भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 100, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 100

१ प्रपाठके ११ अनुवाकः । ६५

सोऽजि॑ह्वो अ॒स॑स्रंसत्^(१७) । ^((१८))नैतमृषिं वि॒दित्वा न॑ग॒रं प्र॒विशे॑त् । यदि॑ प्र॒विशे॑त् । मि॒थौ च॒रित्वा प्र॒विशे॑त् । तत्सम्भव॑स्य व्र॒तं^(१८) । ^((१९))आ॒ तम॑ग्ने॒ रथं॑ ति॒ष्ठ ।


निष्पन्नः संसारी, 'सः', एव, 'तं मणिं', अतीते अन्धो मणिमित्यादि मन्त्रे प्रोक्तं मण्याद्युपलक्षितमाभरणं चक्षुषा दृष्टवान् । 'सः', एव स्वतोऽङ्गुलिरहितोऽपि देहतादात्म्याध्यासेन तदीयैरङ्गुलिभिः 'आवयत्' स्वीकृतवान् । तथा स्वतः ग्रीवारहितोपि शरीरगतायां ग्रीवायां 'प्रत्यमुञ्चत्' । तथा स एव स्वतः जिह्वारहितोपि शरीरगतया जिह्वया 'असस्रंसत्' प्रशंसां कृतवान् ॥

अथ ब्राह्मणमाह । ^((१८))"नैतमृषिं ० सम्भवस्य व्रतं"^((१८)) इति । 'एतमृषिं' पूर्वोक्तं विवेकप्रतिपादकं मन्त्रसङ्घं, 'विदित्वा' मन्त्रप्रतिपाद्यं परमार्थतत्त्वमवगत्य, 'नगरं' जनसम्मदयुक्तं, 'न प्रविशेत्', यद्वा नगरोपलक्षितं देहं न प्रविशेत्, देहे तादात्म्यभ्रमं न कुर्यादित्यर्थः । 'यदि' कथञ्चित् पूर्ववासनाबलात्, 'प्रविशेत्' देहे तादात्म्यबुद्धिं कुर्यात्, तदानीं 'मिथौ चरित्वा' शास्त्रार्थपर्यालोचनया मिथ्येदमिति निश्चित्य, 'प्रविशेत्' तादात्म्यभ्रमरहितेन देहेन प्रारब्धभोगाय लोकव्यवहारं कुर्यात् । 'तत्' एतत्, सम्भवनाम्न ऋषेः 'व्रतं' आचारः, स ह्येवमाचरितवान् ॥

कल्पः । आतमग्ने रथमिति तिस्र इति । तत्र प्रथमामाह ।