भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 56, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 56

कुपण्डितनिन्दा (४१)

मणिमुद्धरेन्मकरवक्त्रदंष्ट्राङ्कुरात्समुद्रमपि संतरेत्प्रचलदूर्मि-
मालाकुलम् । भुजगमपि कोपितं शिरसि पुष्पवद्धारयेन्न तु
प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५६ ॥ लभेत सिकतासु तैलमपि यत्नतः पीडयन्पिबेच्च मृगतृष्णिकासु सलिलं
पिपासार्दितः । कदाचिदपि पर्यटञ्छशविषाणमासादयेन्न तु
प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५७ ॥ यदा किंचिज्ज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किंचित्किंचिद्बुधजनसकाशादवगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ५८ ॥
शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रात्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोऽधो गङ्गेयं पदमुपगता
स्तोकनधुना विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ ५९ ॥
परश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये चतुष्पादीं कुर्युर्बहव इह ते सन्ति कवयः । अविच्छिन्नोद्रेच्छज्जलधिलहरी-
रीतिसुहृदः सुहृद्या वैशद्यं दधति किल केषांचन गिरः ॥ ६० ॥
वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे न तु खलु
तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा । भवति च पुनर्भूयांन्भेदः
फल प्रति तद्यथा प्रभवति शुचिर्बिम्बेग्राहे मणिर्न मृदां
चयः ॥ ६१ ॥ अविनयसुवामज्ञानानां शमाय भवन्नपि
प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये । फणिभयभृतामस्तूच्छेदक्षमस्तमसामसौ विषधरफणारत्नस्यालोको भय तु
भृशायते ॥ ६२ ॥ व्यासादीन्कविपुंगवान्ननुचितैर्वाक्यैः सलीलं
सहृद्वच्चैर्जल्प निमील्य लोचनयुगं श्लोकान्सगर्भं पठ ।
काव्यं धिक्कुरु यत्परैर्विरचितं स्पर्धस्व सार्धं बुधैर्गद्यम्बन्धयसे
श्रुतेन रहितः पाण्डित्यमाप्तुं बलात् ॥ ६३ ॥ ये ससत्सु
विवादिनः परयशःशूलेन शल्याकुलाः कुर्वन्ति स्वगुणस्तवेन गुणिनां यद्वाङ्गुणाच्छादनम् । तेषां रोषंकषायितोदरदृशां कोपोष्णनिःश्वासिनां दीप्ता रक्तशिखेव कृष्णफणिनां
विद्या जनोद्वेजिनी ॥ ६४ ॥ ग्रीवास्तम्भभृतः परोन्नति-
कथामात्रे शिरःशूलिनः सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः । अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः कष्टान्नूनमपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥ ६५ ॥ मूर्खत्वंसुलभं भजस्व कुमते मूर्खस्य चाष्टौ गुणा निश्चिन्तो बहुभोजनोऽतिमुखरो रात्रिंदिवं स्वप्नभाक् । कार्याकार्यविचारणान्धबधिरो मानापमाने समः प्रायेणामयवर्जितो दृढवपुर्मूर्खः
सुखं जीवति ॥ ६६ ॥ व्यालं बालमृणालन्तुभिरसौ रोद्धुं
समुज्जृम्भते छेत्तुं वज्रमणीञ्शिरीषकुसुमप्रान्तेन संनह्यते ।
माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति
यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः ॥ ६७ ॥ शक्यो
वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भेषजसंग्रहैश्च
विविधैर्मन्त्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य
नास्त्यौषधम् ॥ ६८ ॥ तोयं निर्मथितं घृताय मधुने निष्पीडितः प्रस्तारः पानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता । दुग्धा सेयमचेतनेन जरती दुग्धाशया सूकरी
कष्टं यत्खलु दीर्घया धनतृषा नीचो जनः सेवितः ॥ ६९ ॥
काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने सुहृद्द्दोषान्वेषणमेव मत्सरजुषां नैसर्गिकं दुर्ग्रहः । कासारेऽपि विकासिपङ्कजचये खेलन्मराले पुनः क्रौञ्चश्चञ्चुपुटेन कुम्बितवपुः
शम्बूकमन्वेषते ॥ ७० ॥ विद्ये हृद्यतरासि किं नु कृपणासभायैर्नर्लज्जसे सन्त्यन्वे तव तोषणात्कविहितो धन्या वदान्या भुवि । कान्तानां कुचकुङ्कुमकोशलरुचा नो हानिरैतावता षण्ढानां हृदयेऽपि यत्प्रणयते नानङ्गरागोदयः ॥ ७१ ॥
मीमांसा पठिता न यैरुपनिषन्नैव श्रुता तत्त्वतः श्रीमच्छङ्करभाष्यतो भगवती गीताऽप्यधीता न यैः । सिद्धान्तपागतं
शिरोमणिमतं ज्ञात्वाऽपि किंचित्ततो भट्टाचार्यपदं गताः कथमहो लज्जा लभन्ते न ते ॥ ७२ ॥ पेटीचीवरपट्टवस्त्रपटलश्वेतातपत्रच्छटाशाटीहारकघोटकस्फुटघटाटोपाय तुभ्यं
नमः । येनानक्षरकुक्षयोऽपि जगतः कुर्वन्ति सर्वज्ञताभ्रान्तिं
येन विना तु हास्यपदवी सन्तोऽपि कष्टं गताः ॥ ७३ ॥
साकूतं निजसविदेकविषयं तत्त्वं सचेता ब्रुवन्नग्रे नूनमबोधमोहितधिया हास्यत्वमायास्यति । तद्युक्तं विदुषो जनस्य
जडवज्जोषं तु नामासितुं जात्यन्य प्रतिरूपवर्णनविधौ कोऽयं
वृथैवोद्यमः ॥ ७४ ॥ ये तावत्स्वगुणोपवृंहितधियस्तेषामरण्यं
जगद्येऽप्येते कृतमत्सराः परगुणः खम्रेऽपि नेच्छन्ति ये ।
अन्येषामनुरागिणां क्वचिदपि स्निग्धं मनो निर्वृतावित्ये यान्तु
तपोवनानि महता सूक्तानि मन्येऽधुना ॥ ७५ ॥ यातास्ते रससारसंग्रहविधिं निष्पीड्य निष्पीड्य ये वाक्तत्त्वेष्वलताः पुरा
कतिपये तत्त्वस्पृशश्चक्रिरे । जायन्तेऽद्य यथायथं तु कवयस्ते

पाद-टिप्पण्यः (Footnotes)

वामभाग-टिप्पणीदक्षिणभाग-टिप्पणी
१ ज्ञानलेशशून्यत्वेन विपरीसार्थग्राही २ वालुकासु ३ मरीचिकासु ४ शृङ्गम् ५ गज ६ मगर्वम् ७ सर्वसम्बन्धि ८ मस्तकात् ९ ददाति १० मूर्खे ११ नाशयति १२ महान् १३ बिम्बग्रहणे १४ मृत्पिण्ड १५ कविश्रेष्ठान् १६ अयोग्यै १७ रोषेण कषायितं ताम्रसुदर गर्भे यस्या एवविधा दुष्ट्येषांम् १८ कृष्णसर्पाणाम् १९ त्रासदात्री २० ग्रीवास्तम्भं धारयत् २१ परोत्कर्ष २२ मूर्खस्य २३ विकार २४ दारुणज्वरारम्भकहेतु
६ सु. र भा.१ रोगवर्जित २ सर्पम् ३ बिसम् ४ हीरकादीन् ५ सन्नद्धो भवति ६ इच्छति ७ अमृतस्त्राविभि ८ तीक्ष्ण