती पश्यन्ती
नखरोत्सवं कुचयुगे सव्यापसव्य मुहुः । नाभीसीमनि कुञ्चि-
ताङ्गुलिदलं नीवीभर रुन्धती शय्यागारविनिर्गतापि हृदया-
न्नाद्यापि निष्क्रामति ॥५॥ एषा का मुक्तमुक्ता विलुलित-
वसना स्वेदलभ्रान्तवस्त्रा प्रत्यूषे याति बाला मृग इव चकिता
सर्वत. शङ्कयन्ती । केनेदं वक्त्रपद्मं ह्यधरमधुरम मण्डितं केन
पीत स्वर्गः केनाद्य भुक्तो हरनयनहतो मन्मथ कस्य तुष्ट. ॥६॥

संभोगाविष्करणम्

रतखिन्नतनु प्रातर्लज्जानम्रमुखी वधूम् । स्मरन्ती रात्रि
चरित दृष्ट्वामोति न को मुदम् ॥ १ ॥ राजते राजगमाया ।
एष बिम्बाधरव्रण । सुधा पीत्वेव कान्तेन तच्छेषोऽय स
मुद्रितः ॥ २ ॥ आच्छादयसि किं मुग्धे वस्त्रेणाधरपल्लवम् ।
खण्डिता एव शोभन्ते वीराध्वरपयोधरा ॥ ३ ॥ सखि
दशनक्षतमधरे किं गोपयसे प्रयत्नेन । संप्रति रजनिरहस्य
नयनालस्यं निवेदयति ॥ ४ ॥ सवरणाय वधूट्टी बहुपरि-
पाटी करोतु किं तेन । संप्रति रजनिगृहस्य नयनालस्य
निवेदयति ॥ ५ ॥ उषसि परिवर्तयन्त्या मुक्तादामोपरवी-
तता नीतम् । पुरुषायितवैदग्ध्यं लज्जावति कैर्न कलित
ते ॥ ६ ॥ चन्दन स्तनतटेऽधरबिम्बे यावकं घनतर च
सपत्नया. । प्रातरीक्ष्य कुपितापि मृगाक्षी सागसि प्रियतमे
परितुष्टा ॥ ७ ॥ दर्पणेषु परिभोगदर्शिनी पृष्ठतः प्रणयिनो
निषेदुष । प्रेक्ष्य बिम्बमनुबिम्बमात्मन कानि कानि न
चकार लज्जया ॥ ८ ॥ किमपि कान्तभुजान्तरवर्तिनी
कृतवती यदिदं कलभाषिणी । तदनुकृत्य गिरा गुरु-
सन्निधौ हियमनीयत सारिकया वधूः ॥ ९ ॥ धन्यासि या
कथयसि प्रियसंगमेऽपि नर्मोक्तिचाटुशततानि रतान्तरंसु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्य शपामि यदि
किंचिदपि स्मरामि ॥ १० ॥ बहु जगद् पुरस्तात्तस्य मत्ता
किलाइ चकर च किल चाटु प्रौढयोषिद्वदस्य । विदित-
मिति सखिभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमद्याह्नि
व्रीडितं मुग्धवध्वा ॥ ११ ॥ शशपदमणिमालं चन्द्ररेखाभि-
राम ललितपुलकजालं लक्ष्यबिन्दुप्रवालम् । वपुरनघम-
मुष्या वक्ति कस्यापि यून. सुरतकदहलीलासूक्ष्ममार्गाभि-
योगम् ॥ १२ ॥ प्रभाते पृच्छन्तीरहसरहसवृत्त सहचरीन्र्-
वोढा न व्रीडामुकुलितमुखीय सुखयति । लिखन्तीना
पत्राङ्कुरमनिमशम्बास्तु कुचयोश्चमत्कारो गूढं करजपदमासा
कथयति ॥ १३ ॥ क्वचित्ताम्बूलाक्त. क्वचिदगुरुपङ्काङ्क-
मलिन क्वचिच्चूर्णोद्गारी क्वचिदपि च साउक्तकपद्. ।
वलीभङ्गाभोगैरलकपतितै. कीर्णकुसुमै स्त्रिय सर्वावस्थ
कथयति रतं प्रच्छदपट. ॥ १४ ॥ नखक्षतसुर.स्थले-
ऽधरदले रद्द्क्स व्रण च्युता बकुलमालिका विगलिता च
मुक्तावली । रतान्तसमये मया सकलमेतदालोकितं स्मृति.
क च रति क च क च तवालि शिक्षाविधिः ॥ १५ ॥
वक्षस्ते दृढलभकर्कशकुचद्वन्द्वान्तर्भ्रमान्तर कण्ठ कङ्कण-
रत्नकोटिकननासुव्यक्तमुद्राङ्कित । व्यत्यासव्यतिषङ्गितश्च
तिलक. फाले तवायं सखे कन्याश्चित्प्रकटीकरोति सुरत-
प्रोढि परा सुभ्रुव ॥ १६ ॥ तस्या पाटेलपाणिजाङ्कितमुरो
निद्राकषाये दृशौ निर्धुताधरशोणिमा विलुलितस्रस्तस्रजो
मूर्धजा । काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निवातैर्देशो-
रेभि कामशरैस्तदद्भुतमहो पत्युर्मन कीलितम् ॥ १७ ॥
यद्रात्रौ रहसि व्यपेतिवनय वृत्त रमाकामिनोरन्योन्यं शय
नीयमीहितरसाताम्रिप्रवृत्तस्पृहम् । तत्सानन्दमिलदृशो कथ-
मपि स्मृत्वा गुरूणा पुरो हामोद्रेदनिरोधमन्थरमिलत्तार
कथंचिन्स्थितम् ॥ १८ ॥ दम्पत्योर्निशि जल्पतोगृहशुकेन
कर्णित यद्वचस्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्यातिमात्र वधू ।
कर्णालम्बितपद्मरागशकल विन्यम नश्वा पुटे व्रीडार्ता प्रकरो-
ति दाडिमफलव्याजेन वाग्बन्धनम् ॥१९॥ धन्यास्ता सखि
योषित प्रियतमे मर्वादङ्गलेषेऽपि या प्रागल्भ्य ग्चयन्ति


१ पयोभि २ देवतानाम् ३ जान्हवीरविक्षेपात्

संभोगाविष्करणम्, प्रियप्रस्थानावस्थाकथनम् ३२९


[स्तम्भ १]

मन्मथविवावालम्ब्य वेगं महत् । अस्माकं तु तदीयपाणि-
कमलेनोन्मोचयत्यंशुकं कोऽयं का वयमत्र किं च सुगतं
नैव स्मृतिर्जायते ॥ २० ॥ कान्ते तल्पमुपागते विगलिता
नीवी स्वयं बन्धनात्तद्वासः श्लथमेखलागुणवृतं किंचिन्नि
तम्बे स्थितम् । एतावन्मम्वि वेद्मि केवलमहं तस्याङ्गसङ्गे पुन
कोऽसौ काऽस्मि गतं नु वा कथमिति स्वल्पापि मे न स्मृतिः
॥ २१ ॥ गाढाश्लेषविवर्णचन्दनरज पुञ्जप्रभागादियं शय्या
संप्रति कोमलाङ्गि परुषत्यागेप्य मा वर्तसि । गाढाश्चग्रह
पूर्वमाकुञ्चनया पादाग्रसन्दष्टकेनाकृष्याम्बरमात्मनो यदुचितं
भूर्तेन तत्प्रस्तुतम् ॥ २२ ॥ निद्रातुन्दिललोचनोचनयुग
दन्नाडूढत्तच्छद् पर्यन्तालक्वलि घर्मपटलप्रामृष्टपत्रावलि ।
तुम्भाजम्भिनसीदुमौरभमिलङ्गीभिर्गीक्रीकृतसोत्र शमन्ति
वक्त्रमेव रजनीवृत्तान्तमेणीदृश ॥ २३ ॥

[प्रियप्रस्थानावस्थाकथनम्]

मुग्धा कान्तस्य यात्रोक्तिश्रवणादेव मूर्च्छिता । बुद्धा वक्ति
प्रिय दृष्ट्वा किं चिरेणागतो भवान् ॥ १ ॥ यामीति प्रिय-
पृष्टाया प्रियाया कण्ठलग्नयो । वचोजितवतोरासीद्बहि-
र्नि मरणे गण. ॥ २ ॥ बाष्पाकुलं प्रउषतोगृहिणि
निवर्तस्व कान्त गच्छेति । यात दपत्योर्द्दिनमनुगमनार्वधि
सरस्तीरे ॥ ३ ॥ यामि न यामीति वचे वदति पुरस्ता
त्क्षणेन तन्वङ्गया । गलितानि पुरोवलयान्यपराणि तथैव
दलितानि ॥ ४ ॥ मनसि निविशते स कोऽपि ताप
पणयिनि बाहुलतानरम्थितेऽपि । सरसिजमकरन्दगन्ध
बन्धुर्वहति यदेष शनैः शनैः समीर ॥ ५ ॥ कान्ते कथचि-
दूदितप्रयाणे क्षण विनमा विरहार्दिताङ्गी । तत समा-
लोक्य कदागतोऽसीत्याख्याय कान्ता मुदमाससाद ॥ ६ ॥
लज्जा विहाय रुदितं विसृष्टं पटान्ते मा गाम्वमित्युदितम-
ङ्गुलयो मुखेऽम्मा । स्थित्वा पुर पतितमेव निवर्तनाय
प्राणेश्वर व्रजसि किं न कृतं कृताज्ञया ॥ ७ ॥ गन्तुर्विध्वस्य-
दुदये हृदयेवरम् प्रत्यूपाशनिनिनादमजात कम्पा । निद्रा
जलैशिशिरिनेथनाञ्चजात कान्ता तडमशिखरे पतितै-
र्जहार ॥ ८ ॥ प्राणे वर किमपि जल्पति निर्गमाय क्षामोदरी
वदनमानमयाञ्चकार । दीं पुनर्निनृत्यमेत्य लतानिकुञ्ज-
मुन्मत्त कोकिल कूलानामतातान ॥ ९ ॥ गन्तु प्रिये वदति
नि श्वसिन न दीर्घमासीन्न वा नयनयोर्जलमाविरासीत् ।
आयुर्लिपि पठितुमेश्टेश परन्तु भालस्थलीं किमु करः समु-
पाजगाम ॥ १० ॥ पहरविरतौ मध्ये वाऽह्रस्ततोऽपि परेण
वा किमुत सकले यातेऽप्यह्नि प्रिय त्वमिहैष्यसि । इति


[स्तम्भ २]

दिनशतप्राय्य देश प्रियस्य यियासतो हरति गमनं बाला
लापैः सबाष्पझलज्झलैः ॥ ११ ॥ पितुरधिपुरं त्यक्ता
सख्यः समं निजबान्धवैर्न च परिचितिर्जाता पत्युर्गृहेऽपि
कयाचन । कतिपयदिनेोऽध्वन्यम्मिन् प्रिये प्रवरमत्यसौ कथयतु
मनस्तापं कस्मै नव नवकामिनी ॥ १२॥ मान्त्वप्रायैः प्रणय-
वचनैर्गन्तुमापृच्छमाने कान्ते तिर्यङ्नमितवदना रुन्वती
वाष्पपूरम् । दीर्घोच्छ्वासम्यगनविक्रन्तेोकम्पि नासापुटान्ता
सरयाशून्यं गणयति मृगीलोचना कङ्कणानि ॥१३॥ यामी-
त्युक्ते हृदयपतिना पञ्चशः शङ्खभूषा स्वेरं स्वेरं झटिति
गलिता पाणिपङ्केरुहाग्रात् । नो यास्यामीत्यनुपदमिया वाच-
माकर्णयन्त्यास्तन्व्या शेषा अपि चटचटेलेव भङ्ग समीयुः
॥ १४ ॥ आयाते श्रुतिगोचरं प्रियतमप्रस्थानकाले वलात्त-
ल्यान्त स्थित्या तया जनमल दृष्ट्वा चिर मुग्धया । सोच्छ्वासं
दृढमन्युनिर्भरगलद्वाष्पाम्बुधौतं तया म्व वक्त्र विनिवेश्य
भर्तृहृदये निःशब्दकं रुद्यते ॥ १५ ॥ दृष्ट कातरनेत्रया
चिरतर बद्धाञ्जलि याचित पश्चादंशुकपल्लवेन विधृतो नि
र्व्याजमालिङ्गित. । इत्याक्षिप्य समस्तमर्थमपृणो गन्तु प्रवृत्त
शठ. पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ १६ ॥
लया नांशुकपल्लवे भुजलता नो द्वारदेशेऽर्पिता नो वा पाद-
युगे तया निपतित तिष्ठेति नोक्तं वचः । काले केवल
मम्बुदालिमलिने गन्तुं प्रवृत्तः शठस्तन्व्या बाष्पजलौघकल्पि-
तनदीपूरेण रुद्ध प्रिय ॥ १७ ॥ दूर सुन्दरि निर्गतासि
नगरादेष द्रुमः क्षीरवानस्खादेव निवर्त्यतामिति शनैरुक्त्वा-
ध्वगेन प्रियाम् । गाढाश्लिङ्गनवकितस्तनतटाभोगस्फुटत्कञ्चुक
वीक्ष्योर स्थलमाश्रुपूरितहृश प्रस्थानभङ्ग कृत ॥ १८ ॥
यामि प्रेयसि वारिदागमदिने जानीहि मामागतं चिन्तां
चेतसि मा विधेहि कथयत्येवं सबाष्पे मयि । निःश्वासै
पवनायितं वरततोरङ्गैः कदम्बायितं कान्त्या केतकपत्रका-
यितमहो दृग्भ्या पयोदायितम् ॥ १९ ॥ यामीत्यप्रिय-
वादिनि प्रियतमे मुद्राम्रवत्कङ्कणं केलीसञ्चबहिर्गतेक्वचरणे
भूमौ शरीरस्थिति । अन्तर्धानगते पुनर्मृगदृशो वाच्या किमन्त्या
दशा लाजास्फोट इव स्फुटत्यविरलं हारोऽपि वामभ्रुव
॥ २० ॥ प्रस्थानं वलयैः कृतं प्रियसखैरसैरजस्रं गत धृत्या
न क्षणमासित व्यवसित चित्तेन गन्तुं पुरः । यातु निश्चित-
चेतसि प्रियतमे मर्वे समं प्रस्थिता गन्तव्ये सति जीवित-
प्रियसृहत्सार्थ किमु त्यज्यते ॥ २१ ॥ गच्छामीति मयो-
क्तया मुग्धदृशा निःश्वासमुद्रेकिण त्यंक्त्वा तिर्यगवेक्ष्य
बाष्पकलुषैणैकेन मा चक्षुषा । अद्य प्रेम मदर्पितं प्रियसखी-
वृन्दे त्वया बध्यतामित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रास-
माभाषित. ॥ २२ ॥ चिन्तामोहविनिश्चलेन मनसा मौनेन


पादटिप्पणी (Footnotes):

१ प्रवासगमनम् २ जागृना ३ अग्रिमकङ्कणानि ४ भग्नानि ५ कृशोन्गी ६ हरिणाक्ष्या
४२ सु र भा.

