सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 424, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 424
सुभाषितरत्नखण्डमञ्जूषा १५
| मप्युल्लङ्घितमर्यादे को हि तिष्ठेत्स्ववर्त्मनि । (क० स०) | मूर्खस्य हृदयं शून्यम् । |
| मरणं प्रकृति. शरीरिणाम् । (र० व०) | मूर्खाणां बोधको रिपु । |
| मर्दनं गुणवर्धनम् । | मूर्खैर्हि सङ्ग कस्यापि शर्मणे । (क० स०) |
| मर्मवाक्यमपि नोच्चरणीयम् । | मूर्खो दृष्टव्यलीकोऽपि व्याजमान्त्वेन तुष्यति । (क० स०) |
| महतां हि धैर्यमभिभाव्यवैभवम् । (कि० अ०) | मूर्खोऽनुभवति क्लेश न कार्य कुरुते पुन. । (क० स०) |
| महतां हि सर्वमथवा जनातिगम् । (शि० व०) | मूर्च्छन्त्यमी विकारा प्रायेणैश्वर्यमत्तेषु । (अ० शा०) |
| महतामनुकम्पा हि विरुद्धेषु प्रतिक्रिया । (क० स०) | मृत्योः सर्वत्र तुल्यता । |
| महतीमपि श्रियमवाप्य विस्मय. सुजनो न विस्मरति जातु किंचन । (शि० व०) | मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेष-<br>प्रणयिनि जने किं पुनर्द्दूरसंस्थे । (मे० दू०) |
| महते रुजन्नपि गुणाय महान् । (कि० अ०) | मेघो गिरिजलधिवर्षी च । (प० त०) |
| महाजनो येन गतः स पन्था । (प० त०) | मोघा हि नाम जायेत महत्सूपकृतिः कुतः । (क० स०) |
| महानपि प्रसङ्गेन नीचं सेवितुमिच्छति । | मोहान्धमविवेकं हि श्रीश्रिरायं न सेवते । (क० स०) |
| महानुभावः प्रतिहन्ति पौरुषम् । (कि० अ०) | मौनं विधेयं सततं सुधीभि. । |
| महान्प्रकृत्यैव करोति विक्रमम् । (प० त०) | मौनं सर्वार्थसाधकम् । |
| महीतलस्पर्शनमात्रभिन्नमृदं हि राज्यं पदमैन्द्रमाहुः । (र० व०) | मौनिन. कलहो नास्ति । |
| महीपतीनां विनयो हि भूषणम् । | म्लायति श्रीः कुलस्त्रीव गृहे बन्धक्यधिष्ठिते । (क० स०) |
| महेश्वरमनाराध्य न सन्तीप्सितसिद्धयः । (क० स०) | यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः । (भर्तृ०) |
| महोदयानामपि सप्रवृत्तित्ता सहायसाध्या. प्रदिशन्ति सिद्धय. । (कि० अ०) | यतः सतां हि संगतं मनीषिभि साप्तपदीनमुच्यते । (कु० स०) |
| मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणा. । | यतः सत्यं ततो धर्म । |
| माता च व्यभिचारिणी । (चा० नी०) | यतो धर्मस्ततो धनम् । |
| मातापितृभ्या शश. सन्न जातु सुखमश्नुते । (क० स०) | यतो नागास्ततो जय. । |
| मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने । (प० त०) | यतो रूपं तत. शीलम् । |
| मात्सर्यरागोपहतात्मना हि स्खलन्ति साधुष्वपि मानसानि । (कि० अ०) | यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । |
| मात्सर्यण दुरात्मकोऽपि सुजनं दृष्ट्वा सदा हासते । | यत्ने कृते यदि न सिध्यति कोऽत्र दोष. । |
| मात्रा समं नास्ति शरीरपोषणम् । | यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः । |
| मादृशो हि कथं कुर्या. सच्छोल्लङ्घनसाध्वसम् । (क० स०) | यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । |
| माने म्लाने कुतः सुखम् । | यत्राकृतिस्तत्र गुणा वसन्ति । |
| मासरत्नं वसन्तः । (प्र० म०) | यत्रास्ति लक्ष्मीर्निधनो न तत्र । |
| मितं च सारं च वचो हि वाग्मिता । (नै० च०) | यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः । |
| मित्रार्थगणितप्राणा दुर्लभा हि महोदया. । (क० स०) | यथा देशस्तथा भाषा । |
| मिथ्या परोपकारो हि कुतः स्यात्कस्य शर्मणे । (क० स०) | यथा बीजं तथाङ्कुरः । |
| मिष्टान्नमितरे जना. । (नै० च०) | यथा भूमित्तथा तोयम् । |
| मुक्त्वा बलिभुज काकी कोकिले रमते कथम् । (क० स०) | यथा राजा तथा प्रजा । |
| मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रम. । (नै० च०) | यथा वृक्षस्तथा फलम् । |
| मुखरतावसरे हि विराजते । (कि० अ०) | यथाशक्त्यतिथे पूजा धर्मो हि गृहमेधिनाम् । (क० स०) |
| मुख्यमङ्गं हि मन्त्रस्य विनिपातप्रतिक्रिया । (क० स०) | यथोत्तोरेच्छा हि गुणेषु कामिन. । (कि० अ०) |
| मुह्यत्येव हि कृच्छ्रेषु संभ्रमज्वलितं मन. । (कि० अ०) | यथौषधं स्वादु हितं च दुर्लभम् । |
| मुह्यन्मार्गममार्ग वा रागान्ध. को हि पश्यति । (क० स०) | यदध्यासितमर्हद्भिस्तद्धि तीर्थ प्रचक्षते । (कु० स०) |
| मूढ. परप्रत्ययनेयबुद्धिः । (प० त०) | यदनुद्वेगतः साध्यं पुरुषार्थः सदा बुधैः । (क० स०) |
| मूर्खस्य किं शास्त्रकथाप्रसङ्ग. । | यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा । |
| यदि वात्यन्तसद्गुता न कस्य परिभूतये । (क० स०) | |
| यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् । | |
| यद्देवेन ललाटपत्रलिखितं तद्रोज्झितुं कः क्षम. । |