भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 104, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 104

१ प्रपाठके १२ अनुवाकः । ६६

याग्रेऽग्निं । य एको॑ रु॒द्र उ॑च्यते॒(२) । ^{(३)}अ॒स॒ङ्ख्याताः॑ स॒-
हस्रा॑णि । स्मर्य॑ते॒ न च॑ दृश्य॑ते ॥ १ ॥
ए॒वमे॒तन्निबो॑धत^{(३)} । ^{(४)}आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिः ।
या॒हि म॒यूर॑रोमभिः । मा त्वा केचि॒न्त्ये॑मु॒रिन् पा॒-
शिनः॑ । द॒धन्वे॑व॒ ता ई॑हि^{(४)}। ^{(५)}आ म॒न्द्रैरि॑न्द्र॒ हरि॑-

रुद्रः', इति सर्वत्र 'उच्यते' । तथा चान्यत्राम्नातं, एक एव रुद्रो न द्वितीयाऽवतस्थ इति । रुद्रो वा एष यदग्निरिति च ॥

अथ तृतीयामाह । ^{(३)}"असङ्ख्याताः ० निबोधत"^{(२)} इति । एकस्य रुद्रस्य मूर्त्तीनां 'सहस्राणि' 'असङ्ख्याताः' असङ्ख्यातानि, गणयितुं न शक्यन्ते । स च रुद्रः स्वयं 'स्मर्य्यते' श्रुतिदृङ्मुखादवगत्य स्मतुं शक्यते, स रुद्रो न द्रष्टुं शक्यः । 'एतं' रुद्रमग्निं, 'एवं' उक्तप्रकारेण, 'निबोधत' हे यजमाना अवगच्छत ॥

अथ चतुर्थीमाह । ^{(४)}"आ मन्द्रैरिन्द्र हरिभिः ० दधन्वेव ता इहि"^{(४)} इति । हे 'इन्द्र', 'मन्द्रैः' मदनीयैर्हर्षहेतुभिः, 'मयूररोमभिः' मयूरसदृशवर्णरोमयुक्तैः, 'हरिभिः' अश्वैः, 'आयाहि' अस्मिन् कर्म्मण्यागच्छ । आयान्तं त्वां 'केचित्' अपि जनाः, 'मा न्येमुः' मा नियमयन्तु, प्रतिबन्धं मा कुर्वन्वित्यर्थः । 'पाशिन इत्' अश्वानां पाशधारिणः सारथयोपि, 'न न्येमुः' नियमनं विलम्बरूपं न कुर्वन्तु, 'दधन्वेव' सर्वाभिमतानां दातेव, 'ता इहि' 'ता' अस्मद्युक्तभुवः 'इहि' गच्छ ॥

०२