पादान्तः प्रत्याख्यानपराङ्मुख. प्रियतमो गन्तुं प्रवृत्तो-

३३० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


पादान्तः प्रत्याख्यानपराङ्मुख. प्रियतमो गन्तुं प्रवृत्तो- ऽधुना । सन्नीडैररसैर्निरन्तरलुठद्बाष्पाकुलैर्लोचनैः श्वासोत्कम्प- कुचं निरीक्ष्य सुचिरं जीवाशया वारित. ॥ २३ ॥ कान्तो यास्यति दूरदेशमिति मे चिन्ता परं जायते लोका- नन्दकरो हि चन्द्रवदने वैरायते चन्द्रमा । किं चायं वितनोति कोकिलकलालापो विलापोदय प्राणानेव हरन्ति हन्त नितरामाराममन्दानिला. ॥ २४ ॥

सखीं प्रति नायिकावाक्यम्

व्यो नव्यं स्वान्तं विषयतरलं हन्त सततं प्रियो दूरे देशे जनकनगरं दुर्लभतरम् । जनश्चायं दुष्टो भृशमिदमनर्थाय सततं कथंकारं पारं कथय सखि यामोऽस्य वयस. ॥ १ ॥ आयाता जलदावली सरभसं विद्युत्समालङ्गिता शैलाना परितः सशब्दमहिभुक्श्रेणी नरीनृत्यति । एवं सत्यपि हन्त सप्रति पतिर्देशान्तरं प्रस्थितस्तद्दुःखं विनिवेद्यता सखि कथं कस्याधुनाग्रे मया ॥ २ ॥

नायकं प्रति नायिकोक्तयः

गच्छ गच्छसि चेत्कान्त पन्थान. सन्तु ते शिवा. । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ १ ॥ न चिरं मम तोषाय तव यात्रा भविष्यति । यदि यास्यसि यातव्य- मलमाशङ्कयापि ते ॥ २ ॥ सहिष्ये विरहं नाथ देहहृश्या- शनं मम । यदक्तनेत्रा कन्दर्पः प्रहर्तुं मा न शक्ष्यति ॥ ३ ॥ प्राणेश विज्ञप्तिरियं मदीया तत्रैव नेया दिवसाः कियन्त. । सप्रत्ययोगव्यथितेरेष देश. करा हिमाशोरपि तापयन्ति ॥ ४ ॥ एतस्मिन्सहसा वसन्तसमये प्राणेश देशान्तरं गन्तुं त्वं यतसे तथापि न भयं तापात्प्रपेद्येऽधुना । यस्मा- त्कैरवसारसौरभमुषा साकं सरोवायुना चान्द्री दिक्षु विजृ- म्भते रजनिषु स्वच्छा मयूखच्छटा ॥ ५ ॥ लोलैर्लोचन- वारिभिश्च शपथैः पादप्रणामैः परैरन्यास्ता विनिवारयन्ति कृपणा. प्राणेश्वर प्रस्थितम् । पुण्याहं व्रज मङ्गलं सुदिवसः प्रातः प्रयात्यस्य यत्त्वत्स्नेहोचितमीहितं प्रिय मया त्वं निर्गतः श्रोष्यसि ॥ ६ ॥ मास्वाश्रुततरुर्गुरुर्मनसिजः कोऽप्येष भृङ्ग- स्तमो मन्दो गन्धवहः सितो मलयजो दोषाकरो माधव. । अङ्गारो नवपल्लवः परभृतो विज्ञो गुरोराज्ञया निर्यातोऽसि विचारिताः कथममी क्रूरा ग्रहा न त्वया ॥ ७ ॥ मा याहीत्यपमङ्गलं व्रज किल स्नेहेन शून्यं वचस्तिष्ठेति प्रभुता यथारुचि कुरुष्वैषाप्युदासीनता । नो जीवामि विना त्वयेति वचनं सम्भाव्यते वा न वा तन्मा शिक्षय नाथ यत्समु- चितं वक्तुं त्वयि प्रस्थिते ॥ ८ ॥


१ मयूरपङ्क्ति २ स्वमरणससूचनेन गमननिषेधो गर्भीकृत


नायकं प्रति सखीवाक्यम्

किमिति सखे परदेशे गमयसि दिवसान्धनाशया लुब्धः । वर्षति मौक्तिकनिकरं तव भवनद्वारि काञ्चनी वल्ली ॥ १ ॥ या बिम्बोष्ठरुचि. क्व विद्रुममणिः स्वप्नेऽपि तां लब्धवान् हासश्रीसदृशैस्तपोभिरपि किं मुक्ताफलैर्भूयते । तत्कान्तिः शतशोऽपि वह्निपतनैर्हेम्न कुत. सेत्स्यति त्यक्त्वा रत्नमयीं प्रयासि दयितां कस्मै धनायाधवन् ॥ २ ॥ उद्यद्वर्हिषि दुर्दि- रारवपुषि प्रक्षीणपान्थायुषि श्र्योतद्दिङ्मुखि चन्द्ररुङ्मृषि सखे हंसद्विषि प्रावृषि । मा मुञ्चोचकुचान्तसततगलद्बाष्पाकुला बालिका काले कालकरालनीलजलदव्यालुप्तभाखत्विषि ॥ ३ ॥ मा गच्छ प्रमदाप्रिय प्रियशतैरभ्यर्थितस्त्वं मया बाला प्राङ्गणमागतेन भवता प्राप्नोत्यवस्थां पराम् । किं चास्याः कुचभारनिःसहतैरङ्गै रनङ्गाकुलैश्च्युत्वकञ्चुकजालकै- रनुदिनं निःसूत्रमस्त्रद्वहम् ॥ ४ ॥

सखायं प्रति नायकोक्तिः

शेते शीतकरोऽम्बुजे कुवलयद्वन्द्वाद्दिनिर्गच्छति स्वच्छा मौक्तिकसंहतिर्घवलिमा हैमीं लतामञ्चति । स्पर्शात्पङ्कज- कोशयोरभिनवा यान्ति स्रजः क्तान्ततामेषोत्पातपरम्परा मम सखे यात्रास्पृहा कृन्तति ॥ १ ॥

नायिकां प्रति सखीवाक्यम्

वारंवारमुदश्रु लोचनयुगं पर्याकुलं जायते निःश्वासा विरमन्ति न क्षणममी व्याश्लिष्टदन्तच्छदाः । प्रस्थानश्रवणा- दपि प्रियतमस्याहो तवेयं स्थितिर्नो जाने निलयं गते तु दयिते कीदृग्दशामाप्स्यसि ॥ १ ॥

देशान्तरोपगतो नायकः

दिदृक्षमाणः क्षणमायताक्ष्या मुखाम्बुजं मञ्जुलमन्ध्व- नीनः । मुहूर्तमात्रं सुमुहूर्तकालं संवर्षकालं कलयांचकार ॥ १ ॥ निशम्य केलीभवनोपकण्ठे मञ्जीरमञ्जुध्वनिमध्व- नीन. । यथा तथा बद्धकथावशेषं समापयामास समं सुहृद्भिः ॥ २ ॥ मुखं प्रियायाः समुदीक्षमाण. कान्तो दिनस्या- न्तमपेक्षमाणः । मुहुर्मुहुर्व्योमनि तिग्मभानौ निवेशयामास विलोचने स्वे ॥ ३ ॥

वसन्तवर्णनम्

मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभिश्रियम् । अभुत वारितवारिजविप्लव स्फुटितताम्रलतौम्रवनं जगत्


१ विस्तीर्णम्

वसन्तवर्णनम् ३३१

॥ १ ॥ रणत्कङ्कणाना अणन्नूपुरणा चलत्कुण्डलाना कणत्किङ्किणीनाम् । वधूना मुखाम्भोरुह द्रष्टुकामो रथ मन्थरचक्रबन्धुश्चकार ॥ २ ॥ विकसितसहकारभारहारिपरिमलपुञ्जितगुञ्जितद्विरेफ । नवकिसलयचारुचामरश्रीर्हरति मुनेरपि मानस वसन्त ॥ ३ ॥

वसन्तसमयस्वभावाख्यानम्

कोकिलश्चतशिखरे मञ्जरीरेणुपिञ्जर । गदितैर्व्यक्ततामेतिकुलीनश्चेष्टितैरिव ॥ ४ ॥ परिचुम्बति सश्लिष्य भ्रमञ्चूतमञ्जरीम् । नवसगमसहृष्ट कामी प्रणयिनीमिव ॥ ५ ॥ आम्रेपल्लविते स्थित्वा कोकिला मधुरस्वरम् । चुकूज कामिनाचित्तमाकर्षन्तीव दूतिका ॥ ६ ॥ सुमगे कोटिसरूयत्यमुपेत्यमदनाशुगै । वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम् ॥ ७ ॥ पैतङ्गापाकसमये पतङ्गेपतिविक्रमाः । पैतङ्गासोदये चेलु. पैतङ्गा इव वानरा ॥ ८ ॥ सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते । मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ ९ ॥ मलयानलमिलनोत्कटमदकलकलकण्ठकलकलाप. । मधुरमधुविधुरमधुपो मधुरयमधुना धिनोति धराम् ॥ १० ॥ किंशुककलिकांन्तर्गतमन्दुकलास्पर्धिकेसर भाति । रक्तनिचोलकपिहित धनुरिव जनुमुद्रितं वितनोः ॥ ११ ॥ आयातामधुरजनी मधुरजनीगीतिहृद्येयम् । अङ्कुरितः खरविटपीखर विट पीनस्तनीमबलाम् ॥ १२ ॥ अविरलकमलविकासः सकलालिमदश्च कोकलानन्दः । रम्योऽयमेति सप्रतिलोकोत्कण्ठाकर काल. ॥ १३ ॥ सपदि सखीभिर्निभृतंविरहवतीस्त्रातुमत्र भज्यन्ते । सहकारमञ्जरीणा शिखोद्गमग्रन्थयः प्रथमे ॥ १४ ॥ असौ मरुद्भिरुत्वतारुचेर्केसरप्रसन्नतार्राधिपमण्डलाग्रणीः । वियुत्कँरामातुरदृष्टिवीक्षितोवमन्तकालो हनुमानिवागतः ॥ १५ ॥ प्रसूनसङ्घैर्मकरन्दतोयं सलीलमादाय वसन्तकामी । वनस्थलीवामदृशामुखानि सिञ्चत्यसौ मन्दमरुत्करेण ॥ १६ ॥ व्यतीतकल्पेशिशिरैकवाल्ये सकल्पपुष्पोद्गमबन्धुराङ्गी । इयं लवङ्गीयुवभृङ्गमङ्गादुच्छूनगुच्छस्तनिकेव भाति ॥ १७ ॥ दत्तेजनोऽसौ खलु विद्यमानमविद्यमानं तु न कोऽपि तावत् ।वियोगिना पुष्पननश्रोक शोकप्रदोऽभूदितिचित्रमेतत्॥ १८ ॥ जगौ विवाहावसरे वनस्थलीवमन्तयो कामहुताशसाक्षिणि । पिकद्विज. प्रीतमना मनोरम सुहुर्मुहुर्मङ्गलमन्त्रमादरात् ॥ १९ ॥ रथस्थिताना परिवर्तनाय पुरातनाना-मिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमाना दिशि प्रतस्थेरविरुत्तरस्याम् ॥ २० ॥ आस्वादित स्वादुमरन्दबिन्दुम्बच्छन्दमिन्दीवरसुन्दरीभि. । माकन्दपुष्प प्रमदाजनस्यप्रमोदमामोदमरैरकार्षीत् ॥ २१ ॥ कुबेरगुप्ता दिशमुष्णरश्मौ गन्तु प्रवृत्ते समय विलङ्घ्य । दिग्दक्षिणा गन्धवहमुखेन व्यलीकनि श्वासमित्रोत्ससर्ज ॥ २२ ॥ असूत सद्यकुसुमान्यशोक स्कन्धात्प्रभृत्येव सपल्लवानि । पादेननापेक्षित सुन्दरीगा सपर्कमासिञ्जितनूपुरेण ॥ २३ ॥ सद्यःप्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतवाणे । निवेशयामाम मधुर्द्विरेफानामाक्षराणीव मनोभवस्य ॥ २४ ॥ वर्णप्रकर्षे सति कर्णिकार दुनोति निर्गन्धतया स्म चेतः ।प्रायेण मामग्र्यविधौ गुणाना पराङ्मुखी विश्वसृजः प्रवृत्ति॥ २५ ॥ बालेन्दुवक्राण्यविकासभावादृक्षु. पलाशान्यतिलोहितानि । सद्यो वमन्तेन समागताना नखक्षतानीववनस्थलीनाम् ॥ २६ ॥ लग्नद्विरेफाञ्जनभक्तिचित्र मुखेमधुश्रीस्तिलक प्रकाश्य । रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार ॥ २७ ॥ मृगा प्रियालद्रुममञ्जरीणारज कणैर्विघ्नितदृष्टिपाता । मदोद्धता. प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षा. ॥ २८ ॥ चूताङ्कुरास्वादकषायकण्ठ. पुस्कोकिलो यन्मधुर चुकूज । मनस्विनीमानविघातदक्ष तदेव जातं वचन स्मरस्य ॥ २९ ॥हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् ।स्वेदोद्गम किंपुरुषाङ्गनाना चक्रे पदं पत्रविशेषकेषु ॥ ३० ॥मधु द्विरेफ कुसुमँकपात्रे पपौ प्रिया स्वामनुवर्तमान ।शृङ्गेण च स्पृंग्निमीलिताक्षीं मृगीमकण्डूयत कृष्णसार॥ ३१ ॥ ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलंकरेणुः । अर्धोपभुक्तेन विसेन जाया सभाययामास रथाङ्गनामा ॥ ३२ ॥ गीनान्तरेषु श्रमवारिलेगै किचित्समुच्छ्वासितपत्रलेखम् । पुष्पामवाघूर्णितनेत्रशोभि प्रियामुखं किंमुरुषश्चचुम्बे ॥ ३३ ॥ पर्याप्तपुष्पस्तबकस्तनाभ्य स्फुरत्प्रवालोष्ठमनोहराभ्य । लतावधूम्यस्तरवोऽप्यवापुर्विनम्रशाखामुजबन्धनानि ॥ ३४ ॥ न तज्जल यन्न सुचारुपङ्कज नपङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो नयो न गुञ्जित तन्न जहार यन्मन. ॥ ३५ ॥ कुसुमजन्मततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् । इति यथाक्रममाविरभून्मधुद्रुमतीमवतीर्य वनस्थलीम् ॥ ३६ ॥उपहित शिशिरापगमश्रिया मुकुलजालमशोभत किशुके ।प्रणयिनीव नखक्षतमण्डन प्रमदया मदयापितलज्जया॥ ३७ ॥ व्रणगुरुप्रमदाधरदु सहं जघननिर्विषयीकृतमेखलम् । न खलु तावदशेषमपोहितुं रविरल विरल कृतवान्


