सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 54, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 54
पण्डितप्रशंसा-कुपण्डितनिन्दा ३९
| पण्डितप्रशंसा | कुपण्डितनिन्दा |
|---|---|
| अव्ययेभ्योऽपि ये चार्थान्निष्कर्षन्ति सहस्रशः ॥ १४॥<br>स एव रसिको लोके श्रुत्वा काव्यं परैः कृतम् । उत्पद्यते च युगपद्वदनेऽक्ष्णोश्च यस्य वौः ॥ १५ ॥ श्रुते महाकवेः काव्ये नयने वदने च वौः । युगपद्यस्य नोदेति स वृषो महिषोऽथवा ॥ १६ ॥ विद्या विनयोपेता हरति न चेतांसि कस्य मनुजस्य । काञ्चनमणिसंयोगो नो जनयति कस्य लोचनानन्दम् ॥ १७ ॥ व्याख्यातुमेव केचित्कुशलाः शास्त्रं प्रयोक्तुमलमन्ये । उपनामयति करोऽन्नं रसांस्तु जिह्वैव जानाति ॥ १८ ॥ सत्यं तपो ज्ञानमहिंसता च विद्वत्प्रणामं च सुशीलता च । एतानि यो धारयते स विद्वाञ्छ केवलं यः पठते स विद्वान् ॥ १९ ॥ कवीश्वराणां वचसा विनोदैर्नन्दन्ति विद्यानिधयो न चान्ये । चन्द्रोपला एव करैर्हिमांशोर्मध्ये शिलानां सरसा भवन्ति ॥ २० ॥ शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान्पुरुषः स विद्वान् । सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥ २१ ॥ न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् । तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥ २२ ॥ इह तुरगशतैः प्रयान्तु मूढा धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम् । गिरिशिखरगतापि काकपङ्क्ति र्पुलिनगतैर्न समत्वमेति हंसैः ॥ २३ ॥ सन्तश्चेदिह गुणबिन्दवो बुधस्तान्स्तुत्या कवलयति स्फुटेऽपि दोषे । सयुक्तानपि पयसः कणान्विचिन्वन्नन्धम्स्तोऽसति हि मङ्गु मल्लिकाक्षः ॥ २४ ॥ अन्या र्जगद्धितमयी मनसः प्रवृत्तिरन्यैव कापि रचना वचनावलीनाम् । लोकोत्तरा च कृतिराकृतिरङ्गहृद्या विद्यावतां सकलमेव गिरां दैवीयः ॥ २५ ॥ अधिगतपरमार्थान्पण्डितान्माऽवमंस्थास्तृणमिव लघु लक्ष्मीनैव तांन्संरुणद्धि । मदमिलितमिलिन्दश्यामगण्ड-स्थलानां न भवति बिसतन्तुर्वारणं वारणानाम् ॥ २६ ॥ शैलोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः । तज्जाँर्ड्यं वसुधाधिपस्य कवयो ह्यर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका न मणयो यैरर्घतः पातिताः ॥ २७ ॥ हर्तुर्याति न गोचरं किमपि शं पुष्णाति सर्वात्मना ह्यर्थिभ्यः प्रति-पाद्यमानैर्मनिशं प्राप्नोति वृद्धिं पराम् । कल्पान्तेष्वपि न | प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुज्झत नृपाः कस्तै सह स्पर्धते ॥ २८ ॥<br><br>कुपण्डितनिन्दा<br>यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ १ ॥ मूर्खचि-हानि षडिति गर्वो दुर्वचनं मुखे । विरोधी विषवादी च कृत्याकृत्यं न मन्यते ॥ २ ॥ मूर्खों हि जल्पता पुंसां श्रुत्वा वाचः शुभाशुभाः । अशुभं वाक्यमादत्ते पुरीषमिव शूकरः ॥ ३ ॥ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ ४ ॥ वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनपंसर्कः सुरेन्द्रभवनेष्वपि ॥ ५ ॥ मूर्खोऽपि मूर्खं दृष्ट्वा च चन्दनादपि शीतलः । यदि पश्यति विद्वांसं मन्यते पितृघातकम् ॥ ६ ॥ अन्त सारविहीनस्य सहायः किं करिष्यति । मलयेऽपि स्थितो वेणुर्वेणुरेव न चन्दनः ॥ ७ ॥ यस्य नास्ति विवेकस्तु केवलं यो बहुश्रुतः । न स जानाति शास्त्रार्थान्दर्वी पाकरसानिव ॥ ८ ॥ रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धाः किंशुका इव ॥ ९ ॥ विद्याविधिविहीनेन किं कुलीनेन देहिनाम् । अकुलीनोऽपि यो विद्वान्दैवतैरपि पूज्यते ॥ १० ॥ मदोपशमनं शास्त्रं खलानां कुरुते मदम् । चक्षुः-प्रकाशकं तेज उलूकानामिवाऽन्धताम् ॥ ११ ॥ ज्ञानविद्याविहीनस्य विद्याजालं निरर्थकम् । कण्ठसूत्रं विना नारी ह्यनेकाभरणैर्युता ॥ १२ ॥ मूर्खे स्वल्पव्ययत्रासात्सर्वनाशं करोति हि । कः सुधीः सत्यजेद्भाण्डं शुल्कैक्सैवातिसाध्वसात् ॥ १३ ॥ माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ १४ ॥ पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ १५ ॥ विद्यया शस्यते लोके पूज्यते चोत्तमैः सदा । विद्याहीनो नरः प्राज्ञः सभायां नैव शोभते ॥ १६ ॥ शोभते विदुषां मध्ये नैव निर्गुणमानसः । अन्तरे तमसा दीपः शोभते नार्कतेजसाम् ॥ १७ ॥ बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥ १८ ॥ पदद्वयस्य सधानं कर्तुमप्रतिभाः खलाः । तथापि परकाव्येषु दुष्करेष्वाप्यसञ्जमाः ॥ १९ ॥ क दोषोऽत्र मया लभ्य इति सविन्त्य चेतसा । खलः काव्येषु साधूनां श्रवणाय प्रवर्तते ॥ २० ॥ उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः । स्वसंवेदनवेद्यसाराः सहृदयोक्तयः |
| पादटिप्पण्यः (वामतः) | पादटिप्पण्यः (दक्षतः) |
|---|---|
| १ अव्ययेभ्य अव्ययानामनेकार्थत्वात्, पक्षे,-व्ययरहितेभ्य कुपणेभ्य इति यावत् २ उदकम्, पक्षे,-'वा वा' इति लौकिकशब्द ३ नयने वा सलिलम् आनन्दाश्रुजलमित्यर्थं वदने च वा. 'वाहवा' इति प्रशंसाबोधको देशी शब्द ४ सैकतगते ५ राजहंस. ६ लोक हितप्रचुरा ७ अतिदूरम् ८ अवमान मा कुरु ९ रोध न कुरुते १० गजानाम् ११ शास्त्रसंस्कारेण शुद्धा ये शब्दास्तै सुन्दरा गिरो येषां ते १२ पण्डिता १३ देशे १४ मौर्खर्यम् १५ मूल्यत १६ अचिन्त्यम् १७ सुखम् १८ दीयमानम् १९ निरन्तरम् | १ त्यजत २ स्पर्धां करोति ३ विष्ठा ४ सुरेन्द्राणां भवनेषु, स्वर्गलोकेष्वपीति भाव ५ नेतव्यामेतव्यवस्तुसम्बन्धी राजग्राह्यो भाग |