सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 423, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 423
| १४ | सुभाषितभाण्डागारम् | | | :--- | :--- |
| बलीयसी केवलमीश्वरेच्छा । (म० भा०) | भवितव्यता बलवती । (अ० शा०) |
| बहुरत्ना वसुंधरा । | भवितव्यं भवत्येव कर्मणामीदृशी गतिः । (म० भा०) |
| बहुवचनमल्पसारं यः कथयति विप्रलापी सः । | भवितव्यस्य नासाध्यं दृश्यते बत दृश्यताम् । (क० स०) |
| बहुविघ्नास्तु सदा कल्याणसिद्धयः । (क० स०) | भवितव्यानां द्वाराणि भवन्ति सर्वत्र । (अ० शा०) |
| बह्वाश्चर्या हि मेदिनी । (क० स०) | भवेन्न यस्य यत्कर्म स तत्कुर्वन्विप्रणश्यति । (क० स०) |
| बालानां रोदनं बलम् । | भवो हि लोकाभ्युदयाय तादृशाम् । |
| बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि । | भस्मीभूतस्य जीवस्य पुनरागमनं कुतः । (नै० च०) |
| बुद्धिः कर्मानुसारिणी । (चा० नी०) | भाग्येनैव हि लभ्यते पुनरसौ सर्वोत्समः सेवकः । |
| बुद्धिर्नाम च सर्वत्र मुख्यं मित्रं न पौरुषम् । (क० स०) | भार्या मूलं गृहस्थस्य । (दम्पती०) |
| बुद्धेः फलमनाग्रहः । | भार्यासम् नास्ति शरीरतोषणम् । |
| बुद्ध्या वा जितमपरेण कासमाविष्कुर्वीत स्वगुणमपत्नपः क एव । (शि० व०) | भार्याहीनं गृहस्थस्य शून्यमेव गृहं मतम् । |
| बुभुक्षितः किं न करोति पापम् । (प० त०) | भावस्थिराणि जननान्तरसौहृदानि । (अ० शा०) |
| बुभुक्षितं न प्रतिभाति किंचित् । | भिक्षुको भिक्षुकं दृष्ट्वा श्वानवद्गुद्गुरायते । |
| बुभुक्षितैर्व्याकरणं न भुज्यते । | भिन्नरुचिर्हि लोकः । (र० व०) |
| बोधे बोधे सच्चिदानन्दभासः । | भीता इव हि धीराणां यान्ति दूरे विपत्तयः । (क० स०) |
| ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् । (नै० च०) | भूतार्थकथने यस्य स्थेयस्येव सरस्वती । |
| भक्तानामनिर्वाच्यं हि चेष्टितम् । (क० स०) | भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः । |
| भक्त्या कार्यधुरं वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः । | भूभृद्रत्नं कनकनिशिखरी । (प्र०भ०) |
| भक्त्या हि तुष्यन्ति महानुभावाः । | भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति । |
| भेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः । (प० त०) | भोगरत्नं मृगाक्षी । (प्र०भ०) |
| भग्नेऽपि हि मृणालानामनुबध्नन्ति सन्तवः । | भोगो भूषणते धनम् । |
| भजन्ति वैतसीं वृत्तिं राजानः कालवेदिनः । (क० स०) | भोग्यं किं रमणी विना । |
| भजन्त्यात्मंभरित्वं हि दुर्लभेऽपि न साधवः । (क० स०) | भ्रष्टस्य का वा गतिः । |
| भद्रंकृदामुयाद्भद्रमभद्रं चाप्यभद्रकृत् । (क० स०) | मणिना भूषितः सर्पः किमसौ न भयङ्करः । (भर्तृ०) |
| भद्रमभद्रं वा कृतमात्मनि कल्प्यते । (क० स०) | मणेस्तुल्यं मूल्यं सहजसुभगस्य द्युतिमितः । |
| भयकाङ्क्षयकोपानां गृहं हि छान्दसा द्विजाः । (क० स०) | मतिरेव बलाद्गरीयसी । |
| भये सीमा मृत्युः । (ध० ख०) | मदमूढबुद्धिषु विवेकिता कुतः । (शि० व०) |
| भर्ता च स्त्रीकृतं पापम् । | मद्यपस्य कुतः सत्यम् । |
| भर्त्तारं हि विना नान्यः सतीनामस्ति बान्धवः । (क० स०) | मद्यपाः किं न जल्पन्ति । |
| भर्त्तृमार्गानुसरणं स्त्रीणां च परमं व्रतम् । (क० स०) | मद्ये मारैकसुहृदि प्रसक्ता स्त्री सती कुतः । (क० स०) |
| भवति महत्सु न निष्फलः प्रयासः । (शि० व०) | मधुसमयभूषा मनसिजः । (प्र०भ०) |
| भवति योजयितुर्वचनीयता । | मधुरविधुरमिश्राः सृष्टयो हा विधातुः । (प्र० रा०) |
| भवति हि विक्लवता गुणोद्धतानाम् । (शि० व०) | मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली । |
| भवति हृदयदाही शल्यतुल्यो विपाकः । | मनःपूतं समाचरेत् । (का० नी०) |
| भजन्ति क्लेशबहुलाः सर्वस्यापीह सिद्धयः । (क० स०) | मन एव मनुष्याणां कारणं बन्धमोक्षयोः । (भ०गी०) |
| भवन्ति वाचोवसरे प्रयुक्ता ध्रुवं प्रविष्टेष्टफलोदयाय । (कु० स०) | मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् । (शा० प०) |
| भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः । (कु० स०) | मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् । (भर्तृ०) |
| भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः । (कु० स०) | मनीषिणः सन्ति न ते हितैषिणः । |
| भवन्त्युदयकाले हि सत्कल्याणपरम्पराः । (क० स०) | मनोभूषा मैत्री । (प्र० भ०) |
| भवन्त्येव हि भद्राणि धर्मादेव यदावृशत् । (क० स०) | मनोरथानामगतिर्न विद्यते । (कु० स०) |
| मनो हि जन्मान्तरसंगतिज्ञम् । (र० व०) | |
| मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः । (मे० दू०) | |
| मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः । | |
| मयि तु कृतनिघाते किं विदध्याः परेण । |