सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
१८ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम्
[वाम स्तम्भः]
रैनेत्रः केमलभवभवस्फारपृष्ठप्रतिष्ठो भास्वत्कालाग्निजिह्व पृथुलगलगुहादृष्टनिःशेषविश्वः । अद्भिः पुच्छोत्थिताभिश्चकितसुरवधुनेत्रसूचीभिराभिः सच्छिन्नान्धिर्बेलं गगनतलमलं क्षालयन्वः पुनातु ॥ १३ ॥ य दृष्ट्वा मीनरूप स्फुरदनलशिखायुक्तसरक्तनेत्रं लोलद्विस्तीर्णकर्णक्षुभितजलनिधिं नीलमूतवर्णम् । श्वासोच्छासानिलौधैः प्रचलितगगनं प्रीतवारि सुरारि दिङ्गूढोऽभूत्स शङ्खः स भवतु भवता भूतये मीनरूपः ॥ १४ ॥ दिङ्गूढ त सुरारि किल शितदशनैः पीड्यमान रटन्तं हत्वा तीरे पयोघेः करतलकलित पूरयामास शङ्खम् । नादेनाक्षोभ्य विश्व प्रमुदितविबुध त्रस्तदैत्य स देवैर्दत्तार्यः पद्मयोनेः प्रहसितवदनः पातु वो दत्तवेदः ॥१५॥
कूर्मः
निरवधि च निराश्रयं च यस्य स्थितमनिर्वर्तितकौतुकप्रपञ्चम् । प्रथम इह भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकवत्तिकन्दः ॥ १६ ॥ भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठकण्डूयनक्षणसुखायितगाढनिद्रः । सुष्वाप दीर्घतरघर्घरघोरघोषः श्वासाभिभूतजलधिः कमठः स वोऽव्यात् ॥ १७ ॥ नमस्कुर्मः कूर्मे नमदमरकोटीरनिकरप्रसृन्माणिक्यच्छविविलितमाञ्जिष्ठवपुषम् । जरीजूम्मड्डिम्भेर्युगैमिरमणीयाशुलहरीपरीरम्भस्फूर्जद्गलभिदेपैलाद्रिप्रतिमटम् ॥ १८ ॥ निष्प्रत्यूहमल्पकल्पचरितस्त्रैलोक्यरक्षागुरुः क्रीडाकूर्मकलेवरः स भगवान्दिश्यादमन्दा मुदम् । कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः सलिलतृष्ठे यस्य बभूव सैकतकणच्छाय धरित्रीतलम् ॥ १९ ॥ पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनैर्निद्रालोः कमठाकृतेर्भगवत श्वासानिला पान्तु वः । यैत्सत्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसा यातायातमत्तन्द्रित जलनिधेर्नाद्यापि विश्राम्यति ॥ २० ॥ दृष्ट्वा यस्य विलोकनाय जगतो द्रागीषदुत्तोलितग्रीवाग्रोपरि विस्फुरद्ग्रहगणे छात्राथिताया भुवि । हा धिग्भूः किमभूदभूत्कदितरत्किं चेति पर्याकुलो हन्याद्वेष हठादघानि कमठाधीशः कठोराणि वः ॥ २१ ॥ यो धत्ते शेषनागं तदनु वसुमतीं स्वर्गपातालयुक्तां युक्ता सर्वैः समुद्रैर्हिमगिरिकनकमस्थमुस्यैर्नगेन्द्रैः । एतद्ब्रह्माण्डमस्यामृतघटसदृश भाति वशे मुरारेः पायाद्वः कूर्मदेहः प्रकटितमहिमा माधवः कामरूपी ॥ २२ ॥
वराहः
नमस्तस्मै वराहाय हेलयोद्धरते महीम् । खुरमध्यगतो यस्य मेरुः खुरखुरयते ॥ २३ ॥ पातु वो मेदिनीदोला
[दक्षिण स्तम्भः]
बालेन्दुद्युतितस्करी । दंष्ट्रा महावराहस्य पात्यूलगृहदीपिका ॥ २४ ॥ हरेर्लीलावराहस्य दंष्ट्रादण्डः स पातु वः । हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौ ॥ २५ ॥ स जयति महावराहो जलनिधिजठरे चिर निमग्नोऽपि । येनाग्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥ २६ ॥ पातु वः कपटकोलकेशवो यस्य निःश्वसितमारुतोद्धता । उच्च्छितप्रपतनैरैचीकूपकेलिकेंदुकतुलामिला मुहु ॥ २७ ॥ मेरूरुकेसरमुदारदिगन्तपद्ममामूलबिम्बितशेपशरीरनालम् । येनोद्धृत कुवलय सलिलात्सलीलमुत्तसकार्थमिव पातु स वो वराह ॥ २८ ॥ न पङ्केरालेप कलयति धरित्रीव्ययभयान्न मुक्तामादत्तेऽप्युरगनगरअश्रभयतः । न धत्ते ब्रह्माण्डस्फुटनभयतो घर्घरखं महाक्रोडः पायादिति सकलसकोचितमुखः ॥ २९ ॥ न मृद्रीयान्मृद्वी कथमिव मही पोत्रनिकषैर्मुखाग्नज्वालाभिः कनकगिरिरीयान्न विलयम् । न शुष्येयुः श्वांसैः सलिलनिधयः सस च कथ वराहो यः पायादिति विपुलचिन्तापरिकरः ॥ ३० ॥ पातु त्रीणि जगन्ति संततमैंकुपातस्तमभ्युद्धरन्द्यात्रीं कोलकलेवरः स भगवद्वैकुण्ठदंष्ट्राङ्कुरे । कूर्मः कॅन्दति नैलति द्विरसनः र्पन्नन्ति दिग्दन्तिनो मेरुः क्रोशति मेदिनी जैलजति व्योमापि रोलैम्बति ॥ ३१ ॥ पातु श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो देवो वः स जगत्लैतिर्मधुवधूवक्त्राब्जचन्द्रोदयः । क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म प्रलयान्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ ३२ ॥ दृप्यद्दैत्यनितम्बिनीजनमनःसंतोषसकोचनः कुर्याद्विश्वमनश्वर स भगवान् क्रोडावतारो हरिः । यद्दंष्ट्राङ्कुरैकटिकोटिरैर्रेंकुटीकोणान्तरस्थेयसी पृथ्वी भात्यैर्वदातकेतकदलालीनेव भृङ्गाङ्गना ॥ ३३ ॥ अर्था यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तः केसरजालमर्ककिरणा भृङ्गाः पयोदावली । नालं शेषमहोरगः प्रवितत् वारानिधेर्लीलया तद्द्वः पातु समुद्धरन्कुवलंयं क्रोडाकृतिः केशवः ॥ ३४॥ बिभ्राणोऽभिनवेन्दुकुंटिकुटिल दंष्ट्राङ्कुर लीलया क्रोडाकारधरो हरिः स भगवान्भूयाद्विभूतिप्रदः । यस्योत्क्षिप्तवतः
[पादटिप्पण्यः / Footnotes]
| वामपादटिप्पणी | दक्षिणपादटिप्पणी |

| १ गरिष्ठ | १ वराह |
| २ ब्रह्मणो जातम्, ब्रह्माण्डमित्यर्थ | २ अकरोत् |
| ३ सबिस्मय दृष्टाभि | ३ यथा कन्दुक क्रीडया शिशुभिरुत्क्षिप्यतेऽपक्षिप्यते च, तथैव भूरपि श्वासवायुप्रेरितोध्र्वाध पतनेः कन्दुकतुला तुलयतीति भाव |
| ४ व्याकुल | ४ यद्यह धरित्र्यां समुद्रे पङ्के लुंठियामि तदेय भूर्भ्रदपुष्येव विलय यास्यतीति विचार्य |
| ५ तीक्ष्णदन्तै | ५ समुद्रात् |
| ६ वादयामास | ६ कन्द इवाचरति |
| ७ अवस्थानम् | ७ नालमिवाचरति |
| ८ मुकुट | ८ पत्राणीवाचरन्ति |
| ९ लोहितम् | ९ कोरक इवाचरन्ति |
| १० अतिशयेन विकसन् | १० कमलमिवाचरति |
| ११ तरुण | ११ भ्रमर इवाचरति |
| १२ सूर्य | १२ यथा चन्द्रोदयेऽब्जानि संकोचमाप्नुवन्ति तथा हररुदयान्मधुवधूवक्राम्भोरुहानि नि श्रीकाण्यभवन्निति भाव |
| १३ इन्द्रनीलपर्वतसदृशम् | १३ अग्रम् |
| १४ आकुञ्चनप्रसारणादि | १४ निःक्षुब्धभवनम् |
| १५ पृष्ठ इति शेष | १५ उज्ज्वलम् |
| १६ तदुपरि | १६ पृथ्वीमण्डलम्; पक्षे, नलिनम्. |
| १७ पृष्ठवंशे. |
दशावताराः १९
| क्षमाकमलिनीमालम्बमानः क्षण लोलद्बालमृणालनालतुलना
मेजे भुजङ्गेश्वरः ॥ ३५ ॥ मुक्तेर्यास्यति कुत्रचिद्वसुमती
दष्ट्राङ्कुरस्थेयसी कुक्षौ क्षोभमवाप्स्यति त्रिभुवनं रुद्धैरमीभिः
क्रमात् । इत्यस्वल्पविकल्पमीलितमतेः कण्ठे लुठन्तो मुहुः
क्रोडाकारधरस्य कैटभजितः श्वासानिलाः पान्तु वः ॥ ३६ ॥
भूयादेष सता हिताय भगवान्कोलावतारो हरिः सिन्धोः
क्लेशमपास्य यस्य दशनप्रान्ते नटन्त्या भुवः । तारा हारति
वारिदस्तिलकति क्ष्मावाहिनी माल्यति क्रीडादर्पणति क्षपा-
पतिरहर्देवश्च ताटङ्कति ॥ ३७ ॥ लीने श्रोत्रैकदेशे नभसि
नयनयोस्तेजसि क्वापि नष्टे श्वासग्रासोपमुक्ते मरुति जल-
निधौ पादरन्ध्रार्धपीते । पोत्रेभ्रान्तैकरोमान्तरविवरगता
मार्गतश्चक्रपाणे. क्रोडाकारस्य पृथ्वीमकलितविभवं वैभवं वः
पुनातु ॥ ३८ ॥ सिन्धुष्वङ्गावगाहः खुरविवरविशत्तुच्छ-
तोयेषु नाशः प्राप्ताः पातालपङ्के न लुटितरुचयः पोत्रमात्रोप-
योगात् । दष्ट्राविष्टेषु नास. शिखरिषु च पुनः स्कन्धकण्डू-
विनोदो येनोद्धारे धरित्र्याः स जयति विभुताविभ्रितेच्छो
वराहः ॥ ३९ ॥ केदानीं दर्पितास्ते धनमदमदिरामोदिनो
दिग्द्विपेन्द्रा हे मेरो मन्दराद्रे मलय हिमगिरे साधु वः
क्षमाधरत्वम् । शेष श्लाघ्योऽसि दीर्घैः पृथुभुवनभरोच्चण्ड-
शौण्डैः शिरोभिः शसन्सोत्प्रासमुपैरिति धरणिभृतः पातु
युष्मान्वराह. ॥ ४० ॥
नृसिंहः
सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये । नमस्त्रिभुवने-
शाय हरये सिंहरूपिणे ॥ ४१ ॥ शत्रोः प्राणानिलाः
पञ्च वयं दश जयोऽत्र कः । इति कोपादिवाताम्राः
पान्तु वो नृहरेर्नखाः ॥ ४२ ॥ प्रोज्ज्वलज्ज्वलनज्वालावि-
तोरुसटाच्छटः । श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी
॥ ४३ ॥ व्याधूतकसरसटाविकरा लवक्त्रं हस्ताग्रविस्फुरितश-
ङ्गगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारा-
यण तमपि विश्वसृज नमामि ॥ ४४ ॥ दैत्यास्थिपञ्जरवि-
दारणलब्धरन्ध्ररक्ताम्बुनिर्जरसरिद्वनजातपङ्काः । बालेन्दु-
कोटिकुटिलाः शुकचक्षुभासा रक्षन्तु सिंहवपुषो नखरा
हरेर्वः ॥ ४५ ॥ दिश्यात्सुख नरहरिर्मुवनैकवीरो यस्याहवे
दितिसुतोद्दलनेद्यतस । क्रोधोद्धत मुखमवेक्षितुमक्षमत्व
जानेऽभवन्निजमुखेष्वपि यन्नतास्ते ॥ ४६ ॥ वपुर्दैर्लेनसञ्चै-
मात्खनखरं प्रविष्टे रिपौ क्व यात इति विस्मयात्प्रहित-
लोचनः सर्वत. । वृथेति करताडनान्निपतितं पुरो दानव
निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः ॥ ४७ ॥
चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते धगद्धगिति | मेदसि स्फुटरवोऽस्थिनि छागिति । पुनातु भवतो हरेरमर-
वैरिवक्षःस्थलङ्कणत्करंजपञ्जरक्रकचकाषजन्मानलः ॥ ४८ ॥
ससत्वरमितस्ततस्ततैर्विहस्तहस्ताटवीनिकृत्तसुरशत्रुहृत्क्षतज-
सिक्तवक्षःस्थलः । स्फुरद्गरभस्तिभिः स्र्थगितसँससतिद्युति
समस्तनिर्गमस्तुतो नृहरिरस्तु नः स्वस्तये ॥ ४९ ॥ चञ्च-
च्चण्डनखाय्रमर्दविगलद्दैत्येन्द्रवक्षःक्षरद्रक्तौघ्यक्तसुपाटलोद्गट-
सटासभ्रान्तभीमाननः । तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्ग-
खर्वीभवद्विष्मात्तङ्कनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः
॥ ५० ॥ दंष्ट्रासङ्कटैवक्रकन्दरललज्जिह्वस्य हव्याननज्वाला-
भासुरभूरिकेसरसटाभारस्य दैत्यद्रुहः । व्यावलगद्वलवद्विरण्य-
कशिपुक्रोडैक्षैलास्फालनस्फारप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः
पान्तु वः ॥ ५१ ॥ सोमार्धायितनिष्पिधानदशनः सध्द्या-
यितान्तर्मुखो बालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः ।
अन्तर्नादतिरोघपीवरगलखैकैपुनिर्यत्तडित्कारस्फारसटावरुद्ध-
गगनः पायान्नृसिंहः स वः ॥ ५२ ॥ विद्युच्चक्रकरालकेसर-
सटाभारस्य दैत्यद्रुहः शोणन्नेत्रहुताशडम्बरभृतः सिंहाकृतेः
शार्ङ्गिणः । विस्फूर्जद्गलगर्जितर्जितककुम्मातङ्गदर्पोदयः
संरम्भाः सुखयन्तु वः खरनखक्षुण्णद्विषद्वक्षसः ॥ ५३ ॥
दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टामनि स्फारीभूत-
करालकेसरसटासघातघोराकृतेः । सक्रोधं च सवि-
स्मय च सगुरुक्रीड च सान्तःस्मितं क्रीडाकेसरिणो
हरेर्विजयते तत्कालमालोकितम् ॥ ५४ ॥ किं ^(१५)किं ^(१६)सिंह-
स्ततः किं नरसदशवपुर्देव चित्र गृहीतो नैतादृक्कापि
जीवोऽद्भुतमुपनय मे देव सप्ताप्त एषः । चाप चापं न
चापित्यहहहहहहा कर्कशत्वं नखानामित्थं दैत्येन्द्रवक्षः-
खरनखमुखरैर्लभिवान्यः स वोऽव्यात् ॥ ५५ ॥ भूयः कण्ठा-
वधूतिव्यतिकरतरलोत्तंसैनेक्षत्रमालाबालेन्दुक्षुद्रघण्टारणित-
दशदिशादन्तिचीत्कारकारी । अव्याद्धो दैत्यराजप्रथमयम-
पुरीयानघण्टानिनादो नादो दिग्भित्तिभेदप्रसरसरभसः कूट-
कण्ठीरवस्य ॥ ५६ ॥ अन्तःक्रोधोजिर्हानज्वलनभवशिखाकार-
जिह्नावलीढप्रौढब्रह्माण्डभाण्डः पृथुभुवनगुहागर्भसम्मरि-
नादः । दृप्यत्पौरीन्द्रमूर्तिमुरजिदवतु वः सुप्रभातण्डलीभिः
कुर्वन्निधूंमधूमध्वजनिचितमिव व्योम रोमह्रटतानाम्
॥ ५७ ॥ पायान्मायामृगेन्द्रो जगदखिलमसौ यत्तनूदर्चि- |
पाद-टिप्पण्यः (Footnotes)
वामभाग-टिप्पणी: १ वराहमुखाने २ विदारणम् ३ भयात्
दक्षिणभाग-टिप्पणी: १ नखा २ करपत्रकम् ३ विस्तीर्णौ ४ व्याकुलौ ५ रुधिरम्. ६ आच्छादिता ७ सूर्य ८ वेद ९ विदारणम् १० सिक्ताः ११ संकीर्ण १२ उत्सङ्गस्थैलम् १३ रोमकूपा- १४ रक्तौभवन्- १५ हिरण्यकशिपोरस्तदनुचरस्य चोक्तिप्रत्युक्तय - १६ किं भयमित्यर्थे १७ उच्चै स्थायिनी १८ उत्पद्यमान . १९ सिंह २० अग्नि २१ व्याप्तम्
२० सुभाषितरत्नभाण्डागारम् [१ प्रकरणम्
र्चिर्ज्वालाजालावलीढं बत भुवि सकल व्याकुलं किं न भूयात् । न स्याच्चेदाशु तस्याधिकविकटसटाकोटिभिः पात्यमानादिन्दोरानन्दकन्दात्तदुपार तुहिनसारसंदोहवृष्टिः ॥ ५८ ॥ आदित्याः किं दशैते प्रलयभयकृत. स्वीकृता- काशदेशाः कि वोल्कामण्डलानि त्रिभुवनदहनोद्योतनानीति भीतः। पायात्सुनारसिंह वपुरमरगणैर्विभ्रतः शार्ङ्गपाणेर्दंष्ट्रा दंष्ट्रासुरोरःस्थलदरणगलद्रक्तरक्ता नखा वः ॥ ५९ ॥
वामनः
अव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता । कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ॥ ६० ॥ अङ्घ्रिदण्डो हरेरूर्ध्वमुत्क्षिप्तो बलिनिग्रहे । विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु नः ॥ ६१ ॥ खर्वग्रन्थिविमुक्तसंधि विलसद्वक्षःस्फुरत्कौस्तुभ निर्यन्नाभिसरोजकुड्मलपुटीगम्भी- ३रसामध्वनि। पात्रावासिसमुत्सुकेन बलिना सानन्दमालो- कितं पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः ॥ ६२ ॥ हस्ते शङ्खकिणाङ्कितोऽरुणविभाकिर्मीरतोरःस्थलो नाभिप्रे- ४ङ्खद्दलिर्विलोचनयुगप्रोग्दूतशीतातपः । बाहूर्भिमिश्रितवहिरेश तदिति व्याक्षिप्य वाक्यं कवेस्तारैरध्ययनैर्हरन्बलिमनः पायाज्जगद्वामनः ॥ ६३ ॥ स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयता मेदिनी का मात्रा मम विक्रमत्रयपदं दत्तं जलं दीयताम् । मा देहीत्युशनाब्रवीद्धरिरयं पात्र किमक्ष्मात्परं चेत्येव बलिनार्चितो मखमुखे पायात्स वो वामनः॥ ६४ ॥ स्वामी सन्भुवनत्रयस्य विकृति नीतोऽसि किं याज्ञया यद्वा विश्वसृजा त्वयैव न कृत तन्नीयता ते कुतः। दान श्रेष्ठतमाय तुभ्यमतुल बन्धाय नो मुक्तये खिन्नो बलिना निरुत्तरतया हीतो हरिः पातु वः ॥ ६५ ॥ ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः क्षोणी- नौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः । ज्योतिश्चक्रां- क्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः श्रेयस्त्रैविक्रमैस्ते वितरतु विबुधद्वेषिणा कालदण्डः ॥ ६६ ॥ यक्षादा- क्रामतो या गैरैडमणिशिलाकेतुदण्डायमानादौश्च्योतन्त्या- बभासे सुरसरिदमला वैर्जयन्तीव कान्ता । भूमिष्ठो यस्त- थान्यौ भुवनगृहमहास्तम्भशोभा दधानः पातामेतौ पैंयो- जोदरललिततलौ पङ्कजाक्षस्य पादौ ॥ ६७ ॥ कस्त्वं ब्रह्म- न्नपूर्वः क्व च तव वसतिर्याऽखिला ब्रह्मसृष्टिः कस्ते नाथो ह्यनाथः क्व च तव जनको नैव तातं स्मरामि । किं ते- ऽभीष्टं ददामि त्रिपदपरिमित भूमिपरूपं किमेतस्त्रैलोक्यं भाव- गर्भ बलिमदमवदद्दामनो वः स पायात् ॥ ६८ ॥
परशुरामः
कुलाचला यस्य मही द्विजेभ्यः प्रयच्छतः सीमैद्वपस्त्व- मापुः । बभूवुरुत्सर्गजलं समुद्राः स रैणुकेयः श्रियमात- नोतु ॥ ६९ ॥ किं दोर्म्या किमु कौर्मुकोपनिषदा भैर्गप्रसादेन किं कि वेदाधिगमेन भास्वति भृगोर्वंशे च किं जन्मना । किं वानेन ममाद्भुतेन तपसा पीडा कृता- न्तोऽपि चेत्त्रिप्रियाणा कुरुतेऽन्तरित्यनुशयो रामस्य पुष्णातु वः ॥ ७० ॥ नाशिष्यः किमभूद्भवः किमभवन्नापुत्रिणी रेणुका नाभूद्विश्शमकार्मुक किमिति वः प्रीणातु रामत्रपा । विप्राणा प्रतिमन्दिर मणिगणोन्मिश्राणि दण्डाहतेनाब्धीना स मया यमोऽपि महिषेणाम्भासि नोद्गाहितः ॥ ७१ ॥ पायाद्बो जमदग्निवंशतिलको वीरव्रतालंकृतो रामो नाम मुनीश्वरो नृपववे भास्वत्कुठारायुधः । येनाशेषहृताहितान्र्ङ्गरुधिरैः सत- र्पिताः पूर्वजा भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तींकारी- कृता ॥ ७२ ॥ द्वारे कल्पतरुं गृहे सुरगवी चिन्तामणीनङ्गदे पीयूष सरसीषु विप्रवदने विद्याश्चतस्रो दश । एवं कर्तुमयं तपस्यति भृगोर्वशावतसो मुनिः पायाद्वोऽखिलराजकक्ष्य- करो भूदेवभूषामणिः ॥ ७३ ॥ नो सध्या समुपासते यदि तदा लोकापवादाद्भय सा चेत्स्वीक्रियते भविष्यति तदा रौजन्यबीजे नति.। इत्थं चिन्तयतश्चिर भृगुपतेर्निःश्वास- कोष्णीकृतो नेत्रान्तःप्रतिबिम्बशोणसलिलः संध्याञ्जलिः पातु वः ॥ ७४ ॥
रामचन्द्रः
वन्दामहे महेशानचण्डकोदण्डखण्डनम् । जानकी- हृदयानन्दचन्दनं रघुनन्दनम् ॥ ७५ ॥ नमो राम- पदाम्भोज रेणवो यत्र सततम् । कुर्वन्ति कुमुदप्रीतिमरण्य- गृहमेधिनः ॥ ७६ ॥ खर्वैणाजिनशयनों योजितनयनो
१ बन्धने २ आसनम् ३ ब्रह्मण सामवेदध्वनी ४ यतो हरेर्भगवतो हृदये कौस्तुभमणिलोंहितच्छविरस्ति, अतस्तत्प्रभाभि कर्बुरितत्व वक्ष स्थलस्यापीति भाव ५ यतो हरेर्नाभौ कमल वर्तते, अतस्तत्र तन्कुरभिगन्धलोलुपतया भ्रमरागमन घटत एवेति भाव ६ लहरी ७ शुक्रस्य ८ ब्रह्मा ९ गुणवृक्ष १० नाभिक्षेप्यदारुदण्ड ११ त्रिषु लोकेषु पादन्यासो यस्य तस्य १२ मरकतमणिनिर्मितध्वजदण्डायमानातू १३ क्षरन्ती १४ पातका १५ आरक्ततलाविति भाव
१ यदा ब्राह्मणेभ्यो भूर्दत्ता, तदा तेषां स्वस्वभूमिसामार्थं कुलपर्वता एवासन्निति भाव २ यदा याचकेभ्यो दान दीयते, तदा दानात्प्राग्दातृभिरुत्सर्गजलं दीयते अतस्तेनैतावद्दान दत्तं येन समुद्रा उत्सर्गजलतयाभूवन्निति भाव ३ धनुर्वेदविद्याशान्तरहस्येन- ४ यतो महतामनुग्रहस्तदा सफल स्यात्, यद्युपकार कस्यचित्कर्तु शक्येत, परं मया तत्पीडापि निवारिता न भवति, अत शंभुप्रसादेन किमित्यर्थं ५ यतस्तत्प्रसादात्साध्यमपि साध्यते पर यदि मया तत्कृत्यं नासाधि, तदानेन तपसा किमिति भाव . ६ शत्रव ७ ब्राह्मणेभ्यो देयत्वेन विहितेत्यर्थ 'ग्रासप्रमाणे भिक्षा स्यादग्र ग्रासचतुष्टयम् । अग्र चतुर्गुण प्राहुर्हन्तकार द्विजोत्तमा ॥' इत्युक्तत्वात्. ८ सूर्ये
| दशावतारः | २१ |