१ शालिविशेषस्य परिपाकमनये २ गरुडपराक्रम ३ सूर्यस्य ४ शलभा ५ पुनाग, पक्षे,-सटा ६ चन्द्रबिम्ब, पक्षे,-सुग्रीवस्य सेना ७ खी, पक्षे,-दशरथपुत्र

३३२सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

हिमम् ॥ ३८ ॥ अभिनयान्यरचेतुमिवोद्यता मलयमारुत- कम्पितपल्लवा । अमदयन्महकारलता मनः सकलिका कलिका- भजितामपि ॥ ३९ ॥ नयगुणोपचितामिव भूपतेः सदु- पकारफलां श्रियमर्थिनः । अभियायुः सरसो मधुसभृतां कमलिनीमलिनीरपतत्रिणः ॥ ४० ॥ कुसुममेव न केवल- मार्तवं नवमशोकतरोः स्मरदीपनम् । किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥ ४१ ॥ विर- चिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः । मधु- लिहा मधुदानविशारदा कुरबका रवकारणतां ययुः ॥ ४२ ॥ सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमो- द्गमः । मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ॥ ४३ ॥ प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्ध- वधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ ४४ ॥ श्रुतिसुखभ्रमरस्वनगीतयः कुसुम- कोमलदन्तरुचो बभुः । उपवानन्तलताः पवनाहृतैः किसलयैः सलयैरिव पाणिभिः ॥ ४५ ॥ ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् । पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवजितम् ॥ ४६ ॥ शुशुभिरे स्मित- चारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः । विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ ४७ ॥ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदृश- मिससमागमनिवृतिं वनितयाऽनितया रजनीवधूः ॥ ४८ ॥ अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः । कुसुम- चापमतेजयदंशुभिर्हिमकरो मकरोजितकेतनम् ॥ ४९ ॥ हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् । युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥ ५० ॥ अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभि- रङ्कितः । न खलु शोभयति स्म वनस्थलीं न तिलकं तिलकः प्रमदामिव ॥ ५१ ॥ अमदयन्मधुगन्धसनाथा किसलयाधरसंततया मनः । कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ ५२ ॥ अरुणरागनिषेधिभि- रंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः । परभृताविरुतैश्च विला- सिनः स्मरबलैरबलैकरसाः कृताः ॥ ५३ ॥ उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी । सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ५४ ॥ ध्वजपटं मदनस्य धनुर्भृतश्छविकरं सुखचूर्णमृगुश्रियः । कुसुमकेसर- रेणुमणिप्रजा सपवनोपवनोत्थितमन्वयुः ॥ ५५ ॥ अनुभव- न्नवदोलमृतूत्सवं पदुरपि प्रियकण्ठजिघृक्षया । अनयदामन- रज्ज्वपरिग्रहे भुजलतां जलतामबलाजनः ॥५६॥ त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव | निवेदिते स्मरमते रमते स्म वधूजनः ॥ ५७ ॥ नवपलाश- पलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्त- लतान्तमलोकयत्त सुरभिं सुरभिं सुमनोभरैः ॥ ५८ ॥ विलुलितालकसंहतिरागमन्मृगदृशां श्रमवारि ललाटजम् । तनुतरङ्गततिः सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥ ५९ ॥ स्फुटमिवोज्ज्वलकाञ्चनकान्तिभिर्युतमशोक मशोभत चम्पकैः । विरहिणां हृदयस्य भिदाभृतः कणिशितं पिशितं मदनाग्निना ॥ ६० ॥ स्मरहुताशनसंसुरचूर्णतां दधुरिवाग्र- वणस्य रजःकणाः । निपतिताः परितः पथिकव्रजानुपरि ते परितपुस्तनुतो भृशम् ॥ ६१॥ रतिपतिप्रहितेव कृतक्रुधां प्रियतमेव वधूरनुनार्थिका । बकुलपुष्परसासवपेशलध्वनिरगान्नििरगा- न्मधुपावलिः ॥ ६२ ॥ प्रियसखीमदशः प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया । प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादु- रयाचितमङ्गनाः ॥ ६३ ॥ मधुकरैरपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव । कलतया वचसः परिवादिनीस्वर- जिता रजिता वशमाययुः ॥ ६४ ॥ समभिसृत्य रगादव- लम्बितं प्रमदया कुसुमावविचीषया । अवनमन्न रराज वृथोच्चकैरनृतया नृतया वनपादपः ॥ ६५॥ वदनसौरभलोभ- परिभ्रमद्भ्रमरसभृतसभृतशोभया । चलितया विदधे कल- मेखलाकलकलोऽलकलोलदृगान्नया ॥ ६६ ॥ कुसुमकार्मुक- कार्मुकसहितद्रुतशिलिमुखखण्डितविग्रहाः । मरणमप्यपराः प्रतिपेदिरे किमु सुहृत्सुसुहृद्गतभर्तृकाः ॥ ६७ ॥ मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकरराङ्ग- नया मुहुरुन्मदध्वनिभृता निभृताक्षरसुजगरे ॥६८॥ अरुणि- ताखिलशैलवना मुहुर्विदधती पथिकान्परितापिनः । विकच- किंशुकसंहतिरुच्चकैरुदवहद्दवहद्वह्व्यवहश्रियम् ॥ ६९ ॥ कम- लिनी मलिनी दयितं विना न सहते सह तेन निषेवितुम् । तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥७०॥ सुहृदस्तरुणीनखक्षतानां प्रतिपक्षाः पथिकाङ्गनाजना- नाम् । दहनद्युतिदस्यवः समन्ताद्विपिने किंशुककुङ्मला विरेजुः ॥ ७१ ॥ किंशुकक्षितिरुहा विलसन्तः कुङ्कमलाः कुटिलतां कलयन्तः । पान्थवारणविदारणताम्राः कामकेसरिनखा इव रेजुः ॥ ७२ ॥ प्रस्फुरत्प्रचुरबालपल्लवा वीरुधश्च तर- लाश्चकाशिरे । क्रीडिता इव कुसुमभवारिभिः काममित्रसमये समागते ॥७३॥ कूजितानि कल्यन्वनप्रियो न प्रियो विरहि- णामजायत । मन्मथाग्निरपि भस्मना दरं सादरं मुनिमनो- ऽम्बुजं व्यधात् ॥ ७४ ॥ बकुलकुलमिलन्मिलिन्दमालामद- कलकोकिलकूजितोदयेन । अहह नियमिनोऽपि तत्त्वचि- न्ताच्युतमतयो मतयोषितो बभूवुः ॥ ७५ ॥ कुसुमनग- वनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् । कण-


१ तुषाभि
२ पुष्पावचय कर्तुमीषितया

वसन्तवर्णनम् ३३३

दलिकुलनूपुर निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥७६॥
विकमितकुसुमाधर हमन्तीं कुरबकराजिवधू विलोकयन्तम्।
ददृशुरिव सुराङ्गना निष्षण्णं सशरमनङ्गमशोकपल्लवेषु ॥ ७७ ॥
मुहुर्मुहुःपतता विधूयमानं विरचितसंहति दक्षिणा-
निलेन । अलिकुलममकाकृति प्रपेदे नलिनमुखान्तविसर्पि
पङ्कजिन्या ॥ ७८ ॥
श्वसनचलितपल्लवाधरोष्ठ नवनिहिते-
र्ण्यमिवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव
शाललता मधुञ्चुम्बे ॥ ७९ ॥
उत्सृष्टमन्मथजहामिव मान-
रत्नमादाय षट्पदतिलानमधुवारिपूरान् । पुस्कोकिलस्य कल-
कूजितकैतवेन सकल्पवाक्यमयमयातनुते रसाल. ॥ ८० ॥
उत्फुल्लपङ्कजनिषक्तलसद्द्विरेफ किञ्चिद्विनिद्रकुसुमोत्कर-
सम्भृतश्री । आमूलनम्द्रविविधाहृतमाल्यमालश्चित्रं न कस्य
तनुते ललितस्तमालः ॥ ८१ ॥
धुन्वन्त्यमूनि मदमूर्च्छदलि-
ध्वनीनि यूताधनीनहृदयानि मवोर्दिनानि । निस्तन्द्रचन्द्र-
वदनावदनादविन्दसौरभ्यमौहृदसगर्भसमीरशानि ॥ ८२ ॥
कुपितापि मंन पतिना सह का सहकारविलोक्नजातग्मा ।
तरसा रमते स्म न हा रमणी रमणीयतनु सुतनु सुरभौ ॥ ८३ ॥
स्थलकमलतरूणा कामिनीलोचनेषु क्षिपति
मुकुलमुग्ध्या धूलिजालं विशालम् । तदनु हरति हन्त
स्वान्तमर्वस्वमासामयनयनविद्ग्धो धूर्तमन्मीनकेतुः ॥ ८४ ॥
पथि पथि शुकचञ्चूचारुराभाङ्कराणा दिशि दिशि पवमानो
वीरुधा लामकञ्च । नरि नरि किरति द्राक्सायकान्पुष्पधन्वा
पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ॥ ८५ ॥
इह मधुप-
वधूना पीतमल्लीमधूना विलसति कमनीय कौकलीसप्र-
दायः । इह नटति सलीलं मञ्जरी वञ्जुलस्य प्रतिपदमुप-
दिष्टा दक्षिणेनानिलैन ॥ ८६ ॥
विकसति सहकारे स्फार-
सौरभ्यसारे वहति वुतपतीरे मन्दमन्द समीरे । कलयति
कलवाचं कोकिलोकोऽपि रुष्टः क्षणमपि न मृगाक्ष्या वल्लभो
दुर्लभोऽभूत् ॥ ८७ ॥
इह हि नववसन्ते मञ्जरीरेणुपुञ्ज-
च्छुरणधवलदेहा बद्धहेलं सरन्ति । तरलमलिसमूहा हारि-
हुंकारिकण्ठा बहलपरिमलालीसुन्दरं सिन्दुवारम् ॥ ८८ ॥
स्थाने स्थाने मलयमरुतः पूरयन्त्यङ्गपाली पुष्पालीषु खर-
गजरज ज्ञानयोग्याः परागाः । जातं चूते मधु मधुकश्प्रेयसी-
जानुदघ्नं निर्विघ्नत्वं सपदि भवते रागराज्याभिषेक. ॥ ८९ ॥
प्रसूनकलिकाकुलै. किसलयैः करस्पर्धिभि स्फुरन्मधुमदभ्र-
मद्भ्रमरकोकिलाकूजितैः । इति क्रमसमुद्गतैरुपवनावली-
मण्डलीममण्डयदवि प्रयामृतवसुंधरावलभ. ॥ ९० ॥
विलासिनिरिवोन्मदै रचितगम्यगुञ्जारवै. प्रसूनसुरभीकृतै-
र्विंगलितत्रपास्तापसाः । अशोकशिखरस्थितैः सुनयनान्वितैः
षट्पदैर्निरन्तरानिशेवितामितमधौ मधौ शमीरे ॥ ९१ ॥
मन्दोऽयं मलयानल किसलयं चूतद्रुमाणा नवं माध्वत्को-
किलकूजित विचकिलामोदः पुराणं मधु । वाणानित्युपदी-
करोति सुरभि पञ्चैव पञ्चेषवे यूनामिन्द्रियपञ्चकस्य युगप-
त्समोहसङ्गादिनः ॥ ९२ ॥
उद्यद्द्विद्रुमकान्तिभिः किसलयै-
स्ताम्रा न्विषं बिभ्रतो भृङ्गालीविरुतैः कलेरविशदव्याहार
लीलाभृत । भ्राम्यन्तो मलयानििलाहतिचलैः शाखासहस्रै-
र्मुहुर्भ्रान्ति प्राप्य मधुप्रसङ्गमधुना मत्ता इवामी द्रुमा ॥९३॥
चूताना चिरनिर्गतापि कलिका बध्नाति न स्व रज सनद्ध
यदपि स्थित कुरवक तत्कोश्कावस्थया । कण्ठेषु स्खलितं
गतेऽपि शिशिरे पुस्कोकिलाना रुत शङ्के संहरति खरोऽपि
चकितस्तूणार्र्धकृष्टं शरम् ॥ ९४ ॥
पुष्पाणि प्रथमं तत·
प्रकटिताः स्वान्तोन्मवा पल्लवा पश्चादुन्मदकोकिलालि-
ललनाकोलाहल कोमल । इत्थ प्रादुरभूदपेल्य परित
प्राज्यप्रमोदप्रदः प्रोद्दामद्रुमगजिग्जितवनक्षोणीमृदुष्मापतिः ॥ ९५ ॥
स्तोत्रं चैत्रगुणोदयस्य विगहिपाणप्रपाणनकट-
कार खरकार्मुकस्य सुदृशा शृङ्गारशिक्षागुरुः । दोलाकेलि-
कलासु मङ्गलपदं वन्दी वनान्तश्रिया नादोऽय कलकण्ठ-
कण्ठकुहरेप्रेङ्खोलित श्रूयते ॥ ९६ ॥
माकन्दच्युतपुष्परेणु-
पंटलीकुक्षालवालोदरे मन्दस्यन्दिमरन्दपूरभरिते वातोत्थपु-
ष्पप्लवै. । खेलन्तो ललित मधोर्गुणगणान्यान्यन्ति पुंष्पधयाः
कान्तानामधरे धयन्ति मधुर मक्त मंधूलीरसम् ॥ ९७ ॥
आरूढो मलयानलद्विपवर युक्तो विलासानुगैः पीत.
पुष्यविलोचनैर्नवलतापौराङ्गनाना गणैः । अत्राम्यद्वनपत्तने
मधुमहीपालस्तत. कोकिलालीलालापमिलद्बमद्भ्रमरिकाभा-
ङ्कारभेरीरवै. ॥ ९८ ॥
वारस्त्रीव वनस्थली नवनवा शोभा
बभारान्वह पान्थान्पीडयति स्म तस्कर इव क्रूरैः शरैर्मन्मथः ।
शृङ्गार. सगुण क्षमापतिरिव प्राप्त. प्रतिष्ठा परा रात्रिः
स्वीकुरुते स्म मुग्धललनालेजेव कार्श्य क्रमात् ॥ ९९ ॥
साम्य सम्प्रति सेवते विचैकिल षाण्मासिकैर्मौक्तिकैर्बाहीकी
दशनव्रणारुणतरै. पञ्चैरशोकश्रितः । भृङ्गालङ्कितकोटि किशु-
कमिद किञ्चिद्विन्द्वन्तायते माञ्जिष्ठस्तबकैश्च पाटलितरोरन्यैव
कींचिल्लिपिः ॥ १०० ॥
गर्भग्रन्थिषु वीरुधा सुमनसो मध्ये-
ऽङ्कुर पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूक्ण्ठोदरे पञ्चम. ।
कि च त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रेर्मनोजन्यनो
देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्य धनु ॥ १०१ ॥


