सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 57, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 57
| ४२ | सुभाषितरत्नभाण्डागारम् | [ १ प्रकरणम् |
|---|
| तत्र सतन्वते येऽनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयम् ॥ ७६ ॥ प्रादु<sup>१</sup> ष्यात्पाण्डितानां क्वचिद्वचसि कथं प्रत्ननूत्नत्वचिन्ता विधेरन्यद्यदवद्यं निजहति तथा गृह्णते स्युर्गुणाश्चेत् । अन्यस्त्वन्यप्रमाणं परमवतनुते छिद्यते तावता किं नायं रत्नस्य दोषो दृषदिति यदिदं क्षिप्रमन्धाः क्षिपन्ति ॥ ७७ ॥ | फणाभृद्दीशगिरा दुरापा बुधराजगोष्ठी । अबुद्धचापश्रुतिपद्ध<sup>३</sup>तीनां युद्धक्षमेवोद्धतयोद्धृसार्था ॥ ६ ॥ नाङ्गीकृतव्याकर<sup>५</sup>णौषधानाामपाटवं वाचि सुगाढमास्ते । कश्चिच्छिदुक्ते तु पदे कथंचित्स्वैरं वपुः स्विद्यति वेपते<sup>४</sup> च ॥ ७ ॥ शब्द<sup>५</sup>शास्त्रमनधीत्य<sup>६</sup> यः पुमान् वक्तुमिच्छति वचः सभान्तरे । बन्धुमिच्छति वने मदोत्कटं हस्तिनं कमलनालतन्तुना<sup>७</sup> ॥ ८ ॥ |
| छान्दसप्रशंसा | वैयाकरणनिन्दा |
| नाध्यापयिष्यंश्चेन्माञ्छ्रमेणोपाध्यायलोका यदि शिष्यवर्गान् । निर्वेदवादं किल निर्वृतानामुर्वीतलं हन्त तदामविष्यत् ॥ १ ॥ | टिडाणञ्द्वयसच्द्वयसटिडसोस्तिस्रस्झिसिप्थस्थमिब्वस्मस्ता हशिच्थुनाधुरतइञ्शश्छोऽव्यचोऽन्यादिटि । लोपोव्योर्वलिबृद्धिरेचियचिभंदाधाध्वदाप्छेचटेरित्यन्दानखिलान्नयन्ति<sup>८</sup> कतिचिच्छब्दान्पठन्तः कर्दून्<sup>१०</sup> ॥ १ ॥ सूत्रैः पाणिनिनिर्मितैर्बहुतरैर्निष्पाद्य शब्दावलिं वैकुण्ठस्तवमक्षमा<sup>११</sup> रचयितुं मिथ्याश्रमाः शाब्दिकाः । पक्वान्नं विविधं श्रमेण विविधापूपाय्यसूपान्वितं मन्दाग्नीनैरनुरुन्ध्यते मितबलानाघ्रातुमप्यक्षमन् ॥ २ ॥ कुप्वोःकऽपौ च शेषोध्यसखि ससजुषोरुर्विरामोऽवसानं शश्छोऽटीत्यादिशब्दैः सदसि यदि शंठाः<sup>१४</sup> शाब्दिकाः पण्डिताः स्युः । तेषां को वापराधः कथयत सततं ये पठन्तीह थोन्तैत्ताथय्याथय्यथय्याधिगधिगधिगधिकथय्यथय्येति<sup>१५</sup> शब्दान् ॥ ३ ॥ |
| छान्दसनिन्दा | |
| आः कष्टमप्रहृष्टाः शठा अपि वित्तचापलाविष्टाः । अध्यापयन्ति वेदानादाय चिराय मासि मासि भृतिम् ॥ १ ॥ | |
| वैयाकरणप्रशंसा | नैयायिकप्रशंसा |
| वैयाकरणकिरातादपशब्दमृगाः क्व यान्ति सत्रस्ताः । ज्योतिर्नटविटगायकभिषगाननगह्वराणि यदि न स्युः ॥ १ ॥ यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम् । स्वजनः श्वजनो मा भूतसकलः शकलः सकृच्छकृत् ॥ २ ॥ कृतदुरितनिराकरणं व्याकरणं चतुरधीरधीयानः । बुधगणगणना<sup>८</sup>वसरे कनिष्ठिकायाः परं जयति ॥ ३ ॥ सूत्रैः<sup>१३</sup> पाणिनिनिबद्धं<sup>१५</sup> कङ्कणम्<sup>१४</sup>पुरुषः समुद्वहति<sup>१७</sup> सुदृशम्<sup>१८</sup> ॥ वर्णादीनां<sup>१९</sup> धर्मान्बुद्ध्वा<sup>२०</sup> विधिवत्प्रयुङ्क्तेऽसौ<sup>२१</sup> ॥ ४ ॥ पोतं<sup>२३</sup> जले विष्णुँपदापगायाः<sup>२४</sup> पोतञ्जले<sup>२५</sup> चापि नयेऽवगाहम्<sup>२६</sup> । आचक्षते<sup>२८</sup> शुद्धिदमोप्रसूतेरॉ<sup>२९</sup> च क्षते<sup>३०</sup> रागंमघोक्षजे च ॥ ५ ॥ नृणामनैम्व्यस्त- | अद्भुतस्तर्कपाथोधिर्गाधो यस्य वर्धकः । अक्षपादो<sup>१६</sup>ऽर्तमःस्पृष्टस्त्वकलङ्कः कलानिधिः<sup>१९</sup> ॥ १ ॥ अपरीक्षितलक्षणप्रमाणैरपराभृष्टपदार्थसार्थतत्त्वैः<sup>२०</sup> । अवशीकृतजैत्रयुक्तिजालैरममैतरनधीततर्कविद्यैः ॥ २ ॥ मोहं<sup>२२</sup> रुणद्धि<sup>२३</sup> विमलीकुरुते च बुद्धिं सूते<sup>२४</sup> च संस्कृतपदव्यवहारशक्तिम् । शास्त्रान्तराभ्यसनयोग्यतायां युनक्ति<sup>२५</sup> तर्कश्रमो न तनुते किमिहोपकारम् ॥ ३ ॥ ज्ञानाम्बुधेश्चरैश्चरणः कँणैभक्षकश्च<sup>२७</sup> श्रीपक्षिलोऽप्युदयनः स च वर्धमानः । गङ्गेश्वरः शशधरो |
टिप्पण्यः (Footnotes)
| वामभागस्थटिप्पण्यः | दक्षिणभागस्थटिप्पण्यः |
|---|---|
| १ प्रादुर्भवतु २ काव्ये ३ दोषा ४ वेदान् ५ वेतनम् ६ भिक्षु ७ भीताः ८ गणका ९ नाट्यकारा १० जारा ११ वैद्या १२ गुहा १३ विष्ठा १४ व्याकरणसूत्रम्, पक्षे,-कङ्कणम् १५ पाणिनिना बद्धं रचितम् पक्षे,-पाणौ हस्ते निबद्धम् विवाहकाले सूत्रनिर्मिते कङ्कणे वधूवरयोर्हस्तयोर्बध्नातीति प्रसिद्धिः १६ अर्थज्ञानपूर्वकं विचारयन्, पक्षे,-धारयन् १७ सम्यग्ध्वारयति; पक्षे,-सम्यगुद्वहति, पाणिग्रहणपूर्वकं स्वीकारोतीत्यर्थ १८ शोभनां दृष्टिम्, शुद्धाशुद्धविवेचनशक्तिमित्यर्थे पक्षे,-शोभना दृग्यस्यास्तादृशीं स्त्रियम् १९ अकारप्रभृतिवर्णादीनाम्, पक्षे,-ब्राह्मणवर्णादीनाम् २० ज्ञात्वा २१ यथाशास्त्रम् २२ प्रयोगं करोति, पक्षे,-योजयति २३ पतनम् २४ गङ्गायाः २५ पतञ्जलिनिर्मिते २६ व्याकरणशास्त्रे २७ मज्जनम्, पक्षे,-अभ्यासम् २८ वदन्ति २९ जननादारभ्य ३० मरणान्तं च ३१ अनधीतमहाभाष्याणाम् | १ दुष्प्रापा २ पण्डितराजसभा ३ अज्ञातानुर्वेदमाार्गाणाम् ४ कम्पते ५ व्याकरणम् ६ अध्ययनमकृत्वा ७ बिसतन्तुना ८ वर्षाणि ९ यापयन्ति १० कर्णकठोरान् ११ विष्णुस्तवम् १२ कृत्वेति शेष १३ अनुकुर्वन्ति १४ धूर्ता १५ गायकानां तालशब्दानुकुरणमेतत् १६ तर्कसमुद्र १७ गौतम, पक्षे,-क्षपां ददातीति क्षपादः, स न भवतीति तथाविधः, चन्द्र इत्यर्थ १८ अज्ञानेन, पक्षे,-राहुणा १९ कलानां निधिः, पक्षे,-चन्द्र २० अज्ञातपदार्थसमूहत्तत्त्वैः २१ जययुक्ति २२ अज्ञानम् २३ रोधयति, नाशयतीत्यर्थ २४ उत्पादयति २५ योजयति २६ गौतम २७ कणाद |