दशास्यद्दिग्भागे । मुहुखलोकितचापः कोऽपि दुगप. स नीलिमा शरणम् ॥ ७७ ॥ अविपञ्चवटीकुटीगवर्तिम्फुटितेन्दीवरसुन्दरोरुमूर्तिः । अपि लक्ष्मणलोचनैकसख्य भजत ब्रह्म सरोरुहायताक्षम् ॥ ७८ ॥ कनकनिकषभामा सीतयालिङ्गिताङ्गो नवकुवलयद्दामश्यामवर्णाभिरामः । अभिनव इव विद्युन्मण्डितो मेघखण्डः शमयतु मम ताप सर्वतो रामचन्द्रः ॥ ७९ ॥ परिणयविधौ भक्त्वा नद्ध्रिषो धनुग्ग्रतो जनकसुतया दत्ता कण्ठे स्रज हृदि धारयन् । कुसुमधनुषा पाशेनैव प्रसह्य वशीकृतोऽवनतवदनो रामः पायात्रपायिनयान्वितः ॥ ८० ॥ उत्फुल्लामलकोमलोत्पलदलश्यामाय रामामने.कामाय प्रथमाननिर्मलगुणग्र्रामाय रामात्मने । योगारूढमुनीन्द्रमानसमसरोहमाय ससारविध्वसाय स्फुरदोजसे रघुकुलोत्तसाय पुसे नमः ॥ ८१ ॥ यो रामो निजघान वक्षसि रणे त रावण सायकैर्हृद्यस प्रतिवासर वसति सो तस्या ह्यय राघवः । यस्यास्ते भुवनावली परिवृता द्वीपैः सम सप्तभिः स श्रेयो विदधातु नस्त्रिभुवनत्राणैकचिन्तापर ॥ ८२ ॥ राज्य येन पटान्तलभतृणवत्त्यक्त गुरोराज्ञया पाथेय परिगृह्य कार्मुकवर घोर वन प्रस्थित. । स्वाधीनः शशिमौलिशापविपये प्राप्तो न वै विक्रिया पायाद्ध. स बिभीषणाग्रजनेहा। रामाभिधानो हरि. ॥ ८३ ॥ कारुण्यामृतनीग्माश्रितजनश्रीचातकानन्दद शाङ्गाखण्डलचापमम्बुजमवादीन्द्रादिवर्हाइदम् । चारुस्मेरमुखोल्लसजनकजासौदामिनीशोभितं श्रीरामम्बुदमाश्रयेऽखिलजगत्ससारतापपहम् ॥ ८४ ॥ कूर्भो मूलवदालवालवदपाराशिलंतावदिशो मेघाः पल्लववत्सूनफलवन्नक्षत्रसूर्यन्दवः । स्वामिन्व्योमतरुः क्रमे मम कियाञ्छुत्वेति गां मारुतेः सीतानवेषणमादिशन्दिशतु वो राम सलज्ज. श्रियम् ॥ ८५ ॥ एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिदो वैदेहीकुचकुम्भकुङ्कुमरजःसान्द्रेरुणाङ्काङ्कितौ । लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपतेः श्रेयासि भूयांसि वः ॥ ८६ ॥ वालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता ताते काननसेबनावधि कृपा सुग्रीवसख्यावधि । आज्ञा वारिधिबन्धनावधि यशो लङ्केशनाशावधि श्रीरामस्य पुनातु लोकवशता जानक्यपेक्षावधि ॥ ८७ ॥ कल्याणाना निधान कलिमलमथनं पावन पावनाना पाथेयं यन्मुमुक्षो. सपदि परपदप्राप्तये प्रस्थितस्य । विश्रामस्थानमेक कविवरवचसां जीवन मज्जनाना बीज धर्मद्रुमस्य प्रभवतु भवता भूतये रामनाम ॥ ८८ ॥
कल्याणील्लाससीमा कलयतु कुशल कालमेघाभिग्रामा काचित्माकेतधामा भवगहनगतिकान्तिहारिप्रणामा । सौन्दर्यहीणकामा धृतजनकसुतामादरापाङ्गनामा दिक्षु प्रख्यातभूमा दिविपदभिनुता देवता रामनामा ॥ ८९ ॥ योऽद्धा योद्धावधीन्नान्मपदि पेलभुज. सर्पराये परा ये येनांयेनाश्रिताना स्तुतिरवनमितेशानचापेन चाँपे । लङ्काल्कारहर्ता ककुभि ककुभि यः कान्तया सीतयासीर्द्नो दूनोऽथ हृष्ट. स विभुरवतु वः स्वंःसभार्यः सभार्य ॥ ९० ॥ ऋक्षणा भूरिधाम्ना श्रितमविपतिना प्रस्फुरद्भीमर्तार स्फार नेत्राँनलेन प्रशमनयमितोचैँपमीनध्वजेन । रँमॉर्म्यँत्तं पुरारेर्जुमुंदशुचि लसँन्नीलसुग्रीवमङ्ग प्रावङ्ग वापि मैन्य दैर्शवदनशिरश्छेदहेतु श्रियेऽस्तु ॥ ९१ ॥ यस्तीर्थानामुपस्त्या गलितमलभर मन्यते स्म स्वमेव नाज्ञासीज्जाझिरे यन्मम चरणरज पादपूतान्यमूनि । पादस्पर्शन कुर्वञ्झटिति विघटितग्रावभावामहल्या कौसल्यासूनुरून व्यपनयतु स वः श्रेयसा च श्रिया च ॥ ९२ ॥
सीता
उन्मृष्ट कुचसीम्न्नि पत्रमकर दृष्ट्वा हठाल्लिङ्गनात्कोपो मास्तु पुनर्खिखाम्यमुमिति स्मेरे रघूणा वरे । कोपेनारुणितोऽश्रुपातदलितः प्रेम्णा च विस्तारितो दत्तो मैथिलकन्यया दिशतु न. क्षेम कटाक्षाङ्कुर ॥ ९३ ॥
हनूमान्
अशोपलङ्कापनिसैन्यहन्ता श्रीगममेवाच नैक्रकर्ता । अनेकदु खाहुतलोकगोप्ता त्वमौ हनूमास्तव सौम्यकर्ता ॥ ९४ ॥ कृतक्रोवे यस्मिन्नमरनगरी मङ्गलग्ना नेवातङ्का लङ्का समजनि वन वृश्चति सति । सदा सीताकान्तप्रणतिमतिविख्यातमहिमा हनूमानव्याद्वः कपिकुलशिरोमण्डनमणिः ॥ ९५ ॥
रामकृष्णौ
त्रातः कींकोदरो येन द्रोग्धापि करुणात्मना । पूतैनामारणख्याततः स मेऽस्तु शरणं प्रभुः ॥ ९६ ॥
१ समूह २ सीता. ३ विभीषणस्याग्रजन्मा रावणस्त हन्तीति स ४ वाचम्
१ निश्चितम् २ राक्षसान् ३ युद्धे ४ शत्रव ५ भाग्येन ६ प्राप्ता ७ विरहित ८ दु स्थितमनाः. ९ देवसभास्वामी १० ऋक्षाणां भल्लूकाना मधिपतिना जाम्बवता, पक्षे,-नक्षत्राणामधिपतिना चन्द्रेण ११ भीमस्तारो वानरविशेष, पक्षे,-भीमा तारा नेत्रकनीनिका १२ नेत्रा नायकेन नलेन नलनाम्ना वानरेण, पक्षे,-नेत्रानलेन तृतीयनेत्राग्निना १३ उच्चा आपो यस्मिन्स उच्चापो मीनध्वज समुद्र, पक्षे,-उद्धतचापो मीनध्वज काम १४ रामायत्त रामचन्द्राधीनम्, पक्षे,-रामाया पार्वत्या अधीनम् १५ कुमुदनाम्ना वानरेण शुचि, पक्षे,-कुमुदपुष्पवच्छुचि शुभ्रम् १६ नील सुग्रीवश्च वानरा, पक्षे,-नीला नीलवर्णा शोभना ग्रीवा १७ दशवदनशिरश्छेदहेस्त्विति सैन्यपक्षे स्फुटम्, अन्यत्र शिवप्रसादनार्थं रावणेनात्मन शिरांसि च्छिन्नानीति प्रसिद्धि १८ सेवनया १९ पद्ममकरम् २० नवभया २१ आदरो भयशून्य काक, पक्षे,-कालियसर्प २२ पूतनामा पवित्रनामा रणे ख्यातश्च, पक्षे,-पूतनाया राक्षस्या मारणेन ख्यात .
| २२ | सुभाषितरत्नभाण्डागारम् | [ १ प्रकरणम् |