मदनपूजा

कुसुमसुकुमारमूर्त्तिर्दधती नियमेन तनुतरं मध्यम् ।
आभाति मकरकेतोः पार्श्वस्था चापयष्टिरिव ॥ १०२ ॥


पादटिप्पण्यः (Footnotes):

प्रथमस्तम्भः (Column 1):
१ अतिप्रियेण २ मृदुगुञ्जित ३ आम्रवृक्षे

द्वितीयस्तम्भः (Column 2):
१ प्रवालम् २ पल्लवै ३ आन्दोलित ४ आम्र ५ समूह
६ भ्रमरा ७ पिबन्ति ८ मकरन्दम् ९ मदनाख्यतरुकुसुमम्
१० रचना ११ लतानाम्

३३४सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

कुसुमावचयः

निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी ॥ १०३ ॥

असंख्यपुष्पोऽपि मनोभवस्य पञ्चैव बाणार्थमय ददाति ।
एवं कदर्यत्वमिवावधार्य सर्वस्वमग्राहि मधोर्विभूति. ॥ १०४ ॥

अताडयत्पल्लवपाणिनेकं पुष्पोच्चये राजवधू-
रशोकम् । तच्छेदहेतोरलिपाङ्क्तिभङ्ग्या विकुन्तिता बाललता
स्मरेण ॥ १०५ ॥

अन्यत्र यूयं कुसुमावचायं कुरुध्वम-
त्रास्मि करोमि सख्यः । नाहं हि दूर भ्रमितु समर्था
प्रसीदतायं रचितोऽञ्जलिर्वः ॥ १०६ ॥

उचित्य प्रथमम-
वस्थितं मृगाक्षी पुष्पौघ श्रितविटपं ग्रहीतुकामा । आरोहुं
पदमदधादशोकयथावामूलं पुनरपि तेन पुष्पिता सा
॥ १०७ ॥

मुखकमलकुसुन्नमय्य यूना यदभिनवोढवधू-
र्बलादचुम्बि । तदपि न किल बालपल्लवाग्रग्रहपरया विविदे
विदग्धसख्या ॥ १०८ ॥

व्रततिविततिभिस्तिरोहिताया
प्रतियुवतौ वदन प्रियः प्रियाया । यदधयदधरावलोपकृत्य-
त्करवलयस्वनितेन तद्विवत्रे ॥ १०९ ॥

विलसितमनुकुर्वती
पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः । रमणमृजुतया पुरः
सखीनामकलितचापलदोषमालिङ्ग ॥ ११० ॥

सललित-
मवलम्ब्य पाणिनासे सहचरमुत्प्लुत्युच्छवाञ्छ्यान्त्या ।
सकल कलभकुम्भविभ्रमाभ्यामुरसि रसादवतरे स्तनाभ्याम्
॥ १११ ॥

मृदुचरणतलाग्रदुःस्थितत्वादसहता कुच-
कुम्भोर्मरस्य । उपरि निरवलम्बन प्रियस्य न्यपतद्योच-
तरोच्चिचीषयान्त्या ॥ ११२ ॥

उपरिजतरुजानि याचमाना
कुशलतया परिरम्भलोलुपोऽन्यः । प्रथितपृथुपयोधरा गृहाण
स्वयमिति मुग्धवधूमूदास दोर्भ्याम् ॥ ११३ ॥

इदमइद-
मिति भूरूहा प्रसूनैर्मुहुरतिलोभयता पुरः पुरोऽन्या ।
अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः
॥ ११४ ॥

विजनमिति बलाद्मं गृहीत्वा क्षणमथ वीक्ष्य
विपक्षमुक्तिकेऽन्यः । अभिपतितुमना लघूत्वभीतेरमवदसु-
श्वति वल्लभेऽतिगुर्वी ॥ ११५ ॥

पूर्वं द्विरेफपरिभूतिमया-
द्भवत्या यत्केशपुष्पभरण हरिणाक्षि मुक्तम् । व्यर्थ तदद्य
पुनरप्यलकेषु भृङ्गाः पुञ्जीभवन्निजकुलभ्रमतः पतन्ति
॥ ११६ ॥

सन्तु द्रुमाः किसलयोत्तरपुष्पभाराः प्राप्ते वस-
न्तसमये कथमित्थमेव । न्यासैर्नवद्युतिमतो. पदयोस्तवेय
भू. पुष्पिता सुतनु पल्लवितेव भाति ॥ ११७ ॥

अनुभवत
युवत्यो भाग्यवत्यो नितान्त कुसुमवलयवेलासङ्गखेलासु-
खानि । मम तु मधुकराणा वाटपाटचराणा सपदि पतति
घाटी पुष्पवाटीनिवेशे ॥ ११८ ॥

पाणौ पद्माधिया
मधूककुसुमभ्रान्त्या तथा गण्डयोर्नीलेन्दीवरशङ्कया नय-
नयोर्बन्धूकबुद्ध्याधरे । लीयन्ते कबरीभरे निजकुल-
व्यामोहजातस्पृहा दुर्बारा मधुपाः कियन्ति तरुणि स्थानानि
रक्षिष्यसि ॥ ११९ ॥


वसन्तवायवः

यथायथ ताः सहिता नभश्चरै. प्रभाभिरुद्भासित-
गेलवीरुध. । वनं विशन्त्यो वनजायतेक्षणा क्षणद्युतीना
दधुरेकरूपताम् ॥ १२० ॥

विनयति सुदृशो दृशः परागं
प्रणयिनि कौसुममाननाननेिलेन । तदहितयुवतेरभीक्षणमक्ष्णो-
र्द्वयमपि रोषरजोभिरापुपूरे ॥ १२१ ॥

स्फुटमिदमभिचार-
मन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् । वरतनुरसुनोपहृत्य
पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ॥ १२२ ॥

विपुल-
कमपि यौवनोद्धताना घनपुलकोदयकोमल चकाशे ।
परिमलिनमपि प्रिये. प्रकाम कुचयुगमुज्ज्वलमेव कामिनी-
नाम् ॥ १२३ ॥

हिमलवसदृशः श्रमोदविन्दूनपनयता
किल नूतनोढवध्वाः । कुचकलशकिशोरकौ कथंचित्तरलतया
तरुणेन पस्पृशाते ॥ १२४ ॥

समदनमवतसितेऽधिकर्णं
प्रणयवता कुसुमे सुमध्यमाया । व्रजदपि लघुता बभूव
भार सपदि हिरण्मयमण्डन सपढ्या ॥ १२५ ॥

अति-
मन्दचन्दनमहीधरवात स्तवकाभिरामलतिकातरुजातम् ।
अपि तापसानुपवनं मदनान्तमदमजुगुञ्जलदलिपुञ्जमकार्षीत्
॥ १२६ ॥

उपवनतरुनृत्याध्यापने लब्धवर्णो विरचित-
जलकेलि पद्मिनीकामिनीभिः । प्रियसहृदसमायोगयद्यौ योगि-
योगस्थितिविदलवदक्षो दक्षिणो गन्धवाहः ॥ १२७ ॥

आलिङ्गन्ते मैलयजतरूनासञ्जन्ते वनान्तानापृच्छन्ते चिर-
परिचितान्माल्यान्निर्झरौघान् । अथ स्थित्वा द्रविडमहिला-
भ्यन्तरे श्व प्रभाते प्रस्थातारो मलयमरुतः कुर्वते सनिधा-
नम् ॥ १२८ ॥

लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्
समालङ्गिन्नाङ्गं द्रुततरमनङ्गं प्रबलयन् । मरुन्मन्दं मन्दं
दलितमरविन्दं तरलयन्सजोवृन्दं विन्दन्किरति मकरन्दं दिशि
दिशि ॥ १२९ ॥

मलयशिखरादाकैलास मनोभवशास-
नाद्धुवनवलयं जेतु वाञ्छन्वसन्तसमीरण. । विहितवसति
कैलासाग्रे भुजङ्गधर हर मनसि विमृशन्भीत. शङ्के प्रयाति
शनैः शनै. ॥ १३० ॥

पथि पथि लतालोलाक्षीमि. सवन्मधु-
सीकर कुसुमनिकर वर्षन्तीभिः सहर्षमिवार्चित. । मधु-
करवधुगीतासक्तं कुरङ्कमास्थितः प्रसरति वने मन्द मन्दं
वसन्तसमीरण ॥ १३१ ॥

उद्दश्चत्कावेरीलहरिषु परिष्वङ्ग-
रङ्गे नटन्त. कुतूकण्ठीकण्ठीरवखलवत्रासितश्रोषितेभाः ।
अमी चैत्रे मैत्रावरुणितरुणीकेलिकङ्केल्लिमल्लीचलद्वल्लीहल्ली-
सकसुरमयश्रण्डि चञ्चन्ति वाताः ॥ १३२ ॥

हेमाम्भोरुह-
पत्तने परिमलस्तेयी वसन्तानिलस्तत्रत्यैरिव यामिकैर्मधु-
करैरारब्धकोलाहल । निर्यातम्वरया व्रजन्निपतितः श्रीखण्ड-


१ मलयसवल्यिन
२ मैत्रविस्फूर्जित(वृत्तम्

वसन्तवर्णनम्, ग्रीष्मवर्णनम् | ३३५


पङ्कद्रवैर्लिंप्ते केरलकामिनीकुचतटे खञ्ज. शनैर्गच्छति ॥ १३३ ॥ प्रातः प्राज्यमिव श्रमं जलजिनी- सौरभ्यभारं वहन्वृद्धामस्त्वकमानमन्नवलतालक्ष्मीमिवालोकयन् । स्वीकुर्वन्मदमन्थरानिव गतेर्वामभ्रुवा विभ्रमान्मन्दं मन्द- मुपाजगाम पवन पाटीरवाटीतटात् ॥१३४॥ पानीयं नारि- केलीफलकुहरकुहूत्कारि कल्लोलयन्त कावेरीतीरतालद्रुम- भरितसुराभाण्डभाङ्कारचण्डाः । एते तन्वन्ति वेलावनललित- लताताण्डवं द्राविडीकर्पूरापाण्डुगण्डस्थलुलुठितरया वायवो दाक्षिणात्याः ॥ १३५ ॥ कावेरीतीरभूमौ रहसि भुजगवधू- मुक्तमुक्तावशिष्ट. कर्णीटीचीनपीनस्तनवसनदशान्दोलनस्पन्द- मन्द. । लोलह्लाटीलतालालकललितलतालास्यलीलाविलोलः कष्टं भो दाक्षिणात्य. प्रसरति पवनः पान्थकान्ताकृतान्तः ॥ १३६ ॥ ये दोलाकेलिकारा. किमपि मृगदृशा मानतन्तु- च्छिदो ये सद्य. शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रयेऽपि । ते कण्ठे लोठयन्त. परभृतवयसा पञ्चमं रागराजं वान्ति स्वैरं समीरा. स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥ १३७ ॥

