भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 348, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 348

वसन्तवर्णनम् ३३३

दलिकुलनूपुर निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥७६॥
विकमितकुसुमाधर हमन्तीं कुरबकराजिवधू विलोकयन्तम्।
ददृशुरिव सुराङ्गना निष्षण्णं सशरमनङ्गमशोकपल्लवेषु ॥ ७७ ॥
मुहुर्मुहुःपतता विधूयमानं विरचितसंहति दक्षिणा-
निलेन । अलिकुलममकाकृति प्रपेदे नलिनमुखान्तविसर्पि
पङ्कजिन्या ॥ ७८ ॥
श्वसनचलितपल्लवाधरोष्ठ नवनिहिते-
र्ण्यमिवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव
शाललता मधुञ्चुम्बे ॥ ७९ ॥
उत्सृष्टमन्मथजहामिव मान-
रत्नमादाय षट्पदतिलानमधुवारिपूरान् । पुस्कोकिलस्य कल-
कूजितकैतवेन सकल्पवाक्यमयमयातनुते रसाल. ॥ ८० ॥
उत्फुल्लपङ्कजनिषक्तलसद्द्विरेफ किञ्चिद्विनिद्रकुसुमोत्कर-
सम्भृतश्री । आमूलनम्द्रविविधाहृतमाल्यमालश्चित्रं न कस्य
तनुते ललितस्तमालः ॥ ८१ ॥
धुन्वन्त्यमूनि मदमूर्च्छदलि-
ध्वनीनि यूताधनीनहृदयानि मवोर्दिनानि । निस्तन्द्रचन्द्र-
वदनावदनादविन्दसौरभ्यमौहृदसगर्भसमीरशानि ॥ ८२ ॥
कुपितापि मंन पतिना सह का सहकारविलोक्नजातग्मा ।
तरसा रमते स्म न हा रमणी रमणीयतनु सुतनु सुरभौ ॥ ८३ ॥
स्थलकमलतरूणा कामिनीलोचनेषु क्षिपति
मुकुलमुग्ध्या धूलिजालं विशालम् । तदनु हरति हन्त
स्वान्तमर्वस्वमासामयनयनविद्ग्धो धूर्तमन्मीनकेतुः ॥ ८४ ॥
पथि पथि शुकचञ्चूचारुराभाङ्कराणा दिशि दिशि पवमानो
वीरुधा लामकञ्च । नरि नरि किरति द्राक्सायकान्पुष्पधन्वा
पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ॥ ८५ ॥
इह मधुप-
वधूना पीतमल्लीमधूना विलसति कमनीय कौकलीसप्र-
दायः । इह नटति सलीलं मञ्जरी वञ्जुलस्य प्रतिपदमुप-
दिष्टा दक्षिणेनानिलैन ॥ ८६ ॥
विकसति सहकारे स्फार-
सौरभ्यसारे वहति वुतपतीरे मन्दमन्द समीरे । कलयति
कलवाचं कोकिलोकोऽपि रुष्टः क्षणमपि न मृगाक्ष्या वल्लभो
दुर्लभोऽभूत् ॥ ८७ ॥
इह हि नववसन्ते मञ्जरीरेणुपुञ्ज-
च्छुरणधवलदेहा बद्धहेलं सरन्ति । तरलमलिसमूहा हारि-
हुंकारिकण्ठा बहलपरिमलालीसुन्दरं सिन्दुवारम् ॥ ८८ ॥
स्थाने स्थाने मलयमरुतः पूरयन्त्यङ्गपाली पुष्पालीषु खर-
गजरज ज्ञानयोग्याः परागाः । जातं चूते मधु मधुकश्प्रेयसी-
जानुदघ्नं निर्विघ्नत्वं सपदि भवते रागराज्याभिषेक. ॥ ८९ ॥
प्रसूनकलिकाकुलै. किसलयैः करस्पर्धिभि स्फुरन्मधुमदभ्र-
मद्भ्रमरकोकिलाकूजितैः । इति क्रमसमुद्गतैरुपवनावली-
मण्डलीममण्डयदवि प्रयामृतवसुंधरावलभ. ॥ ९० ॥
विलासिनिरिवोन्मदै रचितगम्यगुञ्जारवै. प्रसूनसुरभीकृतै-
र्विंगलितत्रपास्तापसाः । अशोकशिखरस्थितैः सुनयनान्वितैः
षट्पदैर्निरन्तरानिशेवितामितमधौ मधौ शमीरे ॥ ९१ ॥
मन्दोऽयं मलयानल किसलयं चूतद्रुमाणा नवं माध्वत्को-
किलकूजित विचकिलामोदः पुराणं मधु । वाणानित्युपदी-