मर्दितरावणकंसौ सरयूर्यमुनाविहारिणौ देवौ । अर्पितविप्र-कुमारौ हरिपति¹हरिकेतनप्रियौ वन्दे ॥ ९७ ॥ यः पूतना-मारणलब्धकीर्तिः² काकोदरो³ येन विनीतदर्पः । यशोदया-लंकृतमूर्ति⁴रव्यात्पतिर्यदूनामथवा रघूणाम् ॥ ९८ ॥
कृष्णः
इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् । वन्दारुजन-मन्दारं वन्देऽहं यदुनन्दनम् ॥ ९९ ॥ देवः पायादपायान्नस्सरेन्दीवरलोचनः । ससारध्वान्तविध्वंसहंसकंसनिषूदनः ॥ १०० ॥ पान्तु वो जलदश्यामाः शार्ङ्गश्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥ १०१ ॥ दर्पणा-र्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः ॥ १०२ ॥ हृदय कौस्तुभोद्भासि हरेः पुष्णातु व. श्रियम् । राधाप्रवेशरोधाय दत्तमद्रमिव श्रिया ॥ १०३ ॥ देहि मन्कन्दुकं राधे परिधाननिगूहितम् । इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः ॥ १०४ ॥ चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितम् । अव्याद्वो बाल-वेषस्य विष्णोर्गोपनतोर्वपुः ॥ १०५ ॥ मीमांसार्णवसोम लसदर्के तर्कपद्मस्य । वेदान्तविपिनसिंहं वन्दे गोविन्द-साभिधं ब्रह्म ॥ १०६ ॥ अवलोकितमनुमोदितमालिङ्गित-मङ्गनाभिरनुरागैः । अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः ॥ १०७ ॥ मकरीविरचनभङ्ग्या राधाकुचकलशपीडनव्य-सनी । ऋजुमपि रेखां लुम्पन्बल्लवचेपो हरिर्जयति ॥ १०८ ॥ कठिनतरदामवेष्टनलेखासदेहदायिनो यस्य । राजन्ति वलि-विभङ्गाः स पातु दामोदरो भवत. ॥ १०९ ॥ खिन्नोऽसि मुञ्च शैलं विभृमो वयमिति वदत्सु शिथिलभुजः । भरसुप्र-विनतबाहुषु गोपेषु हसन्हरिर्जयति ॥ ११० ॥ नीतं नवनीत कियदिति पृष्टो यशोदया कृष्ण. । इयदिति गुरुजनसंसदि करधृतराधापयोधरः पातु ॥ १११ ॥ राधामधुसूदनयोरनु-दिनमुपचीयमानस्य । प्रणयतरीरिव कुसुमं मिथोऽवलोक-स्मितं पायात् ॥ ११२ ॥ श्रुतिमपरे स्मृतिमपरे भारतमपरे भजन्तु भवभीताः । अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म ॥ ११३ ॥ तप्तं कैर्न तपोभि. फलितं तद्गोपबाला-नाम् । लोचनयुगले यासामञ्जनमासीन्निरञ्जनं ब्रह्म ॥ ११४ ॥ मदमयमदमयदुरगं यमुनामुवतीर्य वीर्यशाली यः । मम रतिममरतिरस्कृतिशमनपरः स क्रियात्कृष्णः ॥ ११५ ॥ स्तनधयन्तं जननीमुखाब्ज विलोक्य मन्दस्मितमुज्ज्वला-ङ्गम् । स्पृशन्तमन्यं स्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ॥ ११६ ॥ भुजप्रभादण्ड इवोर्ध्वगामी स पातु व. कसरिपोः कृपाणः । यः पाञ्चजन्यप्रतिबिम्बमङ्ग्या धारा-म्भसः फेनमिव व्यनक्ति ॥ ११७ ॥ विहाय पीयूषरस मुनीश्वरा समाधिराजीवस पिवन्ति किम् । इति स्वपादा-म्बुजपानकौतुकी स गोपवालः श्रियमातनोतु वः ॥ ११८ ॥ निलिख्य सत्याकुचकुम्भसीम्नि पत्रावलिन्यासमिषेण राधाम् । लीलारविन्देन तया सरोषं पायद्विटः कोऽप्यमिहन्यमान. ॥ ११९ ॥ स पातु वो यस्य हतावशेपास्तत्तुल्यवर्णाञ्जन-रञ्जितेषु । लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्ता-नयनोत्पलेषु ॥ १२० ॥ कुञ्चिताधरपुटेन पूरयन्वंशिकां प्रचलदङ्गुलिक्रम. मोहयन्निखिलवामलोचनाः पातु कोऽपि नवनीरदच्छविः ॥ १२१ ॥ अतसीकुसुमोपमेय कान्तिर्यमुना-तीरकदम्वमध्यवर्ती । नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गल व. ॥ १२२ ॥ गायन्तीना गोपसीमन्ति-नीना स्फीताकाङ्क्षामक्षिरोलम्बमालाम् । निश्चाञ्चल्यामात्म-वक्त्रारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः ॥ १२३ ॥ पुञ्जी-भूत प्रेम गोपाङ्गनाना मूर्तीभूत भाग्यधेय यदूनाम् । एकीभूत गुप्तवित्त श्रुतीना श्यामीभूत ब्रह्म मे सन्निध-त्ताम् ॥ १२४ ॥ आनन्दमादधतामायतलोचनानामालील-मावलितकधरमात्तवशम् । आपादमामुकुटमाकलितामृतौघ-माकारमाकलयतामुपमान्तर नः ॥ १२५ ॥ त्वा पातु नीलनलिनीदलदामकान्तेः कृष्णस्य पाणिसरसीरुहकोश-बन्धः । राधाकपोलमकरीलिखनेषु योऽद्य कर्णावतसकमल विपुलीचकार ॥ १२६ ॥ उत्फुल्लमानससरसीरुहचारुमध्य-निर्यन्मधुव्रतभरद्युतिहारिणीभिः । राधाविलोचनकटाक्षपर-म्पराभिर्दृष्टो हरिस्तव सुखानि तनोतु कामम् ॥ १२७ ॥ गोवर्धनोद्धरणहृष्टसमस्तगोपनानास्तुतिश्रवणलज्जितमानसस्य । स्मृत्वा वराहवपुरिन्दुकलाप्रकाशदष्ट्रोद्धतक्षिति हरेरवतु स्मित व ॥ १२८॥ अभिनवनवनीतप्रीतमाताम्रेनेत्र विकचनलिन-लक्ष्मीस्पर्धि सानन्दवक्त्रम् । हृदयभवनमध्ये योगिभिर्ध्यान-गम्य नवगगनतमालश्यामलं क्वचिदीडे ॥ १२९ ॥ अभि-नवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्ग मुरारेः । दिशतु भुवनकृच्छ्रोच्छेदितापिच्छगुच्छच्छवि नवशिखिपिच्छालाञ्छितं वाञ्छित व. ॥ १३० ॥ कनककल-शस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युति प्रति-विम्बिताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ्जयति जनितब्रीडाह्वासप्रियाहसितो हरि ॥ १३१ ॥
¹ अर्जुन
² पूतनाया मारणेन लब्धा कीर्तिर्येन, पक्षे,-विज्रनामा, रणे लब्धा कीर्तिश्च येन.
³ कालिय सर्प, पक्षे,-धृष्ट काक
⁴ यशोदया मात्रात्कृतो देहो यस्य, पक्षे,-यशमा दयया चालंकृतो देहो यस्य.
⁵ धारयाम्
¹ दन्तम्
दशावताराः २३
लैलितगमना नोर्या राजन्मनोजनितान्तभा सुरतिसदृशस्ताः सन्मुख्या भवानपि तनुवे । वनभुवमितो गेहादेको न गच्छतु मा विनेत्यसकृदुदितः पुत्र. पित्रा जयत्यनघो हरिः ॥ १३२ ॥ देवः पायात्पयसि विमले यामुने मज्जतीना याच- न्तीनाममुनयपदैर्वञ्चितान्यंशुकानि । लज्जालोलैरुलसवलितै- रुन्मिषत्पद्मवाणैर्गोपस्त्रीणा नयनकुसुमैरञ्चितः केशवो नः ॥ १३३ ॥ वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे गुञ्जन्मधुव्रत- पटलीकाकलीकेलिभाजि । आभीराणा मधुरमुरलीनादस- मोहिताना मध्ये क्रीडन्नवतु नियतं नन्दगोपालबालः ॥ १३४ ॥ शिरश्छाया कृष्णः क्षणमकृत राधाचरणयोर्भुजावल्लिच्छाया- मियमपि तदीयप्रतिकृतौ । इति क्रीडाकोपे निभृतमुभयो- रप्यनुनयप्रसादौ जीयास्तामपि गुरुममक्ष स्थितवतो. ॥ १३५ ॥ अवेमव्यापारकलनमतुरीस्पर्शमचिरादनुन्मीलत्तन्तुप्रकरघट- नायासमसकृत् । विधीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटाना निर्माणं पतंगपतिकेतोरवतु नः ॥ १३६ ॥ कपोले पत्रार्ली पुल- किनि विधातु व्यवसितः स्वय श्रीराधाया. करकलितवर्तिम- धुरिपुः । अभूद्रत्कन्दो यन्निहितनयन. कम्पितभुजस्तदेतत्सा- मर्थ्य तदभिनवरूपस्य जयति ॥ १३७॥ जयश्रीविन्वैस्तैर्महिते इव मन्दारकुसुमैः स्वय सिन्दूरेण द्विपरणमुदा मुद्रित इव । भुजापीडक्रीडाहतकुवलयापीडकरिनः प्रकीर्णासृग्विन्दुर्ज॑यति भुजदण्डो मुरजितः ॥ १३८ ॥ सुपर्णः खर्णाद्रौ रचितम- णिशृङ्गे जलधिजामुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः । त्रिलोकीकस्तूरीतिलककमनीयो व्रजवधूविहारी श्रीकृष्णो दिशतु भवता शर्म सततम् ॥ १३९ ॥ क यासि खलु चौरिके प्रमुषित स्फुट दृश्यते द्वितीयमिह मामक वहसि कन्दुक कञ्चुके । त्यजेति नवगोपिकाकुचयुगं प्रमश्नन्बलाल्ल- सत्पुलकपञ्जरो जयति गोकुले केशवः ॥ १४० ॥ मेघैर्मे- दुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थ नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुम राधामधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १४१ ॥ कौन्तेयस्य सहायता करुणया गत्वा विनीता- त्मनो येनोल्लङ्घितसत्पथ. कुरुपतिश्चक्रे कृतान्तातिथिः । त्रैलोक्यस्थितिसूत्रधारतिलको देवः सदा सपदे साधूनामसु- राधिनाथमथनः स्ताद्देवकीनन्दनः ॥ १४२ ॥ आताम्रे नयने स्फुरन्कुचभरः श्वासो न विश्राम्यति खेदाम्भःकणदन्तुर तव मुख हेतुस्तु नो लक्ष्यते । धिक्को वेद मनः स्त्रिया इति गिरा रुष्टा प्रिया भीषयंस्तस्मात्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः ॥ १४३ ॥ ससक्ता निव पातुमौपनिषदव्या- हारमाध्वीरसामुन्मार्गु व्रजसुन्दरीकुचतटीपाटीररेणूनिव । उन्मीलन्मुरलीनिनादबहुलामोदोपसीदद्गवीजिह्वालीढमलीक- बल्लवशिशोः पादाम्बुज पातु वः ॥ १४४ ॥ कृष्णो गोरस- चौर्यमम्ब कुरुते किं कृष्ण मातः सुरापानं न प्रकरोमि राम किमिदं नाहं परखीरतः । किं गोविन्द वदत्यसौ हलधरो मिथ्येति ता व्याहरन्गोपीगोपकदम्बक विहसयन्मुग्धो मुकु न्दोऽवतु ॥ १४५ ॥ मातस्तूर्णकरक्षणाय यमुना कच्छं न गच्छाम्यह कसाद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः । भ्रूसज्ञांनिवारितोऽपि बहुशो जल्पन्पशो- दायतो गोपीपाणिसरोजमुद्रितमुखो गोपीपतिः पातु वः ॥ १४६ ॥ कासि त्वं वद चौर्यकारिणि कुतः कस्तव पुरो यामिकः किं ब्रूषे सुषितौ सुवर्णकलशौ भूपस्य केन त्वया । कुत्र स्तः प्रकटौ तवाञ्चलतटे कुत्रेति तत्पश्यता- मित्युक्ते धृतवल्लवीकुचयुगस्त्वत्वा पातु पीताम्बरः ॥ १४७ ॥ कृष्ण त्वं पठ किं पठामि ननु रे शास्त्र किमु ज्ञायते तत्त्वं कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् । ज्ञानं भक्तिरथो विरक्तिरनया कि मुक्तिरेवास्तु ते दध्यादीनि मजामि मातुरुदितं वाक्यं हरेः पातु वः ॥ १४८ ॥ कृष्ण त्व नवयौवनोऽसि चपलाः प्रायेण गोपाङ्गनाः कसो भूपति- रब्जनालमृदुलग्रीवा वय गोदुहः । तद्याचेऽञ्जलिना भवन्त- मधुना वृन्दावन मङ्गिना मा यासीरिति नन्दगोपवचसा नम्रो हरिः पातु वः ॥ १४९ ॥ कस्त्वं कृष्णमवेहि मां किमिह ते मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः । कर्तुं तत्र पिपीलिकापनयनं सुप्ताः किमुद्बोधिता बाला वत्सगर्ति विवेक्तुमिति सजलपन्हरिः पातु वः ॥ १५० ॥ स्वामी मुग्धतरो वन घनमिदं बालाहमेका- किनी क्षोणीमावृणुते तमालमलिनच्छाया तमःसंहतिः । तन्मे सुन्दर कृष्ण मुञ्च सहसा वर्मेति गोप्या गिरः श्रुत्वा
पादटिप्पणी (Footnotes)
[वाम भाग]
१ गोपीपक्षे,-ललित गमन यासा ता, कृष्णपक्षे ललिते गे गाने मनो यस्य स
२ स्त्रिय, पक्षे,-नास्तार्य्य श्रेष्टो यस्मात्स
३ राजता मनोजेन मदनेन नितान्तात्यन्ता भा कान्तिर्यासा ता, पक्षे,-राजनमनोजनि शोभमानमदनस्तानन्तो म्लानो यस्यास्तादृशी भा यस्य स
४ शोभायमानया रत्या कामपत्न्या सदृश, पक्षे,-सुष्टु रतौ रमणे योग्य
५ सन्ति शोभनानि मुखान्याननानि यासां ता, पक्षे,-सत्सु प्रशस्तेषु केलिचतुरेपु मुख्य
६ स्वच्छे
७ स्नान कुर्वतीनाम्
८ वेमा वस्त्रव्युतिदण्डस्तद्व्यापाररहितम्
९ तुरी तन्तुवायाना यन्त्रविशेष, तत्स्पर्श विना
१० पतगा पक्षिणस्तेषा पतिर्गरुड स केतुर्यस्य तस्य कृष्णस्येत्यर्थ
११ विक्षिप्ते
१२ पूजित.
१३ चित्रित
१४ रक्तविन्दु.
१५ व्याप्तमित्यर्थ
१६ रात्रौ.
[दक्षिण भाग]
१ एकान्तक्रीडा
२ युधिष्ठिरस्य
३ मारित
४ वृषबालः.
५ नगररक्षक
| २४ | सुभाषितरत्नभाण्डागारम् | [ १ प्रकरणम् |

| ता परिरम्य मन्मथकलासक्तो हरिः पातु वः ॥ १५१ ॥
मातः किं यदुनाथ देहि चषकं किं तेन पातुं पयस्तन्नास्त्यद्य
कदास्ति तन्निशि निशा का वान्धकारोदये । आमील्याक्षि-
युगं निशाप्युपगता देहीति मातुः पुनर्वक्षोजाम्बरकर्षणोद्यत-
करः कृष्णः स पुष्णातु नः ॥ १५२ ॥ अर्धोन्मीलितलोच-
नस्य पिबतः पर्याप्तमेकं स्तन सद्यःप्रस्रुतदुग्धदिग्धमपरं हस्तेन
संमार्जतः । मात्रा चाङ्गुलिलालितस्य चिबुके सेरायमाणे मुखे
विष्णोः क्षीरकणाम्बुधामधवळा दन्तद्युतिः पातु वः ॥ १५३ ॥
गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं
विजनेस्थयोर्हतजनः संभावयत्यन्यथा । इत्यामन्त्रणभङ्गि-
सूचितवृथाप्रस्थानखेदालसामाश्लिष्यन्पुलकाङ्कुराञ्चितवपुर्गोपीं
हरिः पातु वः ॥ १५४ ॥ रामो^३ नाम बभूव हुं तदबला सीतेति
हुं तौ पितुर्वोचा पञ्चवटीवने निवसतस्तामाहरद्रावणः ।
कृष्णेनेति पुरातनी निजकथामाकर्ण्य मात्रेरिता सौमित्रे क्व
धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः ॥ १५५ ॥ कोऽयं
द्वारि हरिः प्रयाह्युपवनं शाखामृगस्यात्र किं कृष्णोऽहं दयिते
बिभेमि सुतरां कृष्णादहं वानरात् । रावेऽहं मधुसूदनो^७ व्रज
लता तामेव पुष्पाम्वितामित्थं निर्वचनीकृतो दयितया हीणो
हरिः पातु वः ॥ १५६ ॥ पीठे पीठनिषण्णबालकगले
तिष्ठन्सगोपालको यन्त्रान्तःस्थितदुग्धभाण्डमवभिद्याच्छाद्य
घण्टारवम् । वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन्यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ १५७ ॥
पद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति
किं करोमि महितैः^१० क्रीतोऽस्मि ते विभ्रमैः । इत्युत्स्वप्नवचो
निशम्य सरुषा निर्भर्त्सितो राधया कृष्णस्तत्परमेव तद्व्यपदि-
शन्क्रीडाविटः पातु वः ॥ १५८ ॥ दृष्ट्वा^१२ केशव गोपरोग-
हृतया किञ्चिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ पतिता^१३
किं नाम नालम्बसे । एकस्त्वं विषमेषुखिन्नमनसा सर्वार्बलानां^१४
गतिर्गोप्त्यैव गदितः शैलेशमवैतोद्रोहे^१७ हरिवर्धिश्चिरम् ॥ १५९ ॥
केयं भाग्यवती तयोरसि मणी रूपेऽग्रैवर्णं^१८ विना कृत्वारत्नाः | प्रथमं विना क्व सहजो वर्णो मणेस्तादृशः । स्त्रीरूपं कथमस्य
लिङ्गनियमात्पृच्छामि बध्वाकृति मुग्धे त्वत्प्रतिबिम्बमित्यपल-
पन्राधा हरिः पातु वः ॥ १६० ॥ या दृष्ट्वा यमुना पिपासु-
रनिशं व्यूहो गवां गाहते विद्युत्वानिति नीलकण्ठनिवहो या
द्रष्टुमुत्कण्ठते । उत्तप्ताय तमालपल्लवमिति च्छिन्दन्ति या
गोपिकाः कान्तिः कालियशामनस्य वपुषः सा पावनी पातु
वः ॥ १६१ ॥ श्रीमद्गोपवधूस्ययग्रहपरीरब्धेऽङ्गे तुङ्गस्तन
व्यामर्दार्दलितोऽपि चन्दनरजस्सङ्गे वहन्सौरभम् । कश्चिज्जा-
गरजातरागनयनद्वन्द्वः प्रभाते श्रियं बिभ्रत्कामपि वेणुनाद-
रसिको जाराग्रणीः पातु वः ॥ १६२ ॥ कण्ठालिङ्गनमङ्गळं
घनकुचाभोगोपभोगोत्सव श्रोणीसगमसौभग च सतत
मत्प्रेयसीना पुरः । प्रात्तु कोऽयमितीर्थ्ययैव यमुनाकूले वळाय
स्वयं गोपीनामहरदूकूलनिचय कृष्णः स पुष्णातु नः ॥ १६३॥
कृष्णेनाम्ब गतेन रन्तुममकृन्मृद्भक्षिता स्वेच्छया सत्य कृष्ण
क एवमाह मुँसली^१ मिथ्याम्ब पश्य़ाननम् । व्योदेहीति^२
विकामिते च वदने दृष्ट्वा समस्तं जगन्माता यस्य जगाम
विस्मयपद पायात्स व श्रीपतिः ॥ १६४ ॥ अम्ब श्राम्यसि
तिष्ठ गोरसमह मथ्नामि मन्थानक प्रालम्ब्य स्थितमीश्वरं
सग्मस दीनाननो वाँसुक़ि^३ । सासूय कैमलाळया^४ सुंर-^५
गण. सानन्दमुद्यद्रय राँहुः^६ प्रैक्षत य स वोऽस्तु शिवदो
गोपालबालो हरि ॥ १६५ ॥ कालिन्द्याः पुलिनेषु केलि-
कुपितामुत्सृज्य रासे रस^७ गच्छन्तीमनुगच्छतोऽश्रुकलुषा कस-
द्विषो राधिकाम् । तत्पादप्रतिमानिवेशितपदस्योद्गूतरोमोद्गते-
रक्ष्णोणोऽनुनय. प्रसन्नदयितादृष्टस्य पुष्णातु व. ॥ १६६ ॥
कस ध्वस्यते सुरं तिरयते हंस तथा हिंसते बाण क्षीणयते
बक लघयते पौण्ड्र तथा लम्पते । भौम क्षामयते बलाद्वल-
भिदो दर्पं पराकुर्वत क्लिष्ट शिष्टगण प्रणम्रमवते कृष्णाय
तुभ्य नमः ॥ १६७ ॥ रासोल्लासभरेण विभ्रमभृतामाभीर-
वामभ्रुगार्मभ्यर्णे^१० परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु त्वद्वदन सुधामयमिति व्याहृत्य गीतस्तुतिव्याजार्दुङ्कैट^११
चुम्बित. सितमनोहारी हरिः पातु व. ॥ १६८ ॥ साकूत-
स्मितमाकुलाकुलगलद्धम्मिल्लमुँल्लाँसित^१२भ्रूवल्लीकमलीकदर्शित-
भुजामूलार्धदृष्टस्तनम् । गोपीना^९ निर्भृत^१४ निरीक्ष्य
ललित काचिच्चिर चिन्तयन्नन्तर्मुग्धमनोहो हरतु वः |
| १ पानपात्रम् २ एकान्तगतयो ३ रचना ४ यथा माता स्वपुत्रप्रस्वापनाय पुरातना कथा कथयति, तथा यशोदापि राम इति कश्चिद्राजासीदिति वदति स तच्छ्रुत्वा कृष्णोऽपि हुंकार दत्तवान् ५ वानर, पक्षे,-कृष्ण ६ कृष्णवर्णं, पक्षे,-कृष्णनामा ७ भ्रमर, पक्षे,-मधुसूदननामा ८ आलम्बमानो रज्जुषञ्जर, शिक्य इति प्रसिद्ध ९ हे रमे, पक्षे,-पद्मरूपे १० पूज्यै ११ गोपे त्वयि यो राग आसक्तिस्तद्भूतयापहृतया, पक्षे,-गवां परागैर्धूलिभिर्व्याप्तया १२ युक्तायुक्तम्; पक्षे,-प्लवविषमम् १३ पतित्वम्, पक्षे,-पतन प्राप्ताम् १४ विषमेषु पञ्चशरस्तेन खिन्नमनसाम्, पक्षे,-विषमेषु सकटेषु खिन्नमनसम् १५ स्त्रीणाम्, पक्षे,-बलरहितानाम् १६ ससूचनम् १७ गोस्थानम् १८ अग्रवर्णो र इति, रमणीयत्थं | १ बलभद्र २ विकासय ३ समुद्रमथने रज्जुकृतस्य मम पुनरपि स एव भयकर प्रसङ्ग आगत इति त्रासेन शेष ४ मम सपत्नी काचिद्बुद्धिविधतीत्यसूयया ५ अमृतप्राप्तिर्भविष्यतीति धिया ६ शिरश्छेदो भविष्यतीति बुद्ध्या ७ रागम् ८ सफला ९ गोपिकानाम् १० समीपम् ११ प्रकटम् १२ उच्चै कृता १३ जृम्भणादिच्छलेनेत्यर्थ . १४ गोप्यभावम्. |
दशावताराः २५
| केशं नैवः केशवः ॥ १६९ ॥ तिर्यक्कण्ठविलोलमौलि- | विकसन. स्तैब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम् । |

