सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 60, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 60
| पुरोहितनिन्दा, कायस्थनिन्दा, सज्जनप्रशंसा | ४५ |
|---|
| पुरोहितनिन्दा | मानान्त्रिपुनपि । सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिन्र्भगाः ॥ १४ ॥ सुखेन नोद्विरत्यूर्ध्वं हृदयेन नयत्यधः । जैरयत्यन्तरे माधुर्योषं विषमिवेश्वर ॥ १५ ॥ विकृति नैव गच्छन्ति सङ्गदोषेण साधव. । आवेष्टित महासर्पैश्चन्दनं न विषायते ॥ १६ ॥ मान्या एव हि मान्याना मानं कुर्वन्ति नेतरे । शम्भुर्बिभर्ति मूर्नेन्दु खर्मानुस्त जिघृक्षति ॥ १७ ॥ |
|---|---|
| पुरीषस्य च रोषस्य हिंसायास्तस्करस्य च । आद्याक्षराणि संगृह्य वेधाश्चक्रे पुरोहितम् ॥ १ ॥ | सुजन व्यजन मन्ये चारुवर्रैशसमुद्भवम् । आत्मान च परिक्राम्य परतापानिवारणम् ॥ १८ ॥ उदये सविता रक्तो रक्तश्चास्तमये तथा । संपत्तौ च विपत्तौ च महतामेकरूपता ॥ १९ ॥ आरभन्तेऽल्पमेवाज्ञाः काम व्यग्रा भवन्ति च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ २० ॥ |
| कायस्थनिन्दा | सद्भ्रिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम् । असद्भिः शपथेनापि जले लिखितमक्षरम् ॥ २१ ॥ हँरेः र्पदाहति श्लाघ्या न श्लाघ्यं खरारोहणम् । स्पर्द्धापि विदुषा युक्ता न युक्ता मूर्खमित्रता ॥ २२ ॥ साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् । नहि तापयितुं शक्य सागराम्भस्तृणोलकया ॥ २३ ॥ नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जना । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ २४ ॥ स्नेहच्छेदेऽपि साधूना गुणा नायान्ति विक्रियाम् । भङ्गेनापि मृणालानामनुबध्नन्ति तन्तवः ॥ २५ ॥ परोपदेशे पाण्डित्य सर्वैषा सुकर नृणाम् । धर्मे स्वीयमनुष्ठान कस्यचित्सुमहात्मन. ॥ २६ ॥ सपत्सु महता चित्तं भवत्युत्पलकोमलम् । आपत्सु च महाशैलशिलासंघातकर्कशम् ॥ २७ ॥ पतन्ति व्यसने दैवाद्दारुणे दारुणात्मनि । सवर्मयति वज्रेण धैर्येण महता मनः ॥ २८ ॥ सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् । आमोदो नहि कस्तूर्याः शपथेन विभाव्यते ॥ २९ ॥ पातितोऽपि कराघातैरुत्पत्येव कन्दुक. । प्रायेण हि सुवृत्तानामैस्थायिन्यो विपत्तयः ॥ ३० ॥ सकृत्कन्दुकपातेनोत्पत्यार्यः पतन्नपि । तथा त्वनार्यः पतति मृत्पिण्डपतन यथा ॥ ३१ ॥ दन्तिदन्तसमान हि निःसृत महता वच. । कूर्मग्रीवेण नीचाना पुनरायाति याति च ॥ ३२ ॥ श्लोकस्तु श्लोकता याति यत्र तिष्ठन्ति साधवः । लैकारो लुप्यते तत्र यत्र तिष्ठन्त्यसाधवः ॥ ३३ ॥ किमत्र चित्र यत्सन्तः परानुग्रह-तत्परा. । नहि स्वदेहशैत्याय जायन्ते चन्दनद्रुमाः ॥ ३४ ॥ काकैः सह विवृद्धस्य कोकिलस्य केलौ गिर. । |
| काकाल्लौल्यं यमात्क्रौर्यं स्थपतेर्दृढघातिताम् । आद्याक्षराणि संगृह्य कायस्थः केन निर्मितः ॥ १ ॥ कायस्थेनोदरस्थेन मातुरामिषशङ्कया । अन्त्राणि यन्न भुक्तानि तत्र हेतु रदन्तता ॥ २ ॥ विना मद्य विना मास परस्वहरण विना । विना परापवादेन दिविरो दिवि रोदिति ॥ ३ ॥ कलमग्रानिर्गतमषीबिन्दुव्याजेन साञ्जनाश्रुकणा । कायस्थलुण्ठ्यमाना रोदिति खिन्नैव राजश्री ॥ ४ ॥ | |
| सज्जनप्रशंसा | |
| अहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मीस्तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥ १ ॥ नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः । येषा भुवनलाभेऽपि निःसीमानो मनोरथाः ॥ २ ॥ अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् । अहो सुमनसा प्रीतिर्वामदक्षिणयोः समा ॥ ३॥ वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणा चेतांसि को हि विज्ञातुमर्हति ॥ ४ ॥ गवादीना पयोऽन्येद्युः सद्यो वा जायते दधि । क्षीरोदधेस्तु नाद्यापि महता विकृतिः कुतः ॥ ५ ॥ गङ्गा पापं शशी तापं दैन्य कल्पतरुस्तथा । पापं ताप च दैन्य च घ्नन्ति सन्तो महाशयाः ॥६॥ छायावन्तो गतव्याला स्वारोहा. फलदायिनः । मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ ७ ॥ संपदो महतामेव महतामेव चापदः । वर्धते क्षीयते चन्द्रो न तु तारागण. क्वचित् ॥ ८ ॥ अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम् । और्व दहन्तमेवाग्नि संतर्पयति सागरः ॥ ९ ॥ महता प्रार्थनेनैव विपच्चिरपि शोभते । दन्तभङ्गो हि नागाना श्लाघ्यो गिरिविदारणे ॥ १० ॥ गुणग्रामाविसंवादि नामापि हि महात्मनाम् । यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः ॥ ११ ॥ वहन्ति शोकशङ्कु च कुर्वन्ति च यथोचितम् । कोऽप्येष महता हन्त गाम्भीर्यान्नुगुणो गुणः ॥ १२ ॥ नागुणी गुणिन वेत्ति गुणी गुणिषु मत्सरी । गुणी च गुणरागी च विरलः सरलो जनः ॥ १३ ॥ महात्मानोऽनुगृह्णन्ति भज- |
पादटिप्पणी (Footnotes)
वाम भाग:
१ कायस्थ
२ तृणवन्मन्यन्ते
३ लक्ष्मीभरेण
४ उदारचेतस
५ अन्यस्मिन्दिवसे
६ विकार.
७ स्तुत्य
८ पर्वतभेदने.
दक्षिण भाग:
१ जीर्णं करोति
२ राहु
३ ग्रहीतुमिच्छति
४ वेणु, पक्षे,-कुलम्
५ सिहस्य
६ पादताडनम्
७ विकारम्
८ सबन्ध कु न्ति
९ कठिनम्
१० संगोपयति
११ क्षणिका.
१२ लकारलोपाच्छोक एवावतिष्ठते
१३ अव्यक्तमधुरा