वसन्तपथिकाः

वक्रेण शिरसि पतता नित्यं रुधिरारुणेन दुर्वार. । मत्त- द्विप इव पथिक. किंशुककुसुमाङ्कुशेन भृतः ॥ १३८ ॥ समवलोक्य विलासवमस्थलीं न पथिकैः पथि कैः पतितं भुवि । मलयजद्रुममौरभमेदुरोदरसमीरसमीरितवल्लरीम् ॥ १३९ ॥ वसन्तप्रारम्भे चिरविरहखिन्ना सहचरी यदि प्राणान्मुञ्चेत्तदिह वधभागी भवति कः । वयो वा स्नेहो वा कुसुमविशिखो वेति विमृशंस्तैहीति प्रव्यक्तं पिकनिकर- झाङ्कारमशृणोत् ॥ १४० ॥ रे पान्था. स्वगृहाणि गच्छत सुखं सेवाक्षणो मुच्यता मानं मानिनि मुञ्च वल्लभजने कोषानुबन्धेन किम् । आयात: कुसुमैकभरः क्षपयति प्राणा- न्वियोगातुरेण्वित्येवं परपुष्टनादपटहो वक्तीव कामाज्ञया ॥ १४१ ॥ सा तन्वीति धनस्तनीति विकसन्नीलाब्जनेत्रेति चं स्वैरं सचरतीति वक्ति मधुरां वाचं विचित्रामपि । इत्थं विद्रुमपाटलाधरपुटा सीमन्तिनी ध्यायतो रोमाञ्चो रुदितं स्मितं प्रलपितं पान्थस्य सजायते ॥ १४२ ॥ अध्वन्यस्य वधूर्वियोगविधुरा भर्तु. स्मरन्ती यदि प्राणानुज्झति कस्य तत्खलु महत्सजायते पातकम् । यावन्नो कृतमध्यगेन हृदये तावत्तरोर्मूर्धनि प्रोद्बुद्धं परपुष्टया तव तवेत्युच्चैर्वचोऽनेकदा. ॥१४३॥ उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्को- किलकाकलीकलकलैरुद्दीर्णकर्णज्वरा. । नीयन्ते पथिकै. कथं कथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ १४४ ॥ अध्वन्यैर्मकरन्दशीकरसुरामत्तभ्रमत्को-

किले मार्गे मार्गनिरोधिनी परिहृता शङ्केऽशुभाशङ्कया । पान्थस्त्रीवधपातकादुपनतं चण्डालचिह्नं मयोरेखा ^१खिङ्गिणि- केव षट्पदमयी झाङ्कारिणी सहति. ॥ १४५ ॥ सव्याधे. कृशता क्षतस्य रुविर दृष्टस्य लालामृति. किंचिन्नैतदिहास्ति तत्कथममौ पान्थस्तपस्वी मृत. । आ ज्ञात मधुलम्पटैर्मधुकरै- रारब्धकोलाहले नून साहसिकेन चूतमुकुले दृष्टि. समारोपिता ॥ १४६ ॥ एतस्मिन्दक्षिणागानिलचलितलतालीनमत्तालि- मालापक्षक्षोभावधूतच्युतबहुलरजोह्लादिदृष्टे वसन्ते । प्रेम- खेदांग्रबाहुश्वथवलयलसत्प्रौढसीमन्तिनीना मन्दः कण्ठ- ग्रहोऽपि ग्लपयति हृदयं किं पुनर्विप्रयोगः ॥ १४७ ॥

ग्रीष्मवर्णनम्

रेजे पुष्पैर्ग्रीष्ममामाद्य मल्ल मल्ल सद्यः संश्रयन्ते स्म भृङ्गा. । भृङ्गैस्तत्रारम्भि हर्षेण गानं गाने लौल्यं लेभिरे योगिनोऽपि ॥ १ ॥ अत्युल्लसद्विसरहस्ययुजा भुजेन वक्त्रेण शारदसुवाशुसरोरुहेण । पीयूषपोषसुभगेन च भाषितेन त्वं चेत्प्रसीदसि मृगाक्षि कुतो निदाघः ॥ २ ॥

ग्रीष्मसमयस्वभावव्याख्यानम्

प्रतिगतमर्थिजनाना विच्छिन्नाशं समूहभवलोक्य । स्फुटि- तमपयसस्तापादिव हृदयमलं तडागस्य ॥ ३ ॥ सुभगसलिला- वगाहाः पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ ४ ॥ देशे देशे जेडिमकुरङ्गा- स्तेजोभलैर्दिनकरभिले । धांवं धावं प्रहरति राज्ञा धारागेहं शरणमवापु ॥ ५ ॥ सजातपत्रैर्ब्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम् । विर्कस्वरान्यर्ककराभिमर्शान्दिनानि पद्मानि च वृद्धिमीयुँ. ॥ ६ ॥ प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदाव- गाहक्षतवारिसचय. । दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघ- कालोऽयमुपागतः प्रिये ॥ ७ ॥ दुःप्रेक्ष्यमुच्चैर्गगनं निदाघे कोपाकुलसेव मुखं नृपस्य । हरेः शयानस्य मृणालबुद्ध्या कर्षन्ति पुच्छं करिणः करेण ॥ ८ ॥ प्रायश्चरित्वा वसुधामशेषा छायासु विश्रम्य ततस्तरूणाम् । प्रौढि गते सप्रति तिग्मंभानौ शैत्यं शनैरन्तर्रपामियासीत् ॥ ९ ॥ रवि- तुरङ्गतनूरुहतुल्यता दधति यत्र शिरीषरजो रुच. । उपययौ विदधन्नवमल्लिकाः शुचिरसौ विरसौरभसपदः ॥१०॥ दलित- कोमलपाटलकुञ्जले निजवधूश्वसितानुविधायिनि । मरुति वाति विलासिभिरुन्मदभ्रमदलै मदलौल्यमुपाददे ॥ ११ ॥


पादटिप्पणी:

१ तुहीति हिन्दुस्थानीभाषया त्वमेवेत्यर्थे
२ वसन्तर्तुं
३ पान्य
१ चण्डालवल्लकी
२ हिमा-येव कुरङ्गा मृगा
३ धावित्वा धावित्वा
४ समूहा
५ वृक्षविशेष, पक्षे,-पाटलवर्णानि
६ भासुराणि; पक्षे,-विकासशालीनि
७ आपु
८ हेमन्ते इत्यर्थे
९ वसन्ते इत्यर्थे
१० ग्रीष्मे
११ जलानाम्

३३६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतस्तनाः। सरस- चन्दनरेणुरनुक्षणं विचकरे न करेण वगेरुभिः ॥ १२ ॥ कथमिव तत्र समतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य । इति विरचितमल्लिकाविकास. स्मयत इव स्म मधुं निदाघ- कालः ॥ १३ ॥ बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय । भुवनपरिभवी न यत्तदानी तमृतुगणः क्षण- सुन्मनीचकार ॥ १४ ॥ अपि शिशिरतरोपचारयोग्य द्वितय- मिद युगपन्न सङ्गमेव । जरठितरविदीधितिश्च कालो दयित- जनेन सम च विप्रयोगः ॥ १५ ॥ तप्ता महीं विरहिणा- मिव चित्तवृत्तिस्तृष्णाधवेषु कृपणेण्विव वृद्धिमेति । सूर्य- करैर्दहति दुर्वचनै. खलो नु छाया सतीव न विमुञ्चति पाद- मूलम् ॥ १६ ॥ छाया वियोगिजनितेव गता कृशत्वं तप्तं पय. पिशुनमानसवद्वभूव । केनाधुना बत मनागवलोकनीयः कुद्धोत्तमर्णमुखमण्डलवत्यतङ्ग. ॥ १७ ॥ रिक्तेषु वारि कथया विपिनोदरेषु मध्याह्नजृम्भितमहातपतापतप्ताः । स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन जिह्वा प्रसार्य तरवो जलमर्थयन्ते ॥ १८ ॥ सुखकृतबिसखण्डखण्डमार्तण्डतापा- त्सितजलजलतल्थो राजते राजहंसः । रजतघट इवाय विद्रुमाबद्धधाराविवरविगलदम्बुः कम्बुकण्ठि प्रतीहि ॥ १९ ॥ रजनिचरमयामेष्यादिशन्ती रतेच्छा किमपि कठिनयन्ती नालिकेरीफलाम्भः । अपि परिणमयित्री राजरम्भाफलाना दिनपरिणतिभोग्या वर्तते ग्रीष्मलक्ष्मीः ॥ २० ॥ निजा कायच्छाया श्रयति महिषः कर्दमधिया च्युतं गुञ्जापुञ्जं रुधिर- मिति काक. कलयति । समुत्सर्पन्सर्पः सुशिरविवर ताप- विवशः सचीत्कारारधूतं प्रविशति कर कुञ्जरपते. ॥२१॥ तदा- त्वस्नाताना दरदलितमल्लीमुकुलिता• सजो बिभ्राणाना मलय- जरसार्द्रीर्द्रवपुषाम् । निदाघामिप्लोषप्लपितमभिसार्य मृगदृशा परिष्वङ्गोऽनङ्गं पुनरपि शनैरङ्कुरयति ॥ २२ ॥ जलाद्री शष्पाणा बिसकिसलयैः केलिवलयाः शिरीषैरुत्तंसा विचकिल- मयी हाररचना । शुचावेणाक्षीणा मलयजरसार्द्रीश्च तनवो विना तन्त्रं मन्त्रं रतिरमणमृत्युंजयविधिः ॥ २३ ॥ हरन्ति हृदयानि यच्छ्रवणशीतला वेणवो यदर्दर्ति केरम्बिता शिशिरवायुना वारुणी । भवन्ति च हिमोपमाः स्तनभवो यदे- णीदृशो रुचेरुपरि संस्थितो रतिपतेः प्रसादो गुरुः ॥ २४ ॥ मूलं बालकवीरुधा सुरभयो जातीतरूणा त्वचः सारश्चन्दन- शाखिना किसलयान्यार्द्राण्यशोकस्य च । शैरीषी कुसुमो- न्नति. परिणमन्मोचश्च सोऽयं गणो ग्रीष्मेणोष्महर. पुरा किल ददे दग्धाय पञ्चेषवे ॥ २५ ॥ अङ्गारैः खचितेव भूर्वियदपि ज्वालाकराल करैस्तिग्माशोः किरतीव तीव्रम- भितो वायुः कुकूलानलम् । अप्यम्भांसि नखंपचानि सरि- तामाशा ज्वलन्तीव च ग्रीष्मेऽस्मिन्नवहिद्विदीपितमिवाशेष जगद्वर्तते ॥ २६ ॥ पाश्चात्यैर्मरुमारुतैस्त्रिजगतामुन्मूलयन्ना- र्द्रता दावाग्निर्ज्वलितैरपारगहानान्यप्यानयन्भस्मसाम् । वात्या- भिस्तुणपत्रधूलिनिकरान्धुन्वन्विहाय स्थले ग्रीष्म. शुष्य- दपुच्छपल्वललुठन्मत्स्य. समभ्यागत. ॥ २७ ॥ अत्यच्छं सितमंशुकं शुचि मधु क्षामोदमच्छं रज. कर्पूर विधृतार्द्र- चन्दनकुचद्वन्द्वा. कुरङ्गीदृश. । धारावेश्म सपाटलं विचकिल- स्रग्दाम चन्द्रत्विषो धातः सुस्थिरियं वृथैव तव न ग्रीष्मो- ऽभविष्यद्यदि ॥ २८ ॥ माकन्दद्रुममञजरीषु वसतिस्तत्पल्लवै- र्वर्तनं सा नो मञ्जुलता वच.सु मधुना सर्व सह प्रस्थितम् । एतत्तिष्ठतु दु श्रवं मृदुदृदा निःस्वामिनस्तत्सखे प्रोन्मीलत्क- रुणो द्विजोऽयमिति हि त्वं ग्रीष्म मुष्णासि न. ॥२९॥ कानि स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशा. किं वा शेषं वनस्य स्थितमिति पवनासङ्गविस्पष्टतेजाः । चण्डज्वाला- वलीढस्फुटिततनुलाग्रन्थिमुक्ताट्टहासो दावाग्नि. । शुष्कवृक्षे शिखरिणि गहनेऽधिष्ठित. पश्यतीव ॥ ३० ॥ बाले मालेय- मुच्चैर्न भवति गगनव्यापिनी नीरदाना कि त्व पक्ष्मान्तवान्तैर्र्म- लिनयसि सुधा वक्रमश्रुप्रवाहैः । एषा प्रोद्धृत्तमत्तद्विपकटंकष- णक्षुण्णविन्ध्योफ्लाना दावाग्ने. सप्रवृद्धा मलिनयति दिशा मण्डलं धूमलेखा ॥३१॥ स्फीतं शीतं गतं क्व क्व शिशिरकि- रणः क्कास्ति हेमन्तमासः कैते पानीयपूर्णा मलिनजलधरा. क्वाच विद्युत्प्रमोदः । इत्युच्चैर्जल्पमानैरिव मुखरमुखैर्भिह्नितैरुपेतो वातौघश्वागतोऽसौ प्रकटितविजयस्तम्भचिह्नौर्निदाघः ॥ ३२ ॥