| तरलोत्तंसस्य वशोश्चरद्गीतस्थानकृतावधानललनालक्षैर्न | हृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदा भ्रश कसरिपोर्य्यपो- |
| सलक्षिता । ^२समुग्ध मधुसूदनस्य मधुरे राधामुखेन्दौ | हयतु वोऽश्रेयांसि वशीरखः ॥ १७९ ॥ मौलौ केकिशिखण्डिनी |
| ^३मृदुस्पन्द पल्लविताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः | मधुरिमाधाराधरे वशिनी पीनासे वनमालिनी हृदि लसत्का- |
| ॥ १७० ॥ वृष्टिव्याकुलगोकुलार्तनरसादुद्धृत्य गोवर्धनं | रुण्यकल्लोलिनी । श्रोण्या पीतदुकूलिनी चरणयोर्व्यत्यस्तविन्यासिनी |
| बिभ्रद्बह्वलवल्लभाभिरधिकानन्दाच्चिरं चुम्बितः । कंदर्पेण | लीला काचन मोहिनी विजयते बृन्दावनत्रासिनी |
| तदर्पिताधरतटीमन्दूरमुद्राङ्कितो बाहुर्गोपनतोन्नतो मुवता | ॥ १८० ॥ मालाबर्हमनोज्ञकुन्तलभरा वन्यप्रसूनोक्षिता शैले- |
| श्रेयांसि कसद्विषः ॥ १७१ ॥ राधासुग्धमुखारविन्दमधुपश्चै- | यागुरसकचित्रितलका शश्वन्मनोहारिणीम् । लीलावेणुरवा- |
| लोक्यमौलिक्थलीनेपथ्योचितनीलरत्नमवनीभारावतारक्षमः । | मृतैकरसिका लावण्यलक्ष्मीमयी बाला वालतमालनीलवपुष |
| स्वच्छन्दव्रजसुन्दरीजनमनस्तोषप्रदोध्पन्निरं कमध्वसनवूमकेतु- | वन्दे परा देवताम् ॥ १८१ ॥ असालम्बितवामकुण्डल- |
| रवतु त्वा देवकीनन्दनः ॥ १७२ ॥ किं विश्राम्यसि कृष्ण | धर मन्दोन्नतश्रूलत किञ्चित्कुञ्चितकोमलाधरपुट साचिप्र- |
| भोगिभवने भौण्डीरभूमिरुहि भ्रातर्यासि न दृष्टिगोचरमितः | सारीक्षणम् । आलोलाङ्गुलिपल्लवैर्मुरलिकामारपूरयन्त मुदा |
| सानन्दनन्दास्पदम् । राधाया वचनं तदध्वगमुखान्छन्दान्तिके | मूले कल्पतरोस्त्रिभङ्गललित ध्याये जगन्मोहनम् ॥ १८२ ॥ |
| ^११गोपतो गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा | कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे |
| गिरः ॥ १७३ ॥ सान्द्रानन्दपुरदरादिदिविषद्बृन्दैरमन्दादरा- | नवमौक्तिक करवले वेणु करे कङ्कणम् । सर्वाङ्गे |
| दानम्रैर्मुुकुटेन्द्रनीलमणिभिः ^१२सदर्शितॆन्दीवरम्। स्वच्छन्द | हरिचन्दन सुविमल कण्ठे च मुक्तावली बिभ्र- |
| मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्द- | त्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ १८३ ॥ कालि- |
| मधुमस्कै^१३न्दाय वन्दामहे ॥ १७४ ॥ प्रातर्नीलैर्निचोल- | न्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितु तावत्कैर्भुरिकापयः |
| मच्युतमुरःसवीतपीतांशुकं राधायाश्चकितं विलोक्य हसति | पिव हरे वर्धिष्यते ते शिखा । इत्थ वालतया प्रतारणपराः |
| स्वैरं सखीमण्डले । व्रीडाचञ्चलमञ्चल नयनयोराधाय राधा- | श्रुत्वा यशोदागिर. पायाद्वः स्वशिखा स्पृशन्प्रमुदित. क्षीरे- |
| नने स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः | ऽर्धपीते हरिः ॥ १८४ ॥ आनन्देन यशोदया समदन |
| ॥ १७५ ॥ प्रीति वस्तुतुता हरिः कुवल्यापीडेन सार्थं रणे | गोपाङ्गनाभिश्चिर साशङ्क बलविद्विषा सकुसुम सिद्धैः |
| राधापीनपयोधरखरणकृत्कुम्मेन समेदवान् । ^१७पत्रे बिभ्यति | पृथिव्याकुलम् । सेर्ये गोपकुमारकैः सकरुण पौरैः सुरैः |
| मीलति क्षणमपि क्षिप्र तदालोकनाद्यामोहेन जित जित | सस्मित यो दृष्टः स पुनातु वो मध्रिपु प्रोत्क्षिप्तगोवर्धन. |
| जितमभूद्यौलोलकोलाहलः ॥ १७६ ॥ त्वामप्राप्य मयि स्वय- | ॥ १८५ ॥ राधामोहनमन्दिर जिगमिषोश्चन्द्रावलीमन्दि- |
| वरपरा क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढो | राद्राधे क्षेममिति प्रियस्य वचन श्रुत्वाह चन्द्रावली । क्षेम |
| मृडानीपतिः । इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वासोञ्चल | कस तत. प्रिय. प्रकुपित. कंस. क्व दृष्टस्त्वया राधा क्वेति |
| राधायाः स्तनकोरकोप रिसन्नेत्रो हरिः पातु वः ॥ १७७ ॥ | तयो. प्रसन्नमनसोर्हासोद्गमः पातु वः ॥ १८६ ॥ दृष्टः कापि |
| वामासस्थलचुम्बिकुण्डलरुचा जातोत्तरीयच्छवि वशीगीति- | स केगवो व्रजवधूमादाय काचिद्गत. सर्व्व एव हि वञ्चिताः |
| भवत्रिभङ्गवपुष भ्रूलासलीलापरम् । किचित्सस्तशिखण्ड- | खलु वय सोऽन्वेषणीयो यदि । द्वे द्वे गच्छत इत्युदीर्घ |
| शेखरमतिस्निग्धा लिनीलालकं राधादिप्रमदाशतावृतमह वन्दे | सहसा राधा गृहीत्वा करे गोपीवेषधरो निकुञ्जभवन |
| किशोराकृतिम् ॥ १७८ ॥ अन्तर्मोहनमौलिरुँदैनवलन्मन्दार- | प्राप्तो हरिः पातु वः ॥ १८७ ॥ कि युक्त बत मामनन्यम- |
| नस वक्ष.स्थलस्थायिनी भक्तामप्यवधूय कर्तुमधुना कान्तास- | |
| हस्रं तव । इत्युक्त्वा फणभृत्फणामणिगता स्वामेब मत्वा तनु | |
| निद्रानिच्छेदकर हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥ १८८ ॥ | |
| स्वप्रासादितदर्शनाम नुनयन्त्राणेश्वरीमादरादसेऽस्मिन्पतिवैरपा- | |
| ङ्कवलितैर्यह्नोथितोऽप्यश्रुभिः । प्रत्याय्यस्त्वमतो मया ननु हरे | |
| कोऽय क्रमन्त्यत्ययः पातु त्वा व्रजयोषितित्यभिहित लज्जाकर |
| १ तरुण २ अव्यक्तम् ३ किञ्चिश्चलन यथा स्यात्तथा ४ रक्ष- | १ अनिच्छोरित्यर्थे २ गौरीतीर्थे, धत्तूरजलं वा |
| णम् ५ अनुराग ६ नीलत्वादधरपानकर्तृत्वाच्च ७ अलकार | |
| ८ रात्रिमुखे हि नार्थस्तुष्वन्तीति भाव ९ भोगी सर्प तस्य भवने, | |
| पक्षे,-भोगिनः शृङ्गारिणो विलासगृहे १० भाण्डीरनाम्नि वटवृक्ष | |
| ११ सगोपन कुर्वत १२ सदर्शित इन्दीवरस्य नीलोत्पलस्य अम्रो | |
| यत्र १३ नाशाय १४ वस्त्रम् १५ परिधानाकृतम् १६ कटाक्ष | |
| १७ वाहने १८ मृते सति १९ चञ्चल २० साधु साध्विति | |
| शिर कम्पनम् २१ गुम्फितम् | |
| ४ सु. र भा |
२६ | सुभाषिसरत्नभाण्डागारम् | [१ प्रकरणम्
[शार्ङ्गिणः]
शार्ङ्गिण ॥ १८९ ॥ अस्मिन्कुञ्जे विनापि प्रचलति पवना-
द्धर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे
भीतमीतेऽर्भकाणाम् । तस्मिन् राधासखो वः सुखयतु विलस-
ल्लीलया कैटभारिर्व्यान्व्हानो मृगारिप्रवलघुरघुराशवरौद्रान्नि-
नादान् ॥ १९० ॥ अङ्गुल्या कः कपाटं प्रहरति कुटिले
माधवः किं वसन्तो नो चक्री किं कुलालो नहि धरणिधरः
किं द्विजिव्हः फणीन्द्रः । नाहं घोराहिमर्दी किमुत खगपति-
र्नो हरिः किं कपीन्द्र इत्येवं सत्यभामाप्रतिवचनजितः
पातु वश्चक्रपाणिः ॥ १९१ ॥ वृन्दारण्ये चरन्ती विशुरपि
सततं भूर्भुवःखः सृजन्ती नन्दोद्भूताप्यनादिः शिशुरपि
निगमैर्लक्षिता वीक्षितापि । विद्युल्लेखावनद्रोन्नमदमलमहा-
म्भोदसचलायकाया माया पायादपायाद्विहितमहिमा कापि
पैताम्बरी वः ॥ १९२ ॥ नामोदस्ताखिलामो दमनियमयुजा
यः प्रकामॊदवाहश्यामो दर्पाब्धधामॊदयमिलितयशोध्वारया
मोदते यः । वामोदन्यासदामोदरतरलदृगा दत्तकामोदयो
यः सामोदः श्रीललामो दलयतु दुरितं सोऽत्र दामोदरो
वः ॥ १९३ ॥ मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापो-
ऽङ्गनाभिर्गोपैस्तु प्राकृतात्मा दिगि कुलिशभृता विश्वकायोऽप्र-
मेयः । क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिर्द्रष्टो
रङ्गावसारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥ १९४ ॥
बलभद्रः
निष्पात्याशु हिमांशुमण्डलमथः पीत्वा तदन्तं सुधां कृत्स्नं
चषकं हसन्निति हलापानाय कौतुहलात् । भो देव द्विजरासि
मादृशि सुरास्पर्शोऽपि न श्रेयसे मा मुञ्चेति तदर्थितो हलधरः
पायादपायाज्जगन् ॥ १९५ ॥ प्रेमोन्मामितरेवतीसुखगता-
मास्वाद्य कादम्बरीमुन्मत्तं क्वचिदुत्ततंक्वचिदपि भ्राम्यत्क्वचि-
त्क्वस्खलत् । रक्तापाङ्गमधीरलाङ्गलमलिष्यामागवराडम्बरं केशं
नः कवलीकरोतु सकलं पाकाभिरामं महः ॥ १९६ ॥
उष्णाळु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले हालानां
गृह्यालु चुम्बदसकृल्लाजालु जायामुखम् । नित्यं निष्प-
तयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्यः स्पृहयालु
धाम धवलं दीने दयालु श्रये ॥ १९७ ॥
रुक्मिणी
श्लाघ्याशेपतनुं सुदर्शनकरं सर्वाङ्गलीलाजितत्रैलोक्यां
चरणारविन्दललितेनाक्रान्तलोको हरिः । बिभ्राणा मुखमिन्दु-
सुन्दररुचं चन्द्रात्मचक्षुर्दधत्स्थाने या स्खततोरपश्यदधिका
सा रुक्मिणी वोऽवतात् ॥ १९८ ॥
राधा
राधा पुनातु जगदच्युतदत्तचित्ता मन्थानमाकलयती
दधिरिक्तपात्रे । यस्याः स्तनस्तबकचूचुकलोलदृष्टिर्देवोऽपि
दोहनधिया वृषभं दुदोह ॥ १९९ ॥ सुधाधाम्नः कान्ति-
स्तव वदनपङ्केरुहगुणैर्जितव म्लानत्वं व्रजति सहसा प्राण-
दयिते । वदत्येवं कान्ते दिवसविरहातङ्कचकिता तदङ्के
सलग्भा तव दिशतु राधा प्रियशतम् ॥ २०० ॥
नन्दकः
सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्ब-
गर्भः । कुर्वञ्जनस यमुनाप्रवाहसलीुलराधाचरणं मुरारेः
॥ २०१ ॥
वेणुः
क्रेङ्कारः स्मारकार्मुकस्य सुगतक्रीडापिकीनां रवो झङ्कारो
रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः । तन्व्याः
कञ्चुलिकापसारणभुजाक्षेपस्वलत्कङ्कणक्वाणः प्रेम तनोतु वो
नववयोलास्याय वेणुस्वनः ॥ २०२ ॥
बुद्धः
षट्चक्रे क्रमभावनापरिगतं हृत्पद्ममध्यस्थितं
सपश्यञ्छिंवरूपिणं लयवशादात्मानमंत्व्याश्रितः । युष्माकं
मधुसूदनेो बुद्धवपुर्धारी स भूयान्मुदे यस्तिष्ठत्कमलासने
कृतश्चिर्युकैर्दा कलिक्षात्कृति ॥ २०३ ॥ रेतोरक्तमयान्यमूनि
अधिना विण्मूत्रपूर्णोदराण्यालोक्येव कलेवराणि विगलत्तो-
यार्द्रव्रणानि यः । मायाजालैनियन्त्रितानि घृणया नोन्मी-
लयत्यक्षिणी निर्व्याजप्रणिधाननिश्चलमसिर्बुद्धोऽ स बुद्धोऽस्तु
वः ॥ २०४ ॥ ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य
चक्षुः क्षणं पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि ।
मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमाञ्छ-
श्चन्मारवधूरिरित्यभिहितो बुद्धो जिनः पातु वः ॥ २०५ ॥
आबाहूद्धतमण्डलाग्ररुचयः सनद्धवक्षःस्थलाः सोष्माणो
व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बरदृष्ट-
विग्रहभरा यस्य खराग्रैसरा योधा वारवधूतनाश्च न दधुः
क्षोभं स वोऽध्याज्जिनः ॥ २०६ ॥ बद्धा पद्मासनं यो
नयनयुगमिदं न्यस्य नासाग्रदेशे धृत्वा मूर्तो च शान्तौ
समरसमिलितौ चन्द्रसूर्याख्यवातौ । पश्यन्नन्तरविशुद्ध
पादटिप्पणी (Footnotes)
| वाम-भागः | दक्षिण-भागः |

