तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 98, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके ११ अनुवाकः। ६३
मृ॒त्युं मा॒र्यादिति॑^(१४) । ^(१५)हसितग्ँ॑ रु॒दितं॑ गी॒तं ॥ ॥ ५ ॥ वीणा॑पणव॒लासि॑तं । मृ॒तं जीव॑ञ्च॒ यत्किञ्चि॑त् । अ॒- ङ्गानि॑ स्वेव॒ विद्धि॒ तत्^(१५) । ^(१६)ऋ॒तृ॒ष्य्ग्ं॑स्तृ॒ष्य॑ध्यायत् ।
ब्रह्मज्ञानी ब्रह्मरूपस्य स्वस्य जन्ममरणभावं निश्चित्य तस्मिन्नेव क्षणे स्वकीयमरणवित्रासं परित्यजति, आत्मनो मरणाभावाद्देहस्य च स्वव्यतिरिक्तत्वान्मृत्योर्न बिभेतीत्यर्थः ॥
अथ तृतीयामाह । ^(१५)“हसितग्ँ रुदितं • अङ्गानि स्वेव विद्धि तत्”^(१५) इति । अत्र शरीरस्यात्मत्वशङ्कां वारयितुं तदीया विकारा उपन्यस्यन्ते । ‘हसितं’ कदाचिन्मुखे हासो दृश्यते, कदाचिद्रोदनं, कदाचिदुत्साहेन गानं, कदाचिद्धस्ते वाद्यमानायाः वीणायाः, कदाचित्पणवस्य मृदङ्गस्य ‘लासितं’ वादनरूपो विनोदः । कदाचिच्छरीरं ‘मृतं’, दृश्यते, कदाचिज्जीवनोपेतम्, एवमन्यदपि ‘यत्किञ्चित्’ विकारजातमस्ति, ‘तत्’ सर्वम्, ‘अङ्गानि स्वेव विद्धि’ यथा हस्तपादाद्यङ्गानि शरीरगतानि, ‘स्वा’शब्देन स्वावयवोऽभिधीयन्ते, यथा वा स्वावयवः शरीरगताः, एवमेता हसितादिविकाराः शरीरादिगताः, न त्वात्मनो योग्याः, इति हे विवेकिन् त्वं विजानीहि ॥
अथ चतुर्थीमाह । ^(१६)“ऋतृष्य्ग्ंस्तृष्यध्यायत् • अचेता यश्च चेतनः”^(१६) इति । अत्र पूर्वोक्तेन हसितादिगुणयुक्तेन शरी-