मध्याह्नः

एष सूर्याशुसतप्तो मृगः कुतरुमाश्रितः । साधुर्माग्यपरि- क्षी णो नीचं प्राप्येव सीदति ॥ ३३ ॥ मध्याह्ने नूनमापो- ऽपि तिग्मतापोपशान्तये । दधुः कमलिनीपत्रमानपत्रमिवोपरि ॥ ३४ ॥ दुःसहसंतापभयात्सप्रति मध्यस्थिते दिवसनाथे । छायामिव वाञ्छन्ती छायापि गता तहतलानि ॥ ३५ ॥ रवेर्मयूखैरभितापितो भृश विदह्यमानः पथि तप्तपांसुभि. । अवाक्फणो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषी- दति ॥३६॥ अस्मद्रिपूणामनिलाशनाना दत्तो निवासः खलु चन्दनेन । इतीव रोषाद्यजनस्य वायुर्व्यशोषयच्चन्दनमङ्गसस्थम् ॥३७॥ स्पृशति तिग्ममचौ ककुभ. करैरदयितयेव विजृम्भितता- पया । अतनुमानपरिग्रहया स्थित रुचिरया चिरयायिदिनश्रिया ॥३८॥ तरुणतरणितेज.पुञ्जसतसंदेह पतति जरठखङ्ग. पल्वले पङ्कलेहे । हरिरपि सलिलार्थी शङ्कया तस्य नीरं न पिबति न च याति क्षिस्यति प्राप्य तीरम् ॥ ३९ ॥ किरति मिहिरे विष्वग्द्रीचः करानतियामनी स्थलकमठवद्देहच्छाया जनस्य विचेष्टते । गजपतिमुखोद्धीणैराप्ये रथ त्रसरेणुभि. रशिरम-


१ दुर्जनान्त करणवत् २ संमिश्रिता

ग्रीष्मवर्णनम्

धुरामेणाः कच्छस्थलीमधिशेरते ॥ ४० ॥ भानोः पादैर्दहन-वाले शिखी निर्भिद्योपरिकर्णिकारकुसुमान्याशेरते षट्पदाः ।
परुषैर्द्दह्यमानान्तरराणान्मुत्क्रामन्त. किल विटपिना प्राणपिण्डातप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्म-
इवामी । गाढोदन्याकुलितमनसो भिन्नचञ्चुपुटान्ता. कोकू-निवेशिपञ्जरशुकः क्लान्तो जल याचते ॥ ५२ ॥ स्कन्धान्सै-
यन्ते विहगशिशवः कोटऱाणा मुखेषु ॥ ४१ ॥ वहद्वहल-न्ध्यरूयूथगण्डकषणव्यासक्तदानोदकान्सेवन्ते मधुपा मही
मारुतप्रसरदम्भिखण्डैरिव स्फुरद्द्युमणिमण्डलयुतिवितानकै-रुहशिर. पुष्पाणि हित्वा भृशम् । लीयन्ते वलमीर्कुलाय-
स्तापिता । विसारि वपुरातमनः सपदि वासरश्रीयं चलन्मरु-कुहरे निस्स्पन्दमेते खगा जिह्वालीढवधूमखो मृगगणश्छा-
मरीचिकासिचयपल्लवेनावृति ॥ ४२ ॥ विशन्तीना स्नातुयासु विश्राम्यति ॥५३॥ उत्तप्तोऽयमुरगम. शिखितलच्छाया
जघनपरिवेष्टैर्मृगदृशा यदम्भ सप्राप्त प्रमदवनवाप्यास्तट-समालम्बते वैर साहजिक विहाय च शिखी मूलं तरो-
भुवम् । गभीरे तन्नाभीकुहरपरिणाहाध्वनि रसत्कुहुंकारस्फारर्गच्छति । याचन्ते च जलं निकुञ्जभवने तृष्णातुरा. सारिका-
रचयति निनादं नयति च ॥४३॥ धत्ते पल्लवतालडलेप्सुरूपरिस्ते वारिणि पङ्कजानि मधुपास्त्यक्त्वा श्रयन्ते लताः
स्व कर्णतालं द्विपः शष्पस्तम्बरसान्वियच्छति शिखी मध्ये-॥ ५४ ॥ अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो
शिखण्ड । शिर. मिथ्या लेढि मृणालकोटिरभसाद्दष्ट्राङ्कुर शूकरोधारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने । अन्त: पुष्प-
मध्याह्ने महिषश्च वाञ्छति निजच्छायामहाकर्दमम् ॥ ४४ ॥सुगन्धिरार्द्रकबरी सर्वाङ्गलम्बाम्बर रमणा रमणीयता
सर्पत्सारिणि वारिशीतलतले विन्यस्तपुष्पोत्करे नीरन्ध्रे कदली-विदधति ग्रीष्मापराह्नागमे ॥ ५५ ॥ पान्थाना प्रमदा इव
वने गुरुदलच्छायाहताकत्विषि । कर्पूरोगरपङ्कपङ्किच्छल-प्रतिदिन दैन्यं हृदिन्यो ययुर्दृश्यन्ते स्म दिगम्बरा इव वने
घनोत्तुङ्गस्तनालिङ्गिभि कान्ताकेलिरतैरहो सुकृतिभिर्मेध्यंदिनंपत्रोज्झिताः पादपा. । नि.श्वासा इव दुःसहा विरहिणा
नीयते ॥ ४५ ॥ उद्दामद्युमणियुतिक्वतिकरप्रक्रीडदकपल-वाता ववु. सर्वतः पायं पायमिव प्रियाधररस पाथ पपु.
ज्वालाजालजटालजाङ्गलतटीनिष्कूजकोयष्टय. । भौमोष्म-प्राणिन ॥ ५६ ॥ अस्वाध्यायः पिकाना मदनमखसमारम्भ-
प्लवमानसूर्यकिरणा. क्रूरप्रकाशा दृशामायु. कर्म समापयन्तिणस्याधिमासो निद्राया जन्मलग्नं किमपि मधुलिहा कोऽपि
धिगमुर्मध्याह्नशून्या दिशः ॥ ४६ ॥ मध्याह्ने हरितो हुता-दुर्भिक्षकाल । विष्टिर्योत्सुकाना मलयजमरुता पान्थकान्ता-
शनसुच कामोऽपि वामश्रुवा पाटीरद्रवर्चिचता स्तनतटीमा-कृतान्तः प्रालेयोन्मूलमूलं समजति समय. कश्चिदैत्पाति-
साद्य निद्रायते । एणाः केसरिणोऽपि केसरसटोपान्तश्रिता.कोऽयम् ॥५७॥ पत्रच्छायासु हंसा मुकुलितनयना दीर्घिका-
शेरते छायामङ्गगता न मुञ्चति तरोर्व्योढा नवोढामिव ॥४७॥पद्मिनीना सौधान्यत्यर्थतापाइूलभपरिचयद्वेषिपारावतानि ।
मध्याह्ने चलतालबृन्तमनिलः सर्वात्मना सेवते वारि स्वेद-बिन्दुक्षेपानपिपासु. परिसति शिखी भ्रान्तिमद्वारियन्त्रं
मिषेण शीतलवधूवक्षोजमालम्बते । निद्रा नेत्रमुपैति पक्ष्म-सर्वैस्सहै. समग्रस्त्वमिव नृपगुणैर्दीप्यते संसंसति. ॥ ५८ ॥
युगलच्छायाश्रिता दैहिकी पान्थानामथ पादयोर्निपतति
छायापि मा यान्विति ॥ ४८ ॥ काश्मर्या. कृतमालमुद्गतदलं### जलकेलिः
कोयष्टिकष्टीकते तीराश्मन्तकशिम्बिचुम्बितमुखा धावन्त्यप.निजप्रियमखभ्रान्त्या हर्षेणाचुम्बदम्बुजम् । दष्टाधरा
पूर्णिकाः । दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीयतु भृङ्गेण सीत्कारमकरोन्मृदु ॥ ५९ ॥ ललितमुरसा तरन्ती
स्थित वीरन्द्रीडकपोतकूजितमनुक्रन्दन्त्यध कुक्कुटा. ॥ ४९ ॥तरलतरङ्गोघचालितनितम्बा । विपरीतरातसक्ता किमद्दश्यत
स्वे स्वे कर्मणि सनियोज्य सुहृदो भूमीसुरान्मन्त्रिणश्चक्रसरसि या सख्या ॥ ६० ॥ एता गुरुश्रोणिपयोधरत्वा-
निर्भयमारचय्य भगवान्सप्ताप्तरागोदय । स्वालोकक्षण-दात्मानमुद्धोढुमशक्नुवत्यः । गाढाङ्गदैर्बाहुभिरप्सु बाला.
कादिशीकमधुनोत्खातं विचिन्वन्निव ध्वान्तं कापि ³निलीन-केशोत्तर रागवशात्प्लवन्ते ॥६१॥ अमी शिरीषप्रसवावतंसा.
मैम्बरमणियोंमाग्रमारोहति ॥ ५० ॥ छाया संश्रयते तलंप्रअशिनो वारिविहारिणीनाम् । पारिप्लवा स्रोतसि निम्न-
विटपिना श्रान्तेव पान्थैः सम मूलं याति सरो जलस्यगाया शैवाललोलाश्छलयन्ति मीनान् ॥ ६२ ॥ आसा
जडता ग्लानेव मीनै. सह । औचामत्यहिमाशुदीधितिरप-जलास्फालनतत्पराणा मुक्ताफलस्पर्धिषु शीकरेषु । पयो-
स्तसेव लोकै. सम निद्रा गर्भग्रहं सह प्रविशति क्लान्तेवधरोत्सर्पिषु शीर्यमाण. सलक्ष्यते न च्छिदुरोऽपि हार
कान्ताजनै ॥५१॥ उष्णालुः शिशिरे निषीदति तरोर्मूलात-॥ ६३ ॥ आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवा
द्वन्द्वचरा. स्तनानाम् । जातानि रूपावयवोपमानान्य-
दूरर्वतीनि विलासिनीनाम् ॥ ६४ ॥ नीरस्थलीबर्हिभि-

१ दिशान् २ भयदुतम् ३ गुप्तम् ४ सूर्य ५ पिबति१ मयूर २ भ्रमरा ३ गजसमूहस्य ४ लिप्तमदोदकान्
६ उष्णक्लान्त५ भृङ्गा ६ नीटरन्ध्रे ७ निश्चलम् ८ वापी ९ किरणे १० सूर्य
४२ सु र भा

३३८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

रुत्कलापैः प्रस्निग्धकेकेरभिनन्द्यमानम् । श्रोत्रेषु सम्मूर्च्छति रक्तमासा गीतानुगं वारिमृदङ्गवाद्यम् ॥ ६५ ॥ सदृष्टवस्त्रेष्वबला नितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः । अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ ६६ ॥ एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः । वक्त्रे तराग्रैरलकैस्तरुण्योश्चूर्णान्बुणान्वारिलवान्वहन्ति ॥ ६७ ॥ उद्वद्धकेशश्च्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्टः । मनोज्ञ एव प्रमदामुखानाम्भोविहारकुलितोऽपि वेषः ॥ ६८ ॥ उन्मृष्टपत्राः कलितालकान्ताः कण्ठेषु लग्ना जघनं स्पृशन्तः । स्तनस्थलेष्वाहुतिमादधाना गता वधूना प्रियता जलौघाः ॥ ६९ ॥ हतोऽङ्गरागस्तिलकं विमृष्टं लब्धान्तरैरेभिरतीव मत्वा । सुसंहितेनेति तदा जलानामदायि मध्यं न कुचद्वयेन ॥ ७० ॥ निरीक्ष्य वेणीप्रतिबिम्बमेणीदृशो भुजंगभ्रममावहन्त्यः । पतदुकूलं धुतबाहुमूलं झम्पाप्रकम्पाकुलिताः प्रचेलुः ॥ ७१ ॥ अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः । पयोऽवगाढु कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ ७२ ॥ प्रशान्तघर्माभिभवं शनैर्विंवान्विलासिनीभ्यः परिमृष्टपङ्कजः । ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥ ७३ ॥ गतैः सहायैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः । मुखैः सरोबानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणात्नरासिरे ॥ ७४ ॥ विमिन्नपर्यन्तगमीनपङ्कयः पुरो विगाढाः सखिभिमेरुत्वत । कथंचिदापः सुरसुन्दरीजनैः समीतिम्रिस्तस्त्रथम प्रपेदिरे ॥ ७५ ॥ विगाढमात्रे रमणीभिरम्भसि प्रयत्नसवाहितपीवरोरुभिः । विभिद्यमाना विससार सारसानुदस्य तीरेषु तरङ्गसंहतिः ॥ ७६ ॥ शिलाघनैर्नाकसदामुरःस्थलैर्बृहन्निवेशैश्च वधूपयोधरैः । तताभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा ॥ ७७ ॥ विधूतकेशाः परिलोलितस्रजः सुराङ्गनाना प्रविलुप्तचन्दनाः । अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पमीयुः समया इवोर्मयः ॥ ७८ ॥ विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये । हृतस्य शेषानिव कुङ्कुमस्य तान्विकत्थनीयान्दधुरन्यथा स्त्रियः ॥ ७९ ॥ प्रियेण सग्रन्थ्य विपक्षसन्निधावुपाहिता वक्षसि पीवरस्तने । स्रजं न काचिद्विजहौ जलांबिला वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ ८० ॥ असंशयं न्यस्तमुपान्तरक्तता यदेव रोढुं रमणीभिरञ्जनम् । हृतेऽपि तस्मिन्सलिलेन शुक्लता निरास रागो नयनेषु न श्रियम् ॥ ८१ ॥ द्युति वहन्तो वनितावत्तसका हृताः प्रलोभादिव वेगिभिर्जलैः । उपप्लुतास्तत्क्षणशोचनीयता च्युताधिकारा सचिवा इवाययुः ॥ ८२ ॥ विपन्नलेखा निरक्तकाधरा निरञ्जनाक्षी-