| १ द्वारम् | १ शब्द |
| २ लक्ष्मीपति, पक्षे,-वसन्त | २ मूलाधार-स्वाधिष्ठान मणिपुर-अनाहत-विशुद्धिआज्ञाख्यानि षट् चक्राणि |
| ३ चक्रधारी, पक्षे,-कुलाल | ३ परिपाटी |
| ४ विष्णु, पक्षे,-शेष | ४ वासना |
| ५ कृष्णपक्षे,-अहि कालिय, गरुडपक्षे,-अहिः सर्पः | ५ व्याप्तम्. |
| ६ गरुड | ६ चित्तैकाग्र्यवशात्. |
| ७ विष्णु, पक्षे,-वानर | ७ स्थित |
| ८ सुरापानपात्रम्. | ८ 'जङ्घाया मध्यभागे तु संस्थेपो यत्र जङ्घया । पद्मासनमिति प्रोक्तं तदासनविचक्षणै ॥' |
| ९ चन्द्रेण प्रार्थित.. | ९ शानी |
| १० ज्ञानम् | |
| ११ संसारिणाम्. | |
| १२ बद्धानि. | |
| १३ चेतःसमाधिना- | |
| १४ शरीरे. |
दशावताराः २७
किमपि च परमं ज्योतिराकारहीनं सौख्याम्भोधौ निमग्नः स दिशतु भवता ज्ञानबोधं बुधोऽयम् ॥ २०७ ॥ कामेनाकृष्य चाप हतपटुपटहं वल्गुभिर्मारवीरैर्भ्रूभङ्गोक्षेपजृम्भास्मितललितदृशा दिव्यनारीजनेन । सिद्धैः प्रह्रोत्तमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन ध्यायन्त्यो योगपीठादचलित इति व पातु दृष्टो मुनीन्द्रः ॥ २०८ ॥ कि साक्षाच्चान्द्रभानोरमृतघनरसस्यन्दिनः सन्ति पादाः कि वा राका-शशाङ्को नहि तुहिनरुचिः कुत्रचिन्निष्कळङ्कः । साक्षाच्चिन्तामणिः कि विपुलफलमणेः सौकुमार्ये कुतस्त्यं संदेहान्मुग्धधीभिः प्रथममिति सुनेः पातु दृष्ट वपुर्वः ॥ २०९ ॥
कल्किः
उद्यत्करकरवालः शक्तिमिरुध्वसने महानिपुणः । कल्किहरिर्वः पायादपायतः कलिनिशान्तोत्थः ॥ २१० ॥ यवनीनयनाम्बुपूरणीभिर्हरिणीनामपनीय तापवह्निम् । सुकृतद्रुमसेकमाचरन्त धृतकल्क प्रणाममि निर्विकल्पम् ॥ २११ ॥ प्रेङ्खद्भाजितरङ्गसुन्मदगजग्राहप्रगल्भं भटव्यावलगत्स्फुटपुण्डरीकनिलयं डिण्डीरपिण्डावलिम् । म्लेच्छानीकमहार्णवं सुविपुल सङ्ग्रामकल्पावधौ यश्चौर्वाग्निरिवाभवद्दैयतु वः कल्पांनि कल्की हरिः ॥ २१२ ॥
सूर्यः
खण्डितनेत्रब्जोलिमङ्गुरञ्जनपण्डिताः । मण्डिताखिलदिक्प्रान्ताश्चण्डशोः पान्तु भानवः ॥ १ ॥ शुकतुण्डच्छविसवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदित वन्दे कुण्डलमाखण्डलशायाः ॥ २ ॥ अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः । मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ॥ ३ ॥ प्राचीकुङ्कुमतिलक पूर्वाचलरोहणकमाणिक्यम् । त्रिभुवनगृहैकदीप वन्दे लोककलोचन देवम् ॥ ४ ॥ कटुभिरपि कठोरचक्रवाकोत्करविरहरुज्वरशान्तिशीतवीर्यैः । तिमिरहतमय महोभिरञ्जयति जगन्नयनाघमुष्णभानुः ॥ ५ ॥ यद्विम्बमम्बरमणिर्यदपां प्रसूतिर्नक्तं निषिञ्चति यदग्निशिखासु भासः । ज्योत्स्ना निशासु हिमधाम्नि च यन्मयूखाः पूषा पुराणपुरुषः स नमोऽस्तु तस्मै ॥ ६ ॥ यो रक्ततामतितरामतुलं दधानो दिक्प्रौढदारपरिमोरहनवासवासः । योषिद्द्रयीपतिविडम्बनभृत्स शश्वत्त्यादायपायसमुदायहरो रविर्नः ॥ ७ ॥ ब्रह्माण्डसपुटकलेवरमध्यवर्ति चैतन्यपिण्डमिव मण्डलमस्ति यस्य । आलोकितोऽपि दुरितानि निहन्ति यस्तं मार्तण्डमादिपुरुषं प्रण-
१ फेनपिण्ड २ खण्डयतु ३ पापानि ४ नायिकाविशेषा ५ कमलम् ६ पूर्वदिश•
मामि नित्यम् ॥ ८ ॥ सिन्दूरस्पृहया स्पृशन्ति करुणा कुम्भस्थमाधोरणा मिल्ली पल्लवशङ्कया विचिन्वते सान्द्रद्रुमा द्रोणिषु । कान्ताः कुङ्कुमगङ्कया करतले मृद्रन्ति लग्नं च यत्तत्तेजः प्रथमोद्भव भ्रमकर सौरं चिरं पातु वः ॥ ९ ॥ एकस्मिन्नयने भृश तपति यः काले स दाहक्रमो येनातन्चत यत्प्रकागसमयेनैषा पदं दुर्लभम् । सा व्योमावयवस्य यन्न विदिता लोके गतिः शाश्वती श्रीसूर्यः सुरसेवितोऽपि हि महादेवः स नश्चायताम् ॥ १० ॥ जैम्मारातौभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रक्तैः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य । आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै भूयासुर्भासयन्तो भुवनमभिनवा भानवो मानवीया ॥ ११ ॥ मुक्तिप्रह्वाय दातु मुकुलपुटकुटीकोटरक्रोडलीना लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्घाटन कुर्वते ये । कालाकारान्यकाराननपतितजगन्माध्वसध्यसकल्या कल्याणं व क्रियासु किसलयरुचयस्ते करा भास्करम्य ॥ १२ ॥ साटोपव्योमहट्टोषितरजनिवणिङ्नायकोन्मुक्ततारा मुक्ताहारापहारात्तरलखगरवप्रोत्थिताकीर्तिशान्त्यै । कर्षन्नम्भोजकुम्भोदरकुहरबहिर्निःसरत्षट्पदालीकालव्यालीं करेणाकलयतु दिनकृत्कल्मषोन्मूलन वं ॥ १३ ॥ चैक्री चकोरपङ्क्ति र्हरिरपि च र्हरीन्र्धूर्जटिर्धूर्ध्वर्जान्तार्नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराय कुबेरः । रह सद्भूः सुराणा जगदुपकृतये नित्ययुक्तस्स यस्स स्तौति प्रीतिप्रसन्नोऽन्वहमुहिमरुचे. सोऽवतात्स्यन्दनो वः ॥ १४ ॥ कि छत्रं कि नु रत्नं तिलकमृत तथा कुण्डलं कौस्तुभो वा चक्र वा वारिज वेल्यमरयुवतिभिर्यद्विद्वेक्षिदेहे । ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नामिदेशे च दृष्ट पायात्तद्वोऽर्कबिम्ब स च दनुजरिपुर्वर्धमानः क्रमेण ॥ १५ ॥ शीर्णश्रोणाङ्घ्रिपाणीन्वैणिभिरेषंधनर्घैर्घराव्यक्तघोषान्दीर्घाँवैतानघोटैः पुनरपि घटयत्येक उल्लङ्घयय्यः ।' धर्मारोग्रोस्त्व वोऽन्तर्दिग्गुणर्घनैघृणानिर्निर्विनवृत्तेर्द्दत्तार्घाः सिद्धसङ्घैर्विदधतु घृणर्यः शीघ्रंमहोविघातम् ॥ १६ ॥
किरणाः
करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु तिग्मभासः । क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन ॥ १७ ॥ युष्माकमम्बरमणेः प्रथमे मयूखास्ते मङ्गलं विदधतूदयराग-
१ इन्द्र. २ क्रयविक्रयस्थानम् ३ विष्णु ४ कीलकः ५ इन्द्र• ६ अश्वान् ७ यानमुखम् ८ चक्र ९ युगधर १० वेग• ११ चूडारत्नम् १२ यतो विष्णोर्नाभिदेशे कमलं वर्तते १३ वामनाकृत्या १४ कुष्ठरोगविशीर्णनासिकापादपाणीन् १५ क्षतविशिष्टे • १६ शरीरे. १७ चिरकाल ग्रस्तान् १८ सूर्यस्य १९ सततकृपा• २० रश्मय. २१ पापनाशम्
| २८ | सुभाषितरत्नभाण्डागारम् | [ १ प्रकरणम् | | :--- | :--- |
| भाजः । कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटल-
मुखीरिव दिक्पुरंध्रीः ॥ १८ ॥ सिन्दूराणीव सीदत्कृपण-
कुण्ठवधूमूर्ध्नि ये सचरन्तः प्रेक्ष्यन्ते दिक्षु शैला शिखरभुवि
लसत्पद्मरागाङ्कुरा यैः । धुन्वन्ते ध्वान्तधाराः सह दुरित-
चयैर्दूरदृश्याः सुदृश्याः पान्तु त्वा पद्मबन्धोररुणकिरणाः
पूरणाः पद्मबन्धोः ॥ १९ ॥

तुरगाः

अवतु नः सवितुस्तुरगावली समतिलङ्घिततुङ्गपयोधरा१ ।
स्फुरितमध्यगतोरणनायका२ मरकतैकलतेव३ नभःश्रियः ॥ २० ॥

चन्द्रः

लालयन्तमरविन्दवनानि क्षालयन्तमभितो भुवनानि ।
पालयन्तमथ कोककुलानि ज्योतिषा पतिमहं महयामि ॥ १ ॥ | रविमावसते सतां क्रियायै सुधया तर्पयते सुरान्पितॄंश्च । तमसा
निशि मूर्च्छतां निहन्त्रे हरचूडानिहितात्मने नमस्ते ॥ २ ॥
स्वर्भानुप्रतिवारणारणमिलद्दन्तोद्भवैश्चालीर्पतयाळुदीधि-
तिसुधासारस्तुषारद्युतिः । पुष्पेष्वासनतत्प्रियार्पणरिणयानन्दा-
भिषेकोत्सवे देव प्राससहस्रधारकलशश्रीरस्तु नस्तुष्टये ॥ ३ ॥

पृथिवी

स्वर्गौकोभिरदोनिवासिपुरुषारख्यातिशुद्धाध्वरस्वाहाकार-
वषट्क्रियोत्थममृतं स्वादीय आदीयते । आम्नायप्रवणैरलंकृति-
जुषेऽमुष्यै मनुष्यैः शुभैर्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै
पृथिव्यै नमः ॥ १ ॥ |
| १ मेघाः, पक्षे,-स्तनौ २ अरुणरूपो नायकः सारथिर्यस्याः, पक्षे,-अरुण आरक्तो नायको हारमध्यमणिः ३ सूर्यतुरगाणां हरितवर्णत्वादित्यर्थः | १ गिलनम् २ छिद्रकरणसाधनम् ३ दन्तदशनकृतविवरपरम्परा ४ पतनशीला ५ मदनः ६ विवाहः ७ देवैः |
इति श्रीसुभाषितरत्नभाण्डागारे प्रथमं मङ्गलाचरणप्रकरणं समाप्तम्

