भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 347, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 347
३३२सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

हिमम् ॥ ३८ ॥ अभिनयान्यरचेतुमिवोद्यता मलयमारुत- कम्पितपल्लवा । अमदयन्महकारलता मनः सकलिका कलिका- भजितामपि ॥ ३९ ॥ नयगुणोपचितामिव भूपतेः सदु- पकारफलां श्रियमर्थिनः । अभियायुः सरसो मधुसभृतां कमलिनीमलिनीरपतत्रिणः ॥ ४० ॥ कुसुममेव न केवल- मार्तवं नवमशोकतरोः स्मरदीपनम् । किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥ ४१ ॥ विर- चिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः । मधु- लिहा मधुदानविशारदा कुरबका रवकारणतां ययुः ॥ ४२ ॥ सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमो- द्गमः । मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ॥ ४३ ॥ प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्ध- वधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ ४४ ॥ श्रुतिसुखभ्रमरस्वनगीतयः कुसुम- कोमलदन्तरुचो बभुः । उपवानन्तलताः पवनाहृतैः किसलयैः सलयैरिव पाणिभिः ॥ ४५ ॥ ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् । पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवजितम् ॥ ४६ ॥ शुशुभिरे स्मित- चारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः । विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ ४७ ॥ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदृश- मिससमागमनिवृतिं वनितयाऽनितया रजनीवधूः ॥ ४८ ॥ अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः । कुसुम- चापमतेजयदंशुभिर्हिमकरो मकरोजितकेतनम् ॥ ४९ ॥ हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् । युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥ ५० ॥ अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभि- रङ्कितः । न खलु शोभयति स्म वनस्थलीं न तिलकं तिलकः प्रमदामिव ॥ ५१ ॥ अमदयन्मधुगन्धसनाथा किसलयाधरसंततया मनः । कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ ५२ ॥ अरुणरागनिषेधिभि- रंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः । परभृताविरुतैश्च विला- सिनः स्मरबलैरबलैकरसाः कृताः ॥ ५३ ॥ उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी । सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ५४ ॥ ध्वजपटं मदनस्य धनुर्भृतश्छविकरं सुखचूर्णमृगुश्रियः । कुसुमकेसर- रेणुमणिप्रजा सपवनोपवनोत्थितमन्वयुः ॥ ५५ ॥ अनुभव- न्नवदोलमृतूत्सवं पदुरपि प्रियकण्ठजिघृक्षया । अनयदामन- रज्ज्वपरिग्रहे भुजलतां जलतामबलाजनः ॥५६॥ त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव | निवेदिते स्मरमते रमते स्म वधूजनः ॥ ५७ ॥ नवपलाश- पलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्त- लतान्तमलोकयत्त सुरभिं सुरभिं सुमनोभरैः ॥ ५८ ॥ विलुलितालकसंहतिरागमन्मृगदृशां श्रमवारि ललाटजम् । तनुतरङ्गततिः सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥ ५९ ॥ स्फुटमिवोज्ज्वलकाञ्चनकान्तिभिर्युतमशोक मशोभत चम्पकैः । विरहिणां हृदयस्य भिदाभृतः कणिशितं पिशितं मदनाग्निना ॥ ६० ॥ स्मरहुताशनसंसुरचूर्णतां दधुरिवाग्र- वणस्य रजःकणाः । निपतिताः परितः पथिकव्रजानुपरि ते परितपुस्तनुतो भृशम् ॥ ६१॥ रतिपतिप्रहितेव कृतक्रुधां प्रियतमेव वधूरनुनार्थिका । बकुलपुष्परसासवपेशलध्वनिरगान्नििरगा- न्मधुपावलिः ॥ ६२ ॥ प्रियसखीमदशः प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया । प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादु- रयाचितमङ्गनाः ॥ ६३ ॥ मधुकरैरपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव । कलतया वचसः परिवादिनीस्वर- जिता रजिता वशमाययुः ॥ ६४ ॥ समभिसृत्य रगादव- लम्बितं प्रमदया कुसुमावविचीषया । अवनमन्न रराज वृथोच्चकैरनृतया नृतया वनपादपः ॥ ६५॥ वदनसौरभलोभ- परिभ्रमद्भ्रमरसभृतसभृतशोभया । चलितया विदधे कल- मेखलाकलकलोऽलकलोलदृगान्नया ॥ ६६ ॥ कुसुमकार्मुक- कार्मुकसहितद्रुतशिलिमुखखण्डितविग्रहाः । मरणमप्यपराः प्रतिपेदिरे किमु सुहृत्सुसुहृद्गतभर्तृकाः ॥ ६७ ॥ मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकरराङ्ग- नया मुहुरुन्मदध्वनिभृता निभृताक्षरसुजगरे ॥६८॥ अरुणि- ताखिलशैलवना मुहुर्विदधती पथिकान्परितापिनः । विकच- किंशुकसंहतिरुच्चकैरुदवहद्दवहद्वह्व्यवहश्रियम् ॥ ६९ ॥ कम- लिनी मलिनी दयितं विना न सहते सह तेन निषेवितुम् । तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥७०॥ सुहृदस्तरुणीनखक्षतानां प्रतिपक्षाः पथिकाङ्गनाजना- नाम् । दहनद्युतिदस्यवः समन्ताद्विपिने किंशुककुङ्मला विरेजुः ॥ ७१ ॥ किंशुकक्षितिरुहा विलसन्तः कुङ्कमलाः कुटिलतां कलयन्तः । पान्थवारणविदारणताम्राः कामकेसरिनखा इव रेजुः ॥ ७२ ॥ प्रस्फुरत्प्रचुरबालपल्लवा वीरुधश्च तर- लाश्चकाशिरे । क्रीडिता इव कुसुमभवारिभिः काममित्रसमये समागते ॥७३॥ कूजितानि कल्यन्वनप्रियो न प्रियो विरहि- णामजायत । मन्मथाग्निरपि भस्मना दरं सादरं मुनिमनो- ऽम्बुजं व्यधात् ॥ ७४ ॥ बकुलकुलमिलन्मिलिन्दमालामद- कलकोकिलकूजितोदयेन । अहह नियमिनोऽपि तत्त्वचि- न्ताच्युतमतयो मतयोषितो बभूवुः ॥ ७५ ॥ कुसुमनग- वनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् । कण-


१ तुषाभि
२ पुष्पावचय कर्तुमीषितया

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह) · पृष्ठ 347, कुल 516 में से · BharatKosha