रपि बिभ्रतीः श्रियम् । निरीक्ष्य रामा बुबुधे नमश्चरैरलंकृत तद्वपुषैव मण्डनम् ॥ ८३ ॥ तथा न पूर्व कृतभूषणादरः प्रियानुरागेण विलासिनीजनः । यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम् ॥ ८४ ॥ शुभाननाः साम्बुरुहेषु नीरवो विलोलहाराश्चलफेनपङ्किषु । नितान्तगौर्यो हतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्विषु ॥ ८५ ॥ हृदाम्भसि व्यस्तबधूकराह्ते रवं मृदङ्गध्वनिधीरमुज्झति । मुहुः स्तनैस्तालसमं समाददे मनोरम नृत्यमिव प्रवेपितम् ॥ ८६ ॥ श्रिया हसद्भिः कमलानि सस्मितैरलकृताम्बुः प्रतिमागतेर्मुखैः । कृतानुकूल्या सुरराजयोषिता प्रसादसाफल्यमवाप जाह्नवी ॥ ८७ ॥ परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखोजनस्यापि विलोकनीयताम् ॥ ८८ ॥ भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी । अकृत्रिमप्रेमरसार्हितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ॥ ८९ ॥ तिरोहितान्तानि नितान्तमाकुलैरपा विगाहदलकै प्रसारिभिः । ययुर्वधूना वदनानि तुल्यता द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ ९० ॥ करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा । सखीषु निर्वाच्यमघार्ध्वदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥ ९१ ॥ प्रियेसलीलं करवांरिवारित प्रवृद्धनिःश्वासविकम्पितस्तनः । सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः ॥ ९२ ॥ उद्धृस्य धैर्य दयितेन सादर प्रसादितायाः करवांरिवारितम् । मुखं निमीलनयनं नतध्रुवः श्रियं सपत्नीवदनादिवाददे ॥ ९३ ॥ विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः । सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयनन्धमंशुकम् ॥ ९४ ॥ निरञ्जने साचिविलोकित दृशावयावक वेपथुरोष्ठपल्लवम् । नतध्रुवो मण्डयति स्म विग्रहे बलिक्रिया चातिलक तदास्पदम् ॥ ९५ ॥ निमीलदाकेकरलोलचक्षुषा प्रियोपकण्ठ कृतगात्रवेपथुः । निमज्जतीना श्वसितोद्धतस्तनः श्रमो नु तासा मदनो नु पप्रथे ॥ ९६ ॥ प्रियेण सिक्ता चरमं विपक्षतश्चुकोप काचिच्च तुतोष सान्त्वनैः । जनस्य रूढप्रणयस्य चेतसः किमप्यमर्षोऽनुनये भृशायते ॥ ९७ ॥ अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् । आत्तमात्तमपि कान्तमुक्षितु कातरा शफरशङ्किनी जहौ ॥ ९८ ॥ निम्ननाभिकुहरेषु यदम्भः प्लावितं चलदृशा लहरीभिः । तद्भवैः कुङ्कुरुतैः सुरनार्यः स्मारिता सुरतकण्ठरुतानाम् ॥ ९९ ॥ सक्षोभं पयसि पुनर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने । विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्धृत्तः क इव सुखावदः परेषांम्


१ जलक्लिन्नाम्

ग्रीष्मवर्णनम् ३३९


॥ १०० ॥ कि तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमव-
भासते तरुणा । सशय्य क्षणमिति निश्चिकाय कश्चिद्द्वि-
ब्बोकैर्बकसद्हवासिना परोक्षै. ॥ १०१ ॥ योग्यस्य त्रिनयन-
लोचनानलाच्चिर्निर्दग्धस्मरपृतनाधिराज्यलक्ष्म्या. । कान्ताया
करकलशोधतै पयोभिर्वक्त्रेन्दोरकृत महाभिषेकमेक ॥ १०२ ॥
पर्यच्छे सरसि हृतेऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपि-
ष्णोः । सुश्रोण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनी-
सखित्वम् ॥ १०३ ॥ नारीभिर्गुरुजघनस्थलाहतानामास्बश्री-
विजितविकािवारिजानाम् । लोलत्वादपहरता तदङ्गराग
सजज्ञे सकलुष आशयो जलानाम् ॥ १०४ ॥ सोगन्ध्य
दधदपि काममङ्गनाना दूरत्वादृतमहमाननोपमानम् । नेदीयो
जितमिति लज्जयेव तासामालोले पयसि महोत्पलं ममज्ज
॥ १०५ ॥ प्रग्रहै सरभसममसोऽवगाहक्रीडाभिर्विदळित-
यूथिकापिशङ्गै. । आकत्पैः सरसि हिरण्मयैर्वधुनामौर्वाग्निद्युति-
शकलैरिव व्यराजि ॥ १०६ ॥ आक्षाकी युवतिदृशामसौ
तनोति च्छायैव श्रियमनपायिनी किमेभि. । मत्वैवं स्वगुणपि-
धानसाम्यसूर्यैः पानीयैरिति विदधाविरेऽञ्जनानि ॥ १०७ ॥
निर्धौते सति हरिचन्दने जलौघैरापाण्डोगैरपरभागयाङ्ग-
नायाः । अद्याय स्तनकलशद्वयादुपैये विच्छेद, सहृदययेव
हारयष्ट्या ॥ १०८ ॥ अन्यूनं गुणममृतस्य धारयन्ती सफुल्ल-
स्फुरितसरोरुहावतंसा । प्रेयोभिः सह सरसी निषेव्यमाणा
रक्तत्वं व्यधित वधूदृशा सुरेव ॥ १०९ ॥ क्षान्तीना बृहदम-
लोदबिन्दुचित्रौ रेजाते रुचिरदृशामुरोजकुम्भौ । हाराणा
मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपन्नकाम्ययेव ॥११०॥
आरूढः पतित इति ख्वस्रवोऽपि स्वच्छोना परिहरणीयता-
मुपैति । कर्णेभ्यश्च्युतमसितोत्पलं वधूना वीचीभिस्तटमनु
यन्निरासुरापः ॥ १११ ॥ दन्तानामधरमयावक पदानि प्रत्य-
आस्तनुमविलेपना नखाङ्गा. । आनिन्दु. श्रियमधितोयमङ्ग-
नाना शोभायै विपदि सदाश्रिता भवन्ति ॥ ११२ ॥ कस्या-
श्चिन्मुखमनु धौतपत्रलेखं व्यातेने सलिलभराव्रलम्बिनीभि. ।
किञ्जल्कव्यतिकरपिञ्जरान्तराभिमिश्रित्थश्रीरलमकाग्रवल्लरीभिः
॥ ११३ ॥ अविरलमिदमम्भः स्वेच्छयोच्छालयन्त्या विक-
चकमलशोभोत्तानहस्तद्वयेन । परिकलित इवार्धं कामबाणा
तिथिभ्यः सलिलमिव वितीर्ण बाललीलासुखेम्य ॥ ११४ ॥
जलविलुलितवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिखान-
मात्रोत्थिताभि. । कनकरुचिरकुम्भश्रीमदामोगतुङ्गस्तनवनि-
हितहस्तस्वस्तिकाभिर्वधूभि. ॥ ११५ ॥ एतसा. करिकुम्भ-
संनिभकुचप्राग्भारपृष्ठे लुठत्तुङ्गाग्रर्भगेजेन्द्रमौक्तिकसरश्रेणी-
मनोहारिणि । दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथ
को वाऽन्योऽपि विलीयते न सरसः सीमन्तिनीसङ्गे ॥ ११६॥


प्रपापालिका

यथोर्ध्वाक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः । तथा
प्रपापालिकापि धारा वितनुते त॑नुम् ॥ ११७ ॥ अङ्गुल्यग्र-
निरोधतस्तनुतरं धारामिय कुर्वती कर्कर्या न पर पयो नि-
पुणिका दातुं प्रपापालिका । विश्लिष्टाङ्गुलिना करेण दशना-
पीड शनैः पान्थ हे निष्पन्दोर्ध्वविलोचनम्वमपि हा जानासि
पातुं पय. ॥ ११८ ॥ दूरादेव कृतोऽञ्जलिर्न तु पुन
पानीयपानोचितो रूपालोकनकौतुकात्प्रचलितो मूर्धा न
शान्त्या तृष. । रोमाञ्चोऽपि निरन्तर प्रकटितः प्रीत्या न
शैत्यादपामक्ष्णो विविवध्वेगेन विहितो वीक्ष्य प्रपापालिकाम्
॥ ११९ ॥ गन्तुं सत्वरमीहसे यदि पुनर्ब्यालोलवेणीलता
द्रष्टुं वा स्वकुटुम्बिनीमनुदिनं कान्ता समुत्कण्ठसे । तत्पुष्य-
न्नपि मुग्धमन्थग्वलेन्नेत्रान्तख्द्धाध्वगामेता दूरत एव हे
परिहर आत प्रपापालिकाम् ॥ १२० ॥ मध्याह्नेऽ-
तिखरे निदाघसमये तापोऽध्वनो वर्तते शीते कुञ्जतटे
विचित्रविटपे भो पान्थ विश्रम्यताम् । एकाकी च
भवानहं च तरुणी शून्या प्रपा वर्तते लज्जेऽहं ब्रुवती स्वयं
तु चतुरो जानासि कालोचितम् ॥ १२१ ॥ कस्येयं तरुणि
प्रैपा पथिक नः कि पीयतेऽस्या पँयो वेनूनामय महिष
पथिक रे वँरः कथ मङ्गल. । सोमो वाथ शनैश्चरोऽमृतमिदं
तत्तेऽधरे दृश्यते भो भोः पान्थ विलाससुन्दर सखे यद्रोचते
तत्पिब ॥ १२२ ॥ मध्याह्नं गमय त्यज श्रमजलं स्थित्वा
पयः पीयता मा शून्येति विमुञ्च पान्थ विवशः शीतः प्रपा-
मण्डपः । तामेव स्मर घक्सरस्वररत्नस्ता निजप्रेयसीं त्वच्चित्त
तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः ॥ १२३ ॥

ग्रीष्मवायवः

आध्मातोद्धतदाववह्निसुहृद, कीर्णोष्णरेणूत्कराः सतप्ता-
ध्वगमुक्तखेदविषमश्वासोष्णसवादिनः । तृष्णार्त्तजगजगयता-
स्यकुहरक्षिप्रप्रवेशोत्कटा भ्रूमङ्गैरिव तर्जयन्ति पवना दग्धस्य-
लीकज्जलैः ॥ १२४॥ कारण्डीः कुञ्जयन्तो निजजरठरवव्यञ्जि-
तावीरकोशानुत्तानाङ्कुकुष्णालाना पृथुसुषिरगताञ्शिम्बिकान्याट-
यन्तः । झिल्लीकाझल्लरीणा बधिरितककुभ झंकृतं खे क्षिपन्तः
सिञ्जानाश्चत्यपत्रप्रकरझणझणाराविणो वान्ति वाताः
॥ १२५॥ व्योमव्यालोलमुक्ताफलधवलगलद्विन्दुसदोहगर्भा-
नम्भोदान्भर्त्सयित्वा दिशि दिशि भुवने भीतिमुद्भावयन्तः ।
एते रक्षोमृगाक्षीगतलुलितमदक्षोभसरभ्सरूक्षा वाता. पाताल-
कुक्षिस्थितमपि सलिलं तत्क्षणाद्द्रक्षयन्ति ॥ १२६ ॥

ग्रीष्मपथिकाः

सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि
क्षामक्ष्मारुहि मन्दसुन्मधुलिहि स्वच्छन्दकुन्दुदुहि ।


पादटिप्पण्यः (Footnotes):
१ सूक्ष्माम्
२ पानीयपालिका
३ जलम्, पक्षे,-क्षीरम्
४ जलानि, पक्षे,-सोमादिवासर
५ उदकम्, पक्षे,-पीयूषम्

३४० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


शुष्यत्स्रोतसि तप्तभूमिरजसि ज्वालायमानार्णसि ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥ १२७ ॥ वाताकीर्ण- विशीर्णवीरणातृणश्रेणीझणत्कारिणि ग्रीष्मे सोष्मणि चण्ड- सूर्यकिरणप्रकाश्यमानाम्र्भसि । वित्तारोपितकामिनीमुखशशि- ज्योत्स्नाहृतक्लान्तयो मध्याह्नेऽपि सुखं प्रयान्ति पथिका स्वं देशमुत्कण्ठिताः ॥ १२८ ॥ ग्रीष्मोष्मप्लुषशुष्यत्ययसि बक- मयोद्धान्तपाठीनभाजि प्राय पङ्कमात्र गतवति सरसि स्वल्पतोये लुटित्वा । कृत्वा कृत्वा जलाद्रीकृतमुरसि जरत्कर्- पार्थ प्रपाया तोयं जग्ध्वापि पान्थः पथि वहति हहा हेति कुर्व न्पिपासु ॥ १२९॥ भ्राम्यच्चीत्कारचक्रभ्रमभरितघटीयन्त्रचक्र- भ्रमुक्तस्रोत पूर्णेप्रणालीपथसरणिगिरासारि सीत्कारि वारि । कौप पान्था प्रकाम शितमणिमुसलाकाग्विसंफारधार विक्षि- क्षुण्णमुक्ताकणनिकरनिभासारपातं पिबन्ति ॥ १३० ॥

वर्षावर्णनम्

चलद्बलाकादशनाभिरामः परिस्रवद्वारिमदाम्बुधार । आहन्यमानस्तडिदङ्कुशेन खरस्य दध्वान घनाद्विपेन्द्रः ॥ १ ॥ या कामिनी सा यदि मानिनी स्यात्खरस्य राज्ञो ह्यपराधिनी स्यात् । इतीव दण्डै. किमु ताड्यतेऽसौ कादम्बिनी काम- नृपस्य ढक्का ॥ २ ॥ वन्द्रबिम्ब्रविविम्ब्रतारकामण्डनानि घनमेघडम्बरै । भक्षितानि जलदोदरेषु तद्रोदनध्वनिरिवैष गर्जितम् ॥ ३ ॥ निद्रितस्य बत शम्बरद्विषो जागराय किमु वारिवाहक । ऊर्जितं दधदतीव गर्जितं सन्नमन्नभसि सन्नमाद्यधौ ॥ ४ ॥