द्वितीयं सामान्यप्रकरणम्
सुभाषितप्रशंसा
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती । तस्याद्धि काव्यं मधुरं तस्मादपि सुभाषितम् ॥ १ ॥
सुभाषितेन गीतेन युवतीनां च लीलया । मनो न भिद्यते यस्य स योगी अथवा पशुः ॥ २ ॥
सुभाषितमयैर्द्रव्यैः संग्रहं न करोति यः । सोऽपि प्रेस्तावयज्ञेषु का प्रदास्यति दक्षिणाम् ॥ ३ ॥
संसारकटुवृक्षस्य द्वे फले ह्यमृतोपमे । सुभाषितरसास्वादः संगतिः सुजने जने ॥ ४ ॥
सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकाः । विनापि कामिनीसङ्गं कवयः सुखमासते ॥ ५ ॥
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥ ६ ॥
धर्मो यशो नयो दाक्ष्यं मनोहारि सुभाषितम् । इत्यादिगुणरत्नानां संग्रही नावसीदति ॥ ७ ॥
संगीतपि साहित्यं सरस्वत्याः स्तनद्वयम् । एकमापातमधुरमन्यदालोचनामृतम् ॥ ८ ॥
शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी । साहित्यरसमाधुर्यं शंकगे वेत्ति वा न वा ॥ ९ ॥
द्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता । सुभाषितरसस्याग्रे सुधा भीता दिवं गता ॥ १० ॥
संसदि तदेव भूषणमुपकारकमेव धनं मुख्यम् । सूक्तं दधति सुवर्णं कल्याणमनर्घमिह धन्याः ॥ ११ ॥
कथमहि मनुष्यजन्म संप्रविशति सदसि विबुधगणितायाम् । येन न सुभाषितमृतमाह्लादि निपीतमातृप्तेः ॥ १२ ॥
अंकलितशब्दालंकृति-रनुकूला स्खलितपदन्निवेशापि । अभिसारिकेव रमयति सूक्तिः सोत्कंपशृङ्गारा ॥ १३ ॥
आस्वादितदयिताधरसुधारसस्येव सूक्तयो मधुराः । अकलितरसालमुकुलो न कोकिलः कैर्मुहुर्व्यथति ॥ १४ ॥
अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि । क्षुधि कदर्शनमपि नितरां भोक्तुः संपद्यते स्वादु ॥ १५ ॥
यस्य वक्त्रकुहरे सुभाषितं नास्ति नाप्यवसरे प्रजलपति । आगतः सदसि धीमतामसौ लेप्यनिर्मित इवावभासते ॥ १६ ॥
सुभाषितं हारि विशल्यधोगलान्न दुर्जनस्यार्करिपोरिवामृतम् । तदेव धत्ते हृदयेन सज्जनो हरिमहॉरलमियातिनिर्मलम् ॥ १७ ॥
नायं प्रयाति विकृतिं विरसो न यः स्यान्न क्षीयते बहुजनैर्नितरां निपीतः । जाड्यं निहन्ति रुचिमेति करोति तृप्तिं नूनं सुभाषितरसोऽन्यर सातिशायी ॥ १८ ॥
धन्याः शुचीनि सुरभीणि गुणोम्भितानि वाग्विदूषः स्ववदनोपवनोद्गतायः । उधृत्य सूक्तिकुसुमानि सतां विविक्तवर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ १९ ॥
किं हारैः किमु कङ्कणैः किमसमैः कर्णावतंसैरलं केयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बरैः । पुसामेकसखण्डितं पुनरिदं मन्यामहे मण्डनं यन्निष्पीडितपंवर्णा-मृतकरस्येन्दोपमाः सूक्तयः ॥ २० ॥
खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति । अज्ञानज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत्कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः संग्रहः ॥ २१ ॥
सुव्याहृतानि धीराणां फलतः परिचिन्त्य य । अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ २२ ॥
सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः । सचिन्वन् धीर आसीत शिलाहारी शिलं यथा ॥ २३ ॥
विद्याप्रशंसा
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति । व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ॥ १ ॥
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ २ ॥
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनर्घ्यत्वादक्षयत्वाच्च सर्वदा ॥ ३ ॥
हर्तुर्न गोचरं याति दत्ता भवति विस्तृता । कल्पान्तेऽपि न या नश्येत्किमन्यद्विद्यया समम् ॥ ४ ॥
ज्ञातिभिर्विभज्यैते नैव चोरेणापि न नीयते । दाने नैव क्षयं याति विद्यारत्नं
[पादटिप्पण्यः / Footnotes]
वामभागटिप्पणी (Left Column Notes):
- १ प्रसङ्ग
- २ न नश्यति
- ३ पाषाणताम्
- ४ काञ्चनम्, पक्षे, - सुवृत्तदैर्घ्यकम्
- ५ पण्डितपूर्णाय व्युत्पत्यार्या च
- ६ न कलिता शब्दस्यालकृतिर्यया अनुप्रामादिशब्दालकृतिशून्येष्यर्थ, पक्षे, -अकलित शब्दो यथैतादृग्यलंकृतिभूषणं यस्या सशब्दभूषणव स्वेडन्यस्य ज्ञानं भविष्यतीति धियेति भाव
- ७ द्रुत रमप्रलायिका, पक्षे,-नायकुचित्तानुकूल्यवती
- ८ कूटपदाना म्रथनं यत्र, पक्षे, -स्थानादन्यत्र पतनं यथा स्यात्तथा चर। विन्यासो यस्या
- ९ सुभाषितम्, पक्षे,-शोभनोक्तिमती
- १० उत्कृष्टाऽऽलिङ्गनारसवती, पक्षे,-अहमस्याय ममेति रतिपरिपोषवती
- ११ मधुरम्
- १२ वदति
दक्षिणभागटिप्पणी (Right Column Notes):
- १ बिले
- २ पङ्करचित
- ३ राहो
- ४ कौस्तुभमणि
- ५ धिक्कारम्
- ६ मान्यम्
- ७ अन्यरसानतिक्रम्य वर्तत इत्यर्थ
- ८ कर्णेभूषणैः
- ९ कान्तिभि
- १० पूर्ण
- ११ किरणा
- १२ नामत्युत्तम यस्यात्
- १३ विभज्यते
३० सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
महाधनम् ॥ ५ ॥ संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्धर्षं नृप भाग्यमतः परम् ॥ ६ ॥ विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ७ ॥ शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना । न गुह्यगोपने शक्तं न च दंशनिवारणे ॥ ८ ॥ सद्विद्या यदि का चिन्ता वैराकोदरपूरणे । शुकोऽप्यशनमाप्नोति राम रामेति च ब्रुवन् ॥ ९ ॥ अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक् । प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति ॥ १० ॥ वसुमतीपतिना न सरस्वती बलवता रिपुणापि न नीयते । समविभागहरैर्न विभज्यते विबुधबोधबुधैरपि सेव्यते ॥ ११ ॥ श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमाष्टिं । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ॥ १२ ॥ न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि । व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥ १३ ॥ मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चाभिरमयत्यपनीय खेदम् । लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं किं किं न साधयति कल्पलतेव विद्या ॥ १४ ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ १५ ॥ विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो धेनुः कामदुघा रतिश्च विरहे नेत्रं तृतीयं च सा । सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणं तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु ॥ १६ ॥
काव्यप्रशंसा
कान्पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥ १ ॥ निर्व्यथानि पद्यानि यद्यनाढ्यस्य का क्षतिः । भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥ २ ॥ याता यान्ति च यातारो लोकाः शोकाधिका भुवि । काव्यसम्बन्धिनी कीर्तिः स्थायिनी निरपायिनी ॥ ३ ॥ नवोक्तिर्जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः । विकटाक्षरसंबन्धः कृत्स्नमेकत्र दुष्करम् ॥ ४ ॥ सद्भिर्मव्ये हिते काव्ये वृथा दुर्जनगर्जनम् । चण्डीशाङ्गीकृते चन्द्रेऽरुंतुदः किं विधुंतुदः ॥ ५ ॥ त एव पदविन्यासास्ता एवार्थविभूतयः । तथपि नव्यं भवति काव्यं ग्रथनकौशलात् ॥ ६ ॥ सरसापि कवेर्वाणी हरिनामाङ्किता यदि । सादरं गृह्यते तज्ज्ञैः शुक्तिर्मुक्तान्विता यथा ॥ ७ ॥ काव्यस्याग्रफलस्यापि कोमलस्येतरस्य च । बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ ८ ॥ शब्दशक्त्यैव कुर्वाणा सर्वदानवनिवृत्तिम् । काव्यविद्या श्रुतिगता स्यान्मृतस्यापि जीवनी ॥ ९ ॥ श्लिष्टा सैभङ्गा सद्वर्ण्या निर्दोषा सद्गुणा मृदुः । नानाभङ्गीविलासा चेत्कृतिर्विस्तृतिरन्यथा ॥ १० ॥ धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम् ॥ ११ ॥ उमामिमां समुद्धीक्ष्य शीतदीधितिशेखर । एषापि भारती भानुयुत सीत्कृत्य नर्तति ॥ १२ ॥ अध्वनि पदग्रहरूपर मदयति हृदयं न वा न वा श्रवणम् । काव्यमभिन्नमभाया मञ्जीर केलिवेलायाम् ॥ १३ ॥ अविदितगुणापि सुकवेर्भणितिः कर्णेषु वमति मधुधाराम् । ह्यनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ १४ ॥ ख्यातिं गमयति सुजनं सुकविर्विदधाति केवलं काव्यम् । पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति ॥ १५ ॥ कृतमन्दपदन्यासा विकचेश्रीश्चोशखण्डभङ्गवती । कस्य न कम्पयते कं जरेव जीर्णस्य सत्कवेर्वाणी ॥ १६ ॥ सरसा सालंकारा सुपदन्यासा सुवर्णमयमूर्तिः । आर्या तथैव भार्या न लभ्यते पुण्यहीनेन ॥ १७ ॥ सा कविता सा वनिता यस्याः श्रवणेन दर्शनेनापि । कविहृदयं विटहृदयं सरलं तरलं च सत्वरं भवति ॥ १८ ॥ अमरहिता सा कच्चवत्स्त्रीणां कुचवच्च सरंसहिता । लसदक्षरपीयूषाधरवत्कविता महात्मना जीयात् ॥ १९ ॥ सत्पात्रोर्पणयोचितसंतप्रतिबिम्बाभिनववस्तु । कस्य न जनयति हर्षं सत्काव्यं मधुरवचनं च ॥ २० ॥ सत्सूत्रसंविधानं सदलकारं सुवृत्तमच्छिद्रम् । को धारयति न कण्ठे सत्काव्यं माल्यमर्घ्यं च ॥ २१ ॥
पादटिप्पण्यः (Footnotes):
१ ज्ञानाय
२ मङ्गिला
३ श्लक्ष्णम्
४ नियोजयति
५ अन्तर्हितम्
६ उत्कृष्टानि
७ मर्मस्पृक्
१ कठिनस्त्येत्यर्थः
२ सर्वकाल नवसौख्यम्; पक्षे,-सर्वेषां रक्षसामानन्दम्
३ कविता, पक्षे,-काव्यस्य शुक्रस्य विद्या संजीविनीत्यर्थः
४ नानार्थशब्दयुक्ता
५ पदच्छेदवैचित्र्यादनेकार्थपदवती
६ कविता
७ रोग दुखदत्वात्
८ व्यङ्ग्यार्थशून्यम् यत्तु ध्वनिरुत्तमं काव्यं तद्भिन्नमित्यर्थः; पक्षे,-शिञ्जितशून्यम्
९ अनुप्रासमात्रार्थं पदग्रहं परमुत्कृष्टो यत्र; पक्षे,-अत्यन्तचरणसंलग्नम्
१० उक्ति
११ वर्षति
१२ सुप्तिङन्तादि; पक्षे,-चरणं
१३ प्रफुल्लशोभा; पक्षे,-विगता कच्चभीः केशशोभा यस्याः
१४ चारवो ये शब्दभङ्गा रचनाविशेषास्तद्वती; पक्षे,-स्खलितशब्दवती
१५ शिर
१६ अमरेभ्यो मूढेभ्यो हिता; पक्षे,-भ्रमेण भ्रान्त्या रहिता
१७ सरोमोलाभिः सहिता; पक्षे,-सरसेभ्यो हिता
१८ लसच्छोभायमानमक्षरमविनाशि पीयूषं तद्वन्माधुर्यं यस्मिन्, पक्षे,-लसन्त्यक्षराणि वर्णा एव पीयूषं यस्याम्
१९ स्थापनम्
२० सम्यग्बोध
२१ दोषरहितम्
काव्यप्रशंसा ३१
यदसेवनीयमसताममृतप्रायं सुवर्णविन्यासम् । सुरसार्थमयं काव्यं त्रिविष्टप वा समं विद्म. ॥ २२ ॥
सत्कविरमनाशी-र्निंस्तुषतरशब्दशालिपाकेन । तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी ॥ २३ ॥
काव्यस्याक्षरमैत्रीर्भाजो न च कर्कशा न च ग्रन्थ्याः । शब्दा अपि पुरुषा अपि सौध एवार्थबोधाय ॥ २४ ॥
अन्तर्गूढानिधानव्यञ्जयतः प्रसद्-रहितस्य । सधर्मस्य नदस्य च न रसैः प्रीत्यै रसज्ञानाम् ॥ २५ ॥
आन्तरमिव बहिरिव हि व्यञ्जयितु रसमशेषत. सततम् । असती सत्कविसूक्तिः काचघटीति त्रय वेद ॥ २६ ॥
न ब्रह्मविद्या न च राज्यलक्ष्मीस्तथा यथेय कविता कवीनाम् । लोकोत्तरे पुसि निवेश्यमाना पुत्रीव हर्ष हृदये करोति ॥ २७ ॥
अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रम-जन्मभूमिः । वैदर्भरीति. कृतिनामुदेति सौभाग्यलाभप्रति-भूः पदानाम् ॥ २८ ॥
सहोदरा. कुङ्कुमकेसराणा भवन्ति नून कविताविलासा । न शारदादेशमपास्य दृष्टस्तेषा यद-न्यत्र मया प्ररोहः ॥ २९ ॥
नमो नम. काव्यरसाय तस्मै निषिक्तमन्त. पृषतापि यस्य । सुवर्णता वक्रमुपैति सार्थोर्द्ध-वर्णता याति च दुर्जनस्य ॥३०॥
अर्थो गिरमपिहित पिहितश्च कश्चित्सौभाग्यमेति मरहट्टवधूकुचाम । नान्ध्रीपयोधर इवा-तितरा प्रकाशो नो गुर्जरोस्तन इवातितरा निगूढः ॥ ३१ ॥
रे रे खला. शृणुत मद्वचन समस्ताः स्वर्गे सुधास्ति सुलभा न तु सा भवद्भिः । कुर्मस्तदत्र भवतामुपकारकारि काव्यामृत पिबत तत्परमादरेण ॥ ३२ ॥
वाणी ममैव सरसा यदि रञ्जयित्री न प्रार्थये रसविदामवधानदानम् । सायंतनेषु मकरन्दवतीषु भृङ्गाः कि मल्लिकासु परैमन्त्रणमारभन्ते ॥ ३३ ॥
आख्यातनामवचनाचतुरस्रसन्धिसद्भावललितगुण सरस सुवृत्तम् । आसेदुषामपि दिं कविपुङ्गवाना तिष्ठत्य-खण्डमिह काव्यमय शरीरम् ॥ ३४ ॥
सरसपरिषत्कर्णश्राव्यं कवित्वरसायनं विरसमनसा नेतुं नेहामहे श्रवणान्तिकम् । मृगमदरस बिम्बोष्ठीना कठोरकुचोचितं जघननकटे क्लिन्ने लिम्पेज्जन्महिषस्य क ॥ ३५॥
अमृतजलधे. पाय पाय पयासि पयोधर. किरति करकास्ताराकारा यदि स्फटिकावना । तदिह तुलनामानीयन्ते क्षण कठिना पुन सततममृतस्यन्दोद्वारा गिर प्रैतिभावताम् ॥३६॥
प्रयच्छति चमत्कृति विरचनाविधौ चेतस. सभासु पठितो भवत्यसमसाधुवादासये । प्रथामुप-गतस्तनोत्यतितरामुदार यशो न पुष्यति मनोरथ कमिव काव्यचिन्तामणि. ॥ ३७ ॥
समुल्लसति वाचा सरसमधु-निष्यन्दलहरी समुन्मेषद्रेषी सकलरसपोषोपजनकः। न केषा-माधत्ते मनसि परितोष नवनवैर्विलासैरून्मीलद्विकचितमधूली-परिमलः ॥ ३८ ॥
यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्त.करणहरण नैव कुरुते । मदुक्तिश्चेदन्तर्मद्-यति सुधीभूय सुधिया किमस्या नाम स्यादरसपुरुषा-नादरभरै. ॥ ३९ ॥
परिच्छिन्नस्वादोऽमृतगुडमधुक्षौद्रपयसा कदाचिच्याभ्यासाद्भजति ननु वैरस्यमधिकम् । प्रियाबिम्बोष्ठे वा रुचिरकविवाक्येऽप्यनवधिर्नवानन्दः कोऽपि स्फुरति तु रसोऽसौ निरुपमः ॥ ४० ॥
प्रैसत्तेयः पात्र तिलकयति यं सूक्तिरचना य आद्यः स्वादूना श्रुतिचुलुकलेहेन मधुना । यदात्मानो विद्याः परिणमति यश्चार्थवपुषा स गुम्फो वाणीना कविबृषनिशेव्यो विजयते ॥ ४१ ॥
सदा मध्ये यासामियमृतनिष्यन्दसरसा सरस्वत्युद्दामा वहति बहुमार्गी परिमलम् । प्रसाद ता एता धनपरिचिताः केन महता महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुच्यः ॥ ४२ ॥
नव व्याकरणङ्गमेति पितरं न भ्रातर नार्किर्कं दूरात्सकुचि-तेव गच्छति पुनश्चाण्डालवच्छान्दसात् । मीमांसानिपुणं नपुसकमिति ज्ञात्वा निगस्त्यादरा काव्यालकरणङ्गमयेत्य कविता-कान्ता वृणीते स्वयम् ॥ ४३ ॥
रम्यार्थोक्तिनतूज्ज्वला रसमयप्राणा गुणोल्लासिनी चेतोरञ्जरीतिवृत्ति कवितापाकं वयो बिभ्रती । भावालकरणोचितागमवती सर्वत्र निर्दोष-ताशय्यार्मेङ्क्षति कामिनीव कविता कस्यापि पुण्यात्मनः ॥ ४४ ॥
निर्ह्रादं क्रकचक्षतै. किरति किं कर्णामृतं वल्लकी कि वा मुञ्चति मालती परिमलं पाषाणनिष्पेषणैः । इत्थं तारसर्कर्काशा धियमसौ जल्पोर्विकाल्याकुलैराकूटं कमनीय-कान्तिदमिरंतं कार्य कथ स्पन्दते ॥ ४५ ॥
यन्नाकृष्टसुवर्ण-सूत्रमिव यत्पद्यं सुमेरोस्तटादुन्मीलत्कुरुविन्दकन्दल इव स्वच्छः पदार्थस्तु यः । यत्राप्युल्लसदशुकान्तरलसत्कान्ता-कुचान्तोपमं व्यङ्ग्यं यत्तदहो कवित्वमपरं वाग्देवतोपप्लवः ॥ ४६ ॥
गुम्फ. पङ्कजकुड्मलद्युतिरुरस्तत्केसरोल्लासवानर्थो-ऽप्यन्तरसौरभप्रतितिभ व्यङ्ग्य चमत्कारि यत् । द्वित्रैर्यद्रसिकै-
पाद-टिप्पणी (Footnotes)
| पाद-टिप्पणी (१–१९) | पाद-टिप्पणी |

| १ सहृदयभिन्नानाम्; पक्षे,-पापवताम | १ विदुषाम् |
| २ अमृततुल्यम्, पक्षे,-अमृतबहुलम्. | २ मुरवल्ली |
| ३ शोभनाक्षराणा विन्यासो ग्रथन यत्र, पक्षे-सुवर्णमयम् | ३ आनन्दस्य |
| ४ शोभनरसार्थप्रचुरम्, पक्षे,-देवसमूहबहुलम् | ४ गच्छति. |
| ५ प्रस्फोटनम् | |
| ६ निर्दोष | |
| ७ निर्दोषकव्यास्वादेनेत्यर्थ | |
| ८ एकवर्गघटितत्वादिरूपा | |
| ९ श्रुतिकटुक, पक्षे,-क्रूरतया | |
| १० अविंदग्धप्रयुक्ता , पक्षे,-ग्राममात्रवासिन | |
| ११ व्याकरणसिद्धा , पक्षे,-निर्मलमतय.. | |
| १२ अभ्यन्तरे गूढस्थितान्, पक्षे,-अभ्यन्तरे निलीनान् | |
| १३ प्रतिपाद्यविषयान्, पक्षे,-पदार्थान् | |
| १४ व्यञ्जनाविधयानकुर्वतः; पक्षे,-अप्रकटयत . | |
| १५ प्रसादेन काव्यगुणेन रहितस्य, पक्षे,-निर्मलतया रहितस्य | |
| १६ काव्यस्य | |
| १७ शृङ्गारादि., पक्षे,-जलम्. | |
| १८ काश्मीरदेशम्. | |
| १९ अन्येषामभिमतम्; अन्यै सह विचारविनिमयो वा. |
| ३२ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |

...श्चिरं सहृदयैर्भृङ्गैरिवास्वाद्यते तत्काव्यं न पुनः भ्रमत्कुमुदै- र्यत्किंचिदुज्ज्वलितम् ॥ ४७ ॥ निन्द्यन्ते यदि नाम मन्द- मतिभिर्बकाः कवीनां गिरो रस्तूयन्ते न च नीरसेमृगदृशां वक्रा कटाक्षच्छटा । तद्दग्धव्यविदा सतामपि मनः किं नेहते वक्रतां धत्ते किं न हरः किरीटशिखरे वक्रां कला- मैन्दवीम् ॥ ४८ ॥ सानन्दप्रमदाकटाक्षविशिखैर्यैषां न भिन्नं मनो यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतायितम् । यैर्दुर्वार- सरस्वतीविलसितं द्वित्रैः पदैर्गुम्फितं तेषामप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥ ४९ ॥ वाणि त्वत्पदपद्मरेणु- कणिका या क्षान्तभूमिं सतां सम्प्राप्ता कवितालता परिणता सैवेयमुज्जृम्भते । त्वत्कर्णेऽपि चिराय यत्किसलयं सूक्तापदेशं शिरःकम्पभ्रंशितपारिजातकलिकागुच्छे विधत्ते पदम् ॥ ५० ॥
नाट्यप्रशंसा
प्रत्यङ्गमङ्कुरितसर्वरसायतारनव्योल्लसत्कुसुमराजिविराजि- बन्धम् । धर्मेतराशुरिव वक्रतयातिरम्यं नाट्यप्रबन्धमति- मङ्गलसंविधानम् ॥ १ ॥ देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्न- रुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ २ ॥
कुकाव्यनिन्दा
किं तेन किल काव्येन मृद्यमानस्य यस्य ताः । उद्गन्धे- रिव नायान्ति रसामृतपरम्पराः ॥ १ ॥ किं तेन काव्यमधुना- प्लाविता रसनिर्झरैः । जडात्मानोऽपि नो यस्य भवन्त्यङ्कु- रितान्तराः ॥ २ ॥ यदा प्रकृत्यैव जनस्य रागिणो भृशं प्रदीप्तो हृदि मन्मथानलः । तदात्र भूयः किमनर्थपण्डितैः कुकाव्य- हव्याहुतयो निवेशिताः ॥ ३ ॥ तत्किं काव्यमनल्पपीत- मधुवत्कुर्यान्न यद्बुद्गतं मात्सर्यावृतचेतसां रसविशादप्युद्देति लोमसु । कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम् ॥ ४ ॥ या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिनं सा वास्तवो । या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरास्तिर्यञ्चोऽपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः ॥ ५ ॥
सामान्यकविप्रशंसा
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरामरणजं भयम् ॥ १ ॥ प्रस्तावे हेतुयुक्तानि च पठत्यविशङ्कितः । स कविस्तानि काव्यानि काव्ये तस्य परिश्रमः ॥ २ ॥ सुकवेः काव्यसौभाग्यं सुकविर्वेत्ति नापरः । कलाढवन्न जानाति परः कङ्कणचित्रताम् ॥ ३ ॥ सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे । उत्पादका न बहवः कवयः शरभा इव ॥ ४ ॥ कवयः परितुष्यन्ति नेतरे काव्य- सूक्तिभिः । न ह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः ॥ ५ ॥ कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि । यत्र हंसवयां- सीव भुवनानि चतुर्दश ॥ ६ ॥ अपूर्वो भाति भाग्याः काव्यामृतफले रसः । चर्वणे सर्वसामान्ये स्वादुवित्केवलः कविः ॥ ७ ॥ उत्फुल्लगलैरालापाः क्रियन्ते दुर्मुखैः सुखम् । जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम् ॥ ८ ॥ ते धन्यास्ते महात्मानस्तेषां लोके स्थितं यशः । यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्तिताः ॥ ९ ॥ अमृतोन्मेक्षणे रागं कुर्वन्तु गरुडध्वजाः । कविर्गुरुडवन्मान्यमिन्द्रवज्रादिवृत्तकृत् ॥ १० ॥ काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि । तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति ॥ ११ ॥ अनन्त- पदविन्यासरचना सर्गसा कवेः । बुधो यदि समीपस्थो न कुंजन्मा पुरो यदि ॥ १२ ॥ कविः करोति पद्यानि लालय- त्युत्तमो जनः । तरुः प्रसूते पुष्पाणि मरुद्वहति सौरभम् ॥ १३ ॥ कविः करोति काव्यानि स्वादं जानन्ति पण्डिताः । सुन्दर्या अपि लावण्यं पतिर्जानाति नो पिता ॥ १४ ॥ कविः पिता पोषयति पालको रसिकः पतिः । कवितायुवतेर्नूनं सोदरास्तु विवेकिनः ॥ १५ ॥ तत्त्वं किमपि काव्यानां जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधु- व्रतम् ॥ १६ ॥ साध्वीव भारती भाति सूक्तिसद्भूतचारिणी । आगम्यार्थवस्तुसंसर्गाद्वहिराज्ञा महाकवेः ॥ १७ ॥ कतिपय- निमेषवर्तिनि जन्मजरामरणविह्वले जगति । कल्पान्तकोटि- बन्धुः स्फुरति कवीनां यशःप्रसरः ॥ १८ ॥ कविवाक्या- मृततीर्थस्नानैनैः पूता भृशं यशोदेहाः । येषां त एव भूपा जीवन्ति मृता वृथैवान्ये ॥ १९ ॥ काव्यप्रपञ्चेपुच्छू रचयति काव्यं न सारविद्भवति । तरवः फलानि सुवते विन्दति सारं पतङ्गसमुदायः ॥ २० ॥ विगुणोऽपि काव्यबन्धः साधूना- मानने गतः स्वदते । फूत्कारोऽपि सुवंशैरनूद्यमानः श्रुतिं हरति ॥ २१ ॥ विद्वत्कवयः कवयः केवलकवयस्तु केवलं कपयः । कुलजा या सा जाया केवलजाया तु केवलं माया
पादटिप्पण्यः (Footnotes):
- १ रोमहर्षम् २ कीर्तिशरीरे
- १ स्वर्णकार २ समुद्र ३ अनेकपदानि, पक्षे,-विष्णुपदम्. आकाशमित्यर्थ ४ ब्रह्माण्डादिरससहिता, पक्षे,-वृष्टिप्रदा ५ कवयितु, पक्षे,-शुक्रस्य ६ पण्डित, पक्षे बुधग्रह ७ नास, पक्षे,-कु पृथ्वी तस्या जन्म यस्य मङ्गल इत्यर्थ ८ सान्निध्यम् ९ कीर्तिप्रकाश १० वित्त, निपुण. ११ सुवेणुभि
सामान्यकविप्रशंसा ३३
॥ २२ ॥ अवयः केवलकवयः कीरा स्यु. केवल धीराः।
वीराः पण्डितकवयस्तानवमन्ता तु केवल गवय ॥ २३ ॥
अहमपि परेऽपि कवयस्तथापि परमन्तर परिज्ञेयम्। ऐक्य
रलयोरपि यदि तत्कि करभायते कलमः ॥ २४ ॥ दिवम-
प्युपय[ातानामा]कल्पमनल्पगुणगणा येषाम्। रमयन्ति जग-
न्ति गिर कथमिव कवयो न ते वन्द्या ॥ २५ ॥ यास्यति
सज्जनहस्त रमयिष्यति त भवेच्च निर्दोषा। उत्पादितयापि
कविस्ताम्यति कथया दुहित्रेव ॥ २६ ॥ शीलाविज्जामारुला-
मोरिकाद्याः काव्य कर्तु सन्तु विज्ञा. स्त्रियोऽपि। विद्या वेत्तु
वादिनो निर्विजेतु दातु वक्तु यः प्रवीणः स वन्द्यः ॥ २७ ॥
सहृदया. कविगुम्फनिकासु ये कतिपया त इमे न
विशृङ्खला.। रसमयीषु लतास्विव षट्पदा हृदयसारजुषो न
मुखस्पृश. ॥ २८ ॥ लङ्कापते. संकुचित यशो यद्यत्कीर्तिपात्र
रघुराजपुत्र.। स सर्व एर्वाादिकवे. प्रभावो न कोपनीया
कवयः क्षितीन्द्रै ॥ २९ ॥ जयन्ति ते पञ्चमनादमित्र-
चित्रोक्तिसद्धर्मविभूषणेषु। सरस्वती यद्वदनेषु नित्यमाभाति
वीणामिव वादयन्ती ॥ ३० ॥ कुण्ठत्वमायाति गुण कवीना
साहित्यविद्याश्रमवर्जितेषु। कुर्यादनाद्रेषु किमङ्गनाना केशेषु
कृष्णागुरुधूपवासः ॥ ३१ ॥ महीपते. सन्ति न यस्य
पार्श्वे कवीश्वरास्तस्य कुतो यशांसि। भूपाः कियन्तो न
बभूवुरुर्व्या नामापि जानाति न कोऽपि तेषाम् ॥ ३२ ॥
किं चारुचारित्रविलासशून्या. कुर्वन्ति भूपा. कविसंग्रहेण।
किं जातु गुञ्जाफलभूषणाना सुवर्णकारेण वनेचराणाम्
॥३३॥ प्रतीयमान पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवी-
नाम्। यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गना-
याः ॥ ३४ ॥ कवेरभिप्रायमशब्दगोचर स्फुरन्तमात्रेषु पदेषु
केवलम्। वदद्भिरङ्गै. कृतरोमविक्रियैर्जनस्य तूष्णींभवतो-
ऽयमञ्जलि. ॥ ३५ ॥ स्वप्रज्ञया कुञ्चिकयेव कच्चित्सारस्वत
वक्रिमभङ्गिभाजम्। कवीश्वर. कोऽपि पदार्थकोशमुद्भाव्य
विश्वामरण करोति ॥ ३६ ॥ तर्केषु कर्कशतराः स्युरथापि
पुंसा काले भवन्ति मृदव. कवितासु वाच.। दैत्येन्द्रशैलकु-
लिश दयिताकपोले नाथस्य कोमलमुदाहरण नख नः॥ ३७॥
ख्याता नराधिपतय. कविसंश्रयेण राजाश्रयेण च गता.
कवय. प्रसिद्धीम्। राज्ञा समोऽस्ति न कवे. परमोपकारी
राज्ञो न चास्ति कविना सदृशः सहायः ॥ ३८ ॥ तेऽनन्त-
वाङ्मयमहाणर्वहृष्टपाराः सायात्रिका इव महाकवयो जय-
न्ति। यत्सूक्तिपेलवलवङ्गलवैरवेमि सन्त. सद् सु वदनान्ध-
धिवासयन्ति ॥ ३९ ॥ त्रैलोक्यभूषणमणिर्गुणवर्गबन्धुरेक-
श्चकास्ति कविता सविता द्वितीय । शसन्ति यस्य महिमा-
तिशय शिरोभिः पादग्रह विदधत. पृथिवीभृतोऽपि ॥ ४० ॥
शब्दार्थमात्रमपि ये न विदन्ति तेऽपि या मूर्च्छनामिव मृगा.
श्रवणै पिबन्त.। सरुद्धसर्वकरणप्रसरा भवन्ति चित्रस्थिता
इव कवीन्द्रगिर नुमस्ताम् ॥ ४१ ॥ स्फारेण सौरभभरेण
किमेणनाभेस्तद्दानसारमपि सारमसारमेव। म्रक्सौमनस्यपि न
पुष्यति सौमनस्य प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥ ४२ ॥
अपि मुदमुपयान्तो वाग्विलासै. स्वकीयै परभणितिषु तृप्ति
यान्ति सन्त. कियन्न.। निजघनमकरन्दस्यन्दपूर्णांलवालः
कलगसलिलमेक नेहते कि रसाल. ॥ ४३ ॥ पदव्यक्तिव्यक्ती-
कृतसहृदयानन्दसरणी कवीना काव्ये न स्फुरति बुधमात्रस्य
धिषणा। नवक्रीडावेशव्यसनपिशुनो य. कुलवधूकटाक्षाणा
पन्था स खलु गणिकानामविषयः ॥ ४४ ॥ अय मे
वाग्गुम्फो विपदपदवैदग्ध्यमधुर स्फुरद्बन्धो वन्ध्यो जडहृदि
कृतार्थः कविहृदि । कटाक्षो वामाक्ष्या दरदलितनेत्रान्त-
गलितः किशोरे नि.सार. स तु किमपि यून स्थगयति ॥४५॥
मदुक्तिश्वेद्दन्तैर्मदयति सुधीभूय सुधियः किमस्या नाम
स्यादैरसपुरुषानादरभरै । यथा यूनस्तद्वत्परमरमणीयापि रमणी
कुमाराणामन्त.करणहरण नैव कुरुते ॥ ४६ ॥ मुजतरु-
वनच्छाया येषा निषेव्य महौजसा जलधिरशना मेदिन्यासी-
दसावकुतोभया। स्मृतिमापि न ते यान्ति क्ष्मापा विना यद-
नुग्रह प्रकृतिमहते कुर्मस्तस्मै नम कविकर्मणे ॥ ४७ ॥
यदि प्रभुरुदारधी सुरसकाव्यकौतूहलस्तथैव च सभासदाः
सदसि तद्गुणग्राहिण । सुवर्णसदलकृतिर्भवति तत्र नृत्योद्यता
मदीयरसनापटी रसघटीयमानन्दभू ॥ ४८ ॥ वदन्तु क॑ति-
चिद्घोताल्खफछठेते वर्णान्छठ. घट. पट इतींतरे पटु रतन्तु
वाक्पाटवात्। वय बकुलमञजरीगलदमन्दमाध्वीझरीधुरीण-
पद्तीतिभिर्भणितिभि. प्रमोदास्महे ॥ ४९ ॥ हे राजानस्त्यजत
सुकविप्रेमबन्धे विरोध शुद्धा कीर्ति. स्फुरति भवता नूनमेत-
त्प्रसादात्। तुष्टैर्बद्ध तदलघु रघुस्वामिन. सच्चरित्र कुद्वैर्नींत-
स्त्रिभुवनजयी हास्यमार्गं दशास्यः ॥ ५० ॥ अर्थान्केचिदु-
पासते कृपणवत्केचित्त्वलकुर्वते वेश्यावत्खलु धातुवादिन
इवोद्बध्नन्ति केचिद्रसान्। अर्थालंकृतिसंद्रैर्सेद्रवमुचा वाचा
प्रशस्तिस्पृशा कर्तारः कवयो भवन्ति कतिचित्पुण्यैरगण्यैरिह
॥ ५१ ॥ मन्दं निक्षिपते पदैानि परित. शब्दै समुद्दीक्षते
१ वाल्मीके २ 'चावी'इति लोके
५ सुरभा
१ कविता २ तोषयति ३ नीरम ४ शोभनान्यक्षराणि, पक्षे,-
हेम ५ काव्यरम, पक्षे,-उदकम् ६ वैयाकरणा ७ नैयायिका
८ द्रव्यम्, पक्षे,-काव्यार्थान् ९ भूषणानि, पक्षे,-काव्यालकरणानि
१० पारद, पक्षे,-काव्यरस ११ सुप्तिङन्तादानि, पक्षे,-पादविक्षेपे
चरणान् १२ शब्द शुद्धो वापशब्दो वेति सम्यग्विचारयति, पक्षे,-
ध्वनिमाकर्णयति
३४ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
नानार्थाहरणं च कोङ्क्षति मृदोलंकारमाकर्षति । आदत्ते सकलं सुवर्णनिचयं धत्ते रसान्तर्गतं दोषान्वेषणतत्परो विज- यते चोरोपमः सत्कविः ॥ ५२ ॥ स्वेच्छाभङ्गुरभाग्यमेघ- तडितः शक्या न रोद्धुं श्रियः प्राणानां सततं प्रयाणपटह- श्रद्धा न विश्राम्यति । त्राणं येऽत्र यशोमये वपुषि वः कुर्व- न्ति काव्यामृतैस्तानाराध्य गुरून्विधत्त सुकवीन्निर्गर्वमूर्धी- श्वराः ॥ ५३ ॥ कल्याणं भगवत्कथाकथनतः काव्यं विधातुः कवेस्तस्यैवाङ्गतया क्वचिद्रचयतः शृङ्गारवीरादिकम् । को दोषो भविता यदत्र कविताशैले समाश्रीयते पन्था व्यास- वसुधराश्रुतिभवग्रन्थादिषु प्रेक्षितः ॥ ५४ ॥ ते भूमिपतयो जयन्ति नतयो येषां द्विषद्भूभृता ते वन्द्या यतयो विशान्ति मतयो येषां परे ब्रह्मणि । ते श्लाघ्याः कवयो दयोमदभर- व्याजृम्भमाणाङ्गनादृक्पाता इव तोषयन्ति हृदयं येषां गिरां संचयाः ॥ ५५ ॥ भूतावेशनिवेशिताशय इव श्लोकं करो- त्याशु यः श्लाघन्ते कविरद्भूतोऽयमिति तं मिथ्या जना विस्मिताः । द्वित्राण्येव पुरः पदानि रचयन्पश्चात्समालोचयन्दूरं यः कवितां निनीषति कविः कामेव स स्तूयताम् ॥ ५६ ॥ सत्यं सन्ति गृहे गृहेऽपि कवयो येषां वचश्चातुरी खे हर्म्ये कुलकन्यकेव लभते स्वल्पैर्गुणैर्गौरवम् । दुष्प्रापं तु कोऽपि कोविदमतिर्यद्वाग्रसग्राहिणा पण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तुं क्षमा ॥ ५७ ॥ धन्यास्ते कवयो यदीयरमना- रूक्षाध्वसंचारिणी धावन्तीव सरस्वती द्रुतपदन्यासेन निष्क्रा- मति । अस्माकं रसपिच्छिले पथि गिरां देवी नवीनोदयत्पी- नोत्तुङ्गपयोधरेव युवतिर्मान्थर्यमालम्बते ॥ ५८ ॥ साहित्ये सुकुमारवस्तुनि दृढन्यासग्रहग्रन्थिले तर्के वा सयि संविधा- तरि समं लीलायते भारती । शय्या वास्तु मृदूत्तरच्छदपटा दर्भार्डुरैरास्तृता भूमिर्वा हृदयंगमो यदि पतिस्तुल्या रति- र्योषिताम् ॥ ५९ ॥ येषां कोमलकाव्यकोशकलालीलावती भारती तेषां कर्कशतर्कवक्रवचनोद्वारेऽपि किं हीयते । यैः कान्ताकुचमण्डले कररुहाः सानन्दमारोपितास्ते किं मत्त- करीन्द्रकुम्भशिखरे नारोपणीया शराः ॥ ६० ॥ तर्के कर्कशवक्रवाक्यगहने या निष्ठुरा भारती सा काव्ये मृदुलो- क्तिसारसुरभौ सादेव मे कोमला । या प्रायः प्रियविप्रयु- क्तवनिताहत्कर्तने कर्तरी प्रेयोलालितयौवंते न मृदुला सा किं प्रसूनार्वली ॥ ६१ ॥ मातङ्गीमिव माधुरीं ध्वनिविदो नैव स्पृशन्त्युत्तमा व्युत्पत्तिं कुलकन्यकामिव रसोन्मत्ता न पश्यन्त्यमी । कस्तूरीघनसारसौरभसुहृद्व्युत्पत्तिमाधुर्ययोर्योगः कर्णरसायनं सुकृतिनः कस्यापि संजायते ॥ ६२ ॥ यत्सा- रस्वतवैभवं गुरुकृपापीयूषपाकोद्भवं तल्लब्धुं कविनेव नैव हठतः पाठप्रतिष्ठाजुषाम् । कासारं दिवस वसन्नपि पयःपूरं परं पङ्किलं कुर्वाणः कमलाकरस्य लभते किं सौरभं सेरिभः ॥ ६३ ॥ अस्थाने गमिता लय हतधिया वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा । स्थाने तु व्यथिता सता प्रभवति प्रख्या नये भूतये चेतोनिर्वृतये परो- पकृतये श्रान्ते शिवावासये ॥ ६४ ॥ वल्मीकप्रभवेण राम- नृपतिर्व्यासेन धर्मात्मजो व्याख्यात किल कालिदासकविना श्रीविक्रमाङ्को नृपः । भोजश्चित्तपबिल्हणप्रभृतिभिः कर्णोऽपि विद्यापते ख्यातिं यान्ति नरेश्वराः कविवरैः स्फारैर्न भेरीरवैः ॥ ६५ ॥ येऽप्यासन्निमकुम्भशायितपदा येऽपि श्रियं लेभिरे येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः । तांल्लोको- ऽयमवैति लोकतिलकान्स्नेहऽप्यजातानिव भ्रातः सकविकृत्य किं स्तुतिशतैरन्व जगत्त्वा विना ॥ ६६ ॥ मौलौ मन्दार- दामभ्रमदलिपटलीकाकली श्रोणिबिम्बे कूजत्काञ्चीकलापं चरणकमलयोर्मञ्जुमञ्जीरशिञ्जाम् । उत्सङ्गे कीरगीतिं स्तनभुवि मसृणं वल्हकीपञ्चमं वा यत्काव्ये ढत्तकर्णा शिव शिव मनुते भारती भारमेव ॥ ६७ ॥ कस्याचिद्व्राचि केश्चिन्ननु यदि विहितं दूषणं दुर्दुढैश्छिन्नं किं नस्तदा स्यात्प्रथित- गुणवतां काव्यकोटीश्वराणाम् । वाहाश्चेद्रन्धवाहाधिकविहित- जवाः पञ्चषाश्चान्धखञ्जाः का हानिः शेरशाहक्षितिप- कुलमणेरश्वकोटीश्वरस्य ॥ ६८ ॥
विशिष्टकविप्रशंसा
अमरसिंहः
प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसक्तौ गाम्भीर्ये रसवति च काव्यार्थरचने । अगम्यायामन्तर्दिशि परिणता- र्थवचसोर्मतं चेदस्माकं कविरमरसिंहो विजयते ॥ १ ॥
कालिदासः
कवयः कालिदासाद्याः कवयो वयमप्यमी । पर्वते पर- माणौ च पदार्थत्वं प्रतिष्ठितम् ॥ २ ॥ निर्गतामलब्याक्यस्य कालिदासस्य सूक्तिषु । प्रीतिर्मधुरमार्द्रासु मञ्जरीष्विव जायते ॥ ३ ॥ कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च । अन्ये कवयः कपयश्चापलमात्रं परं दधति ॥ ४ ॥ वयमपि कवयः कवयः कवयोऽपि च कालि-
