भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 99, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 99

६४ तैत्तिरीये आरण्यके

अ॒स्माज्जा॒ता मे॑ मि॒थू चरन्॑ । पु॒त्रो निर्ऋ॑त्या वैदे॒हः । अ॒चेता॑ यश्च॑ चेत॒नः^{(१६)} । ^{(१७)}स तं म॒णिम॑विन्दत् । सो॑- ऽन॒ङ्गुलि॒राव॑यत् । सोऽग्री॒वः प्रत्य॑मुञ्चत ॥ ६ ॥

रादिना सह चिदात्मनस्तादात्म्याध्यासो वर्ण्यते । अयञ्चिदात्मा स्वयम् 'अतृष्यन्', एव तृष्यन् तृषां प्राप्नोति, तृषाया जडधर्मत्वेन स्वस्मिन्नसम्भवेऽपि जडतादात्म्यभ्रमेण तृषां प्राप्नोतीव लक्ष्यते । तथा 'अध्यायत्' ध्यायतीव, स्वयं ध्यानरहितोऽपि ध्यानयुक्तेन मनसा सह तादात्म्यभ्रमात् स्वयं ध्यायतीव लक्ष्यते । 'अस्मात्' दृश्याज्जडदेहात्, 'जाताः', हसितादिविकाराः, 'मे' मदीयाः, इति भ्रान्त्या ध्यायतीति शेषः । 'मिथू'शब्दो मिथः-शब्दपर्यायः सन् चिज्जडयोः परस्परमेलनं ब्रूते, तेन मेलनेन 'चरन्', मदीयमिति वृथाभिमन्यते । कोऽसावेवमभिमन्यते इति तदुच्यते । 'निर्ऋत्याः' निर्ऋतिप्रतिकूलाया मायायाः, 'पुत्रः' अहङ्कारः, विदेहस्य शरीररहितस्य चिदात्मनः सम्बन्धो 'वैदेहः' चैतन्यच्छायायुक्त इत्यर्थः । तदेव स्पष्टीक्रियते । 'यः' अहङ्कारः, 'अचेताः' स्वयमचेतनः सन्, 'चेतनश्च' चैतन्यच्छायायोगेन चेतनोऽपि भवति, तादृशः पदार्थः । देहेन्द्रियादिधर्मान्नात्मन्यारोप्य तदारोपेण सुखज्ञानादिधर्मा आत्मनि प्रतिभासन्ते ॥

अथ पञ्चमीमाह । ^{(१७)}"स तं मणिमविन्दत् ॰ अमुञ्चत" ^{(१७)} इति । यः पूर्वोक्तचेतनाचेतनयोरन्योन्यतादात्म्याध्यासेन

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 99, कुल 940 में से · BharatKosha