वर्षासमयस्वभावाख्यानम्

शीतलादिव सत्रस्तं प्रावृषेण्यान्नभस्ततः । नभो बभार नीरन्ध्रं जीमूतकुलकम्बलम् ॥ ५ ॥ स्फुरन्तः पिङ्गलाभासो धरण्यामिन्द्रगोपकाः । सरक्तवान्तपान्थस्त्रीजीवा इव चका- शिरे ॥ ६ ॥ पतृत्यविरतं वारि नृत्यन्ति च कलापिनः । अद्य कान्त¹ कृतान्तो वा दुखस्यान्तं करिष्यति ॥ ७ ॥ उत्कण्ठयति मेधाना माला वर्गं कैलापिनाम्² । यूना चोत्कण्ठ- यत्यद्य मानस मकरध्वजः ॥ ८ ॥ अस्थिरमनेकरागं गुणरहितं नित्यदुष्प्रापम् । प्रावृषि सुरेन्द्रचापं विभाव्यते युवतिचित्त- मिव ॥९॥ नन्दयति कस्य न मनश्चपलैर्वनधूलिधूसरच्छायैः । आक्रम्य पुत्रकैरिव मलिनीकृतमम्बरं जलदैः ॥ १०॥ आयाताः सखि वर्षा वर्षादपि यासु वासरो दीर्घः । दिशि दिशि नीर- तरङ्गो नीरतरङ्गो³ ममापि हृद्येशः ॥ ११ ॥ गर्जति वारिद- पटले वर्षति नयनारविन्दमबलायाः । भुजवल्लिमूलसेके विरहलता पल्लवं सूते ॥ १२ ॥ अतिशयितकदम्बोऽथ मोदकदम्बानिलो वहति । वियदम्बुदमेदुरितं मे दुरितं पश्य नागतो दयित ॥ १३ ॥ शमयति जलधरधारा चातकयूना तृष चिरोपनताम् । क्षपयति च वधूलोचनजलधारा कामिना प्रवासरुचिम् ॥ १४ ॥ आस्वाद्य निर्विशेषं विरहविधूना मृदूनि मासानि । करकामिषेण मन्ये निष्ठीवति नीरदोऽस्थीनि¹ ॥ १५॥ वर्षासु जाता नवयौवनश्रीराशावधू प्रौढपयोधराभूत् । पुष्पोद्गमोऽजायत मालतीना बभूवुरस्पृश्यतमास्तटिन्यः ॥ १६ ॥ वसन्तविश्लेषमपारयन्त्या भुवो निदाघखरतापशा- न्त्यै । आशावयस्याभिरुदाह्रियन्ते पयोदनीलोत्पलपल्लवानि ॥ १७ ॥ घनोद्यमे गाढतमेऽन्धकारे न कोऽपि निर्णेतुमर्ह शशाक । स्पृशन्मुहुः कितु करेण नाभीसरोजमंभीरकुलाधि- नाथ.² ॥ १८ ॥ कामेन कामं प्रहिता जवेन प्रावृद् चचाल त्रिजगद्विजेतुम् । कि चन्द्रबिम्बं दधि भक्षयन्ती सधार यन्ती हरितः शुभाय ॥ १९ ॥ निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह कि नु वान्तश्चन्द्रोऽयमित्यार्ततर ररासे³ ॥ २० ॥ सजलजलधर नमो विरेजे विद्युन्मिमिया रुचिस्तडिल्लतानाम् । व्यवहित- रतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥ २१ ॥ परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् । विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपा निपात ॥२२॥ प्रतिदिशमभिगच्छताभिभृष्ट ककुभविकाससुगन्धिनानिलेन । नव इव विबभौ स चित्तजन्मा गतधृतिराकुलितश्च जीव- लोक. ॥ २३ ॥ व्यथितमपि भृशं मनो हरन्ती परिणत- जम्बुफलोपभोगहृद्या । परभृतयुवतिः स्वन वितेने नवनवयो- जितकण्ठरागरम्यम् ॥ २४ ॥ अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिना निनादे । जन इव न धृतेश्चचाल जिष्णुर्न हि महता सुकरः समाधिभङ्गः ॥ २५ ॥ धृतबिस- वलयावलिर्वहन्ती कुमुदवनैकदकूलमात्तबाणा । शरदमल- तले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ २६ ॥ समद- शिखिरुतानि हसनादै. कुसुदवनानि कदम्बपुष्पवृष्ट्या । श्रियमतिशायिनी समेत्य जग्मुर्गुणमहता भहते गुणाय योग. ॥ २७ ॥ सरजसमपहाय केतकीना प्रसवमुपान्तिक नीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदालो मलयिनति स्म विनीलबन्धनानि ॥ २८ ॥ मुकुलितमतिशंख्य बन्धुजीव धृतजलबिन्दुधु शाद्वलस्थलीषु । अविगलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥ २९ ॥ रटतु जलधरः पतन्तु धाराः स्फुरतु तडिन्मरुतोऽपि वान्तु शीता । इयमुरासि


पादटिप्पण्यः (Left Footnotes): १ ऊर्ध्व कण्ठो यस्य तादृश करोति २ मयूराणाम् ३ विरतसुरतरङ्ग

पादटिप्पण्यः (Right Footnotes): १ नेत्र, पक्षे, -निर्गता रदा दन्ता यस्य, दन्तानामभावादस्थिचर्वणसमर्थे मरुत्यजतीति भाव २ भगवत्पद्मनाभ ३ आक्रन्दन कृतवान

वर्षावर्णनम ३४१

महौषधीव कान्ता निखिलभयप्रतिघातिनी स्थिता मे ॥३०॥ स्फुरदधीरत्तडिम्नयना मुहुः प्रियमिवागलितोरुपयोधरा । जलधरावलिरप्रतिपालितखसमयसाम्प्रतमाजगतोधरम् ॥३१॥ गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे । अभिससार न वल्लभमङ्गना न चमके च कमेकरस ग्रहः ॥३२॥ अनुययौ विविधोपलकुण्डलयुतिवितानकसबलितांशुकम् । धृतधनुर्वलयस्य पयोमुचः शबलिमा वलिमानमुषो वपु ॥ ३३ ॥ द्रुतसमीरचलैः क्षणलक्षितव्यवह्रिता विटपैरिव मञ्जरी । नवतमालनिभस्य नभस्तरोरुचिरगेचिररोचत वारिदै ॥३४॥ पटलमम्बुमुचा पथिकाङ्गना मपढि जीवित संशयमेष्यती । सनयनाम्बुसखीजनसम्भ्रमाद्विधुरबन्धुरबन्धुर- मैक्षत ॥ ३५ ॥ प्रवसतः सुतरामुदकम्पयद्द्विदलकन्दल- कम्पनलालितः । नमयति स्म वनानि मनीषिनीजनमनो- नमनो वनमारुतः ॥ ३६ ॥ जलदपङ्किरनर्तयदुन्मद कल- विलापि कलापिकदम्बकम् । कृतसमाज्जनमर्दलमण्डलध्वनि- जया निजया स्वनसपदा ॥ ३७॥ नवकदम्बरजोरुणिताम्बरै- रधिपुरन्त्रि शिलीन्ध्रसुगन्धिभि । मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ ३८ ॥ शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम् । प्रविरलैरचलाञ्जनमञ्जना- जनसुगं न सुगन्धि न चक्रिरे ॥ ३९ ॥ द्विरददन्तवलक्ष- मलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् । घनघनौघविघट्ट- नया दिवः कृशशिखं शशिखण्डमिव च्युतम् ॥ ४० ॥ दलित- मौक्तिकचूर्णिपपाण्डव. स्फुरितनिर्झरशीकरचारव. । कुटज- पुष्पपरागकणा स्फुट विदधिरे दधिरेणुविडम्बनाम् ॥ ४१ ॥ नवपयःकणकोमलमलतीकुसुमसततितसतसङ्गिभि. । प्रच- लितोऽनिलै परिपाण्डिमा शुभरजोभरजोऽलिमिरोददे ॥४२॥ निजरज पटवासमिवाकिरद्धतपटोपमवारिमुचा दिशाम् । प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलीः ॥ ४३ ॥ प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधराग्भीरव । प्र- पायिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥४४॥ विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति । अभिहितेऽलिभिरेवमिवोच्चकैर्ननृते ननृते नवपल्लवैः ॥४५॥ प्रौढमौक्तिकरुच पयोमुचा बिन्दव. कुटजपुष्पबन्धवः । विद्युता नभसि नाट्यमण्डले कुर्व्वते स्म कुसुमाञ्जलिश्रियम् ॥ ४६ ॥ महीमण्डलीमण्डपीभूतपाथोधरागन्धहर्षोसु वर्षासु सद्यः । कदम्बे प्रसून प्रसूने मगन्दो मगन्दे मिलिन्दो मिलिन्दे मदोऽभूत् ॥ ४७ ॥ उन्निद्रकन्दलदलान्तरलभ्यमानगुञ्ज- न्मदान्धमधुपे नवमेघकाले। ख्मेऽपि यः प्रवसति प्रविहाय कान्ता तस्मै विषाणरहिताय नमो वृषाय ॥ ४८ ॥ घनसमयमहीभृत्पत्तन्स्र्यामबरस्य त्रिभुवनपतिचाप गोपुरत्व प्रपेदे । अपि विग्मवचोभिः प्राप्तपङ्काभिषेकाः कुकवय इव भेका खेदयन्ति स्म लोकान ॥ ४९ ॥ घनतग्घनवृन्दच्छा- दिते व्योम्नि लोके मवितुरथ हिमाशो सकथैव व्यरसीत् । रजनिदिवमभेदं मन्दवाता. शशंसु कुमुदकमलगन्धानाह- रन्त क्रमेण ॥ ५० ॥ घनतग्घनवृन्दच्छादिते व्योम्नि लोके मवितुरथ हिमाशो सकथैव व्यरसीत् । विरहमनुभव- न्ती सगम चापि भर्त्री रजनिदिवसभेद चक्रवाकी शशंस ॥ ५१ ॥ अथ नभसि निरीक्ष्य व्यामदिक्चक्रवाल मजल- जलदजाल ग्रामहर्षप्रकर्ष । विहितविपुलबर्हाडम्बगो नील- कण्ठो मदमृदुकलकण्ठो नाट्यमङ्गीचकार ॥ ५२ ॥ अभि- नवयवत्रीशालिनि श्मातलेऽस्मिन्रतिशयपरभाग भेजिर्रे जिष्णुगोपाः । कुवलयशनयीये मुग्धमुग्धेक्षणाया मनाय इव विमुक्ता कामकेलिप्रसङ्गात् ॥ ५३ ॥ मलिनहुतमुग्धूम- श्यामर्दिगो मलिना घनैर्विरलतृणश्यामा भूमिर्र्नोद्व्रत- कन्दलै । सुरतसुभगो नूनं काल स एष समागतो मरण- शरणा यस्मिन्नेते भवन्ति वियोगिन. ॥ ५४ ॥ क्षेपा क्षामी- कृत्य प्रमभमपहृत्याम्बु सरिता प्रताप्योर्वी कृत्स्ना तरुगहन- मुच्छोष्य सकलम् । क सप्रत्यष्णाशुर्गत इति तदन्वेषण- परस्तैड्डिडीपालोका दिशि दिशि चरन्तीव जलदाः ॥५५॥ मेघाटोपं स्तनितसुभगं वीक्ष्य ख हस्तिदन्तै कृत्वा भिन्त्ती- नुपरिसदनं चामरैश्छादयित्वा । कर्पूरैस्ता मृगमदरसैर्भूमि- मालिप्य शेते सैहे चर्मण्युरासि दयितावाङ्गरूढ पुलिन्द ॥ ५६ ॥ उपैति घनमण्डली नढति नीलकण्ठावली तडि- ल्लसति सर्वतो वहति केतकीमारुत । इतोऽपि यदि नागतः प्रियतमो नु मन्येऽधुना दधाति मकरध्वजस्तुटितशिखिनीकं धनुः ॥ ५७ ॥ दिशा हाराकारा शमितशमभारा शमवता- मसूर्चीसचारा कृतमदविकागश्च शिखिनाम् । हृताध्व- व्यापारास्तुहिनकणसारा विरहिणीमन कीर्णाङ्गारा किरति जलधारा जलधरः ॥ ५८ ॥ देवे वर्षत्यशनपवनव्यापृता वह्निहेतोर्गोहाद्रेहं फलकनिचितै सेतुभि पङ्कभीताः । नीत्र- प्रान्तानविरलजलान्यानिमिस्ताडयित्वा शूर्पच्छत्रस्थगित- शिरसो योषितः सञ्चरन्ति ॥ ५९ ॥ आकर्ण्य स्वरयौवराज्य- पटहं जीमूतधीरध्वनिं नृत्यत्केकि कुटुम्बकस्य दधतं मन्द्रा मृदङ्गक्रियाम् । उन्मीलन्नवनीलकन्दुलदलव्याजेन रोमाञ्चिता हर्षेणेव समुच्छ्रितान् वसुमती दत्रे शिलीन्ध्रध्वजान् ॥ ६०॥ वज्रेण त्रिजगत्पतेर्बलरिपोगच्छिन्नपक्षा. पुरा ये भीता निम- मज्जुरब्धिजठरे ते लूनपक्षाङ्गिरौन् । आश्वास्य व्रणदुःखजा शमयितु तेषामुदग्रव्यथामुत्तस्थुर्जंलदन्छलेन जलधेरूढा- म्भसः पर्वता. ॥ ६१ ॥ मन्दं मुद्रितपामवः परिपत-


१ रात्रिम् २ कृशा कृत्वा ३ तद्दिदेव दीप्तस्यालोक प्रकाशत .