करोति सुरभि पञ्चैव पञ्चेषवे यूनामिन्द्रियपञ्चकस्य युगप-
त्समोहसङ्गादिनः ॥ ९२ ॥
उद्यद्द्विद्रुमकान्तिभिः किसलयै-
स्ताम्रा न्विषं बिभ्रतो भृङ्गालीविरुतैः कलेरविशदव्याहार
लीलाभृत । भ्राम्यन्तो मलयानििलाहतिचलैः शाखासहस्रै-
र्मुहुर्भ्रान्ति प्राप्य मधुप्रसङ्गमधुना मत्ता इवामी द्रुमा ॥९३॥
चूताना चिरनिर्गतापि कलिका बध्नाति न स्व रज सनद्ध
यदपि स्थित कुरवक तत्कोश्कावस्थया । कण्ठेषु स्खलितं
गतेऽपि शिशिरे पुस्कोकिलाना रुत शङ्के संहरति खरोऽपि
चकितस्तूणार्र्धकृष्टं शरम् ॥ ९४ ॥
पुष्पाणि प्रथमं तत·
प्रकटिताः स्वान्तोन्मवा पल्लवा पश्चादुन्मदकोकिलालि-
ललनाकोलाहल कोमल । इत्थ प्रादुरभूदपेल्य परित
प्राज्यप्रमोदप्रदः प्रोद्दामद्रुमगजिग्जितवनक्षोणीमृदुष्मापतिः ॥ ९५ ॥
स्तोत्रं चैत्रगुणोदयस्य विगहिपाणप्रपाणनकट-
कार खरकार्मुकस्य सुदृशा शृङ्गारशिक्षागुरुः । दोलाकेलि-
कलासु मङ्गलपदं वन्दी वनान्तश्रिया नादोऽय कलकण्ठ-
कण्ठकुहरेप्रेङ्खोलित श्रूयते ॥ ९६ ॥
माकन्दच्युतपुष्परेणु-
पंटलीकुक्षालवालोदरे मन्दस्यन्दिमरन्दपूरभरिते वातोत्थपु-
ष्पप्लवै. । खेलन्तो ललित मधोर्गुणगणान्यान्यन्ति पुंष्पधयाः
कान्तानामधरे धयन्ति मधुर मक्त मंधूलीरसम् ॥ ९७ ॥
आरूढो मलयानलद्विपवर युक्तो विलासानुगैः पीत.
पुष्यविलोचनैर्नवलतापौराङ्गनाना गणैः । अत्राम्यद्वनपत्तने
मधुमहीपालस्तत. कोकिलालीलालापमिलद्बमद्भ्रमरिकाभा-
ङ्कारभेरीरवै. ॥ ९८ ॥
वारस्त्रीव वनस्थली नवनवा शोभा
बभारान्वह पान्थान्पीडयति स्म तस्कर इव क्रूरैः शरैर्मन्मथः ।
शृङ्गार. सगुण क्षमापतिरिव प्राप्त. प्रतिष्ठा परा रात्रिः
स्वीकुरुते स्म मुग्धललनालेजेव कार्श्य क्रमात् ॥ ९९ ॥
साम्य सम्प्रति सेवते विचैकिल षाण्मासिकैर्मौक्तिकैर्बाहीकी
दशनव्रणारुणतरै. पञ्चैरशोकश्रितः । भृङ्गालङ्कितकोटि किशु-
कमिद किञ्चिद्विन्द्वन्तायते माञ्जिष्ठस्तबकैश्च पाटलितरोरन्यैव
कींचिल्लिपिः ॥ १०० ॥
गर्भग्रन्थिषु वीरुधा सुमनसो मध्ये-
ऽङ्कुर पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूक्ण्ठोदरे पञ्चम. ।
कि च त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रेर्मनोजन्यनो
देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्य धनु ॥ १०१ ॥


मदनपूजा

कुसुमसुकुमारमूर्त्तिर्दधती नियमेन तनुतरं मध्यम् ।
आभाति मकरकेतोः पार्श्वस्था चापयष्टिरिव ॥ १०२ ॥


पादटिप्पण्यः (Footnotes):

प्रथमस्तम्भः (Column 1):
१ अतिप्रियेण २ मृदुगुञ्जित ३ आम्रवृक्षे

द्वितीयस्तम्भः (Column 2):
१ प्रवालम् २ पल्लवै ३ आन्दोलित ४ आम्र ५ समूह
६ भ्रमरा ७ पिबन्ति ८ मकरन्दम् ९ मदनाख्यतरुकुसुमम्
१० रचना ११ लतानाम्

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह) · पृष्ठ 348, कुल 516 में से · BharatKosha