भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 102, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 102

१ प्रपाठके ११ अनुवाकः । ६७

म्नेः । रथे॑ यु॒क्त्वाधितिष्ठ॑ति^(२०) । ^(२१)एक॑या च द॒शभि॑श्च॒ स्वभू॑ते । द्वाभ्या॑मि॒ष्टये वि॒ꣳश॒त्या च॑ । ति॒सृभि॑श्च वहसे त्रि॒ꣳशता॑ च । नि॒युद्भि॑र्वायवि॒ह ता वि॑मुञ्च^(२१) ॥ ७ ॥

तत॑क्षुः, धीमहि, नाम॑ मे, चि॒केत, गी॒तं, प्रत्य॑मुञ्चत्, व्य॑थते, सप्त च॑ ॥ अनु० ११ ॥


अथ तृतीयामाह । ^(२१)"एकया च ० विमुञ्च"^(२१) इति । नियुच्छब्दो वायुसम्बन्धिनोरश्वयोषित आचष्टे । हे वायो 'इष्टये' अस्मत्सम्बन्धियागार्थं, 'स्वभूते' स्वाधीने रथे, एकादिसङ्ख्यायुक्ताभिः 'नियुद्भिः', तं रथं योजयित्वा, 'वहसे' अस्मत्समीपं प्रापयसि, अश्वादिविषयाः षट्प्रकाराः सङ्ख्याविकल्पिताः । हे 'वायो', 'इह', आगत्य 'ताः' नियुतः, 'विमुञ्च' ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