भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 423, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 423

| १४ | सुभाषितभाण्डागारम् | | | :--- | :--- |

बलीयसी केवलमीश्वरेच्छा । (म० भा०)भवितव्यता बलवती । (अ० शा०)
बहुरत्ना वसुंधरा ।भवितव्यं भवत्येव कर्मणामीदृशी गतिः । (म० भा०)
बहुवचनमल्पसारं यः कथयति विप्रलापी सः ।भवितव्यस्य नासाध्यं दृश्यते बत दृश्यताम् । (क० स०)
बहुविघ्नास्तु सदा कल्याणसिद्धयः । (क० स०)भवितव्यानां द्वाराणि भवन्ति सर्वत्र । (अ० शा०)
बह्वाश्चर्या हि मेदिनी । (क० स०)भवेन्न यस्य यत्कर्म स तत्कुर्वन्विप्रणश्यति । (क० स०)
बालानां रोदनं बलम् ।भवो हि लोकाभ्युदयाय तादृशाम् ।
बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ।भस्मीभूतस्य जीवस्य पुनरागमनं कुतः । (नै० च०)
बुद्धिः कर्मानुसारिणी । (चा० नी०)भाग्येनैव हि लभ्यते पुनरसौ सर्वोत्समः सेवकः ।
बुद्धिर्नाम च सर्वत्र मुख्यं मित्रं न पौरुषम् । (क० स०)भार्या मूलं गृहस्थस्य । (दम्पती०)
बुद्धेः फलमनाग्रहः ।भार्यासम् नास्ति शरीरतोषणम् ।
बुद्ध्या वा जितमपरेण कासमाविष्कुर्वीत स्वगुणमपत्नपः क एव । (शि० व०)भार्याहीनं गृहस्थस्य शून्यमेव गृहं मतम् ।
बुभुक्षितः किं न करोति पापम् । (प० त०)भावस्थिराणि जननान्तरसौहृदानि । (अ० शा०)
बुभुक्षितं न प्रतिभाति किंचित् ।भिक्षुको भिक्षुकं दृष्ट्वा श्वानवद्गुद्गुरायते ।
बुभुक्षितैर्व्याकरणं न भुज्यते ।भिन्नरुचिर्हि लोकः । (र० व०)
बोधे बोधे सच्चिदानन्दभासः ।भीता इव हि धीराणां यान्ति दूरे विपत्तयः । (क० स०)
ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् । (नै० च०)भूतार्थकथने यस्य स्थेयस्येव सरस्वती ।
भक्तानामनिर्वाच्यं हि चेष्टितम् । (क० स०)भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ।
भक्त्या कार्यधुरं वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः ।भूभृद्रत्नं कनकनिशिखरी । (प्र०भ०)
भक्त्या हि तुष्यन्ति महानुभावाः ।भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ।
भेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः । (प० त०)भोगरत्नं मृगाक्षी । (प्र०भ०)
भग्नेऽपि हि मृणालानामनुबध्नन्ति सन्तवः ।भोगो भूषणते धनम् ।
भजन्ति वैतसीं वृत्तिं राजानः कालवेदिनः । (क० स०)भोग्यं किं रमणी विना ।
भजन्त्यात्मंभरित्वं हि दुर्लभेऽपि न साधवः । (क० स०)भ्रष्टस्य का वा गतिः ।
भद्रंकृदामुयाद्भद्रमभद्रं चाप्यभद्रकृत् । (क० स०)मणिना भूषितः सर्पः किमसौ न भयङ्करः । (भर्तृ०)
भद्रमभद्रं वा कृतमात्मनि कल्प्यते । (क० स०)मणेस्तुल्यं मूल्यं सहजसुभगस्य द्युतिमितः ।
भयकाङ्क्षयकोपानां गृहं हि छान्दसा द्विजाः । (क० स०)मतिरेव बलाद्गरीयसी ।
भये सीमा मृत्युः । (ध० ख०)मदमूढबुद्धिषु विवेकिता कुतः । (शि० व०)
भर्ता च स्त्रीकृतं पापम् ।मद्यपस्य कुतः सत्यम् ।
भर्त्तारं हि विना नान्यः सतीनामस्ति बान्धवः । (क० स०)मद्यपाः किं न जल्पन्ति ।
भर्त्तृमार्गानुसरणं स्त्रीणां च परमं व्रतम् । (क० स०)मद्ये मारैकसुहृदि प्रसक्ता स्त्री सती कुतः । (क० स०)
भवति महत्सु न निष्फलः प्रयासः । (शि० व०)मधुसमयभूषा मनसिजः । (प्र०भ०)
भवति योजयितुर्वचनीयता ।मधुरविधुरमिश्राः सृष्टयो हा विधातुः । (प्र० रा०)
भवति हि विक्लवता गुणोद्धतानाम् । (शि० व०)मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली ।
भवति हृदयदाही शल्यतुल्यो विपाकः ।मनःपूतं समाचरेत् । (का० नी०)
भजन्ति क्लेशबहुलाः सर्वस्यापीह सिद्धयः । (क० स०)मन एव मनुष्याणां कारणं बन्धमोक्षयोः । (भ०गी०)
भवन्ति वाचोवसरे प्रयुक्ता ध्रुवं प्रविष्टेष्टफलोदयाय । (कु० स०)मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् । (शा० प०)
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः । (कु० स०)मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् । (भर्तृ०)
भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः । (कु० स०)मनीषिणः सन्ति न ते हितैषिणः ।
भवन्त्युदयकाले हि सत्कल्याणपरम्पराः । (क० स०)मनोभूषा मैत्री । (प्र० भ०)
भवन्त्येव हि भद्राणि धर्मादेव यदावृशत् । (क० स०)मनोरथानामगतिर्न विद्यते । (कु० स०)
मनो हि जन्मान्तरसंगतिज्ञम् । (र० व०)
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः । (मे० दू०)
मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ।
मयि तु कृतनिघाते किं विदध्याः परेण ।