भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 33, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 33

१८ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम्


[वाम स्तम्भः]

रैनेत्रः केमलभवभवस्फारपृष्ठप्रतिष्ठो भास्वत्कालाग्निजिह्व पृथुलगलगुहादृष्टनिःशेषविश्वः । अद्भिः पुच्छोत्थिताभिश्चकितसुरवधुनेत्रसूचीभिराभिः सच्छिन्नान्धिर्बेलं गगनतलमलं क्षालयन्वः पुनातु ॥ १३ ॥ य दृष्ट्वा मीनरूप स्फुरदनलशिखायुक्तसरक्तनेत्रं लोलद्विस्तीर्णकर्णक्षुभितजलनिधिं नीलमूतवर्णम् । श्वासोच्छासानिलौधैः प्रचलितगगनं प्रीतवारि सुरारि दिङ्गूढोऽभूत्स शङ्खः स भवतु भवता भूतये मीनरूपः ॥ १४ ॥ दिङ्गूढ त सुरारि किल शितदशनैः पीड्यमान रटन्तं हत्वा तीरे पयोघेः करतलकलित पूरयामास शङ्खम् । नादेनाक्षोभ्य विश्व प्रमुदितविबुध त्रस्तदैत्य स देवैर्दत्तार्यः पद्मयोनेः प्रहसितवदनः पातु वो दत्तवेदः ॥१५॥

कूर्मः

निरवधि च निराश्रयं च यस्य स्थितमनिर्वर्तितकौतुकप्रपञ्चम् । प्रथम इह भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकवत्तिकन्दः ॥ १६ ॥ भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठकण्डूयनक्षणसुखायितगाढनिद्रः । सुष्वाप दीर्घतरघर्घरघोरघोषः श्वासाभिभूतजलधिः कमठः स वोऽव्यात् ॥ १७ ॥ नमस्कुर्मः कूर्मे नमदमरकोटीरनिकरप्रसृन्माणिक्यच्छविविलितमाञ्जिष्ठवपुषम् । जरीजूम्मड्डिम्भेर्युगैमिरमणीयाशुलहरीपरीरम्भस्फूर्जद्गलभिदेपैलाद्रिप्रतिमटम् ॥ १८ ॥ निष्प्रत्यूहमल्पकल्पचरितस्त्रैलोक्यरक्षागुरुः क्रीडाकूर्मकलेवरः स भगवान्दिश्यादमन्दा मुदम् । कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः सलिलतृष्ठे यस्य बभूव सैकतकणच्छाय धरित्रीतलम् ॥ १९ ॥ पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनैर्निद्रालोः कमठाकृतेर्भगवत श्वासानिला पान्तु वः । यैत्सत्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसा यातायातमत्तन्द्रित जलनिधेर्नाद्यापि विश्राम्यति ॥ २० ॥ दृष्ट्वा यस्य विलोकनाय जगतो द्रागीषदुत्तोलितग्रीवाग्रोपरि विस्फुरद्ग्रहगणे छात्राथिताया भुवि । हा धिग्भूः किमभूदभूत्कदितरत्किं चेति पर्याकुलो हन्याद्वेष हठादघानि कमठाधीशः कठोराणि वः ॥ २१ ॥ यो धत्ते शेषनागं तदनु वसुमतीं स्वर्गपातालयुक्तां युक्ता सर्वैः समुद्रैर्हिमगिरिकनकमस्थमुस्यैर्नगेन्द्रैः । एतद्ब्रह्माण्डमस्यामृतघटसदृश भाति वशे मुरारेः पायाद्वः कूर्मदेहः प्रकटितमहिमा माधवः कामरूपी ॥ २२ ॥

वराहः

नमस्तस्मै वराहाय हेलयोद्धरते महीम् । खुरमध्यगतो यस्य मेरुः खुरखुरयते ॥ २३ ॥ पातु वो मेदिनीदोला


[दक्षिण स्तम्भः]

