सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 58, कुल 516 में से
संदर्भ में पढ़ेंनैयायिकनिन्दा, मीमांसकप्रशंसा, मीमांसकनिन्दा, वैद्यप्रशंसा ४३
बहवश्च नव्या ग्रन्थैर्व्यरन्ध्रत इमे हृदयान्यन्धकारम् ॥ ४ ॥
प्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः सारज्ञास्या-
प्यपरिकलितन्यायशास्त्रस्य पुंसः । वादारम्भे वदितुमनसो
वाक्यमेकं सभाया म्रैह्ला जिह्वा भवति कियतीं पश्य कष्टा-
मवस्थाम् ॥ ५ ॥
घटकाः शास्त्राणि सदूष्य वै सोऽहं तर्कविभूषणोऽत्र गहने
धात्रा शृगालः कृतः ॥ १० ॥
मीमांसकप्रशंसा
भगवदनभ्युपगमनं दैवतचैतन्यनिह्नवश्चैषाम् । कर्म-
श्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव ॥ १ ॥ आगमरूपविचारि-
ण्यधिकरणसहस्रशिक्षितविपक्षे । स्वामिनि जैमिनियोगिन्यु-
परज्यति हृदयमस्मदीयमिदम् ॥ २ ॥ शबरकुमारिलगुरवो
मण्डनभवदेवपार्थसारथयः । अन्ये च विश्वमान्या जयन्ति
सत्रायमाणतन्त्रास्ते ॥ ३ ॥ नैयायिका वा ननु शाब्दिका वा
त्रैयीशिरःसु श्रमशालिनो वा । वादाहवे बिभ्रति जैमिनी-
यन्यायोपरोधे सति मौनमुद्राम् ॥ ४ ॥ आदौ धर्मे प्रमाणं
विविधविधिभिदाशेषता च प्रयुक्ति पौर्वापर्याधिकारौ तदनु
बहुविध चातिदेश तथोहम् । बाध तन्त्रं प्रसङ्गं नयमनय-
शतैः सम्यगालोचयन्त्यो भिन्ना मीमांसकेभ्यो विदधति
भुवि के सादर वेदकक्षाम् ॥ ५ ॥
नैयायिकनिन्दा
परामृशन्तो लिङ्गानि व्यभिचारविचारकाः । तार्किका
यदि विद्वांसो विटैः किमपराध्यते ॥ १ ॥ गुरोर्गिरः पञ्च-
दिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च । अमी समाघ्रात-
वितर्कवादाः समागताः कुक्कुटपादमिश्राः ॥ २ ॥ कर्कश-
तर्कविचारव्यग्रं किं वेत्ति काव्यहृदयानि । ग्राम्य इव
कृषिविलग्नश्चञ्चलनयनावचोरहस्यानि ॥ ३ ॥ नैयायिकाना
मलिनाम्बराणा जद्गुर्गतं रासभचिन्तयैव । तथापि वेश्यास्तन-
सनिवेशस्तोतुः कवेः कोऽपि विशेष एव ॥ ४ ॥ न जिघ्र-
त्यैम्नाय स्पृशति न तदङ्गान्म्यपि सकृत्पुराणं नादत्ते न
गणयति किं च स्मृतिगणम् । पठँशुष्कं तर्के परपरिभवा-
र्थोक्तिभिरसौ नयत्यायुः सर्वं निहितपरलोकार्थयतनः ॥ ५ ॥
प्रयत्नैस्तो कैः परिचितकुतर्कप्रकरणाः पर वाचोवश्यन्क-
तिपयपदौघान्विदधतः । सभाया वाचाटाः श्रुतिकटु रटन्तो
घटपटाञ्च लज्जन्ते र्मन्दाः स्वयमपि तु जिह्वेति विबुधः
॥ ६ ॥ ^(१)कर्मब्रह्मविचारणा विजहतो मोगापवर्गप्रदा घोषं
कंचन कण्ठशोषफलक कुर्वन्त्यमी तार्किकाः । प्रत्यक्षं न
पुनाति नापहरते पापानि पीलुच्छेदोव्यासिनैवति नैव पाल्य-
