भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 61, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 61

४६ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम्


खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ ३५ ॥ यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः । चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥ ३६ ॥ विवेकः सह संयत्या$^१$ विनयो विद्यया सह । प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥ ३७ ॥ उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम्$^२$ । सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ॥ ३८ ॥ निर्गुणेष्वपि सत्त्वेषु$^३$ दया कुर्वन्ति साधवः । नहि संहरते ज्योत्स्ना$^४$ चन्द्रश्चाण्डालवेश्मसु$^५$ ॥ ३९ ॥ उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ४० ॥ हृदयानि सतामेव कठिनानीति मे मतिः । खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः$^६$ ॥ ४१ ॥ अपेक्षन्ते न च स्नेहं$^७$ न पात्रं$^८$ न देशान्तरम्$^९$ । सदांलोकहिते$^{१०}$ युक्ता रत्नदीपा इवोत्तमाः ॥ ४२ ॥ ब्रूतेऽन्यस्यासतोऽप्यार्यो गुणान्दोषांस्तु दुर्जनः । तुल्येऽप्यसत्त्वे किं त्वेको गच्छत्यूर्ध्वमधोऽपरः ॥ ४३ ॥ सन्तो मनसि कृत्वैव प्रवृत्ताः कृत्यवस्तुनि । कस्य प्रतिशृणोति स्म कमलेभ्यः श्रियं रविः ॥ ४४ ॥ आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः । परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम् ॥ ४५ ॥ सन्त एव सता नित्यमापदुद्धरणक्षमाः । गजानां पङ्कमग्नानां गजा एव धुरंधराः ॥ ४६ ॥ नूनं दुग्धाब्धिमन्थोत्थाविमौ सुजनदुर्जनौ । कि ल्विन्दोः सोदरः पूर्वः कालकूटस्य चेतरः ॥ ४७ ॥ गोत्रस्थितिं$^{११}$ न मुञ्चन्ति सदा संन्नतिमाश्रिताः$^{१२}$ । उदन्वन्तश्च$^{१३}$ सन्तश्च महासत्त्वतयान्वया$^{१४}$ ॥ ४८ ॥ विगृहीतः पदाक्रान्तो भूयोभूयश्च खण्डितः । माधुर्यमेवावहति सुश्लोक इव सज्जनः ॥ ४९ ॥ प्रकृतिप्रत्ययोपेतः सद्ग्रत्तः साधुसंमतः । अर्थार्पणसमर्थश्च सुश्लोक इव सज्जनः ॥ ५० ॥ गुणोऽपि नूनं दोषाय दुष्विधातोः खलस्य च । सन्मार्गसिद्धये वृद्धिर्मृजेः साधुजनस्य च ॥ ५१ ॥ मुञ्चन्तश्चापलरसं प्रस्थिताः पावने पथि । घना इवार्द्रहृदयाः सन्तो जीवनहेतवः ॥ ५२ ॥ धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः ॥ ५३ ॥ साधुरेव प्रवीणः स्यात्सदृगुणामृतचर्वणे । नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ ५४ ॥ उत्तमः क्लेशविक्षोभं क्षमः सोढुं न हीतरः । मणिरेव महोशाणघर्षणं$^१$ न तु मृत्कणः ॥ ५५ ॥ सज्जना एव साधूनां प्रथयन्ति गुणोत्करम् । गुणाणां सौरभं प्रायस्तैलेतै$^२$ दिक्षु मारुतः ॥ ५६ ॥ खराव नेव मुञ्चन्ति सन्त संसर्गतोऽसताम् । न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः ॥ ५७ ॥ संपत्तौ कोभल चितं साधोरापदि कर्कशम् । सुकुमारं मधौ पत्रं तरोः स्यात्कठिनं शुचौ$^३$ ॥ ५८ ॥ स्वभावं न जहात्येव साधुरापद्गतोऽपि सन् । कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम् ॥ ५९ ॥ आप्यायनसमयः साधोः प्रयाति श्लाघनीयताम् । विधोर्विर्धंतुदस्कन्दविपत्तकालोऽपि सुन्दरः ॥ ६० ॥ विना परीक्षा नो तत्त्वं प्रसिद्धं जायते सतः । स्ववर्णबन्धाञ्चो शुद्धिक्षीयते कर्षेण विना ॥ ६१ ॥ दृष्टदुर्जनदौरात्म्यैः सज्जने रज्यते जनः । आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यलम् ॥ ६२ ॥ क्षणक्षयिणि सापाचे भोगे रज्यन्ति नोत्तमाः । सत्यज्यामभोजकिञ्जल्कं न प्रार्थयति शैवलम् ॥ ६३ ॥ उत्तगं शुचिर नैव विपदोऽभिभवन्त्यलम् । राहुग्रसनसभूति-क्षणं विच्छाययेद्विधुम् ॥ ६४ ॥ प्रायः स्वभावं मुञ्चन्ति सन्ततः संसर्गंतोऽसताम् । चण्डांश्चण्डांश्चण्डातपात्पादा हिमाशोरमृतस्रुजः ॥ ६५ ॥ तुल्यं परोपतापित्वं क्रुद्धयोः साधुनीचयोः । न दाहे ज्वलतोर्भिन्द चन्दनेन्धनयोः कचित् ॥ ६६ ॥ महतां तादृशं तेजो यत्र शाम्यन्त्यनौजसः । अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः ॥ ६७ ॥ आस्थामालम्ब्य नीतेषु वशं क्षुद्रेश्वरातिषु । व्यक्तिमायाति महता माहात्म्यमनुकम्पया ॥ ६८ ॥ न गुणाः कापि पूज्यन्ते सत्स्वीकारो हि गौरवम् । पीतिमा गुणसाम्येऽपि हरिद्रास्वर्णयोरिव ॥ ६९ ॥ आ-किमर्थमिदं चेतः सतामम्भोधिदुंभरम् । इति कुध्वेव दुर्वेधाः परदुःखैरपूरयत् ॥ ७० ॥ काचो मणिर्मणिः काचो येषा तेऽन्ये हि देहिनः । सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥ ७१ ॥ दोषानपि गुणीकर्तुं दोषीकर्तुं गुणानपि । शक्तो वादी न तत्त्वथ दोषा दोषा गुणा गुणा ॥ ७२ ॥ गुणराशिवमहानारनिर्भरपूरितान्तराः । सन्तो गौरवमायान्ति यदि तत्र किमद्भुतम् ॥ ७३ ॥ स्वात्मन्येव लयं याति तादृशो गुणिनां गुणः । स्वय प्रख्याप्यमानोऽपि यस्तृणाय न मन्यते ॥ ७४ ॥ सुवृत्तस्यैकरूपस्य परप्रीत्यै धृतोन्नतेः । साधोः स्तनयुगस्येव पतनं कस्य तुष्टये ॥ ७५ ॥ च्युतोऽप्युद्गच्छति पुनः प्रज्ञावाञ्च तु मूढधीः । कन्दुकः$^४$ पतनोत्थायी न तु कान्ताकुचद्वयी ॥ ७६ ॥ नालोकः क्रियते सूर्ये भूः प्रतीपं न धार्यते । नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते ॥ ७७ ॥ दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः ।


पादटिप्पण्यः

१ विनय. २ निष्कपटम्. ३ प्राणिषु ४ चन्द्रकान्तिम् ५ चाण्डालगृहे ६ किंचिदपि. ७ मैत्रीम्, पक्षे,-घृतादिम् ८ योग्यताम्, पक्षे,-भाण्डम् ९ अवस्थान्तरम्, पक्षे,-सूत्रवर्तिन् १० लोकानां हितं तस्मिन्नासक्ता, पक्षे,-आलोक प्रकाशस्तदेव हितं तस्मिन्नासक्ता ११ कुलमर्यादाम्, पक्षे,-पर्वस्थितिम् १२ सन्नमनम् १३ समुद्रा १४ प्राणिन, पक्षे,-धैर्यम्

१ कषपाषाणम्, 'कसोटी' इति लोके. २ प्रसारयति ३ ज्येष्ठमासे ४ 'चेन्दू' इति लोके प्रसिद्ध