बालेन्दुद्युतितस्करी । दंष्ट्रा महावराहस्य पात्यूलगृहदीपिका ॥ २४ ॥ हरेर्लीलावराहस्य दंष्ट्रादण्डः स पातु वः । हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौ ॥ २५ ॥ स जयति महावराहो जलनिधिजठरे चिर निमग्नोऽपि । येनाग्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥ २६ ॥ पातु वः कपटकोलकेशवो यस्य निःश्वसितमारुतोद्धता । उच्च्छितप्रपतनैरैचीकूपकेलिकेंदुकतुलामिला मुहु ॥ २७ ॥ मेरूरुकेसरमुदारदिगन्तपद्ममामूलबिम्बितशेपशरीरनालम् । येनोद्धृत कुवलय सलिलात्सलीलमुत्तसकार्थमिव पातु स वो वराह ॥ २८ ॥ न पङ्केरालेप कलयति धरित्रीव्ययभयान्न मुक्तामादत्तेऽप्युरगनगरअश्रभयतः । न धत्ते ब्रह्माण्डस्फुटनभयतो घर्घरखं महाक्रोडः पायादिति सकलसकोचितमुखः ॥ २९ ॥ न मृद्रीयान्मृद्वी कथमिव मही पोत्रनिकषैर्मुखाग्नज्वालाभिः कनकगिरिरीयान्न विलयम् । न शुष्येयुः श्वांसैः सलिलनिधयः सस च कथ वराहो यः पायादिति विपुलचिन्तापरिकरः ॥ ३० ॥ पातु त्रीणि जगन्ति संततमैंकुपातस्तमभ्युद्धरन्द्यात्रीं कोलकलेवरः स भगवद्वैकुण्ठदंष्ट्राङ्कुरे । कूर्मः कॅन्दति नैलति द्विरसनः र्पन्नन्ति दिग्दन्तिनो मेरुः क्रोशति मेदिनी जैलजति व्योमापि रोलैम्बति ॥ ३१ ॥ पातु श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो देवो वः स जगत्लैतिर्मधुवधूवक्त्राब्जचन्द्रोदयः । क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म प्रलयान्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ ३२ ॥ दृप्यद्दैत्यनितम्बिनीजनमनःसंतोषसकोचनः कुर्याद्विश्वमनश्वर स भगवान् क्रोडावतारो हरिः । यद्दंष्ट्राङ्कुरैकटिकोटिरैर्रेंकुटीकोणान्तरस्थेयसी पृथ्वी भात्यैर्वदातकेतकदलालीनेव भृङ्गाङ्गना ॥ ३३ ॥ अर्था यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तः केसरजालमर्ककिरणा भृङ्गाः पयोदावली । नालं शेषमहोरगः प्रवितत् वारानिधेर्लीलया तद्द्वः पातु समुद्धरन्कुवलंयं क्रोडाकृतिः केशवः ॥ ३४॥ बिभ्राणोऽभिनवेन्दुकुंटिकुटिल दंष्ट्राङ्कुर लीलया क्रोडाकारधरो हरिः स भगवान्भूयाद्विभूतिप्रदः । यस्योत्क्षिप्तवतः


[पादटिप्पण्यः / Footnotes]

वामपादटिप्पणीदक्षिणपादटिप्पणी
१ गरिष्ठ१ वराह
२ ब्रह्मणो जातम्, ब्रह्माण्डमित्यर्थ२ अकरोत्
३ सबिस्मय दृष्टाभि३ यथा कन्दुक क्रीडया शिशुभिरुत्क्षिप्यतेऽपक्षिप्यते च, तथैव भूरपि श्वासवायुप्रेरितोध्र्वाध पतनेः कन्दुकतुला तुलयतीति भाव
४ व्याकुल४ यद्यह धरित्र्यां समुद्रे पङ्के लुंठियामि तदेय भूर्भ्रदपुष्येव विलय यास्यतीति विचार्य
५ तीक्ष्णदन्तै५ समुद्रात्
६ वादयामास६ कन्द इवाचरति
७ अवस्थानम्७ नालमिवाचरति
८ मुकुट८ पत्राणीवाचरन्ति
९ लोहितम्९ कोरक इवाचरन्ति
१० अतिशयेन विकसन्१० कमलमिवाचरति
११ तरुण११ भ्रमर इवाचरति
१२ सूर्य१२ यथा चन्द्रोदयेऽब्जानि संकोचमाप्नुवन्ति तथा हररुदयान्मधुवधूवक्राम्भोरुहानि नि श्रीकाण्यभवन्निति भाव
१३ इन्द्रनीलपर्वतसदृशम्१३ अग्रम्
१४ आकुञ्चनप्रसारणादि१४ निःक्षुब्धभवनम्
१५ पृष्ठ इति शेष१५ उज्ज्वलम्
१६ तदुपरि१६ पृथ्वीमण्डलम्; पक्षे, नलिनम्.
१७ पृष्ठवंशे.
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह) · पृष्ठ 33, कुल 516 में से · BharatKosha