१ श्लेषेण ०वनिना वानेकार्थानां संपादनम्, पक्षे,-सुवर्णरूप्यादीनां हरणम् २ इच्छति ३ उपमालंकारम्, पक्षे,-कङ्कणादिभूषणम् ४ सुरुचिरवर्णानां संचयम्, पक्षे,-हेमसंचयम् ५ शृङ्गारादिरसमिश्रम्, पक्षे,-रसा पृथ्वी तदन्तर्गतम् ६ काव्यदोषाणां गवेषणे तत्परः, पक्षे,-दोषा रात्रिरस्त्या मन्वेषण आसक्तः ७ वसुंधरा पृथ्वी तस्या श्रुतिर्लक्षणाया वल्मीक तत्र भवो वाल्मीकि ८ विरहित ९ युवतिसमूहे १ कर्पूरः २ महिषः ३ मृते
विशिष्टकविप्रशंसा ३५
| दासाद्याः । दृषदो भवन्ति दृषदश्चिन्तामणयोऽपि हा दृषदः ॥ ५ ॥ साकूतमधुरकोमलैविलासिनीकण्ठकूजितप्राये । शिक्षासमयेऽपि मुदे रतीलीलाकालिदासोक्ती ॥ ६ ॥ पुरा कवीना गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासाः । अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥ ७ ॥
गणेश्वरः
गणेश्वरकवेर्वचोविरचनैकवाचस्पते. प्रसन्नगिरिनन्दिनी-चरणपल्लव ध्यायतः । तथा जयति भारती भगवती यथा सा सुधा सुधीभवति सुभ्रुवामधरमाधुरी म्लायति ॥८॥
गुणाढ्यः
शश्वद्वाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढ्येन निःशेषो रञ्जितो जन. ॥ ९ ॥ सैमुद्दीपिकतदर्पा कृतगौरीप्रसाधना । हरलीलेव लोकस्य विख्याता बृहत्कथा ॥ १० ॥ अतिदीर्घजीविदोषाद्द्यासेन यशोऽपहारित हन्त । कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्न ॥ ११ ॥
गोविन्दराजः
इन्दुप्रभारसविद् विहग विहाय कीरानने स्फुरसि भारति का रतिस्ते । आद्य यदि श्रयसि जल्पतु कौमुदीना गोविन्दराजवचसा च विशेषमेष ॥ १२ ॥
जगन्नाथपण्डितः
कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वासः । नृत्यति पिनाकपाणौ नृत्यन्त्यन्येऽपि भूतवेतालाः ॥ १३ ॥ माधुर्यैरपि धुर्यांद्राक्षाक्षीरेक्षुमाक्षिकादीनाम् । वन्ध्यैव माधुरीय पण्डितरत्नस्य कवितायाः ॥ १४ ॥ गिरा देवी वीणागुणरणनहीनादरकरा यदीयाना वाचाममृतमयमाचामति रसम् । वचस्तस्याकर्ण्य श्रवणसुभग पण्डितपतेर्धुन्वन्मूर्धान नृपशुरथवाय पशुपति ॥ १५ ॥ मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा कदाचित्केषाचित्खलु हि विदधीरन्नपि मुदम् । ध्रुव ते जीवन्तोऽप्यहह मृतका मन्दमतयो न येषामानन्द जनयति जगन्नाथभणितिः ॥ १६ ॥
जयदेवः
साध्वी मौध्वीक चिन्ता न भवति भवतः शर्करे कर्कशासि द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीर रसस्ते । माकन्द क्रन्द कान्ताधर धरणितल गच्छ यच्छन्ति भाव यावच्छृङ्गारसारस्वतमिह जयदेवस्य विश्वग्वचासि ॥ १७ ॥ | ज्योतिरीशः
यश्चत्वारि शतानि बन्धघटनालंकारभाञ्जि द्रुतं श्लोकाना विदधाति कौतुकवशादेकाहमात्रे कवि. । स्यातः क्ष्मातलमण्डलेष्वपि चतुःषष्टेः कलाना निधिः सगीतागमनागरो विजयते श्रीज्योतिरीशः कृती ॥ १८ ॥
दण्डी
जाते जगति वाल्मीकौ कविरित्यभिधामवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥ १९ ॥ त्रयोऽध्ययस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः । त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥ २० ॥
द्रोणः
सरस्वतीपवित्राणा जातिस्तत्र न देहिनाम् । व्यासस्पर्धी कुलालोऽभूद्यद्रोणो भारते कविः ॥ २१ ॥
धनदः
यथेय वाग्देवी सुकविमुखवासव्यसनिनी कुहूण्ठीषण्ठे विलसति तथा चेदनवधिः । तदा भूमीभागे निरुपमतमः किचिदिव वा समाधत्ते साम्य धनदमणितीना मधुरिमा ॥ २२ ॥
नरहरिः
यशोधननिधेर्यदा नरहरेर्वचो वर्ण्यते तदा गतमदा मदालसमरालवालरवाः । न विश्रमचरीकरीभवति चाधरी माधुरी सुधाकरसुधाझरीमधुकथा वृथा जायते ॥ २३ ॥
प्रवरसेनः
कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य पर पार कपिसेनेव सेतुना ॥ २४ ॥
बाणः
हृदि लग्नेन बाणेन यन्मन्दोऽपि पद्क्रम । भवेत्कविकुरङ्गाणा चापल तत्र कारणम् ॥ २५ ॥ शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते । शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ २६ ॥ जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमाप्तु वाणी बाणो बभूवेति ॥ २७ ॥ श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरेऽलकारे कतिचित्सदर्थविषये चान्ये कथावर्णने । आः सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरीसचरी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चानन. ॥ २८ ॥
बिल्हणः
बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं कर्मेति |
१ साभिप्रायम् २ रमोत्कर्षधायक रसनिष्ठगुणवत् ३ शब्दगुणशालि ४ अन्यर्था ५ कामोद्दीपिका, पक्षे,-भस्मीकृतमदना ६ वर्णितगौरीमाहात्म्या, पक्षे,-अलकृता पार्वती ययः ७ गुणाढ्यकृतो ग्रन्थ ८ जीवित्त्वम् ९ शवा १० हे मधो ११ आक्रोश कुरु १२ सर्वत .
१ कुमुदव च्छुभ्रा, पक्षे,-कुमुदो नाम कपि शोभते यत्र २ दिगन्तरे पक्षे,-समुद्रमुलङ्घ्य लङ्कादेशे, ३ काव्यविशेष , पक्षे,-सेतुबन्ध ४ द्रुपदपुत्री ५ यथा 'रावण. सीता जहार' इति वाक्ये 'रावण' इति पद बिन्दुद्वन्द्व (विसर्ग) युक्त कर्तृ, 'सीता' इति शिरोबिन्दु (अनुस्वार) युक्त कर्म एवमेव कर्तृकर्मपदे सर्वत्र भगवत इति निश्चयवन्तो जना
३६ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
प्रतिबोधितान्वयविदो ये येऽपि तेभ्यो नमः । ये तु ग्रन्थ- सहस्रशाणकषणत्रुट्यत्कलङ्कैर्गुणैर्मुलेखैः कवयन्ति विह्वण- कविस्तेष्वेव संनह्यति ॥ २९ ॥
भट्टारहरिचन्द्रः पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः । भट्टारहरि- चन्द्रस्य गद्यबन्धो नृपायते ॥ ३० ॥
भवभूतिः सुकविद्वितयं मन्ये निखिलेऽपि महीतले । भवभूति- शुकश्चायं वाल्मीकिस्तु तृतीयकः ॥ ३१ ॥ भवभूते सब- न्धाद्भूधरभूरेव भारती भाति । एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥ ३२ ॥ प्लावलीपूर्वकमन्यदास्तामसीम- भोगस्य वचोमयस्य । पयोधरस्येव हिमाद्रिजायाः परं विभूषा भवभूतिरेव ॥ ३३ ॥
भासः सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकै । सपताकैर्यशो लेभे भासो देवकुलैरिव ॥ ३४ ॥
मयूरः तावत्कविविहङ्गानां ध्वनिलकेषु शस्यते । यावन्नो विशति श्रोत्रे मयूरमधुरध्वनिः ॥ ३५ ॥ दर्पं कविभुजङ्गानां गता श्रवणगोचरम् । विषविद्येव मायूरी मायूरी वाङ्निकृन्तति ॥ ३६ ॥
मातङ्गदिवाकरः अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः । श्रीहर्षस्या- भवत्सभ्यः समो बाणमयूरयोः ॥ ३७ ॥
मुरारिः भवभूतिमनादृत्य निर्वाणमतिना मया । मुरारिपद- चिन्तायामिदमाधीयते मनः ॥ ३८ ॥ मुरारिपदभक्तिश्चेत्तदा माघे रतिं कुरु । मुरारिपदभक्तिश्चेत्तदा माघे रतिं कुरु ॥ ३९ ॥ देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धि- र्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिमग्न- पीवरतनुर्जानाति मन्थाचलः ॥ ४० ॥
रत्नखेटदीक्षितः विपश्चितामैपंश्चिमे विवादकेलिनिश्चले सपत्नजित्ययत्नतस्तु रत्नखेटदीक्षिते । बृहस्पतिः क्व जल्पति प्रसर्पति क्व मेर्प- राडसमुस्वस्तु षण्मुखः सुदुर्मुखश्चतुर्मुखः ॥ ४१ ॥
राजशेखरः बभूव वल्मीकभवः कविः पुरा ततः प्रपेदे भुवि भर्तृ- मेण्ठताम् । स्थितः पुनर्यो भवभूतिरेखया स वर्तते संप्रति राजशेखर ॥ ४२ ॥ पातु श्रोत्ररसायनं रचयितुं वाचः सतां समता व्युत्पत्तिं परमामवाप्तुमवधिं लब्धुं रसस्रोतसः । भोक्तुं स्वादु फलं च जीविततरोरर्थ्यस्ति ते कौतुकं तन्नातः शृणु गजशेखरकवे सूक्ती सुधास्यन्दिनी ॥ ४३ ॥
वाल्मीकिः कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम् । चन्द्रि- कामिव चिन्वन्ति चकोरा इव साधव ॥ ४४ ॥ सदूषणापि निर्दोषी सखरापि सुकोमला । नमस्तस्मै कृता येन रम्या रामायणी कथा ॥ ४५ ॥ योगीन्द्रश्छन्दसा सृष्टा रामायण- महाकवि । वल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः ॥ ४६ ॥ लौकिकानां हि साधूनामर्थं वागनुवर्तते । ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥ ४७ ॥ आदिकवी चतु- रास्यौ कमलजवल्मीकजौ वन्दे । लोकश्लोकविधात्रोर्ययोर्भिदा लेशमात्रेण ॥ ४८ ॥ तमृषिं मनुष्यलोकप्रवेशविश्रामशाखिनं वाचाम् । सुरलोकादवतारप्रान्तऋखेदच्छिदं वन्दे ॥ ४९ ॥ विहितघनालङ्कारं विचित्रवर्णावलीमयस्फुरणम् । शक्रा- युधमिव वक्रं वल्मीकभुवं मुनिं नौमि ॥ ५० ॥ सति काकुत्स्थकुलोन्नतिकारिणि रामायणेऽपि कि काव्यम् । रोहति कुल्या गङ्गापूरे किं बहुरसे वहति ॥ ५१ ॥ भास्व- द्वंशवतसकीर्तिरमणीरङ्गप्रसङ्गस्वनद्वादित्रप्रथमध्वनिर्विजयते वल्मीकजन्मा मुनिः । पीत्वा यद्वदनेन्दुमण्डलगलत्काव्या- मृतान्धेः किमप्याकल्पं कविनूतनाम्बुदमयी कादम्बिनी वर्षति ॥ ५२ ॥
विजया सरस्वतीव कार्णाटी विजयाङ्का जयत्यसौ । या वैदर्भ- गिरा वासः कालिदासादनन्तरम् ॥ ५३ ॥
विज्जका नीलोत्पलदलश्यामां विज्जका मामजानता । वृथैव दण्डिना प्रोक्तं सर्वशुक्ला सरस्वती ॥ ५४ ॥
१ सुप्तिङन्ताद्यक्षरसमूहः, पक्षे,-चरण २ मनोहरः, पक्षे,-मुक्ताहारैर्युक्तः ३ अक्षराणि, पक्षे,-ब्राह्मणक्षत्रियादि ४ शिवैश्वर्यस्य ५ नगेन्द्रकन्या ६ सरस्वती ७ भवभूतिकृते करुणरसप्रधाने नाटके उत्तररामचरित इत्यर्थे ८ अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्' इति पद्ये ९ नाटकाचार्यः, पक्ष,-वास्तुविद्याज्ञाता १० प्रस्तावना, पक्षे,-अट्टालदिगृहायवविशेष ११ नाटकावयवविशेषः, पक्षे,-ध्वज १२ शिवैश्वर्यम्, पक्षे,-एतन्नामानं कविम् १३ विष्णुः, पक्षे,-कविविशेष १४ माघकाव्ये १५ अधे पातके मा प्रीतिं कुर्वित्यर्थः १६ मन्दराद्रि १७ पूर्वं इत्यर्थे
१ वासुकि २ दूषणो राक्षसविशेषः, पक्षे,-काव्यदोषा ३ खरो राक्षसविशेषः, पक्षे,-कर्कशत्वम् ४ वाल्मीक्यादीनाम् ५ ले लकारे शकारमात्रयोगेण लोकश्लोकयोर्भेदः, पक्षे,-किञ्चिन्मात्रम् ६ विहिता घना बह्वोऽलङ्कारा उपमादयो येन तम्, पक्षे,-विहितं घनानां मेघानामलकरणं येन तम् ७ विचित्रा वर्णानामक्षराणां यावली पङ्क्तिस्तत्प्रचुरस्फुरणं स्फूर्तिर्यस्य तम्, पक्षे,-वर्णा नीलपीताद्यस्तत्प्राङ्ग्विकार स्फुरणमुत्पत्तिर्यस्य तम् ८ वक्रोक्तिकुशलम्, पक्षे, यथाश्रुतम् ९ वाल्मीकिम्, पक्षे,-वल्मीकाज्जातम् इन्द्रधनुषोऽपि तत एवोत्पत्तिरिति लौकिकम् 'वल्मीकाग्राद्भवति धनु खण्डमाखण्डलस्य' इति कालिदास.
विशिष्टकविप्रशंसा-कुकविनिन्दा
३७
व्यासः
नमः सर्वविदे तस्मै व्यासाय कविधेसे । चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ५५ ॥ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शम्भुर्भगवान्बादरायणः ॥ ५६ ॥ श्रवणाञ्जलिपुटपेयं विरचितवान् भारताख्यममृतं यः । तमहंमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ ५७ ॥ व्यासगिरा निर्यास सारं विश्वस्य भारतं वन्दे । भूषणतयैव सञ्ज्ञा यैदङ्किता भारती वहति ॥ ५८ ॥
शाक्लमह्लः
एकोऽभूत्पुलिनात्ततस्तु नलिनाच्चान्योऽपि नौकोरभूत्प्राच्यान्ते त्रय एव दिव्यकवयो दीव्यन्तु देव्या गिरा । अर्वाचो यदि गद्यपद्यरचनाचातुर्यवागुद्गतास्तानसर्वानतिशय्य खेलतितरा शाक्लमह्लः कवि ॥ ५९ ॥
सातवाहनः
ॲविनाशिनमग्राम्यमकरोत्सातवाहनः । विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः ॥ ६० ॥
सुदर्शनः
न मुग्धदयिताधरे न विषभाजि रत्नाकरे न राहुमुखकोटरे न किल तार्क्ष्यपक्षान्तरे । सुदर्शनकवीश्वरे रसिकचक्रचूडामणौ गुणौकसि सुधा बुधास्त्यजत सान्द्रचन्द्रप्रभम् ॥ ६१ ॥
सुबन्धुः
कवीनामगलद्दर्पो नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ ६२ ॥
कविवृन्दम्
उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्य माघे सन्ति त्रयो गुणाः ॥ ६३ ॥ माघेन विघ्नितात्साहा नोत्सहन्ते पदकमे । खरन्तो भारवेरेव कवयः कपयो यथा ॥ ६४ ॥ श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः । त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना ॥ ६५ ॥ प्राचेतसव्यासपाराशराद्याः प्राञ्चः कवीन्द्रा जगदक्षितास्ते । गोष्ठी नवीनापि महाकवीनां पूज्या गुणज्ञैर्भुवनोपकर्त्री ॥ ६६ ॥ धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटखर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभाया रत्नानि वै वररुचिर्नव विक्रमस्य ॥ ६७ ॥ यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो भासो हासः कविकुलगुरुः कालिदासो विलासः । हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः केषां नैषा कथय कविताकामिनी कौतुकाय ॥ ६८ ॥ भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कविर्मेण्ठो भारविकालिदासतरलाः स्कन्दः सुबन्धुश्च यः । दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरस्वती भगवती के कस्य सर्वेऽपि ते ॥ ६९ ॥ वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धि गिरां जानीते जयदेव एव शरणं श्लाघ्यो दुरूहद्रुते । शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयीकविक्ष्मापतिः ॥ ७० ॥ माघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः श्रीहर्षः कालिदासः कविरथ भवभूत्याह्वयो भोजराज । श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो भट्टबाण ख्याताश्चान्ये सुबन्ध्यादय इह कृतिभिर्विश्वमाह्लादयन्ति ॥ ७१ ॥
कुकविनिन्दा
अप्रगल्भा पदन्यासे जैननीरागहेतवः । सन्त्येके बहुलालापाः कवयो बालका इव ॥ १ ॥ कविभिर्नृपसेवांसु वित्तालंकारकारिणी । वाणी वेश्येव लोमेन परोपकरणीकृता ॥ २ ॥ अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः । अनाख्यातः सता मध्ये कविश्चौरो विभाव्यते ॥ ३ ॥ प्रायः कुकवयो लोके रागाधिष्ठितदृष्टयः । कोकिला इव जायन्ते वाचालः कामकारिणः ॥ ४ ॥ किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी । कथेव भारती यस्य न प्राप्नोति दिगन्तरम् ॥ ५ ॥ किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ ६ ॥ मुखमात्रेण काव्यस्य करोत्यहृदयो जनः । छायामच्छामपि श्यामां राहुस्तारापतेरिव ॥ ७ ॥ श्लोकार्थस्वादकाले तु शब्दोत्पत्तिविचिन्तकाः । नीवीविमोक्षवेलायां वस्त्रमौल्यविचिन्तका ॥ ८ ॥ अधिभिन्नपल्लिगल्ल स्याद्गलत्पल्लवोऽपि वाचालः । नागरनरवरपरिषदि कस्य मुखादक्षरं क्षरति ॥ ९ ॥ गणयन्ति नैपशब्दं न वृत्तभङ्गं क्षयं न चौर्थस्य । रसिकलेनाकुलिता वेश्येवापतयः कुकवयश्च ॥ १० ॥ दुर्जनहुताशतस काव्यसुवर्णं विशुद्धिमायाति । दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥ ११ ॥ कविरनुहरति च्छाया पदमेक पादमेकमर्थ वा । सकलप्रबन्धहर्त्रे साहसकर्त्रे नमस्तस्मै ॥ १२ ॥ विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न
१ व्यास २ भारतचिह्निताम् ३ व्यास ४ ब्रह्मदेव ५ वाल्मीकिः ६ चिरस्थायिनम्, पक्षे,-नाश न गच्छन्तम् ७ मात्राछन्दादि, पक्षे,-मूल्यवन्तम् ८ ग्रन्थविशेष, पक्षे,-भाण्डागारम् ९ एतन्नाम्ना प्रबन्धेन, पक्षे-इन्द्रदत्तया १० इन्द्रियविशेषम्, पक्षे,-कुरुसेनानायक
१ कविदिशेषः २ सुस्निग्धन्तादि, पक्षे,-अङ्गि ३ जनाना नीरागो विरस्ता तस्य हेतव, पक्षे,-जनन्या मातू रागहेतव प्रीतिहेतुभूता ४ बहुला आलापा येषाम्, पक्षे,-बही या लाला ता पिवन्ति ते ५ वर्णान्तरपरिवर्तनेन ६ गोपने ७ रक्ततया, पक्षे, कोपेन ८ चालयति ९ दुःशब्दम् १० इन्द्रवज्रादि, पक्षे,-शीलम् ११ वाच्यस्य, पक्षे,-द्रव्यस्य १२ जारा