नुमितिनों पक्षता रक्षति ॥ ७ ॥ हेतुः कोऽपि विशिष्टैधी-
रनुमितौ न ज्ञानयुग्म मैरुत्त्वाचो नेति च मोघवादसुँखैरा
नैयायिकाश्चैद्वुधाः । मेषस्याण्डमियत्पलं बलिभुजो दन्ताः
कियन्तस्तयैत्येव सततचिन्तनैः श्रमजुषो न स्युः कथं
पण्डिताः ॥ ८ ॥ साधु व्याकरण हिताय विशदं काव्य
पिकीगीतवन्मीमासा श्रुतितत्परा तदनुगं साख्य सपाताञ्जलम्।
त्वं तु न्याय विशुद्धवैदिकविधिव्याकोपबौद्धागमव्याघाताय
निगूढतर्कगहन कामोदमाधास्यसि ॥ ९ ॥ हे हे मित्र
जिता मयातिबलिनो विप्रा धनं चार्जित शेषेभ्य. शरयन्न-
दानमपि सत्संपादित भूरिशः । ग्रन्थाश्चापि कृताः सुतर्क-
मीमांसकनिन्दा
ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वैर्भीणा सेहिरे नैव
सत्ताम् । चैतन्यस्यापह्नवं देवतानां चक्रुर्विश्वं नश्वरं मन्य-
मानाः ॥ १ ॥ मीमांसकाः कतिचिदत्र मिलन्ति वेदप्रामा-
ण्यसाधनकृतोऽपि न तेऽभिवन्द्याः । उद्धोषितोऽप्युपनिषद्भि-
रैशेषशेषी नैवैव नाभ्युपगतः पुरुषोत्तमो यैः ॥ २ ॥
वैद्यप्रशंसा
गुरोरधीताखिलवैद्यविद्य. पीयूषपाणिः कुशलः क्रियासु ।
गतस्पृहो धैर्यधरः कृपालुः शुद्धोऽधिकारी भिषगीदृशः
स्यात् ॥ १ ॥ रागादिरोगान्सततानुषक्तानशेषकायप्रसृतान-
शेषान् । औत्सुक्यमोहारतिदाञ्जघान योऽपूर्ववैद्याय नमो-
ऽस्तु तस्मै ॥ २ ॥ अन्यानि शास्त्राणि विनोदमात्र प्राप्तेषु
वा तेषु न तैश्च किंचित् । चिकित्सितज्योतिषमन्त्रवादाः पदे
पदे प्रत्ययमावहन्ति ॥ ३ ॥ माबोधि वैद्यकमथापि महाम-
येषु प्राप्तेषु यो भिषगिति प्रथितस्तमेव । ॐकारयत्यखिल
एव विशेषदर्शी लोकोऽपि तेन भिषगेष न दूषणीयः ॥ ४ ॥
^(१३)मस्ते दुःसहवेदना कवलिते मग्ने स्वरेऽन्तर्गलं तप्ताया
टिप्पण्यः (Footnotes)
| वामभागस्य टिप्पण्यः | दक्षिणभागस्य टिप्पण्यः |
|---|---|
| १ बुद्धेरज्ञानम् | १ अपलाप |
| २ अनभ्यस्त | २ शास्त्रदीपिकाकर्ता पार्थसारथिमिश्रपण्डित |
| ३ वक्रा | ३ वेदत्रयी |
| ४ वेदम् | ४ वादयुद्धे |
| ५ वेदाङ्गानि | ५ न्यायरूपे प्रतिबन्धके |
| ६ नीरसम् | ६ सामान्यविशेषभेदेन |
| ७ बहुभि | ७ प्रतीतपदार्थे सहाविचाल्य |
| ८ मूर्खा | ८ अमृत पाणौ यस्य स अमृतवदवश्यमारोग्यद इत्यर्थ |
| ९ लज्जा प्राप्नोति | ९ अविचार्थकार्यप्रवृत्तिः |
| १० कर्मचिन्तन ब्रह्मचिन्तन च | १० विचारशक्ति |
| ११ परमाणुसमुदाय | ११ असंतोषः |
| १२ व्याप्तिविशिष्टपक्षधर्मता ज्ञानविशिष्ट | १२ आह्वयति |
| १३ पूर्वोक्तगताशब्दयम् | १३ मस्तके |
| १४ त्वगिन्द्रियप्रत्यक्ष | |
| १५ जल्हकाः | |
| १६ काका |